१०५

पञ्चाधिकशततमः सर्गः १०५

श्रीवसिष्ठ उवाच ।

स्वभावं जगदाकारं चिद्भावोऽनुभवन्स्थितः ।
स्वतः स्वप्नमिवानन्यमात्मनः कल्पनाभिधम् ॥ १ ॥

चिदेवाभाति जाग्रद्वच्चिदेव स्वप्नवत्तथा ।
न जाग्रत्स्वप्नयोर्भेदः स्वभावेनेति वर्ण्यते ॥

उक्तं स्वप्नसाम्यं जगतः प्रपञ्चयितुं पीठिकां रचयति - स्वभावमिति ।
चिद्भावश्चित्स्वभाव आत्मा ॥ १ ॥

जाग्रत्सुषुप्तमेवेदं शिलाजठरमेववा ।
आकाशमेव वा शून्यं जगत्त्वेन च नोज्झितम् ॥ २ ॥

इदं जाग्रज्जगत्त्वेन नोज्झितमेव सत् सुषुप्तमज्ञानमेव मूलतः
शिलाजठरमेवाधिष्ठानतः शून्यं खमेव स्वत इत्यर्थः ॥ २ ॥

स्वप्न एवात्र दृष्टान्तः पुरमण्डलमण्डितः ।
स्वप्ने जगन्न किञ्चित्सदित्थमाभाति भासुरम् ॥ ३ ॥

स्वप्नोऽप्येतादृश एवेति स एवात्र दृष्टान्त इत्याह - स्वप्न इति ॥ ३ ॥

त्रैलोक्यमसदेवेदं यथा स्वप्नेऽवभासते ।
जाग्रत्यस्मिंस्तथैवेदं मनागप्यत्र नान्यथा ॥ ४ ॥

तत्र तृतीयकल्पे स्वप्नसाम्यं स्फुटमित्याह - त्रैलोक्यमिति ॥ ४ ॥

न जाग्रति न च स्वप्ने जगच्छब्दार्थसम्भवः ।
स्वं वस्तुतस्तु चिद्व्योम्नो भानं बुद्धं जगत्तया ॥ ५ ॥

द्वितीयकल्पेऽपि तत्साम्यं विवेकिनां सुगममित्याशयेनाह - नेति ॥ ५ ॥

चिद्व्योम्ना स्वचमत्कारो व्योमन्यद्र्यादिरूपभृत् ।
जगदित्येव बुद्धोऽन्तर्जाग्रत्स्वप्ने स्वयम्भुवा ॥ ६ ॥

प्रथमकल्पेऽपि तं दर्शयति - चिद्व्योम्नेति । स्वयमेव भवति अस्तीति स्वयम्भुवा
चिद्व्योम्ना तमोवृतात्मरूपे व्योमनि अद्र्यादिरूपभृत्स्वचमत्कारस्तम एव
जाग्रत्स्वप्ने जगदित्यन्तर्बुद्धः ॥ ६ ॥

जगन्न किञ्चिदेवेदं चिद्रूपं च न किञ्चन ।
एते किञ्चिदिवाभातो नभश्चिज्जगती मुधा ॥ ७ ॥

पुनस्तृतीयकल्पमेव समर्थयति - जगदिति । भास्यजगतः शून्यत्वे
चितस्तद्भासकं रूपं च न किञ्चन । नभः अत्यन्तासती एते चिज्जगती ग्राह्यग्राहकरूपे
ब्रह्मणि मुधा भातः ॥ ७ ॥

आभातमेव त्रैलोक्यं यथा स्वप्ने न किञ्चन ।
शून्यमेव भवेदेवमेवं जाग्रति निर्वपुः ॥ ८ ॥

तत्र दृष्टान्तं योजयति - आभातमेवेति । एवं जाग्रत्यपि आभातं त्रैलोक्यमेवं
निर्वपुः शून्यमेव ॥ ८ ॥

स्वप्ने किल महाबुद्धे नानानिर्माणशालिनि ।
आरम्भा एव नारम्भा असत्सदिव चाततम् ॥ ९ ॥

