१०३

त्र्यधिकशततमः सर्गः १०३

श्रीवसिष्ठ उवाच ।

भामात्रं भानमात्रं वा शान्तं भासत एव च ।
चिन्मात्रं यदनाद्यन्तं तस्य नाशः कथं कदा ॥ १ ॥

चितो नित्यत्वमेकत्वं स्वातन्त्र्यमपि साध्यते ।
सच्छास्त्रस्यास्य माहात्म्यं हितं चात्रोपदिश्यते ॥

तत्र चित्सामान्यस्याविनाशित्वं सर्वानुभवबलेन प्रथमं साधयति -
भामात्रमिति । जाग्रत्स्वप्नयोरन्तःकरणसाक्षितया सुषुप्तावज्ञानस्वापादिसाक्षितया
च प्रत्यगात्मभामात्रं विषयभानमात्रं वा सर्वेषां भासत एवेति प्रत्यक्षेण
चकाराद्व्यवहारस्मृत्यादिलिङ्गेन च यदनाद्यन्तं चिन्मात्रं तत्सिद्धं तस्य
कथं केन निमित्तेन नाशो भवेत् तदसाधितस्य निमित्तस्याप्रसिद्धेस्तत्साधितस्य च
तदुपजीवकतया तन्नाशनिमित्तत्वायोगादेवं कदा वा नाशो भवेत् ।
तादृशकालस्यापि तदधीनसिद्धिकस्य तदुपजीवकत्वादिति भावः ॥ १ ॥

तावन्मात्रं च पुरुषः कदाचित्स न नश्यति ।
नदि नश्यति चिन्मात्रं भूयो जायेत किं कथम् ॥ २ ॥

भवतु चिन्मात्रमविनाशि पुरुषस्य किमायातं तत्राह - तावन्मात्रमिति । तन्नाशे
अग्रे सृष्टिरेव न स्यादसाक्षिकसर्गाद्धेरित्याह - यदीति ॥ २ ॥

न चान्यदन्यच्चिन्मात्रं क्वचित्किञ्चन कस्यचित् ।
सर्वानुभवसादृश्ये कीदृशी नाम सान्यता ॥ ३ ॥

ननु चिदन्तरमुत्पत्स्यते ततः सर्गः प्रवर्त्स्यति तत्राह - न चेति ।
औत्तरकालिक्याश्चितः पूर्वचितो भेदः किं मध्ये विच्छेदानुभवात्कल्प्येत उत
वैलक्षण्यात् । न तावद्विच्छेदानुभवादनुभवस्यैव चित्त्वात्तत्सद्भावे
विच्छेदासिद्धेः । नापि वैलक्षण्यम् । अचित्त्वापत्तेः । सर्वांशे अनुभवस्य
पूर्वोत्तरकालयोः सादृश्ये सा अन्यता भिन्नता कीदृशी नाम । अलीकेत्यर्थः ॥ ३ ॥

सर्वस्यैव हिमं शीतमुष्णोऽग्निर्मधुरं पयः ।
चिन्मात्रस्यावदातस्य कीदृगन्यत्वमत्र तु ॥ ४ ॥

कालभेदादिव पुरुषभेदादपि चितो न भेदः । हिमशैत्यादिविषयेष्विव चित्यपि
वैलक्षण्याननुभवादेवेत्याह - सर्वस्यैवेति ॥ ४ ॥

शरीरनाशे नाशश्चेच्चिन्मात्रस्य तदुच्यताम् ।
हर्षस्थाने विषादः किं मरणे संसृतिक्षये ॥ ५ ॥

ननु सुखदुःखानुभवलक्षणविशेषज्ञानातिरिक्तं न
चित्सामान्यमभ्युपगच्छामः । विशेषविज्ञानेषु चावच्छेदकतासम्बन्धेन
शरीरं कारणं तन्नाशाच्च ज्ञाननाश इत्यभ्युपगच्छतां
चार्वाकवैशेषिकादीनां शङ्कामुद्भाव्य निरस्यति - शरीरेति । हर्षस्थाने इति ।
दुःखप्रागभावासमानकालिकदुःखध्वम्स एव हि वो मुक्तिः सा च
देहनाशाच्चित्सामान्यनाशे उत्तरत्र देहदुःखादिसाधकाभावादेव सिध्यति । न हि
चिदतिरिक्तं तत्साधकमस्ति । न च निःसाधकोऽग्रिमदेहः सिध्यति । न च तं विना
तत्साधिका चित्सिध्यतीति मुक्तिहेतोर्मरणाद्धर्ष एव स्यान्न विषाद इत्यर्थः ॥ ५ ॥

न च नाम शरीरस्य नाशे नश्यति चिन्नभः ।
देहे नष्टेऽपि बन्धूनां म्लेच्छैर्दृष्टा पिशाचता ॥ ६ ॥

तर्ह्यस्तु तथेत्याशया सुखं व्याददानस्याशां छिनत्ति - न चेति । प्रायेण हि
पिशाचा बन्धूनेव बाधन्ते । प्रत्यन्तदेशेष्वेव बहुधा पिशाचा दृश्यन्त इति
द्योतनाय बन्धुम्लेच्छग्रहणम् ॥ ६ ॥

यावच्छरीरसत्ता चेच्चेतनस्य तदुच्यताम् ।
शवः कस्मान्न चलति सत्यखण्डे शरीरके ॥ ७ ॥

किं च शरीरनाशाच्चिन्नाश इत्यसङ्गतमेव सत्येव मृतशरीरे
चिन्निवृत्तिदर्शनविरोधादित्याह - यावदिति । न चलति न चेतति ॥ ७ ॥

पिशाचानुभवो जीवधर्मश्चेत्तत्स सर्वदा ।
किं न पश्यति किं बन्धौ मृते पश्यति तत्तथा ॥ ८ ॥

यदि कश्चिच्चार्वाको ब्रूयाज्जीवन् म्लेच्छजीवधर्म एव पिशाचदर्शनं न
मृतम्लेच्छचिदवशेषप्रयुक्तः पिशाचस्तत्रास्तीति तदाशङ्कामुट्टङ्क्य परिहरति

  • पिशाचानुभव इति । सर्वदा बन्धुमरणं विना स पिशाचं किं न पश्यति
    मृते सत्येव कस्मात्पश्यतीति वक्तव्यो नियमद्वये त्वया हेतुरित्यर्थः ॥ ८ ॥

