द्व्यधिकशततमः सर्गः १०२
श्रीराम उवाच ।
परिज्ञाते परे वस्तुन्यनादिनिधनात्मनि ।
सम्पद्यते वद ब्रह्मन्कीदृशः पुरुषोत्तमः ॥ १ ॥
भूयोऽपि बुद्धतत्त्वस्य वर्ण्यते लक्षणावलिः ।
तदभ्यासदृढत्वेन बोधदार्ढ्यं भवेदिति ॥
कीदृशः किंलक्षणविशिष्टः सम्पद्यते ॥ १ ॥
श्रीवसिष्ठ उवाच ।
शृणु सम्पद्यते कीदृग्ज्ञातज्ञेयो नरोत्तमः ।
यावज्जीवं कथं चैष किमाचारोऽवतिष्ठते ॥ २ ॥
कथंस्वभावः किमाचारश्चावतिष्ठते तच्छृणु ॥ २ ॥
उपला अपि मित्राणि बन्धवो वनपादपाः ।
वनमध्ये स्थितस्यापि स्वजना मृगपोतकाः ॥ ३ ॥
तत्र स्वभावभूतान्यान्तराणि लक्षणानि प्रथमं वक्तुमुपक्रमते - उपला
अपीत्यादिना । मित्रादिषूपलादिषु च संयोगवियोगादिषु तुल्यान्तःस्थितिरित्यर्थः ॥ ३ ॥
आकीर्णं शून्यमेवास्य विपदश्चातिसम्पदः ।
स्थितस्यापि महाराज्ये व्यसनान्येव सूत्सवाः ॥ ४ ॥
आकीर्णं जनसङ्कुलं स्थानम् । विपदो धनबन्ध्वादिनाशाः । व्यसनानि
वधबन्धनपारवश्यादिदुःखानि । सूत्सवा महोत्सवसमाः ॥ ४ ॥
असमाधिः समाधानं दुःखमेव महत्सुखम् ।
व्यवहारोऽपि सन्मौनं कर्माण्येवात्यकर्मता ॥ ५ ॥
व्यवहारो वाचिकः । कर्माणि कायिकानि ॥ ५ ॥
जाग्रदेव सुषुप्तस्थो जीवन्नेव मृतोपमः ।
करोति सर्वमाचारं न करोति च किञ्चन ॥ ६ ॥
सुषुप्तसदृशे निर्विकल्पात्मनि तिष्ठतीति सुषुप्तस्थः ।
अशरीरात्मभावस्थितेर्मृतोपमः । अकर्त्रात्मप्रतिष्ठत्वान्न करोति ॥ ६ ॥
रसिकोऽत्यन्तविरसो निर्घृणो बन्धुवत्सलः ।
निर्दयोऽत्यन्तकरुणो वितृष्णस्तृष्णयान्वितः ॥ ७ ॥
विषयसुखेष्वप्यात्मसुखमात्रतादृशा रसिकः । विषयदृशा त्वत्यन्तविरसः ।
स्वीयताबुद्ध्यभावान्निर्वृणः । स्वात्मताबुद्ध्या तु निरुपाधिप्रेम्णा बन्धुषु
वत्सलः । दयाविषयद्वितीयादर्शनान्निर्दयः । स्वदेहौपम्येन परशरीरेऽपि
सुखदुःखदर्शनादत्यन्तकरुणः । एवं पूर्णत्वात्स्वयं वितृष्णः ।
अज्ञजनोद्धारस्वभावात्तद्धिततृष्णयान्वितः ॥ ७ ॥
सर्वाभिनन्दिताचारः सर्वाचारबहिष्कृतः ।
अवीतशोकभयायासः सशोक इव लक्ष्यते ॥ ८ ॥
किमाचारोऽवतिष्ठते इति पृष्टानि बाह्यलक्षणान्याह - सर्वेति ।
अज्ञजनदुःखदर्शनात्ताननुशोचन् सशोक इव लक्ष्यते ॥ ८ ॥
तस्मान्नोद्विजते लोको लोकान्नोद्विजतेतु सः ।
परमुद्वेगमापन्नः संसृतौ रसिकोऽपि सन् ॥ ९ ॥
नोद्विजते न बिभेति । उद्वेगं भयम् ॥ ९ ॥
नाभिनन्दति सम्प्राप्तं नाप्राप्तमभिवाञ्छति ।
आस्तेऽनुभूयमानेऽर्थे न च हर्षविषादयोः ॥ १० ॥
अनुभूयमानेऽपि हर्षविषादहेतावर्थे तयोर्नास्ते ॥ १० ॥
