चतुरधिकशततमः सर्गः १०४
श्रीवसिष्ठ उवाच ।
आकाशः शब्दतन्मात्रं स्पर्शतन्मात्रकोऽनिलः ।
तत्सङ्गोत्कर्षजं तेजस्तच्छान्तिश्चेत्यपां स्थितिः ॥ १ ॥
आकाशादेर्हि वाय्वादिभावोऽनुभवतो यथा ।
चित एव जगद्भावोऽनुभवादेव साध्यते ॥
चिन्मात्रमेव जगदाकारेण स्वप्नवद्भातीति यदुक्तं तदेवानुभवालम्बने
प्रमाणतः पदार्थतत्त्वं जिज्ञासमानैः
सर्वैराकाशादिक्रमसृष्टिकल्पनापरम्पराभिः सुदूरमपि गत्वा अन्ततः
शरणीकरणीयमिति वर्णयिष्यन्नाकाशादीनां तैर्थिकप्रसिद्धां स्वरूपस्थितिमाह
- आकाश इत्यादिना । तयोर्यः सङ्गोत्कर्षः सङ्घर्षातिशयस्तस्माज्जातं
रूपतन्मात्रं तेजस्तस्य तेजसः शान्तिः औष्ण्यरौक्ष्यप्रशमनेन
शैत्यद्रवत्वावलम्बनलक्षणं रसतन्मात्रमित्यपां स्वभावस्थितिरित्यर्थः ॥ १ ॥
भूरेषां सङ्घः स्वप्नाभे जगद्भाने क्रमस्त्विति ।
कथं नाम किलामूर्ताद्व्योम्नो मूर्तिः प्रवर्तते ॥ २ ॥
भूस्तु एषां संहन्तीति सङ्घो मेलने घनीभावहेतुर्गन्धतन्मात्रमिति चित एव
स्वप्नाभे जगद्भाने इयं क्रमस्थितिः । तत्रेदं पृच्छामः - अमूर्ताद्व्योम्नः
पृथिव्यन्ता मूर्तिः कथं प्रवर्तत इति । यदि कश्चिद्ब्रूयाद्वायुरेव
प्रथममाकाशात्क्रियास्पर्शप्रधान उत्पद्यते स च
रूपाभावात्किञ्चिदाकाशवत्स्पर्शक्रियाशालित्वात्किञ्चिन्मूर्तवदपीति
रूपतन्मात्रप्रधानं मूर्तं तेजो जनयिष्यतीति । तन्न । निरवयवकूटस्थेनाकाशेन
वायोरेवासिद्धेः । न ह्यव्याप्रियमाणं निरवयवं च किञ्चिदारब्धुं विकर्तुं वा
शक्नोति । किं च यदि कृत्स्नं विक्रियेत तर्ह्याकाशाभावान्निरवकाशा वाय्वादयः
स्युः । यद्यर्धं ततोऽल्पं वा तर्ह्याकाशस्यापि सावयवत्वप्रसङ्गः । अस्तु
सावयवमपीति चेत्तदेव स्पर्शवत्क्रियावच्च स्यादिति वाय्वादिजननवैयर्थ्यं
निरवकाशता च तस्य तदवयवानां च स्यात् । एवं वायोरपि
नीरूपाद्रूपतन्मात्रोत्पत्तिरारम्भेण परिणामेन वा दुर्निरूपैव । कारणगुणा हि
कार्यगुणानारभन्ते । न च रूपं वायावस्ति । परिपाकेन हि परिणामः स्यान्न च विना
तेजः परिपाकोऽस्ति । एव मुत्तरभूतयोरप्यूह्यमिति ॥ २ ॥
गत्वा सुदूरमप्येतज्ज्ञप्तेश्चेत्परिकल्प्यते ।
तदादावेव सत्यर्थे दोषोऽस्मिन्क इवामले ॥ ३ ॥
नन्वनुभवबलादेव कूटस्थादप्याकाशाच्चलनात्मकं वायुं नीरूपाच्च वायो
रूपवत्तेजो नीरसाच्च तस्माद्रसात्मकं वारि अगन्धाच्च तस्माद्गन्धवतीं
