सप्ताधिकशततमः सर्गः १०७
श्रीवसिष्ठ उवाच ।
अचेत्यचिन्मयं विश्वं विष्वगाभाति चिन्नभः ।
अत्र चिच्चेतनं चेदं चेत्यमप्येवमात्मकम् ॥ १ ॥
इहोपपाद्यते चेत्यपृथ्व्यादीनामवस्तुता ।
चिन्मणेरेव कचनं स्वप्नवज्जगदित्यपि ॥
विश्वस्य चेत्यभावमपलप्य चिन्मात्रभावं परिशेषयितुं प्रतिजानीते - अचेत्येति ।
यतश्चिन्नभ एव विष्वगाभाति । तथा च चिन्नभोमात्राधीनसिद्धिकत्वादित्यनुमानं
दर्शितम् । अत्र चेतयतीति चित् चेतनं क्रिया चेत्यं चेति त्रिपुटी चिन्मयीति प्रतिज्ञार्थं
इत्याह - अत्रेति । अत्रास्यां प्रतिज्ञायामेवमात्मकं शुद्धचिदात्मकं
प्रतिज्ञार्थत्वेनाभिप्रेतमिति शेषः ॥ १ ॥
अतो जीवन्नपि मृत इव सर्वोऽवतिष्ठते ।
असावहं च त्वं चेति जीवन्तोऽपि मृता इव ॥ २ ॥
प्रतिज्ञासिद्धेः फलद्वयम् । स्थितस्यैव जगतो जगद्भावनिवृत्तिर्जीवतामेवास्माकं
जीवभावनिवृत्तिश्चेत्याह - अत इति ॥ २ ॥
काष्ठमौनमृता एव व्यवहारगता अपि ।
खगमा एव वा सर्वे भावाः स्थावरजङ्गमाः ॥ ३ ॥
सर्वभावानां कौटस्थ्यामूर्ततासिद्धिर्वा तत्फलमित्याह - काष्ठेति ।
काष्ठमौनमात्यन्तिकनिष्क्रियतालक्षणं कौटस्थ्यं ऋताः प्राप्ताः । खे गमनं
गमः आत्यन्तिकामूर्तभावप्राप्तिर्येषाम् ॥ ३ ॥
आकाशकाचकच्यात्म यदिदं किञ्चिदाततम् ।
न किञ्चिदेव तद्विद्धि किञ्चिद्व्योम्नि कुतो भवेत् ॥ ४ ॥
नभोनैल्यादिवद्भासमानस्याप्यसत्त्वावधारणं तत्फलं विद्धीत्याह -
आकाशेति । काचकच्यं काचवत्कचवन्नैल्यम् ॥ ४ ॥
केशोण्ड्रकनदीवाहधूमालीमौक्तिकादिवत् ।
यत्खं कचति तत्रास्ति नानुभूतेऽपि वस्तुता ॥ ५ ॥
तथैवास्मिञ्जगन्नाम्नि चिद्व्योम्नि कचते चिते ।
अनुभूतेऽपि निःशून्ये कास्थास्थाभावकश्च कः ॥ ६ ॥
तथा च नभोमौक्तिकालिष्विव जगति भोगास्था न युक्तेत्यपि फलितमित्याह - तथैवेति
। आस्थाया भावक उत्पादकश्च कः पदार्थोऽस्ति ॥ ६ ॥
चिद्बालकल्पनाजाले शून्यात्मनि निरर्थके ।
अवस्तुभूते पृथ्व्यादौ भ्रान्तिमात्राम्बरोदये ॥ ७ ॥
किमास्था बालका ब्रूत ममेदमहमित्यलम् ।
आ ज्ञातं रमते बालसङ्कल्पे बाल एव च ॥ ८ ॥
यद्यास्था अनुचितैव तर्हि को हेतुर्यज्जनास्तत्रास्थां कुर्वन्ति तत्राह - आ ज्ञातमिति ।
हेतुस्मरणेऽयमाकारो निपातः । ज्ञातं स्मृतम् । तेषां बाल्यमेव तदास्थाहेतुरिति
स्मृतमित्यर्थः ॥ ८ ॥
