१०६

षडधिकशततमः सर्गः १०६

श्रीराम उवाच ।

कीदृशं स्याच्चिदाकाशं तद्ब्रह्मन्ब्रह्म यत्परम् ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १ ॥

लक्षणौघैश्चिदाकाशमिह भूयः प्रदर्श्यते ।
तदेव जगदित्येतदपि भूयः प्रपञ्च्यते ॥

प्रपञ्चितेन जगतः स्वप्नसाम्येन यादृशचिदाकाशमात्रं तत्त्वमिति
प्रतिपत्तव्यन्न् तत्स्वरूपं प्राक् शतशो निरूपितमपि मन्दमतिभिः
कश्चित्सम्यङ्नावधारितं स्यादिति सम्भावनया तदनुकम्पया पुनस्तस्यैव
स्वरूपतटस्थलक्षणभेदैः सम्यग्व्युत्पादनं श्रोतुकामो रामः पृच्छति -
कीदृशमिति ॥ १ ॥

श्रीवसिष्ठ उवाच ।

समयोर्यमयोर्भ्रात्रोर्व्यवहाराय नामनी ।
यद्वत्क्रियेते द्वे तद्वज्जाग्रत्स्वप्नशिलामये ॥ २ ॥

पृष्टं वर्णयिष्यन्वसिष्ठः प्रस्तुतं जाग्रत्स्वप्नसाम्यमेव
तद्वर्णनपीठिकात्वेनानुवदति - समयोरिति । यमयोर्यमलजातयोर्नामनी यद्वद्द्वे
भिन्ने क्रियेते तद्वज्जाग्रत्स्वप्नलक्षणाखण्डचित्स्फटिकशिलामये तत्प्रतिबिम्बप्राये
सदृशे प्रपञ्चद्वये द्वे नामनी क्रियेते इत्यर्थः ॥ २ ॥

वस्तुतस्त्वनयोर्भेदो न द्वयोः पयसोरिव ।
द्वयमप्येकमेवैतच्चिन्मात्रं व्योम निर्मलम् ॥ ३ ॥

देशाद्देशान्तरं दूरं प्राप्तायाः संविदो वपुः ।
निमिषेणैव तन्मध्ये चिदाकाशं तदुच्यते ॥ ४ ॥

तस्य चिद्व्योम्नो लक्षणं प्रागुक्तमेव स्मारयन्प्रथममाह - देशादिति । मध्ये
यन्निर्विषयं संविदो वपुः प्रसिद्धं तदित्यर्थः ॥ ४ ॥

यादृशस्तिष्ठतः स्वच्छं रसमाकर्षतस्तरोः ।
भवेद्भावो नभःस्वच्छस्तादृशं चिन्नभः स्मृतम् ॥ ५ ॥

मूलेन भौमं रसं जलमाकर्षतस्तरोः पेपीयमानो मोदमानस्तिष्ठतीति
श्रुतिप्रसिद्धो यादृशो वृद्धिह्रासशून्य आह्लादभावः
प्रसिद्धस्तादृशमित्यर्थः ॥ ५ ॥

विनिवृत्ताखिलेच्छस्य पुंसः संशान्तचेतसः ।
यादृशः स्यात्समो भावस्तादृशं चिन्नभः स्मृतम् ॥ ६ ॥

समः सर्ववैषम्यशून्यो भावः सहजसुखस्वरूपानुभ्जवः ।
निर्विक्षेपदशायामहं सुखं तिष्ठामीति सर्वानुभवात् ॥ ६ ॥

अनागतायां निद्रायां मनोविषयसङ्क्षये ।
पुंसः स्वस्थस्य यो भावः स चिदाकाश उच्यते ॥ ७ ॥

अनागतायामिति । अथाहुः निद्रादौ जागरस्यान्ते यो भाव उपजायते । तं भावं
धारयन्योगी न दुःखैरभिभूयते ॥ इति ॥ ७ ॥

तृणगुल्मलतादीनां वृद्धिमागच्छतामृतौ ।
यः स्यादुन्ममतो भावः स चिदाकाश उच्यते ॥ ८ ॥

ऋतौ प्रावृषि शरदि वा । उन्मुक्ता ममता यस्मिंस्तथाविधो य आनन्दभावः ॥ ८ ॥

रूपालोकमनस्कारविमुक्तस्यामृतस्य यः ।
भावः पुंसः शरद्व्योमविशदस्तच्चिदम्बरम् ॥ ९ ॥