दुःखिते दुःखितकथः सुखिते सुखसङ्कथः ।
आस्ते सर्वास्ववस्थासु हृदयेनापराजितः ॥ ११ ॥
दुखदुःखाभ्यामपराजितः आनभिभूतः । सहिष्णुरिति यावत् ॥ ११ ॥
कर्मणः सुकृतादन्यदस्मै किञ्चिन्न रोचते ।
स्वभाव एव महतां ननु यन्न विचेष्टितम् ॥ १२ ॥
नन्विति सम्बोधने । न विचेष्टितमशास्त्रीयचेष्टावर्जनं यत् तन्महतां स्वभाव एव ।
यत्नविचेष्टितम् इति पाठे शास्त्रीययत्नमात्रप्रयुक्तं विचेष्टितम् ॥ १२ ॥
नालम्बते रसिकतां न च नीरसतां क्वचित् ।
अनार्थेषु विचरत्यर्थी वीतरागः सरागवत् ॥ १३ ॥
रसिकतामासक्तिम् । नीरसतां निष्प्रणयताम् । अर्थेषु धनेषु अर्थी उपयाचको भूत्वा न
विचरति ॥ १३ ॥
यथा शास्त्रव्यवहृतेः सुखदुःखैः क्रमागतैः ।
अनागतोऽपि चायाति न हर्षं न विषादिताम् ॥ १४ ॥
सुखदुःखैरनागतोऽसंस्पृष्टोऽप्यायाति स्पृशतीव । ततो हर्षं विषादितां वा
नायात्येव ॥ १४ ॥
सम्प्रहृष्टाश्च लक्ष्यन्ते लक्ष्यन्ते दुःखितास्तथा ।
न स्वभावं त्यजन्त्यन्तः संसारारभटीनटाः ॥ १५ ॥
सुखदुःखाभ्यान्न् स्पृश्यत इवेति यदुक्तं तल्लिङ्गोपदर्शनेन विवृणोति -
सम्प्रहृष्टाश्चेति । न हर्ष न विषादिताम् इत्युक्तिमपि हेतूपदर्शनेन विवृणोति ##-
सम्प्रहर्षादिलिङ्गविडम्बनं तेषां नटविडम्बनतुल्यन्न् फलितमित्याशयेन
विशिनष्टि - संसारारभटीनटा इति ॥ १५ ॥
आत्मीयेष्वर्थजातेषु मिथ्यात्मसु सुतादिषु ।
बुद्बुदेष्विव तोयानां न स्नेहस्तत्त्वदर्शिनाम् ॥ १६ ॥
अस्नेह एव सुघनस्नेहार्द्रहृदयो यथा ।
वत्सलां दर्शयन्वृत्तिं ज्ञस्तिष्ठति यथाक्रमम् ॥ १७ ॥
वायूनिव प्रवाहस्थाः स्पृशन्ति विषयान्मुधा ।
देहसत्ताविषान्मूढा लीयन्ते विषयोदरे ॥ १८ ॥
अज्ञास्तु न सुज्ञवदनासक्त्या विषयान्भोक्तुं जानन्तीत्याह - वायूनिवेति । ते हि
देहात्मनैव या स्वसत्ता तल्लक्षणाद्विषान्मूढाः सन्तापमूर्च्छिता इव
कामादिसन्तापशान्तये अत्यासक्त्या विषयोदरे लीयन्ते । तथा लीना अपि
प्रतप्तवैतरणीनदीप्रवाहस्था नारकिपुरुषा उपरिभागेन वायूनिव विषयान् किञ्चिदेव
मुधा स्पृशन्ति न तत्त्वतः कार्त्स्न्येन विषयमनुभूय विश्रमितुं
शक्नुवन्तीत्यर्थः ॥ १८ ॥
बहिः सर्वसमाचारमन्तः सर्वार्थशीतलम् ।
नित्यमन्तरनाविष्ट आविष्ट इव तिष्ठति ॥ १९ ॥
सर्वैः शिष्टैः सम आचारो यस्यां स्थितौ सर्वे अर्थाश्च शीतला यस्यामिति द्वे अपि
स्थितिक्रियाविशेषणे । तिष्ठति तत्त्वविदिति शेषः ॥ १९ ॥
श्रीराम उवाच ।
स्वरूपमीदृशं तस्य को वेत्ति मुनिनायक ।