जीवधर्मो विशिष्टश्चेत्तादृशस्तं [तादृशत्वं इति पाठः ।] नरः
कथम् ।
मिथ्या देशान्तरमृते पिशाचत्वं न पश्यति ॥ ९ ॥

स जीवो बन्धुमरणज्ञानविशिष्टश्चेत्तद्धर्मः पिशाचदर्शनमिति तादृशो
नियमश्चेत्तत्तथापि जीवत्येव मिथ्या देशान्तरमृतेऽन्येन कल्पिते सति तत्पिशाचत्वं
नरः कथं न पश्यति ॥ ९ ॥

तस्मात्सर्वात्मकत्वे तच्चिन्मात्रं न नियन्त्रितम् ।
यद्यद्यत्र यथा वेत्ति तत्तत्तत्रावगच्छति ॥ १० ॥

तस्माच्चितो भेदविनाशयोरयोगात्सर्वात्मकत्वे सिद्धे सति वस्तुकृतपरिच्छेदेनापि
तन्न नियन्त्रितम् । तथा च यद्यद्वस्तु यत्र देशे काले वा वेत्ति स्वात्मानमेव
तत्तद्वस्त्वात्मनावगच्छतीति न तद्वेद्यं पृथगस्तीत्यर्थः ॥ १० ॥

अबाधितैवैकघना संविद्भवति यादृशी ।
तादृश्येवानुभूतिर्हि तत्स्वभावोऽत्र कारणम् ॥ ११ ॥

एवं च सर्गादौ सत्यकामत्वादबाधिता संवित्स्वसङ्कल्पात्मना यादृश्येव भवति
तादृश्येवेदानीं सर्वजनानामनुभूतिः ॥ ११ ॥

अन्यन्न सम्भवत्यत्र सर्गादावेव कारणम् ।
यन्नाम तदिदानीं स्यात्कथ्यतां कीदृशं कथम् ॥ १२ ॥

सत्यसङ्कल्पब्रह्मसंविदोऽन्यत्प्रधानपरमाण्वादिकं सर्गादौ कारणं न
सम्भवत्येव यत्कारणं ब्रह्मातिरिक्तं स्यात्तत्कीदृशं कथं च तत्कारणं
इदानीं मत्पुरतो वादिभिः कथ्यतां श्रुतियुक्तिभ्यां सद्य एव निरसिष्यामीत्यर्थः ॥
१२ ॥

सर्गादावेव नोत्पन्ना न चैवाद्यावभासते ।
विकल्पश्रीर्जगद्भासा केवलं भातिचिन्नभः ॥ १३ ॥

तव तर्हि कीदृशः सिद्धान्तस्तमाह - सर्गादावेवेति ॥ १३ ॥

आभासमात्रमेवेदं दृश्यमित्यवबुध्यते ।
दृश्यमित्यवबोधेन तदृते स्यात्क्व दृश्यता ॥ १४ ॥

यदि केवलं चिन्नभ एव भाति तर्हि दृश्यमिति सर्वैर्जनैः किमवबुध्यते तत्राह ##-
गृह्यमाणस्यास्य शुक्तिरजतमरुनदीकेशोण्ड्रकादेस्तच्चिन्नभः ऋते क्व सत्यता
दृष्टेत्यर्थः ॥ १४ ॥

स्वचमत्कारचातुर्यं चारु चिन्नभसा रसात् ।
बोधेन बुध्यते दृश्यमित्यबोधान्न बुध्यते ॥ १५ ॥

तथा च चिन्नभसा स्वचमत्कारचातुर्यमेव दृश्यमिति रसाज्जाग्रत्स्वप्नबोधेन
बुध्यते सुषुप्तौ चाबोधान्न बुध्यत इति निष्कर्ष इत्यर्थः ॥ १५ ॥

बोधोऽबोधश्च तद्रूपमेवमेव निरामयम् ।
भेदोऽत्र वाचि न त्वर्थे तस्मान्नास्त्येव दृश्यता ॥ १६ ॥

तर्हि तौ बोधाबोधौ कौ तत्राह - बोध इति । तस्य चिन्नभस एव रूपं न जडस्य ।
अतस्तदात्मना एकमेव । न हि बोधमन्तरेणाबोधस्य रूपं प्रसिध्यति । सति च बोधे
तत्र नभोर्थो दुर्लभ इति राहोः शिरः शिर एव राहुरितिवद्वाङ्मात्रकृतो भेदो न
त्वर्थेऽस्तीत्यर्थः ॥ १६ ॥

या चासीद्दृश्यतैषां तां विद्धि त्वमविचारणाम् ।
सा चेदानीं विचारेण विनष्टातः क्व दृश्यते ॥ १७ ॥

अथवा स्वतत्त्वाविचारणैव चितो दृश्यता विचारनष्टेत्याह - या चेति ॥ १७ ॥

अस्मिन्नेव धियो यत्न आत्मज्ञानविचारणे ।
यत्नेन परमोऽभ्यासः स लोकद्वयसिद्धिदः ॥ १८ ॥

अत व विचारो एव महान्यत्नः कार्य इति बहुशो मयोक्तमित्याह - अस्मिन्नेवेति ।
यत्नेन विचारस्य किं स्यात्तदाह - यत्नेनेति । लोकद्वये इह वा अमुत्र वा
ज्ञानसिद्धिदः । तथा च सूत्रे आवृत्तिरसकृदुपदेशात् । ऐहिकमप्रस्तुतप्रतिबन्धेन
तद्दर्शनात् इति ॥ १८ ॥

अविद्योपशमस्त्वेष जातोऽपि भवतामिह ।
अभ्यासेन विना साधो न सिद्धिमुपगच्छति ॥ १९ ॥

ननु नित्यापरोक्षे वस्तुनि प्रवृत्तमुपदेशवाक्यं सकृत्प्रवृत्त्यैवाविद्यां
शमयित्वा वस्तु प्रकटयिष्यति किमभ्यासेन तत्राह - अविद्योपशम इति । सिद्धिं
जीवन्मुक्तिप्रतिष्ठाम् ॥ १९ ॥

न्रोद्वेगं सम्परित्यज्य गृहीत्वानुदिनं क्षणम् ।
लोकद्वयहितं पथ्यमिदं शास्त्रं विचार्यताम् ॥ २० ॥

तर्हि कं ग्रन्थमुपादाय विचारोऽभ्यसनीयः केन वा शीघ्रं प्रबोधः सिध्येत्तत्राह

  • न्रेति । न्रा शमादिसाधनसम्पन्नपुरुषेण आलस्यारत्याद्युद्वेगं
    तद्धेतुयथेष्टाशनदुःसङ्गानि च परित्यज्य क्षणं गुरुशुश्रूषादिनियमं
    गृहीत्वा इदं महारामायणाख्यं शासनाच्छास्त्रमनुदिनं विचार्यताम् ॥ २० ॥