अमृतस्य जीवतः पुंसः ॥ ९ ॥

यदेतदासनं सृष्टं काष्ठपाषाणभूभृताम् ।
चेतनानां च सत्तात्म चिदाकाशः स उच्यते ॥ १० ॥

आसनं निष्क्रियमवस्थानं धात्रा स्वभावतया सृष्टं तदेव चेतनानां
जीवानां सत्तात्म स्थितिस्वरूपं चेत्स्यात्तदा स चिदाकाश उच्यते । तच्च मनोनाशे
सत्येव सिद्ध्यतीति भावः ॥ १० ॥

द्रष्ट्टदर्शनदृश्यानां त्रयाणामुदयो यतः ।
यत्र वास्तमयश्चित्खं तद्विद्धि विगतामयम् ॥ ११ ॥

यतो यस्मात्सुषुप्तिसाक्षिणः स्वप्नजागरयोद्रष्ट्रादित्रिपुट्या उदयो यस्मिन्नेव
चास्तमयः ॥ ११ ॥

यत उद्यन्ति यस्मिंश्च चित्राः परिणमन्त्यलम् ।
पदार्थानुभवाः सर्वे चिदाकाशः स उच्यते ॥ १२ ॥

विचित्राः सर्वे पदार्थानुभवा यत उद्यन्ति उदयन्न् प्राप्नुवन्ति यस्मिंश्च
आलोचनविमर्शनाध्यवसायहानोपादानादिभावेनोत्तरोत्तरं परिणमन्ति ॥ १२ ॥

यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो नित्यं च चिदाकाश उच्यते ॥ १३ ॥

द्वौ श्लोकौ प्राग्व्याख्यातौ ॥ १३ ॥

दिवि भूमौ बहिश्चान्तस्तथान्यस्य समाभिधः ।
यो विभात्यवभासात्मा चिदाकाशः स उच्यते ॥ १४ ॥

यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति ।
सदसदुत्थितं विश्वं विश्वाङ्गे तच्चिदम्बरम् ॥ १५ ॥

विश्वाङ्गे यस्मिन्नुत्थितं सन्मूर्तमसदमूर्तं च विश्वं तन्तौ स्रगिव तिष्ठति तत् ॥
१५ ॥

यस्मात्सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः ।
यस्मिंश्चैव प्रलीयन्ते यन्मयास्तच्चिदम्बरम् ॥ १६ ॥

यतो वा इमानि भूतानि जायन्ते इति श्रुत्युक्तं तटस्थलक्षणमाह - यस्मादिति ॥ १६ ॥

निद्रायां विनिवृत्तायां यतो विश्वं प्रवर्तते ।
निवर्तते च यच्छान्तौ तच्चिदम्बरमुच्यते ॥ १७ ॥

सुषुप्तिप्रलयलक्षणायां निद्रायां विनिवृतायां सत्यां यतो यस्मात्प्रतीचो
विक्षेपशक्तिवशाज्जाग्रत्स्वप्नलक्षणं वियदादिलक्षणं च विश्वं प्रवर्तते
आविर्भवति । यस्य शान्तौ विक्षेपशक्तिशान्तौ च निवर्तते ॥ १७ ॥

यस्योन्मेषनिमेषाभ्यां जगत्सत्तालयोदयौ ।
स्वानुभूत्यात्मकं स्वान्तः स्थितं तद्विद्धि चिन्नभः ॥ १८ ॥

उन्मेषश्चरमसाक्षात्कारवृत्तावाविर्भावस्तेन जगत्सत्ताया लयः । निमेषः
स्वरूपावरणं तेन च उदयः ॥ १८ ॥

नेदं नेदं तदित्येवं सर्वं निर्णीय सर्वथा ।
यन्न किञ्चित्सदा सर्वं तच्चिद्व्योमेति कथ्यते ॥ १९ ॥

एवं सर्वनिषेधावधि सर्वात्मत्वमपि तल्लक्षणमित्याह - नेदमिति । सदा
सर्वमपि यन्न किञ्चित् ॥ १९ ॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
दूरतोऽर्धनिमेषेण तच्चिन्मात्रवपुः स्मृतम् ॥ २० ॥