अव्योमैवातिविततं व्योमान्तपरिवर्जितम् ।
व्योमैवाचलसङ्घातो नानापुरगणोत्करः ॥ १० ॥

अव्योम ब्रह्मैव अतिविततं शून्यात्मकं व्योम प्रथमं सम्पन्नम् । व्योमैव च
वाय्वादिक्रमेणाचलसङ्घातो नानापुरगणोत्करश्च
सम्पन्नमित्युभयमप्याश्चर्यमित्यर्थः । अथवा अव्योम गिरिमहीपुरादि व्योम
भवति एवं व्योमैवाचलसङ्घातादि भवतीति यथाश्रुतं प्रतिज्ञापरम् ॥ १० ॥

अप्यब्दाब्ध्यद्रिनिर्घोषो मौनमेव यथा तथा ।
न शृणोत्येव पार्श्वस्थः सम्प्रबुध्यापि किञ्चन ॥ ११ ॥

तत्राद्यं दृष्टान्तेन साधयति - अपीति । अब्दाश्च अब्धयश्च अद्रयश्च तेषां
निर्घोषश्च स्वप्ने एकं सुप्तं प्रति प्रसिद्धोऽप्यपरं प्रति मौनं शून्यमेव यथा
तथा जाग्रदब्दादयोऽपीत्यर्थः । दृष्टान्ते मौनमेवेत्येतत्कुतस्तत्राह - न
शृणोत्येवेति । यतः पार्श्वस्थः अपरः सुप्तनरः सम्प्रबुध्यापि किञ्चन
अब्दाब्ध्यादि तद्घोषं वा न शृणोत्येव ॥ ११ ॥

प्रजायते वाऽजातोऽपि वन्ध्यायास्तनयो यथा ।
जातोऽप्यजात एवास्ते यथात्ममृतिविस्मृतौ ॥ १२ ॥

द्वितीयमपि तथा साधयति - प्रजायत इति । अजातोऽपि वन्ध्यायास्तनयः स्वप्ने
प्रजायते तथात्रापि बोध्यमित्यर्थः । एवं मृत्वा जातोऽपि पुरुष आत्मनः स्वस्य
मृतेर्विस्मृतौ सत्यामजातोऽनुत्पन्न एवाहमित्यास्ते यथा तथेत्यर्थः ॥ १२ ॥

सदसद्भवति क्षिप्रं भुवोऽननुभवो यथा ।
विपर्यस्यति सर्वं च रात्रिरेव यथा दिनम् ॥ १३ ॥

सुप्तस्य स्वप्ने स्वशयनभुवोऽननुभवो यथा तदसत्त्वमापादयति तथेत्यर्थः ॥ १३ ॥

असद्यत्सम्भवत्याशु दिनमेव यथा निशा ।
असम्भवः सम्भवति यथा स्वमृतिदर्शनम् ॥ १४ ॥

एवमन्येऽपि विपर्यासाः प्रसाध्या इत्याह - असदित्यादिना ॥ १४ ॥

असम्भवः सम्भवति जगद्भानमिवाम्बरे ।
तम एव महालोको यः सनिद्रः सवासरः ॥ १५ ॥

आलोक एवति तमो यन्निद्रा स्वप्नवासरा ।
वसुधैव भवेद्व्योम श्वभ्रादिपतने यथा ॥ १६ ॥

यद्यस्माद्धेतोः स्वप्नहेतुर्वासरो यस्यां तथाविधा उलूकादीनां निद्रा दृश्यते ।
स्वप्ने श्वभ्रादिपतनेऽनुभूयमाने शयनवसुधैव श्वभ्रव्योम भवेत् ॥१६ ॥

असत्यरूपमेवेति भाति स्वप्ने जगद्यथा ।
तथैव जाग्रदाभाति मनागप्यत्र नान्यता ॥ १७ ॥

यथा द्वौ सदृशौ सूर्यौ यथा द्वौ सदृशौ नरौ ।
जाग्रत्स्वप्नौ तथैवैतौ मनागप्यत्र नान्यता ॥ १८ ॥