विज्ञातमप्यविज्ञातमात्मज्ञानमिदं भवेत् ।
भवतां भूरिभागानां सम्भूयाभ्यसनं विना ॥ २१ ॥

तत्र च बहुभिः सतीर्थ्यैः सम्भूयाभ्यसनं परस्परानुभवसंवादेन सद्यो
ज्ञानप्रतिष्ठाहेतुरित्याह - विज्ञातमिति । अविज्ञातं विस्मरणादविज्ञातप्रायम् ।
भूरिभागानां बहुविधासम्भावनादिशालिनाम् ॥ २१ ॥

योऽयमर्थं प्रार्थयते तदर्थं यतते तथा ।
सोऽवश्यं तमवाप्नोति न चेच्छान्तो निवर्तते ॥ २२ ॥

ज्ञानं दुर्लभमित्युद्वेगाच्छ्रवणं न त्याज्यमित्याह - य इति ॥ २२ ॥

तस्मादस्मान्निवर्तध्वमसच्छास्त्रविचारणात् ।
शान्तिं प्राप्स्यथ सच्छास्त्राज्जयलक्ष्मीं यथा रणात् ॥ २३ ॥

अनात्मशास्त्राभ्यासान्निवृत्तैरेतच्छास्त्राभ्यासः कार्य इत्याह - तस्मादिति ।
जयलक्ष्मीं भूजयलक्ष्मीं स्वर्गजयलक्ष्मीं वा ॥ २३ ॥

विवेके चाविवेके च वहत्येषा मनोनदी ।
यत्रैव बाह्यते यत्नात्तत्रैव स्थितिमृच्छति ॥ २४ ॥

यत्नाद्विरोधिस्रोतोन्तरनिरोधप्रयत्नात् ॥ २४ ॥

अस्माच्छास्त्रादृते श्रेयो न भूतं न भविष्यति ।
ततः परमबोधार्थमिदमेव विचार्यताम् ॥ २५ ॥

श्रेयः प्रशस्यतरं विवेकसाधनम् ॥ २५ ॥

स्वयमेव विचार्येदं परो बोधोऽनुभूयते ।
संसाराध्वश्रमहरो न त्वेतद्वरशापवत् ॥ २६ ॥

तच्छास्त्रं विचार्य स्थितेन स्वयं प्रत्यक्षतया आत्मतत्त्वबोधोऽनुभूयते न तु वरवत्
शापवद्वा कालान्तरविलम्बेनेत्यर्थः ॥ २६ ॥

यन्न पित्रा न वा मात्रा न चापि सुकृतैः कृतम् ।
श्रेयस्तद्वः परिज्ञातमिदमाशु करिष्यति ॥ २७ ॥

पितृमात्राद्यपेक्षयापि शास्त्रमेतद्धितकृत्तममित्याह - यदिति । विचारेण
शास्त्रं परिज्ञातं सत् । परिज्ञातं प्रत्यक्षं श्रेय इति वा ॥ २७ ॥

भवबन्धमयी साधो विषमेयं विषूचिका ।
आत्मज्ञानादृते दीर्घा न कदाचन शाम्यति ॥ २८ ॥

महामोहमयी माया मिथ्यैवाहमिति स्थिता ।
शास्त्रार्थभावनेनाशु मुच्यतां परशोच्यता ॥ २९ ॥

अहमिति मिथ्यैव स्थिता महामोहमयी माया तत्प्रयुक्ता परा शोच्यता च मुच्यताम् ॥ २९

यात माऽऽपातमधुरं व्योम व्योमैकरूपिणीम् ।
शून्यं वायुं लिहन्तोऽन्तर्लेलिहाना इवाहयः ॥ ३० ॥

आपातमधुरं व्योम शून्यं विषयजातं लिहन्तः सन्तो व्योमैकरूपिणीमनन्तां
संसृतिं मा यात लेलिहानाः क्षुधिता रसशून्यं वायुं लिहन्तः अहयः सर्पा इव ॥
३० ॥

यान्ति वो दिवसाः कष्टमविज्ञातगमागमाः ।
व्यवहारे हि तैरेव प्रतिपालयतां मृतिम् ॥ ३१ ॥

तावदाश्वासनैषास्ति भवतां भयभागिनाम् ।
दिनानि कतिचिद्यावन्नायाति मरणावधिः ॥ ३२ ॥

मरणरूप आयुषोऽवधिर्यावन्नायाति तावदेव भवतां
सच्छास्त्रावलम्बनयोग्यतया आश्वासना अस्ति ॥ ३२ ॥

आगच्छन्त्यां मृतौ कष्टं परितापमवाप्स्यथ ।
तं यत्राङ्गाङ्गविच्छेदः शीतचन्दनलेपनम् ॥ ३३ ॥

तदुत्तरं किं भविष्यति तत्राह - आगच्छन्त्यामिति । तं तादृशं
परितापमवाप्स्यथ यत्र अङ्गानामङ्गानां विच्छेदोऽपि
शीतचन्दनलेपनवदवश्यं भोक्तव्य इत्यर्थः ॥ ३३ ॥

क्रीणन्ति प्राणपण्येन धनं मानं घनभ्रमाः ।
यथाशास्त्रैः कथं बुद्ध्या न क्रीणन्त्यजरं पदम् ॥ ३४ ॥

घनभ्रमा मूर्खा जना युद्धादौ प्राणपण्येनापि धनं जयाभिमानं च
क्रीणन्ति । यथाशास्त्रैर्विवेकवैराग्यश्रवणाद्युपायैः प्राप्तया तत्त्वबुद्ध्या अजरं
मोक्षपदं कथं न क्रीणन्त्याश्चर्यमेतदित्यर्थः ॥ ३४ ॥

पदं परमयत्नेन क्रियते यैश्चिदम्बरे ।
कथं तैः सह्यतेऽज्ञानशत्रुपादः स्वमूर्धनि ॥ ३५ ॥

यैर्विवेकिभिः अयत्नेन स्वतत्त्वज्ञानमात्रेण चिदम्बरे ब्रह्माकाशे पदं स्थानं
क्रियते परं सर्वोत्कृष्टैस्तादृशैरज्ञानशत्रुवधसमर्थैः
सच्छास्त्राद्युपेक्षया स्वमूर्धनि अज्ञानशत्रुपादः कथं सह्यते ॥ ३५ ॥