अर्धनिमेषेण अविलम्बेन देशान्तरप्राप्तौ । विलम्बे हि
वृत्तिविच्छेदाद्विषयान्तरानुप्रवेशाद्वा न शुद्धचिदम्बरं परिचेतुं शक्यमिति ।
उपक्रमोक्तस्य पुनः कीर्तनमुपसंहारद्योतनार्थम् ॥ २० ॥

विश्वं तन्मयमेवेदं यथा भूतं यथा स्थितम् ।
रूपालोकमनस्कारैर्युक्तमप्येवमीदृशम् ॥ २१ ॥

लक्षणान्युक्त्वा तदद्वैतसिद्धये विश्वस्य तन्मयतामाह - विश्वमित्यादिना ॥ २१ ॥

ईषदुन्मेषणादेतदन्यतामिव गच्छति ।
अनन्यरूपमपि सच्चिद्व्योम विमलाकृति ॥ २२ ॥

ताह कथं प्रलयावस्थातः सर्गावस्थाया भेदविभावनं तत्राह - ईषदिति ॥ २२ ॥

पश्यन्नेवेन्द्रियैरर्थान्नूनं निर्वासनाशयः ।
प्रबुद्ध एवैकघनः सुषुप्तावस्थितो भव ॥ २३ ॥

सेयमन्यताभ्रान्तिर्वासनावशादेवेति न निर्वासनस्येत्याह - पश्यन्नेवेति ॥ २३ ॥

निर्वासनः शान्तमना वद व्रज पिबाहर ।
पाषाण इव सञ्जीवो नित्यन्न् सुघनमौनवान् ॥ २४ ॥

इदं न सम्भवत्येव दृश्यं पश्यसि यत्पुरः ।
मृगतृष्णाजलमिव द्वैतमिन्दाविवोदितम् ॥ २५ ॥

अन्यतामिवेति इवकारेणान्यताया मिथ्यात्वमुक्तं तत्कुत इति चेदसम्भवादेवेत्याह ##-

इदमादावनुत्पन्नन्न् कारणाभावतः किल ।
कारणेन विना कार्यं न हि नामोपपद्यते ॥ २६ ॥

यद्वोपपद्यते किञ्चित्तदकारणकोद्भवम् ।
यथास्थितं परं रूपमुद्भूतमिव लक्ष्यते ॥ २७ ॥

यद्वा किञ्चिद्बीजादङ्कुरादि अन्वयव्यतिरेकदर्शनादुपपद्यते
तदप्यकारणकादद्वयाद्ब्रह्मण एवोद्भवो यस्य तथाविधम् । ननु
निर्विकारात्तस्मात्कथमङ्कुराद्युद्भवस्तत्राह - यथास्थितमिति ॥ २७ ॥

तद्यथास्थितमेवाङ्ग पूर्वरूपमवस्थितम् ।
भवत्यद्वयमेवाच्छं द्वयेनाप्युपलक्षितम् ॥ २८ ॥

यथा अद्वयमपि चन्द्रबिम्बभ्रान्तौ द्वयेनाप्युपलक्षितं तद्वदिति भावः ॥ २८ ॥

तत्रेदम्प्रत्ययः प्रौढो भवत्यनुभवो हि यः ।
समायातमिदं भ्रान्तं तत्स्वप्नस्त्रीसमं विदुः ॥ २९ ॥

तदेव चेत्कथमन्यथाग्रहत्वं तत्राह - तत्रेति ॥ २९ ॥

तस्माद्दृश्यं न चोत्पन्नं नैवास्ति न भविष्यति ।
न च नश्यति यन्नास्ति तस्य किं नाम नश्यति ॥ ३० ॥

मायमात्रत्वे किं सिद्धं तदाह - तस्मादिति ॥ ३० ॥

तत्तदेव परं शान्तं चिद्व्योमैव तथा स्थितम् ।
स्वरूपादच्युतं स्वस्थं सौम्यं जगदिवोदितम् ॥ ३१ ॥

तद्विश्वं परं शान्तं चिद्व्योमैव तथा विश्ववेषेण स्थितम् । किं परिणामेन
नेत्याह - स्वरूपादिति ॥ ३१ ॥

न हीदमग्रे यद्दृष्टं दृश्यं तत्सत्कदाचन ।
न चापि द्रष्टा दृष्टार्थाभावे क्व द्रष्ट्टता किल ॥ ३२ ॥