वद सत्यमसत्यं वा भवत्यज्ञो ह्यपीदृशः ॥ २० ॥
उक्तैर्लक्षणैस्तत्त्वज्ञपरिचयो दुर्घटः मूर्खदाम्भिकवञ्चकतापसेष्वपि
जठात्सम्पादितानामेषां लक्षणानां दर्शनादिति रामः शङ्कते -
स्वरूपमिति । ईदृशमुक्तलक्षणपरिचेयं स्वरूपं सत्यमथवा असत्यन्न्
दम्भादिपरिकल्पितं वेति को वेदितुं शक्नोति । हि यतः अज्ञोऽपि दाम्भिक
ईदृशस्त्वदुक्तलक्षणवान्भवति लोके इत्यन्वयः ॥ २० ॥
अश्ववद्ब्रह्मचर्येण चरन्तोऽचारुचेतसः ।
मिथ्यातपस्विदार्ढ्याय भवन्त्येवंविधा मुने ॥ २१ ॥
अचारुचेतसो विद्वत्सादृश्यविडम्बनेने तादृशमानपूजादिसापेक्षचित्ताः ।
तपस्विशब्देन तथा ख्यातिर्लक्ष्यते ।
मिथ्यापरिकल्पितस्वतपस्विताप्रख्यातिदार्ढ्यायेत्यर्थः ॥ २१ ॥
श्रीवसिष्ठ उवाच ।
असत्यं वास्तु सत्यं वा स्वरूपं वरमीदृशम् ।
विद्धि वेदविदां त्वेष स्वभावानुभवस्थितः ॥ २२ ॥
दम्भार्थमपि दृढीकृतान्येतानि लक्षणानि शुभोदर्काण्येवेति न
तल्लक्षणवतामुपेक्षा कार्या । यतस्तादृशानामनुसरणे
स्वभावसिद्धलक्षणसम्पन्नस्तत्त्वविदपि दैवाल्लभ्यत इत्याशयेन श्रीवसिष्ठ
उत्तरमाह - असत्यं वेति । ईदृशमुक्तलक्षणसम्पन्नं स्वरूपं वरं
दुर्लभत्वाच्छ्रेष्ठम् । वेदविदां वेदार्थतत्त्वविदां तु एष लक्षणकलापः
स्वभावानुभवबलादेव स्थितः प्रतिष्ठितो न हठात्सम्पादित इत्यर्थः ॥ २२ ॥
अनाविष्टा विचेष्टन्ते वीतरागाः सरागवत् ।
गतहासा हसन्त्यज्ञान्सहसा करुणाकुलाः ॥ २३ ॥
अनाविष्टाः क्रियाफलेष्वनभिनिविष्टाः ॥ २३ ॥
चित्तादर्शगतं दृश्यं सर्वं कपटकुट्टिमम् ।
पश्यन्त्यसत्परिज्ञातं स्वप्ने हेमेव हस्तगम् ॥ २४ ॥
सर्वं दृश्यं चित्तादर्शगतं कपटकुट्टिमकल्पमसत्पश्यन्ति ॥ २४ ॥
अन्तःशीतलतामेषां तां न जानन्ति केचन ।
दूराच्चन्दनदारूणामामोदमिव जन्तवः ॥ २५ ॥
ये तु विज्ञातविज्ञेयास्तादृशाः पावनाशयाः ।
जानन्ति तांस्तथैवान्तरहेः पादानिवाहयः ॥ २६ ॥
यद्यपि तत्त्ववित्स्वरूपमज्ञा ज्ञातुं न शक्नुवन्ति तथापि तत्त्वविदो जानन्त्येवेत्याह
- ये त्विति । पादान् पदानि ॥ २६ ॥
भावं निगूहयन्त्येते तमुत्तममनुत्तमाः ।
ग्राम्यैर्धनैः किलानर्घ्यः कश्चिन्तामणिरापणे ॥ २७ ॥
दाम्भिकास्तु लक्षणानि प्रख्यापयन्ति । तत्त्वज्ञास्तु निगूहयन्तीत्यनेन विशेषेण वा ते
परिचेया इत्याशयेनाह - भावमिति । किमर्थं निगूहयन्ति तत्राह - ग्राम्यैरिति ।
ग्राम्यैर्ग्रामनगरादिषु भवैर्धनैरनर्घ्यः क्रेतुमशक्यश्चिन्तामणिः आपणे