निर्मानमोहमापन्ना गतिं गच्छत माधमाम् ।
क्रियते स्वात्मबोधेन मूलकाषो महापदाम् ॥ ३६ ॥

हे जनाः यूयं निर्गतौ मानमोहौ यस्मात्तथाविधं दृढविवेकमापन्नाः
सन्तस्तत्त्वं बुद्ध्वा मोक्षगतिं गच्छत अधमां संसारगतिं मा गच्छत ॥ ३६ ॥

प्रलपन्तमहोरात्रं युष्मदर्थेन मामिमम् ।
यं प्रदृश्येदमाकर्ण्य स्वात्मनैवात्मतार्प्यताम् ॥ ३७ ॥

बहुकालं बहुप्रकारैरस्मद्बोधने प्रवृत्तोऽयं वसिष्ठः
कण्ठशोषदुःखाद्विमुच्यतामिति मयि दयया वा मद्वचनं सम्यगाकर्ण्य स्वात्मा
युष्माभिर्बुध्यतामिति वात्सल्यातिशयेनाह - प्रलपन्तमिति । यं
जगत्प्रसिद्धमिमं युष्मद्बोधनायोद्युक्तं युष्मदर्थेन अहोरात्रं प्रलपन्तं
कण्ठशोषश्रमादिना नित्यं क्लिश्यमानं मां प्रदृश्य सम्यग्दृष्ट्वा
दयया इदं मद्वचनमादरेणाकर्ण्य प्रबुद्धेनात्मनैव
देहेन्द्रियादिपरिच्छिन्नात्मभावं विहाय यथाभूतब्रह्मात्मता अर्प्यतां
प्राप्यतामिति प्रार्थनायान्न् लोट् ॥ ३७ ॥

अद्यैव न चिकित्सां यः करोति मरणापदः ।
सम्प्राप्तायां मृतौ मूढः करिष्यति किमातुरः ॥ ३८ ॥

किमद्यैवात्मज्ञानेन अग्रे कदाचित्करिष्याम इति मन्वानान्प्रत्याह - अद्यैवेति ॥ ३८

अस्माद्ग्रन्थादृते ग्रन्थो नान्यः स्वात्मावबोधने ।
नूनमर्थकरो ग्राह्यस्तिलस्तैलार्थिनामिव ॥ ३९ ॥

नान्यः विद्यते इति शेषः । नूनं निश्चयेन अर्थकरः अभिलषितार्थकारीति बुद्ध्या
ग्राह्यः ॥ ३९ ॥

आत्मज्ञानमिदं शास्त्रं प्रकाशयति दीपवत् ।
पितेव बोधयत्याशु कान्तेव रमयत्यलम् ॥ ४० ॥

इतराध्यात्मग्रन्थेभ्योऽस्य कोऽतिशयस्तमाह - आत्मज्ञानमिति । आत्मरूपं
ज्ञानम् ॥ ४० ॥

विद्यमानमपि ज्ञानं ज्ञातं शास्त्रगणान्न यत् ।
दुर्बोधं मधुरं तत्तु ज्ञास्यन्तीतो न संशयः ॥ ४१ ॥

विद्यमानं नित्यप्राप्तमपि यत् आत्मरूपं ज्ञानं शास्त्रान्तरान्न ज्ञातं तत् इतः
अस्माच्छास्त्राज्ज्ञास्यन्ति ॥ ४१ ॥

इदमुत्तममाख्यानं मुख्यानां शास्त्रदृष्टिषु ।
सुखेन बोधदं हृद्यमपूर्वं न तु किञ्चन ॥ ४२ ॥

शास्त्रदृष्टिषु मुख्यानामाख्यानानां मध्ये इदमाख्यानमुत्तमम् ।
अस्मिन्नाख्याने अपूर्वमनादितत्त्ववित्सम्प्रदायप्रसिद्धव्यतिरिक्तं स्वकपोलकल्पितं
किञ्चन न तु नास्त्येव ॥ ४२ ॥

नानाख्यानकथाचित्रं विनोदेन विचारयेत् ।
इदं शास्त्रं परं याति पुमान्नास्त्यत्र संशयः ॥ ४३ ॥

विनोदेन कौतूहलेनापि विचारयन्पुमान्परमात्मबोधं याति प्राप्नोति ॥ ४३ ॥

यो ह्यद्यापि न सम्प्राप्तः पण्डितैरविखण्डितैः ।
स इतः प्राप्यते बोधः सुवर्णमिव सैकतात् ॥ ४४ ॥

पण्डितैः सर्वशास्त्रज्ञैरपि यो बोधोऽद्यापि न सम्प्राप्तः स इतः
अस्माच्छास्त्रात्प्राप्यते । यथा सुवर्णाकरे क्षालनेन विवेचितात्सैकतात्सुवर्णं
प्राप्यते तद्वत् ॥ ४४ ॥

शास्त्रकर्तरि मङ्क्तव्यं न कदाचन कुत्रचित् ।
शास्त्रार्थ एव तन्नित्यं युक्तियुक्तानुभूतिदे ॥ ४५ ॥

ननु अस्माच्छास्त्रादेव ज्ञानं चेदेतच्छास्त्रकर्ता करमाच्छास्त्राज्ज्ञातवान् । यत
एव स ज्ञातवांस्तत एव वयमपि ज्ञास्यामः । यद्यज्ञात्वैवैतच्छास्त्रं
प्रणीतवांस्तर्ह्यस्माच्छास्त्राज्ज्ञानोदये का प्रत्याशेति शङ्कमानान्प्रत्याह -
शास्त्रकर्तरीति । यद्येतच्छास्त्रं युक्तियुक्तमनुभवपर्यवसितं च न स्यात्तदा
एतत्कर्तृबोधमूलकप्रामाण्यमेतच्छास्त्रमिति तत्कर्तरि बोधहेतुचिन्तया
मङ्क्तव्यं स्यात् । अस्मिंस्तु शास्त्रे स्वतो युक्तिसहस्रयुक्ते अनुभूतिदे च सति
स्वानुभवेनैव सर्वशङ्कानिवृत्तेस्तत्रैव तन्मज्जनन्न् नित्यं युक्तमिति न
शास्त्रकर्तरि बोधशङ्कया कदाचिन्मङ्क्तव्यमित्यर्थः ॥ ४५ ॥

अज्ञानान्मत्सरान्मोहादविचारिभिरेकता ।
अवहेलितशास्त्रार्थैः कर्तव्या नात्महन्तृभिः ॥ ४६ ॥