कुतो न परिणामेनेति चेत्तत्समसत्ताकत्वाभावादित्याह - न हीति । अत एव
तद्द्रष्ट्टतापि न परिणामः । दृश्यनिरूप्यया तत्समत्वादित्याह - न चेति ॥ ३२ ॥

श्रीराम उवाच ।

एवं चेत्तद्वद ब्रह्मन्द्रष्ट्टदृश्यावभासनम् ।
किमिदं कथमाभाति भूयोऽपि वदतांवर ॥ ३३ ॥

यदि द्रष्ट्टदृश्ये अत्यन्तासती तर्हि तयोः कथमवभासनम् अत्यन्तासतो
भानादर्शनादिति रामः शङ्कते - एवं चेदिति । तत्प्रागुक्तमपि भूयोऽपि वद । हे
वदतांवर ॥ ३३ ॥

श्रीवसिष्ठ उवाच ।

असद्रूपस्य दृश्यस्य कारणाभावतः सदा ।
दृश्यतास्येत्यपि प्रौढिनिर्देशस्यात्यसम्भवात् ॥ ३४ ॥

तत्रासतो भानासम्भवं प्रथमश्लोकेनाभ्युपेत्य अत एव सतः परमात्मन एव
मायया तथा भानमित्युत्तरं द्वितीयेनाह - असद्रूपस्येति । कारणाभावतः
असद्रूपस्योत्पत्तेरेवासम्भवादस्य दृश्यतापीति प्रौढ्या निर्देशः
प्रौढिवादस्तस्य अत्यसम्भवात्सुतरामसम्भवादित्यर्थः ॥ ३४ ॥

यदिदं भासते किञ्चिद्द्रष्ट्टदृश्यभ्रमात्मकम् ।
जगदादि परं रूपं तद्विद्धि परमात्मनः ॥ ३५ ॥

अत एवेदं द्रष्ट्टदृश्यं न असतो रूपं किं तु परमार्थसतो ब्रह्मण इत्याह ##-

स्वप्ने चिन्मात्र एवास्ते यथा गगनकाननम् ।
तथा जगत्तया भाति स्वयं चिन्मात्रमात्मनि ॥ ३६ ॥

परमात्मन एवेदं रूपमिति कथं ज्ञातमिति चेत्स्वप्ननिदर्शनादित्याह - स्वप्ने
इति ॥ ३६ ॥

इहादिसर्गात्प्रभृति नास्त्युपादानकारणम् ।
किञ्चनापि क्वचिदपि भातीत्थं ब्रह्म केवलम् ॥ ३७ ॥

स्वप्नसाम्यमस्य कुत इति
चेत्सर्वकारणकलापशून्यसुषुप्तिसदृशात्प्रलयादुद्भूतत्वादित्याशयेनाह -
इहेति ॥ ३७ ॥

यच्चिदाकाशकचनं स्वयमात्मनि जृम्भते ।
तदिदं भाति तस्यैव जगदित्युदितं वपुः ॥ ३८ ॥

चिदाकाशकचनाधीनकचनत्वादपि स्वप्नसाम्यमित्याशयेनाह - यदिति ॥ ३८ ॥

यथा भावस्य भावत्वं यथा शून्यस्य शून्यता ।
आकारिणो यथाकारस्तथा चिन्नभसो जगत् ॥ ३९ ॥

निर्धर्मकस्य चिन्नभसः कथं जगद्धर्मकतेति चेन्मायिकविकल्पवशादेवेति
दृष्टान्तैरुपपादयन्नाह - यथेति । आकारिणो मूर्तस्य ॥ ३९ ॥

इदं विद्धि चिदाभासं परमार्थघनं घनम् ।
इत्थं विद्धि चिदाभासं परमार्थघनं घनम् ।
इत्थं स्थितं स्वयं भातं द्रष्ट्टदृश्यदृगात्मकम् ॥ ४० ॥

घनं सैन्धवघनवदेकरसं परमार्थघनमेव मायायां चिदाभासं इत्थन्न्
त्रिपुटीभूय स्थितं विद्धि ॥ ४० ॥

वस्तुतस्तु द्वयाभावान्नाभासि न च भासनम् ।
किमपीदमनिर्देश्यं सद्वाऽसद्वेति वेत्ति कः ॥ ४१ ॥