कः प्रसार्यते । न कश्चिदित्यर्थः ॥ २७ ॥
तस्मिन्निगूहने भावो यतस्तेषां न दर्शने ।
निर्वासना गतद्वैता गतमानाः किलाङ्ग ते ॥ २८ ॥
आपणप्रसारणलिङ्गेन नायं चिन्तामणिरितिबद्बलात्स्वगुणप्रख्यापनलिङ्गेन
दाम्भिकोऽयं न तत्त्वविदिति ज्ञेयमित्याशयेनाह - तस्मिन्निति । तेषां तत्त्वविदां
तस्मिन्स्वगुणादौ विषये निगूहने एव भावस्तात्पर्यं न तु दर्शनपरेभ्यः
प्रख्यापने । यतस्ते निर्वासनाः ख्यातिमानादिरागवासनाशून्याः । अङ्गेत्यामन्त्रणे
॥ २८ ॥
एकान्तामानदौर्गत्यजनावज्ञप्तयस्तु तान् ।
सुखयन्ति यथा राम न तथैव महर्द्धयः ॥ २९ ॥
किमर्थं ते ख्यात्यादि नेच्छन्ति तत्राह - एकान्तेति । ख्यातिमानधनादिसमृद्धौ
जनसमाजाभिमानाद्यनर्थसहस्रैर्विक्षेपे आत्मसुखानुभवविच्छेदापत्तेरिति भावः
। अमानं पूजावर्जनम् । दौर्गत्यमकिञ्चनता । जनैरवज्ञप्तयोऽवज्ञाः ॥ २९ ॥
स्वसंवेदनसंवेद्यसारा विदितवेद्यता ।
नैषा दर्शयितुं शक्या दृश्यते न च तद्विदा ॥ ३० ॥
या विदितवेद्यता सा स्वसंवेदनेन स्वानुभवेनैव संवेद्यः सारो निरतिशयानन्दो
यस्यां सा । एषा अन्यं प्रति दर्शयितुं न शक्या । यतस्तद्विदापि सा न दृश्यते न
दृग्विषयीक्रियते किन्तु स्वप्रकाशतयैव स्वयन्न् प्रथत इत्यर्थः ॥ ३० ॥
गुणं ममेमं जानातु जनः पूजां करोतु मे ।
इत्यहङ्कारिणामीहा न तु तन्मुक्तचेतसाम् ॥ ३१ ॥
क्रियाफलानि चिद्व्योमगमनादीनि राघव ।
अज्ञानामपि सिध्यन्ति मन्त्रौषधिवशादिह ॥ ३२ ॥
व्योमगमनादीनि मन्त्रजपादिक्रियाफलानि अज्ञानामपि सिध्यन्ति । चिदिति निपातो
बाहुल्यद्योतनार्थः ॥ ३२ ॥
यो यादृक् क्लेशमाधातुं समर्थस्तादृगेव सः ।
अवश्यं फलमाप्नोति प्रबुद्धोऽस्त्वज्ञ एव वा ॥ ३३ ॥
आमोदश्चन्दनस्येव स्पन्दनस्य फलं हृदि ।
सर्वस्यैवास्ति तन्नूनं तद्वता समवाप्यते ॥ ३४ ॥
स्पन्दनस्य विहितनिषिद्धकर्मणां फलं स्वहृद्येव सर्वस्यापि जन्तोरपूर्वात्मना
अस्ति । तच्च कालेनाविर्भूतं समवाप्यते ॥ ३४ ॥
अहन्तावासनाद्वैतं वस्तुता दृश्यवस्तुषु ।
यस्यास्त्यसौ साधयति खगमादिक्रियाफलम् ॥ ३५ ॥
सिद्धिलक्षणदृश्यवस्तुषु अहं भोक्ता स्यामित्यहन्तावासनालक्षणं द्वैतं
परिच्छिन्नात्मकल्पनं यस्यास्ति स खेचरसिद्ध्यादिक्रियाफलं साधयतीत्यर्थः ॥ ३५ ॥
इदं न किञ्चिद्भ्रान्तिर्वा खं चेति ज्ञस्तु वेत्ति यः ।
सोऽवासनः कर्मवात्याः कथं साधयति क्रियाः ॥ ३६ ॥
इदं सिद्धिजातं न किञ्चित्तुच्छं भ्रान्तिर्मनोभ्रममात्रं