अत एवैतच्छास्त्रावहेलनपरैः सह मैत्री न कार्येत्याह - अज्ञानादिति । एकता मैत्री
। अध्यात्मशास्त्रावहेलने आत्मज्ञानानवाप्तिरेवात्महत्येत्याशयः ॥ ४६ ॥

जानाम्येव यथैवेमा यदहं त्वं यथा धियः ।
तथा बोधितकारुण्यात्स्वभावो हि ममेदृशः ॥ ४७ ॥

त्वं तर्ह्यस्माभिरन्यैश्चाज्ञैः सह कथं मैत्रीं भजसे यतो दयया उपदेशे
प्रवृत्तोऽसि तत्राह - जानामीति । हे राम इमाः श्रोतृश्रेणयो यथा
यादृशाधिकारिविशेषणसम्पन्नाः । त्वं च यथा
यादृगधिकारिविशेषणसम्पन्नः । यथा च वो धियः
श्रवणधारणाभ्यासपट्व्यः । अहं च यत् यादृशं भवदाद्युपदेशाय
पितुराज्ञापनं प्राप्तस्तत्सर्वं जानाम्येव ।
अतस्तथाविधभवद्भाग्योदयोद्बोधितात्कारुण्याद्युष्मदुपदेशेऽहं प्रवृत्त इति
शेषः । हि यस्मान्मम स्वभाव ईदृशः सदा दीनेषूद्बुद्धकारुण्य एवन निष्ठुर
इति युष्मद्धितैषिणो दयालोर्मम वचनमाद्रियध्वमिति भावः ॥ ४७ ॥

युष्मत्संविल्लवः शुद्ध एवं वक्तुमिह स्थितः ।
अहं नरो न गन्धर्वो नामरो न च राक्षसः ॥ ४८ ॥

अथवा भवतामात्मैवाहं भवत्पुण्यवशाच्छुद्धं युष्मत्तत्त्वं
युष्मभ्यमुपदेष्टुमागतः । मम च भवन्तः परमप्रेमास्पदमात्मैवेति
युष्मन्मित्रतामिव प्राप्त इत्याह - युष्मदिति द्वाभ्याम् । संविद्रूपो लवः
शोधितः सूक्ष्मार्थो न तु नरगन्धर्वादिशरीरमित्यर्थः ॥ ४८ ॥

संविन्मात्रा भवन्तो हि तद्भावोऽस्त्यतिनिर्मलः ।
स्थितोऽस्मीति भवत्पुण्यैर्ननु नास्मि न चापरः ॥ ४९ ॥

अपरो भवदात्मव्यतिरिक्तो नास्मि । नन्विति सम्बोधने ॥ ४९ ॥

श्यामायमाना नायान्ति यावन्मरणवासराः ।
सारः संह्रियतां तावद्वैरस्यं वस्तुदृष्टिषु ॥ ५० ॥

अतः परमाप्ततमोहमिति मदुक्तः प्रथमः सारः सर्ववस्तुदृष्टिषु
वैराग्यलक्षणः संह्रियतां सङ्गृह्यताम् ॥ ५० ॥

इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
गत्वा निरौषधं स्थानं सरुजः किं करिष्यति ॥ ५१ ॥

सरुजः नरकरुजाभिः पीड्यमानः ॥ ५१ ॥

सर्वभावेषु वैरस्यं न यावत्समुपागतम् ।
भावानां भावना तावत्तानवं नोपगच्छति ॥ ५२ ॥

वैराग्यमेव परमः सार इति कुत इति चेत्तद्विना वासनातानवासिद्धेरित्याह - सर्वेति
॥ ५२ ॥

आत्मानमलमुद्धर्तुं वासनातानवादृते ।
नास्त्युपायो महाबुद्धे कश्चनापि कदाचन ॥ ५३ ॥

वासनातानवे वा किमर्थमादरस्तत्राह - आत्मानमिति ॥ ५३ ॥

भावास्तु यदि विद्यन्ते तद्धिते वस्तुभावना ।
किं त्वेते नैव सन्तीह शशशृङ्गादयो यथा ॥ ५४ ॥

ननु भावेषु सत्सु कथं तद्वासनातानवं प्रसिद्ध्येत्तत्राह - भावास्त्विति । यदि
सत्यतया विद्यन्ते तत्तर्हि तेषु भावेषु हिते स्वानुकूले वस्तुनि वस्तु ममेदमावश्यकं
सम्पाद्यमित्यादिभावना भवेत् ॥ ५४ ॥

सर्व एव जगद्भावा अविचारितचारवः ।
अविद्यमानसद्भावा विचाराद्विशरारवः ॥ ५५ ॥

प्रामाणिकविचारेषु न विद्यन्ते कृतेषु ये ।
कथं सन्ति जगद्भावास्ते के सन्ति सदैव वा ॥ ५६ ॥

नन्वेते भावा वेदान्तिनां विचारेषु न सन्ति चेदपि कापिलकाणादादिविचारेषु सन्त्येवेति
कुतोऽसत्त्वावधारणं तत्राह - प्रामाणिकेति । प्रामाणिकविचारेषु कृतेषु ये न
विद्यन्ते ते के सन्ति किंस्वरूपाः । एकैकवस्तुरूपा उत सर्ववस्तुरूपाः । सदैव वा ते
सन्त्युत कदाचिदेव वा । सर्वथापि प्राक् शतशः खण्डितमेवेत्यर्थः ॥ ५६ ॥

सर्व एव जगद्भावाः कारणाभावतो भृशम् ।
सर्गादावेव नोत्पन्ना यच्चेदं भाति तत्परम् ॥ ५७ ॥

पदे सर्वेन्द्रियातीते मनःषष्ठेन्द्रियात्मनाम् ।
भावानां कारणं नास्ति मनःषष्ठेन्द्रियात्मकम् ॥ ५८ ॥

कारणभावः ब्रह्मणि इन्द्रियवेद्याः प्रलयकाले सम्भावयितुमपि शक्या इति भावः
॥ ५८ ॥

भावानां विविधाख्यानामनाख्यं कारणं कुतः ।
कुतो वस्तुन्यवस्तुत्वन्न् व्योमन्यव्योमता कुतः ॥ ५९ ॥

सनामरूपकस्य जगतः अनामरूपकमपि कारणं न सम्भवतीति युक्त्यन्तरमप्याह

  • भावानामिति । एवं वस्त्ववस्तुनः कारणं शून्यमशून्यस्येति तदपि दुर्वचम्
    तदात्मतापत्त्ययोगादित्याह - कुत इति ॥ ५९ ॥