पृथ्व्याद्यसद्विचारैर्वा व्यर्थं यास्यति जीवितम् ।
किञ्चिच्च न ज्ञास्यति भोराकाशक्षालनोद्यतः ॥ ९ ॥
अत एवेषत्सञ्जातविवेकैः पृथ्व्यादीनामसतां लाभादिहेतुं
व्यर्थजन्मनाशकरं विचारं त्यक्त्वा जन्मसार्थक्यापादकं
वैराग्यादिसाधनजातमवलम्बनीयमित्याशयेनाह - पृथ्व्यादीति । यथा
स्वर्णरत्नादिलोभेच्छया प्रवृत्तस्तदाकरस्थानक्षालनं विहाय
आकाशक्षालनोद्यतश्चेन्महतापि श्रमेण न किञ्चिच्च फलं ज्ञास्यति द्रक्ष्यति
तद्वदित्यर्थः ॥ ९ ॥
सहकार्यादिपूर्वाणां कारणानामभावतः ।
यदादावेव नोत्पन्नं तन्नामाद्य भवेत्कुतः ॥ १० ॥
पृथ्व्यादीनामसत्त्वं तु अकारणत्वादजातत्वादिना प्राक्साधितमित्याह -
सहकारीति ॥ १० ॥
अजातेनासतार्थेन खेन व्यवहरन्ति ये ।
मूढा मृतमजातं वा तनयं पालयन्ति ते ॥ ११ ॥
अत एव व्यवहारेऽभिनिविष्टता विदुषां हास्यास्पदमित्याह - अजातेनेति ॥ ११ ॥
कुतः पृथ्व्यादयः केन के नाम कथमुत्थिताः ।
चिद्व्योमेत्थमिदं शान्तं प्रकचत्यात्मनात्मनि ॥ १२ ॥
तत्त्वदृष्टौ पृथ्व्यादीनामत्यन्तासम्भवमनुभवमवलम्ब्याह - कुत इति ॥
१२ ॥
कार्यकारणकालादिकल्पनाकुलचेतसाम् ।
एवं पृथ्व्यादयः सन्ति तैर्बालैरलमस्तु नः ॥ १३ ॥
मूढदृष्टिषु नास्माकं प्रमाणमित्याह - कार्येति ॥ १३ ॥
अपृथ्व्यादि जगन्नाम सपृथ्व्यादि च खात्मकम् ।
कचतीत्थं नभोरूपं स्वप्नादिष्विव चिन्मणिः ॥ १४ ॥
एवं च प्रतिज्ञार्थः सिद्ध इत्याह - अपृथ्व्यादीति । नामेति प्रसिद्धम् ।
स्वाप्नमपृथ्व्यादि जगज्जाग्रत्प्रसिद्धं सपृथ्व्यादि जगच्चेत्युभयमपि
खात्मकं चिदाकाशात्मकम् । किं तर्हि जगदिति कचति तदाह - कचतीति ॥ १४ ॥
अङ्गं यदेतस्य चिदम्बरस्य निराकृति स्वानुभवानुमानम् ।
तदेतदाभाति महीतलादिरूपेण वेद्येतिकृताभिधानम् ॥ १५ ॥
स्वानुभव एवानुसृतं मानं यत्र तथाविधं यदेतस्य चिदम्बरस्य निराकृति
निराकारमङ्गं शरीरम् । स्वरूपमिति यावत् । तदेतदेव महीतलादिरूपेण
वेद्यदृश्य इति प्रातिपदिकरूपं कृतमभिधानं येन तथाविधं सदा भाति
प्रथते न वस्त्वन्तरमवस्तु वेत्यर्थः ॥ १५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उत्तरार्धे
अविद्याभावप्रतिपादनं नाम सप्ताधिकशततमः सर्गः ॥ १०७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
अविद्याभावप्रतिपादनं नाम सप्ताधिकशततमः सर्गः ॥ १०७ ॥