द्वौ सूर्यौ पूर्वेद्युस्तनाद्यतनौ । अत्र अनयोः ॥ १८ ॥

श्रीराम उवाच ।

नैतदेवमपि क्षिप्रात्प्रत्ययो यत्र बाधकः ।
स्वप्ने तद्दर्शनेनान्तः कथं जाग्रत्समं भवेत् ॥ १९ ॥

वर्णितं जाग्रत्स्वप्नयोः साम्यमाक्षिप्य वैषम्यं दर्शयन् रामः शङ्कते -
नैतदिति । मनागप्यत्र नान्यतेति यत्त्वयोक्तमेतन्न । कुतः । यत्र यस्मिन्स्वप्ने
क्षिप्राज्जायमानो बाधको यो जाग्रत्प्रत्ययस्तद्दर्शनेनान्तः स्वयमेव
तस्याभासतानुभवात् । अतः कथं जाग्रत्तत्समं भवेदित्यर्थः ॥ १९ ॥

श्रीवसिष्ठ उवाच ।

विहृत्य स्वप्नजगति स्वप्नबन्धुजनैः समम् ।
मृतिमाप्नोति तत्रासौ द्रष्टा स्वप्नस्य राघव ॥ २० ॥

नैतावता वैषम्यसिद्धिः भिन्नदेशस्य जाग्रत्प्रत्ययस्य
स्वाप्नप्रत्ययबाधकत्वासिद्धेः । स्वप्नदेशे हि सनिद्रः स्वप्नदेहस्थो द्रष्टा
स्वाप्नबन्ध्वादीन्पश्यति । अपगतस्वप्नदेहो विनिद्रो जाग्रद्देहस्थश्च
स्वप्नदृष्टबन्ध्वाद्यसत्त्वं पश्यति । न च देशान्तरे देहान्तरदृष्टानान्न्
देहान्तरे देशान्तरे चान्यदर्शने तददर्शनं तद्बाधः ।
पूर्वजन्मबन्ध्वादीनामिह जन्मन्यदर्शनस्यापि तद्बाधत्वापत्तेरिति
साम्यानपायादित्याशयेन वसिष्ठः समाधत्ते - विहृत्येत्यादिसप्तभिः ।
मृतिं स्वप्नदेहापगमम् ॥ २० ॥

मृतः सन्स्वप्नजगति स्वप्नजन्तुवियोगवान् ।
इह प्रबुध्यते जन्तुर्निद्रामुक्तश्च कथ्यते ॥ २१ ॥

जन्तुर्जीवः ॥ २१ ॥

सुखदुःखदशामोहान्दिनरात्रिविपर्ययान् ।
अनुभूय बहून्द्रष्टा म्रियते स्वप्नसंसृतौ ॥ २२ ॥

म्रियते स्वाप्नदेहं जहाति ॥ २२ ॥

गतनिद्रतया पश्चान्निद्रान्त इह जायते ।
न सत्यमेतदित्येवं ततः प्रत्ययवान्भवेत् ॥ २३ ॥

इहास्मिन्शयनदेशे जायते अनेन देहेन सम्बध्यते ।
ततस्तदनन्तरमेतत्स्वप्नदृष्टबन्ध्वादि न सत्यमित्येवं प्रत्ययवान्भवेत् । स च
प्रत्ययो न स्वाप्नार्थबाधनसमर्थ इति द्योतनाय सम्भावनायां लिङ् ॥ २३ ॥

स्वप्नद्रष्टा यथा स्वप्नसंसारे मृतिमाप्तवान् ।
अन्यं जाग्रन्मयं स्वप्नं द्रष्टुं भूयः प्रजायते ॥ २४ ॥

जाग्रद्द्रष्टा तथा जाग्रत्संसारे मृतिमाप्तवान् ।
अन्यं जाग्रन्मयं स्वप्नं द्रष्टुं भूयः स जायते ॥ २५ ॥

न स्वप्नमसदित्येवं पूर्वस्मिञ्जाग्रदात्मनि ।
पुनः प्रत्ययमादत्ते स्वप्नात्स्वप्नान्तरं गतः ॥ २६ ॥