साकारस्य हि साकारं वटधानादिवद्भवेत् ।
बीजन्न् तद्वस्तु साकारं जायतेऽन्यत्कुतोऽन्यथा ॥ ६० ॥

एवं निराकारं साकारस्य कारणमित्यप्ययुक्तमित्याह - साकारस्येति । बीजं भवेत्
॥ ६० ॥

न किञ्चिदपि यत्रास्ति बीजमाकृतिमन्मनाक् ।
तत आकृतिमद्विश्वं भवतीति विडम्बनम् ॥ ६१ ॥

विडम्बनं विडम्बनवाक्यवदर्थशून्यमिति यावत् ॥ ६१ ॥

कार्यकारणभावादि तस्मिन्नहि परे पदे ।
वाचालत्वेन यन्नाम कल्प्यते मौर्ख्यमेव तत् ॥ ६२ ॥

वाचालत्वेन बहुभाषित्वेन ॥ ६२ ॥

सहकारिनिमित्तानामभावे हि न कारणात् ।
कार्यं भवेदन्यदेति बालैरप्यनुभूयते ॥ ६३ ॥

तन्मात्रवेदनन्न् भूयः पृथ्व्यादीनां च कारणम् ।
किमस्ति कथ्यतां छाया कथमास्ते वदातपे ॥ ६४ ॥

जगद्वेदनत्वादपि चितो न जगत्कारणत्वं घटवेदने
घटकारणत्वाभावदर्शनादित्याह - तन्मात्रेति । तत्र कुलालवेदनस्य
घटकारणत्वदर्शनाद्व्यभिचारमाशङ्क्य मात्रपदम् ।
चित्यचिदवस्थानायोगादपि चितो न कारणतेत्याशयेनाह - छायेति ॥ ६४ ॥

परमाणुसमूहा ये जगदित्यप्यवास्तवम् ।
शशशृङ्गन्न् धनुःप्रख्यमज्ञानादभिधीयते ॥ ६५ ॥

अत एव परमाणुकारणवादिनो बौद्धादयोऽप्यपास्ताः ।
अतीन्द्रियसमूहस्यैन्द्रियकत्वादर्शनादित्याशयेनाह - परमाण्विति ॥ ६५ ॥

परमाणुसमूहश्चेत्सम्भूय कुरुते जगत् ।
यदृच्छयैव तमसि शीर्यते च यदृच्छया ॥ ६६ ॥

यदि परमाणवः सम्भूय जगत्कुर्युस्तर्हि तेषां सदा नभसि
उड्डयनपतनदर्शनात्प्रतिगृह दिने दिने गिरेरिव शृङ्गं कूपादिवत्खातो वा
स्यादित्याह - परमाण्विति द्वाभ्याम् ॥ ६६ ॥

तदङ्गमिङ्गते नित्यं देशे देशे गृहे ग्।एहे ।
अपूर्वात्म रजः शृङ्गं खातं [ख्यातं इत् पाठश्चिन्त्यः ।] वा
स्याद्दिने
दिने ॥ ६७ ॥

तस्य जगतः अङ्गमवयवभूतं रजो देशे देशे गृहे गृहे च अपूर्वं नवं
नवमिङ्गते चलत्येवेति शृङ्गं खातं वा स्यादित्यर्थः ॥ ६७ ॥

न च तद्दृश्यते किञ्चित्कस्य तत्कर्म तादृशम् ।
भवेद्व्यर्थमभव्यस्य जडास्तु परमाणवः ॥ ६८ ॥

न च परमाण्वाख्यं निरवयवं किञ्चिद्द्रव्यं केनचिद्दृश्यते । जालान्तरमरीचिषु
सावयवानामेव रजसां दर्शनात् । तदवयवपरम्परावधिर्निरवयवोऽनुमीयत इति
चेन्न । तस्य संयोगानर्हत्वेनाद्रव्यत्वापत्तेः । न हि निरवयवोऽन्येन संयोगमर्हति ।
संयोगस्यैकदेशावच्छिन्नवृत्तिकत्वनियमात् । न च तदभावे द्व्यणुकादिसिद्धिरिति
व्याघातः । किञ्चातीन्द्रियाणां खपुष्पकल्पानां परमाणूनां संयोजनेन
जगद्रचनं कस्य कर्म । किमसंसारिण उत संसारिणः । तत्र
संसारिणस्तावत्परमाणुभिर्जगन्निर्माणे असामर्थ्यन्न् स्पष्टमेवेत्यभव्यस्य
भवानर्हस्येश्वरस्य जडस्य वा तद्वाच्यम् । तत्र आद्यस्य व्यर्थं निष्प्रयोजनं
जगद्रचनं भवेत् । न हि नित्यमुक्तस्येश्वरस्य प्रयोजनापेक्षा प्रयोजनं वा
सर्गस्योपपादयितुं शक्यते । न च जडाः परमाणवः स्वतः सर्गे प्रवर्तितुन्न्
शक्नुवन्तीत्यर्थः ॥ ६८ ॥

नाबुद्धिपूर्वं तत्कर्म सम्भवत्यङ्ग कस्यचित् ।
बुद्धिपूर्वं तु यद्व्यर्थं कुर्यादुन्मत्तको हि कः ॥ ६९ ॥

ननु चेतनस्य बुद्धिपूर्वके रचने प्रयोजनापेक्षा अबुद्धिपूर्वके तु न सा तत्राह -
नेति । हे अङ्ग तत् मनसाप्यचिन्त्यरचनात्मकं भूतभुवनं
चतुर्विधभूतग्रामसम्भृतं सर्गकर्म अबुद्धिपूर्वं कस्यचिन्न सम्भवति ।
बुद्धिपूर्वकं तु व्यर्थ कर्म क उन्मत्तकः कुर्यात् ॥ ६९ ॥

जडस्य बुद्धि पूर्वेहा मरुतो नास्ति तां विना ।
न सम्भवत्यणुचयो नान्यत्कर्तोपपद्यते ॥ ७० ॥

एतेन वायुरेवाणुचयं करिष्यति बुद्धिपूर्वव्यापारं विनैवाणुचयो भविष्यतीत्
प्रत्याशापि निरस्तेत्याह - जडस्येति । जडस्य मरुतो बुद्धिपूर्वा ईहा चेष्टा नास्ति ।
तां विना तु अणुचयो न सम्भवति । जडसर्वज्ञाभ्यामन्यज्जीवजातं तु प्रलये
देहाद्यभावादसमर्थमेवेति न सर्गादौ कश्चित्कर्तोपपद्यत इत्युपसंहारः ॥ ७० ॥