मायात्यागे तु द्वयाभावात्सद्वा असद्वेति को वेत्ति बाधितस्य विमर्शायोग्यत्वादिति
भावः ॥ ४१ ॥

श्रीराम उवाच ।

एवं चेत्तद्वद ब्रह्मन्कार्यकारणतादिकः ।
कथं भेदः किमायातः कथं सत्यत्वमागतः ॥ ४२ ॥

एवं नाभासि न च भासनम् इति त्वदुक्तरीत्या द्रष्ट्टश्योभयशून्यं
चेत्परमार्थतत्त्वं तर्हि कार्यकारणतादिको भेदः कथम् । न ह्यद्रष्ट्टकः
कश्चित्सेद्धुमर्हति कस्मादुपादानान्निमित्ताद्वा आयातः । यद्यसत्य एवेति ब्रूषे तर्हि
कथं सत्यत्वमागतः सर्वजनानां सत्यत्वेन कथं भातीत्यर्थः ॥ ४२ ॥

श्रीवसिष्ठ उवाच ।

चित्प्रकाशो यथाभानं यदा भावयति स्वयम् ।
स्वात्मा तथा तदेवाशु पश्यसीत्यसि दृष्टवान् ॥ ४३ ॥

तत्र प्रथमप्रश्नस्योत्तरमाह - चित्प्रकाश इति । वस्तुतः स्वात्मापि चित्प्रकाश
ईश्वरः स्वयं यदा यथाभानं यथाप्राणिकामकर्मवासनोद्बोधन्न् यद्यथा
सत्यसङ्कल्पतया भावयति तत्तदा त्वं तथैवाशु पश्यसि त्वदात्मना च स एव इति
प्रागुक्तं द्रष्ट्टदृश्यभावमनुभूतवान् । तेनास्य सिद्धिरित्यर्थः ॥ ४३ ॥

चिद्व्योमैवायमाकारः स्वे व्योम्न्येव न मुह्यति ।
स्वयमेव यथा स्वप्ने कोऽस्य पर्यनुयोगकृत् ॥ ४४ ॥

द्वितीयस्योत्तरमाह - चिद्व्योमैवेति । अयं कार्यकारणभावाद्याकारश्चिद्व्योमैव
यथा घटो मृदेवेति चिद्व्योमैवोपादानं मोह एवास्य निमित्तम् । कथमिदं
ज्ञायते । यतोऽयं स्वे व्योम्न्येव परिज्ञाते न मुह्यति अन्यथा तु मुह्यत्येव । यथा
स्वप्ने स्वयमेव मुह्यति स्वात्मप्रबोधादेव मोहं जहाति तद्वत् । ननु स्वात्मबोधे
समर्थ ईश्वरः स्वयमेव जीवो भूत्वा किमर्थ मुह्यति कुतो वा न प्रबुध्यते तत्राह

  • कोऽस्येति । स्वतन्त्रस्येश्वरस्य किमर्थं जीवो भूत्वा मुह्यसीति
    पर्यनुयोगमाक्षेपं करोतीति पर्यनुयोगकृत्को वा स्यान्न कश्चिदित्यर्थः ॥ ४४ ॥

भावाद्भावान्तरप्राप्तौ मध्ये यत्संविदो वपुः ।
तच्चिद्व्योम तदेवेदं सर्वं च [अत्र सर्वं वस्त्विति नेतरत् इति पाठो युक्तः ।
] स्थिति नेतरत् ॥ ४५ ॥

तृतीयस्योत्तरमाह - भावादिति । दुग्धभावाद्दधिभावप्राप्तौ
पिण्डभावाद्घटभावप्राप्तौ पूर्वभावनिवृत्तावुत्तरभावानुपजने च मध्ये
क्षणमात्रं सन्मात्ररूपं प्रसिद्धं तत्परमार्थसत्याः संविदो वपुः स्वरूपं
तदेव चिद्व्योम मया प्रागुक्तं तदेवेदं सर्व च स्थिति वस्तु विभाव्यत इति सर्वं
सत्यत्वमागतमित्यर्थः ॥ ४५ ॥

कार्यकारणभावादिदृशोऽविद्याविजृम्भिकाः ।
जगद्वत्कल्पयत्येष कोऽस्य पर्यनुयोगकृत् ॥ ४६ ॥