जाग्रति मृत्वा जाग्रदन्तरे जातः सन् । पूर्वस्मिन् जाग्रदात्मनि प्रपञ्चेन
स्वप्नमसदित्येवं पुनः प्रत्ययन्न् यथा आदत्ते तथा स्वप्नात्स्वप्नान्तरं गत
उत्तरस्वप्ने जाग्रत्प्रत्ययं पुनर्गृह्णाति । तत उत्तरस्वप्ने जाग्रत्प्रत्ययो यथा
मुग्धताप्रयुक्तस्तद्वत्पूर्वजाग्रति स्वप्नत्वासत्त्वयोरग्रहणमपि
मुग्धताप्रयुक्तमेवेति भावः ॥ २६ ॥

स जाग्रत्प्रत्ययं तत्र पुनर्गृह्णाति मुग्धधीः ।
स्वप्नसन्दर्शनं त्वन्यत्तत्राप्यनुभवत्यथ ॥ २७ ॥

स्वप्नं जाग्रत्तया जाग्रत्स्वप्नत्वं चेति नामनि ।
न जायते न म्रियते जायते म्रियतेऽपि च ॥ २८ ॥

अथ तत्रापि स्वप्ने स्वप्नसन्दर्शनानन्तरमनुभवत्स्वप्नमेव जाग्रत्तया
अनुभवतीति पूर्वेणान्वयः । एवंरीत्या जाग्रत्स्वप्नत्वं चेत्येवं नामनि
अवस्थाद्वयेऽयं जीवः स्वतो न जायते न म्रियते ।
तत्तद्देहाभिमानोपादानत्यागाभ्यां तु जायते म्रियतेऽपि च ॥ २८ ॥

स्वप्नद्रष्टा स्वप्नमृतः प्रबुद्ध इह कथ्यते ।
इह जाग्रन्मृतो जन्तुः प्रबुद्धोऽन्यत्र कथ्यते ॥ २९ ॥

तथा च स्वप्नद्रष्टा स्वप्ने मृतः सन् इह जागरे प्रबुद्धः कथ्यते इह जाग्रति
मृतस्तु अन्यत्र स्वप्ने प्रबुद्धः कथ्यत इति तयोः साम्यमेवेत्यर्थः ॥ २९ ॥

स्वप्नात्स्वप्नस्थितौ जाग्रज्जाग्रत्स्वप्नप्रदर्शनम् ।
मृत्वान्यत्रप्रबुद्धस्य जाग्रत्स्वप्नो भवत्यलम् ॥ ३० ॥

एवं च स्वप्नात्स्वप्नान्तरस्थितौ द्वितीयं स्वप्नरूपमेव पूर्वापेक्षया
वर्तमानत्वात्प्रकृष्टं दर्शनं जाग्रद्भवति । एवं जाग्रति मृत्वा अन्यत्र स्वप्ने
जाग्रदन्तरे वा प्रबुद्धस्य पुंसः पूर्वजाग्रत्स्वप्न एवालमवश्यं भवति ॥ ३० ॥

इतिहासमयावेव जाग्रत्स्वप्नावुभावपि ।
परस्परं गतावेतावुपमानोपमेयताम् ॥ ३१ ॥

इतिहासः कीर्त्यमानपूर्ववृत्तकथार्थस्तन्मयौ तत्सदृशावेव न यथार्थाविति
हेतोः परस्परमुपमानोपमेयतां गतावित्यर्थः । इतीहासमयौ इति दीर्घपाठे तु इति
इह असमं विषमं यात इत्यसमयौ किञ्चिद्विलक्षणावपीत्यर्थः । इतीहासन्मयौ इति
पाठः साधुः ॥ ३१ ॥

स्वप्नो जाग्रदिवाभाति जाग्रत्स्वप्नमिवोदितम् ।
वस्तुतस्तु द्वयमसच्चित्खं कचति केवलम् ॥ ३२ ॥

किं च वर्तमानदशायां स्वप्नोऽपि जाग्रदिव प्रत्यक्षमाभाति । अतीतं तु जाग्रदपि
प्रसिद्ध स्वप्नमिव उदितम् ॥ ३२ ॥