वयमात्मान एवेमे खात्मानः खात्मका जनाः ।
तथा स्थिता यथा स्वप्ने भवतां स्वप्नमानवाः ॥ ७१ ॥

ननु यदि कर्त्रभावादनुत्पन्नमेव जगत्तर्हि वयं किमात्मकाः कथं वा जगति
स्थितास्तत्राह - वयमिति । इमे वयं खात्मानो देहादिमूर्तताशून्याश्चिदात्मान
एव । एवं जना अपि खात्मका एव । तथापि स्वप्ने यथा भवतां स्वप्नमानवाः
स्थितास्तथा अस्मत्कल्पनयैव स्थिता इत्यर्थः ॥ ७१ ॥

तस्मान्न जायते किञ्चिद्विश्वं नापि च विद्यते ।
इत्थं चिन्नभ एवाच्छं प्रकचत्यात्मनात्मनि ॥ ७२ ॥

इत्थं सर्वोपपत्तेर्ब्रह्माद्वैतसिद्धान्तो निष्प्रत्यूह इत्याह - तस्मादिति ॥ ७२ ॥

विश्वाकाशं चिदाकाशे विष्वग्विश्रान्तिमागतम् ।
स्पन्दो द्रवत्वं शून्यत्वमनिलेऽम्भसि खे यथा ॥ ७३ ॥

अनिलादौ स्पन्दादि यथा अभिन्नमेव विष्वग्विश्रान्तिमागतं तथा चिदाकाशे
विश्वाकाशमपीत्यर्थः ॥ ७३ ॥

देशाद्देशान्तरप्राप्तौ निमेषेणातिदूरतः ।
संविदो यद्वपुर्मध्ये चिद्व्योम्नो विद्धि तद्वपुः ॥ ७४ ॥

जगच्छून्यस्य चिद्व्योम्नो यद्रूपं तत्प्राग्बहुशो दृष्टान्तेनानुभावितं स्मारयति

  • देशादिति ॥ ७४ ॥

स स्वभावो हि सर्वेषामर्थानां ते च तन्मयाः ।
तादृशास्तन्नभोरूपास्तेन विश्वमतो नभः ॥ ७५ ॥

सर्वेषां पदार्थानां संविदाकाश एव परमार्थस्वभावः । अतो हेतोर्विश्वं तेन
तद्भावेनैव नभो न शून्यभावेनेत्यर्थः ॥ ७५ ॥

स्वभावस्य परा वृत्तिर्मनागेवाशु तस्य सा ।
स्वभावादविभिन्नैव सेदं जगदिति स्थिता ॥ ७६ ॥

तस्य चिदाकाशस्य स्वभावादविभिन्नैव या विवर्तभावेन स्वभावस्य परा वृत्तिः
सैवेदं जगदिति आपातदर्शिनां स्थिता ॥ ७६ ॥

जगच्चिन्नभसोस्तस्मान्न कदाचन भिन्नता ।
एकमेव द्वयो रूपं पवनस्पन्दयोरिव ॥ ७७ ॥

देशाद्देशान्तरप्राप्तौ विदो मध्ये हि यद्वपुः ।
शान्ताशेषविशेषात्म तन्मुख्यन्न् नेतरद्विदुः ॥ ७८ ॥

तन्मुख्यं अनुभवस्य सम्पन्नं निदर्शनं नेतरदित्यर्थः ॥ ७८ ॥

स स्वभावोऽङ्ग भूतानां तत्र तिष्ठन्ति पण्डिताः ।
तस्मान्न विचलन्त्येते नित्यध्यानाद्धरादयः ॥ ७९ ॥

आभासाकाशमेवेदं भामात्रमवभासनम् ।
विश्वमाकाररहितं स्वभावं विदुरव्ययम् ॥ ८० ॥

इदं विश्वं आभासाकाशमेव । तदवभासनन्न् च भामात्रम् ॥ ८० ॥

न जायते न म्रियते न भूत्वा भावि कुत्रचित् ।
अनन्यदेव चिद्व्योम्नः शून्यत्वमिव खाज्जगत् ॥ ८१ ॥

न विश्वमस्ति नैवासीन्न च नाम भविष्यति ।
इदमाभासते शान्तं चिद्व्योम परमात्मनि ॥ ८२ ॥

चिन्मात्रमेव कचति स्वप्ने पुरतया यथा ।
तथैव जाग्रदाख्येऽस्मिन्स स्वप्ने कचति स्वयम् ॥ ८३ ॥

सर्गादावेव भावानामसत्तेत्यस्ति देहकः ।
कुतस्तस्माच्छरीरत्वं स्वप्न एव नभश्चितेः ॥ ८४ ॥

सर्गादौ पृथिव्यादिभावानामेवासत्तेति हेतोरयं पार्थिवादिदेहकः कुतः अस्ति ।
तस्मादिदं भासमानं शरीरत्वं नभोरूपस्य चितेः स्वप्न एव ॥ ८४ ॥

स्वयम्भ्वाख्यं शरीरं स्वं पूर्वः स्वप्नो महाचितेः ।
इत उत्थानास्तदनु स्वप्नात्स्वप्नान्तरं वयम् ॥ ८५ ॥

पूर्वः प्राथमिकः । इतः स्वयम्भूशरीरादुत्थानं येषां ते वयन्न् तदनु
स्वप्नात्स्वप्नान्तरमिवेत्यर्थः ॥ ८५ ॥

गण्डस्योपरि जातानां स्फोटानामत एव नः ।
परमेण प्रयत्नेन न मनो नाम यास्यति ॥ ८६ ॥

अत एव नो मनः परमेणापि प्रयत्नेन प्रवर्तमानं ब्रह्मणि झटिति न यास्यति ।
गलगण्डोत्थितस्य स्फोटस्य गलेनेव व्यवहितसम्बन्धभ्रान्तिदार्ढ्यादित्याह -
गण्डस्येति ॥ ८६ ॥

ब्रह्मैवासत्यपुरुषः सत्यवच्चानुभूयते ।
स्थितं ततःप्रभृत्येव न त्वलीकमिदं ततम् ॥ ८७ ॥