पृथ्वीमुत्पन्नां कल्पयिष्यामः । अनुभवात्मिका ज्ञप्तिरेव भगवती नः सर्व
विरोधमुत्सार्य यथानुभवमर्थान्समर्थयिष्यतीति चेत्तत्राह - गत्वेति । यदि
सुदूरमपि गत्वा ज्ञप्तिरेव शरणीक्रियते तर्हि सैव स्वप्नादाविव विवर्तमात्रेण सर्व
जगद्वेषं निर्वहिष्यतीति आदौ ब्रह्मण्येव सर्वार्थस्वरूपे सति अमले सर्वदोषनिर्मुक्ते
सिद्धान्ते को दोष इत्यर्थः ॥ ३ ॥
ज्ञप्तिरेवातिविमला स्वरूपात्मनि भाति यत् ।
तदेव जगदित्युक्तं सत्यमित्येव सत्यतः ॥ ४ ॥
कोऽसौ सिद्धान्तस्तमाह - ज्ञप्तिरेवेति । तदेव जगदिति सत्यतः
परमार्थसत्याधिष्ठानबलात् सर्व खल्विदं ब्रह्मेत्यादि यथार्थवादिश्रुतिबलाच्च
सत्यमित्येव सिद्धान्तरहस्यमुक्तमित्यर्थः ॥ ४ ॥
न क्वचित्सन्ति भूतानि पञ्च कुट्यादयो न वा ।
असन्त्यप्यनुभूतानि ननु स्वप्नदशास्विव ॥ ५ ॥
भूतभौतिकशून्यैव चिद्यतः स्वप्ने भूतभौतिकवत्सर्वानुभवसिद्धेत्याह -
न क्वचिदिति ॥ ५ ॥
स्वभाव एव विमलो यथा स्वप्ने पुरादिवत् ।
कचत्येवं जाग्रतीदं जगद्वद्वस्तुतस्तु [वस्तु तत्सुखम् इति
मुद्रितपाठश्चिन्त्यः ।] खम् ॥ ६ ॥
तद्वज्जाग्रत्यपि चित्स्वभाव एव जगद्वत्कचतीत्याह - स्वभाव इति ॥ ६ ॥
चेतनाकाश एवाहं तदेवेदं जगत्स्थितम् ।
इत्यहं जगदित्येकं खमेवैकं शिलाघनम् ॥ ७ ॥
वस्तुतस्तु खम् इत्येतद्विशदयति - चेतनाकाश इति ॥ ७ ॥
यदादिसर्गजननं यत्कल्पान्तविवर्तनम् ।
यद्वा भुवनसंस्थानं तद्धि व्योम निराकृति ॥ ८ ॥
अस्त्वयं सर्ग एवमादिसर्गो ब्रह्माण्डान्तरादिसर्गः कल्पान्तविवर्तनं वा अन्यथापि
स्यादिति शङ्कां निरस्यति - यदिति ॥ ८ ॥
सति वाऽसति वा देहे निर्दुःखसुखत्वमक्षयं मोक्षः ।
बुद्धेऽमले स्वभावे निर्भरविश्रान्तिरस्तु सर्वेह ॥ ९ ॥
एवं सति जीवन्मुक्तिविदेहमुक्त्योर्न कश्चिद्विशेष इत्याह - सतीति । अमले स्वभावे
बुद्धे सति यन्निर्दुःखसुखत्वं भूमानन्दरूपत्वमक्षयं स एव मोक्षः स च
देहे सति वा असति वा समान एवेति तत्र सर्वा पूर्णा निर्भरविश्रान्तिस्तेऽस्तु तावतैव त्वं
कृतार्थ इत्यर्थः ॥ ९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ०
जगदसत्ताप्रतिपादनं नाम चतुरधिकशततमः सर्गः ॥ १०४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जगदसत्ताप्रतिपादनं नाम चतुरुत्तरशततमः सर्गः ॥ १०४ ॥