स्थावरं जङ्गमं चैव भूतजातमशेषतः ।
चिन्मात्रव्यतिरेकेण किमन्यदुपपद्यते ॥ ३३ ॥

चित्खं कचति केवलम् इत्युक्तिमुपपादयति - स्थावरमित्यादिना ॥ ३३ ॥

मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते ।
चिच्चमत्कारमात्रात्म तथा काष्ठोपलाद्यपि ॥ ३४ ॥

वस्तुजातमिदं स्वप्ने जाग्रत्यपि तथैव नः ।
दृष्टो य उपलः स्वप्ने चिच्चमत्करणादृते ॥ ३५ ॥

चिच्चमत्करणादृते अन्यत् किं स्यात् । हे प्राज्ञ अस्मिन्नर्थे विद्वद्भिः सह युक्त्या
संवद संवादेनावधारय । विचारोत्पन्नतत्त्वदशने सा प्रसिद्धा चिदेव स्वाप्नोपल
इति परेणान्वयः ॥ ३५ ॥

किमन्यत्संवद प्राज्ञ किलावश्यं चिदेव सा ।
ननु यादृग्वपुः स्वप्ने जाग्रत्तादृगखण्डितम् ॥ ३६ ॥

जगज्जातमतः सर्वं चिन्मात्रं ब्रह्मखण्डितम् ।
जगज्जातमतः सर्वं चिन्मात्रं ब्रह्मकुट्टिमम् ॥ ३७ ॥

चिन्मात्रं ब्रह्मैव जगदाकारेण खण्डितं विभक्तमध्यारोपे । अपवादे तु
जगत्सर्वं ब्रह्मकुट्टिमं जातमित्यर्थः ॥ ३७ ॥

मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ३८ ॥

चिद्व्यतिरेकेण जगदनुपलम्भादपि चिन्मात्रत्वमेवेत्याह - मृन्मयमित्यादिना ॥
३८ ॥

शैलात्मकं यथा भाण्डं शैलशून्यं न लभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ३९ ॥

शिलाया अवयवः शैलस्तदात्मकम् ॥ ३९ ॥

द्रवरूपं यथा वारि द्रवरिक्तं न लभ्यते ।
चिन्मयं तु तथा चेत्यन्न् चिच्छून्यं नोपलभ्यते ॥ ४० ॥

ऊष्मरूपो यथा वह्निर्निरूष्मा नोपलभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ४१ ॥

यथा स्पन्दमयो वायुरस्पन्दो नोपलभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ४२ ॥

स्पन्दमयः स्पन्दस्वभावः ॥ ४२ ॥

यद्यन्मयं तद्विना तु तत्कथं किल लभ्यते ।
क्वाशून्यं लभ्यते व्योम क्वाघना लभ्यते मही ॥ ४३ ॥

अघना अमूर्ता ॥ ४३ ॥

चिद्व्योममयमेवेदं यथा घटपटादिकम् ।
स्वप्ने तथेदं शैलादि चिद्व्योमाभासमात्रकम् ॥ ४४ ॥

तथा इदं जाग्रच्छैलाद्यपि ॥ ४४ ॥

स्वप्ने यथा गगनमेव पुराचलादि संविन्मयं सुभग जाग्रति तद्वदेव ।
स्वप्नोऽथ जाग्रदिति शान्तमनन्तमेकं चिन्मात्रमत्र ननु नाम विनास्तु वादः
॥ ४५ ॥

उक्तमेव स्फुटयन्नुपसंहरति - स्वप्ने इति । स्वप्ने प्रसिद्धं पुराचलादि यथा
संविन्मयं गगनमेव हे सुभग जाग्रति प्रसिद्धं पुराचलाद्यपि तद्वदेव
संविन्मयं गगनमेव । एवं च स्वप्नोऽथ जाग्रदिति विकल्पनशान्तमेकं
चिन्मात्रमेव परिशिष्टम् । अत्र ईदृशे तत्त्वे वादिनां विषयं विना वृथा विवाद
इत्यर्थः ॥ ४५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ०
जाग्रत्स्वप्नैक्यप्रतिपादनं नाम पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जाग्रत्स्वप्नैक्यप्रतिपादनं नाम पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥

प्द्फ़् २७९, प्। १३१३