यथा गलमेव गण्डात्मना स्थित्वा तद्गतस्फोटात्मनापि स्थितमपृथग्भूतमपि
पृथक्सत्यमिवानुभूयते तथा ब्रह्मैव हिरण्यगर्भव्यष्टिजीवलक्षणाऽसत्यपुरुषो
भूत्वा तद्भावेनैव सत्यवच्चानुभूयत इत्यर्थः । यदाप्रभृति ब्रह्म जीवभूतं
ततःप्रभृत्येव अलीकमिदं जगत्ततं स्थितम् ॥ ८७ ॥

आब्रह्मस्तम्बपर्यन्तमलीकं जायते जगत् ।
यथा स्वप्ने तथालीकमेवमाशु विनश्यति ॥ ८८ ॥

अलीकमनृतम् । एवं स्वप्नवदेव आशु विनश्यति तदप्यलीकमेव ॥ ८८ ॥

चिद्व्योमैवैत्य विश्वत्वं यथा स्वप्ने विनश्यति ।
अनुदित्वैव विश्वत्वं जाग्रदाख्ये तथैव च ॥ ८९ ॥

अनुदित्वा उदयन्न् जन्म अप्राप्यैव ॥ ८९ ॥

अनुभूतमलीकं चाप्यलीकं सत्यवत्स्थितम् ।
संविदेव यथा स्वप्ने नगरादितयोदिता ॥ ९० ॥

यद्यलीकमेव तर्हि कथमनुभूतं कथं वा सत्यवत्स्थितम् ।
शशशृङ्गादावुभयादर्शनात्तत्राह - अनुभूतमिति ।
अलीकमप्यनुभूतमलीकमपि सत्यवत्स्थितम् । यतस्तदस्मन्मते संविदेव न
शून्यमित्यर्थः ॥ ९० ॥

साकारेव निराकारा स्थिता तद्वज्जगत्तया ।
संविदाकाशमाकाशादणु मेरोरणुर्यथा ॥ ९१ ॥

आकाशादप्यणु । तत्र दृष्टान्तः - मेरोः अणुः परमाणुर्यथा अणुस्तद्वत् ॥ ९१ ॥

किलयत्तस्य नाम स्यादाकाशादणुता कुतः ।
कारणाभावतोऽन्यस्य नाकार उपपद्यते ॥ ९२ ॥

तर्हि किमाकाशादप्यणुता तस्य धर्मो नेत्याह - किलेति । आकाशादणुताख्यो
धर्मः कुतः क्व वा प्रसिद्धो यत्किल तस्य ब्रह्मणो धर्मो नाम स्यात् । अणुतोक्तेस्तर्हि
कोऽभिप्रायस्तमाह - कारणेति । अन्यस्य जगतः स्थूल आकारो नोपपद्यते
तादृशकारणाभावादिति वक्तुं तस्य तथात्वोक्तिरित्यर्थः ॥ ९२ ॥

सर्गादावेव योऽजातो जातोऽयं जगतः कुतः ।
यदेव वेदनाकाशे पुरं स्वप्ने तदेव नः ॥ ९३ ॥

नन्विदानीमिष्टकादेः पुरादिजन्मदर्शनाज्जगत एव जगज्जायतां न ब्रह्मणस्तत्राह

  • सर्गादावेवेति । यः पुरादिः सर्गादावेव अजातः स जगतः कुतो जातः । किं च
    स्वप्ने विनैवेष्टकादिभ्यः पुरादयो दृश्यन्ते । जाग्रद्वेदनाकाशे यदेव पुरं
    तदेव नः सिद्धान्ते स्वप्नेऽपि पुरं तत्र च व्यभिचारः स्फुट इत्यर्थः ॥ ९३ ॥

भेदः स्वप्नाद्रिचिद्व्योम्नोर्न शून्याम्बरयोरिव ।
यदेव चिन्नभो नाम तदेव स्वप्नपत्तनम् ॥ ९४ ॥

एवं स्वप्नजाग्रदर्थयोर्भेदाभावे स्वाप्नार्थानां
चिद्व्योमभेदाभावाज्जाग्रदर्थानामपि तदभेदः सिद्ध इत्याशयेनाह - भेद इति
॥ ९४ ॥

यदेव स्पन्दनं नाम स एव पवनो यथा ।
स्पन्दास्पन्दैकरूपात्मा वायुर्व्योमोपमो यथा ॥ ९५ ॥

उक्ते अभेदे स्पन्दनपवनौ वाय्वाकाशौ च दृष्टान्तावित्याह - यदेवेति ।
व्योमोपमो व्योमाभिन्नः ॥ ९५ ॥

तस्माच्चिन्नभ एवेदं जगदाकृति लक्ष्यते ।
सर्वं शून्यं निरालम्बं भासनं चिद्बिवस्वतः ॥ ९६ ॥

शान्तमेवेदमखिलं निरस्तास्तमयोदयम् ।
सकृद्विभातममलं दृषन्मौनमनामयम् ॥ ९७ ॥

सकृद्विभातमखण्डस्फुरणरूपम् ॥ ९७ ॥

तस्माद्वद कथं भावाः कुतो भावाः क्व भावधीः ।
क्व द्वैतं क्वैकता क्वाहं क्व भावाः क्व च भावनाः ॥ ९८ ॥

एवं च चितो निष्प्रपञ्चता सिद्धेत्याह - तस्मादिति ॥ ९८ ॥

नित्योदितो व्यवहरन्नपि निर्विकारो द्वित्वैक्यमुक्तमतिरुत्तमशीतलोऽन्तः ।
निर्वाण आस्व विगतामयशुद्धबोधबोधैकतामुपगतोऽङ्ग न सन्ति भावाः ॥
९९ ॥

हे अङ्ग त्वं विगतामयशुद्धबोधरूपस्य तत्त्वस्य बोधेन तदेकतामुपगतः सन्
नित्योदितो व्यवहरन्नपि तदभिनिवेशाभावान्निर्विकारो द्वित्वैक्याभ्यां
परस्परविरुद्धाभ्यान्न् मुक्ता मतिर्यस्य तथाविधः सन् अन्तः उत्तमशीतलो भूत्वा
निर्वाणो निरतिशयानन्दनिर्वृत आस्व । यतस्ते विक्षेपहेतवो भावा न सन्तीत्यर्थः ॥ ९९

इत्यार्षे श्रीवा० वाल्मी० दे० मो० निर्वा० उ० सकलभावाभावोपदेशेन
परमार्थैकताप्रतिपादनं नाम त्र्यधिकशततमः सर्गः ॥ १०३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
परमार्थैकताप्रतिपादनं नाम त्र्यधिकशततमः सर्गः ॥ १०३ ॥