ईश्वरस्य जीवभावकल्पनायामिव जीवस्य स्वाविद्यया
कार्यकारणरूपावस्थात्रयकल्पनायामपि न पर्यनुयोगो युक्त इत्याह -
कार्यकारणेति । न हि स्वात्मानं प्रति कश्चित्किमर्थमेवं करोमीति पर्यनुयोगं
कर्तुं समर्थ इति भावः ॥ ४६ ॥

द्रष्टा भोक्ताथ कर्ता वा कश्चित्स्यादितरो यदि ।
तत्कथं किमिदं दृश्यमिति युज्येत नान्यथा ॥ ४७ ॥

आत्मान्यस्य कर्तृत्वे भोक्तृत्वे वा स्यादेव पर्यनुयोग इत्याह - द्रष्टेति । इति
पर्यनुयोगो युज्येत ॥ ४७ ॥

यत्र स्वप्ने निराभासं चिद्व्योमैव विराजते ।
शुद्धमेकमनेकात्म तत्र किं क्व विकल्प्यते ॥ ४८ ॥

विकल्प्यते पर्यनुयुज्यते ॥ ४८ ॥

आस्वयम्भुव एवेयन्न् चिन्मात्रे भाति सर्गभाः ।
परिज्ञाता सती सा तु ब्रह्मैव भवति क्षणात् ॥ ४९ ॥

स्वयम्भुवः आ स्वयम्भुवमभिव्याप्यैव सर्गभाः सर्गभ्रान्तिर्भाति
तत्त्वापरिज्ञानादित्यर्थः ॥ ४९ ॥

एषैव त्वपरिज्ञाता भ्रान्तिर्मायेति कथ्यते ।
जगदित्युच्यते विद्या दृश्यमित्युपवर्ण्यते ॥ ५० ॥

एषा सर्गभ्रान्तिरेव तत्त्वतः अपरिज्ञाता मायेति शास्त्रेषु कथ्यते लोके जगदित्युच्यते
अज्ञैरविद्येत्युच्यते दृग्विवेकिभिर्दृश्यमित्युपवर्ण्यते ॥ ५० ॥

चिदाकाशप्रकाशेन चित्ता दृश्यपिशाचकः ।
वेतालो बालकेनेव बुद्धोऽसन्नेव सन्निव ॥ ५१ ॥

स्वीया चित्ता चित्स्वभावः पृथगसन्नेव सन्निव दृश्यपिशाचको बुद्धः ॥ ५१ ॥

जगत्तात्मन्यसत्यापि चिद्व्योम्नैवानुभूयते ।
सत्येव साङ्गलेखेव स्वप्नेऽद्रिपुरता यथा ॥ ५२ ॥

असतो निरवयवस्यापि सन् सावयव इत्यनुभवः स्वप्नवदत्रोपपादनीय इत्याह -
जगत्तेति । साङ्गलेखा सावयवेव च ॥ ५२ ॥

अहमद्रिरहं रुद्रः समुद्रोऽहमहं विराट् ।
चेत्यते खे चितैवेति स्वप्नेऽद्रिपुरतायथा ॥ ५३ ॥

तत्राहन्ताध्यासेनानुभवं प्रपञ्चयति - अहमिति । अद्रिर्मेरुहिमवदादिः ॥ ५३ ॥

आकारि कारणाभावाज्जातं कार्यं न किञ्चन ।
महाप्रलयचिद्व्योम्नि चित्स्थितेत्थमिदन्तया ॥ ५४ ॥

चिदनुभव एव सर्ग इति किमर्थं वर्ण्यते
प्रधानपरमाण्वादिकारणान्तरादेवायन्न् जात इति कुतो न वर्ण्यते तत्राह -
आकारीति ॥ ५४ ॥

अकारणकमेवेदं व्योम व्योम्नानुभूयते ।
जगदित्येव शून्याङ्गं चिन्मात्रात्म चिदात्मनि ॥ ५५ ॥

शून्याङ्गं निरवयवम् ॥ ५५ ॥

सर्व एव जडा जीर्णा दर्पणा इव जन्तवः ।
समीपगत एवान्तः कुर्वतस्तु विचारणम् ॥ ५६ ॥

सर्व एव जन्तवो दर्पणा इव स्वान्तःपरिकल्पितजगद्भेदा अपि
विचाराभावात्स्वरूपदर्शनासामर्थ्याज्जडाः सन्तो वृथा जीर्णाः । विचारणं
कुर्वतः पुरुषधौरेयस्य तु परमपुरुषार्थोऽन्तः प्रत्यगात्मरूपत्वात्समीपगत
एवेत्यर्थः ॥ ५६ ॥

तत्तत्स्वरूपमुत्सृज्य बुद्ध्वा चिन्मात्रखं जगत् ।
अश्मना चेतनेनैव स्थेयन्न् नास्थेतरोत्तमा ॥ ५७ ॥

विचारेण स्वरूपं बुद्ध्वा कथं स्थेयं तत्राह - तत्तदिति ।
तत्तन्नामरूपस्वरूपमुत्सृज्य परिशिष्टं चिन्मात्रं खमेवेति जगद्बुद्ध्वा
चेतनेन चिदेकघनेनाश्मनेव अचलेन स्थेयं इतरा मायिकी देहाद्यास्था नोत्तमा ॥ ५७ ॥

यथास्ते चलयद्देहं वार्यावर्तजगद्द्रवः ।
चेततीति तथा चित्त्वं स्थिता चित्तज्जगद्दृशा ॥ ५८ ॥

चित्कथं जगदात्मना स्थिता तत्राह - यथेति । यथा वारि स्वदेहं चलयत्सत्
आवर्तादि जगद्द्रवो भूत्वा आस्ते तथा चिदपि चेततीति व्यापाररूपं चित्त्वं स्वात्मनि
परिकल्प्य स्थिता सती तत्कर्म जगद्दृशा आस्ते ॥ ५८ ॥

यथा कल्पद्रुमोऽभीष्टं कुर्याच्चिन्तामणिर्यथा ।
तथा यद्भावितं स्वान्तस्तत्पूरयति चित्क्षणात् ॥ ५९ ॥

अत्र अल्पशक्तीनां कल्पद्रुमादीनामपि सङ्कल्पितार्थकल्पनसामर्थ्यं तत्र
सर्वशक्तेः परमात्मनस्तत्किं वाच्यमित्याशयेनाह - यथेति ॥ ५९ ॥

चितिश्चिन्तामणिरिव कल्पद्रुम इवेप्सितम् ।
आशु सम्पादयत्यन्तरात्मनात्मनि खात्मिका ॥ ६० ॥

देशाद्देशान्तरप्राप्तौ मध्यदेशे चितेर्वपुः ।
यत्तन्मयमिदं दृश्यं कुतो द्वैतैक्यविभ्रमः ॥ ६१ ॥

खात्मिकेत्येतद्विषयाकर्षणेनोपपादयञ्जगतस्तन्मयत्वमाह - देशादिति ॥ ६१ ॥

चिच्छायैवं कचत्यच्छमनन्ता भास्वरोदरा [भास्वरोदया इति पाठः ।
] ।
अङ्गरिक्तापि दृश्यान्तःशून्यता नीलतेव खे ॥ ६२ ॥

चितश्छाया कान्तिरेव जगद्वेषेण कचति । अङ्गैरवयवै रिक्ता शून्यापि ॥ ६२ ॥

विसदृशकार्यानुभवो न भवति सहकारिकारणाभावात् ।
सर्गादावत आद्या चिदेव दृश्यं यथा स्वप्ने ॥ ६३ ॥

विस्तरेण व्यवस्थापितमर्थ सङ्ग्रहेणोपसंहरति - विसदृशेति । सर्गादौ चितो
विसदृशं जडं यत्कार्यं तस्यानुभव उद्भवो न सम्भवति । वैसादृश्ये
निमित्तभूतानां सहकारिकारणानामभावात् । सुसदृशे तु
भेदकाभावात्कार्यत्वासिद्धिरित्याशयः । अतः आद्या चिदेवेदं दृश्यं न
तद्व्यतिरिक्तमणुमात्रमप्यस्तीति स्वप्नदृष्टान्तेन सिद्धमित्यर्थः ॥ ६३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उत्तरार्धे
कार्यकारणनिरासो नाम षडधिकशततमः सर्गः ॥ १०६ ॥

इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
कार्यकारणनिरासो नाम षडधिकशततमः सर्गः ॥ १०६ ॥