खमधिष्ठानचिदाकाशमात्रं वेति यस्तु ज्ञो वेत्ति अवासनः स तत्त्वज्ञः
कर्मवात्या भ्रमणप्रायखेचरादिसिद्धिफला मन्त्रौषधादिक्रियाः कथं साधयति
॥ ३६ ॥
नैव तस्य कृतेनार्थो नाऽकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ३७ ॥
न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।
यदुदारमनोवृत्तेर्लोभाय विदितात्मनः ॥ ३८ ॥
जगदेव तृणं यस्यन किञ्चिद्रज एव वा ।
किं नाम तस्य भवतु अन्यदादेयतां गतम् ॥ ३९ ॥
कार्त्स्न्यपर एवकारः । कृत्स्नं जगद्यस्य तृणन्न् रजो न किञ्चिदेव वा तस्य
धीरस्यान्यदनात्मभूतन्न् किमादेयतां गतमुपादेयमस्तु । न किञ्चिदित्यर्थः ॥ ३९ ॥
निर्वाहितजगद्यात्रः परिपूर्णमना मुनिः ।
यथास्थितमसावास्ते सम्प्रयाति यथागतम् ॥ ४० ॥
निर्वाहिता जगद्यात्रा लोकसङ्ग्रहार्थप्रवृत्तिर्यस्य । यथा आगतं यथाप्राप्तं
शिष्टाचारं सम्प्रयाति अनुसरति ॥ ४० ॥
नित्यान्तःशीतलो मौनी सत्त्वीभूतमनोवनिः ।
परिपूर्णार्णवाकारो गम्भीरप्रकटाशयः ॥ ४१ ॥
रसायनपरापूर्णह्रदवत् ह्लादमात्मनि ।
धत्ते करोति वान्यस्य सकलेन्दुरिवामलः ॥ ४२ ॥
स्वयं ह्लादं धत्ते अन्यस्य च करोति ॥ ४२ ॥
मन्दारमञ्जरीकुञ्जपिञ्जरा देवभूमयः ।
न तथा ह्लादयन्त्येता यथा पण्डितबुद्धयः ॥ ४३ ॥
ह्लादकारित्वं तस्य विशदयति - मन्दारेति । देवभूमयो नन्दनादयः ।
पण्डितबुद्धयो बोधनैरित्यर्थः ॥ ४३ ॥
चन्द्रबिम्बैर्वसन्तैश्च महतामह्ताशयैः ।
सारं सौभाग्यसौगन्ध्यसौरभालोकभोगिषु ॥ ४४ ॥
सारग्राही हि विवेकी सुरभिर्ग्रीष्मर्तुस्तत्सम्बन्ध्यालोकभोगिषु चन्द्रबिम्बैः
सारमादत्ते सौगन्ध्यभोगिषु वसन्तैः सारमादत्ते सौभाग्यभोगिषु महतां
तत्त्वविदां अहतैः रागाद्यनुपहतैः आशयैः सारमादत्त इति द्वन्द्वनिर्दिष्टानां
व्युत्क्रमेण सम्बन्धः । तैरेव हि तत्सारो लभ्यो नान्यत्रान्यैरुपायैरित्यर्थः ॥ ४४ ॥
भ्रान्तिमात्रमिदं विश्वमिन्द्रजालमसन्मयम् ।
त्यजतीति विनिश्चित्य दिनानुदिनमेषणाः ॥ ४५ ॥
महतामाशयैः कं सारमादत्त इति चेत्प्रथमं
जगन्मिथ्यात्वदर्शनात्क्रमात्सर्वैषणात्यागमित्याह - भ्रान्तिमात्रमिति ॥ ४५ ॥
शीतातपादिदुःखानि निजदेहगतान्यपि ।
अन्यदेहगतानीव ज्ञः पश्यत्यवहेलया ॥ ४६ ॥
ततः शीतोष्णादिद्वन्द्वसहिष्णुतालक्षणं सारमादत्ते इत्याह - शीतेति ॥ ४६ ॥
करुणोदारया वृत्त्या वृत्त्या व्रततिधीरया ।
नीरसो नीरसारां तु सारतां सरति स्थितिम् ॥ ४७ ॥
तदनन्तरं सर्वभूतानुकम्पास्वरूपदृढावलम्बनं यथाप्राप्तेन
जलमात्रेणापि सन्तोष इत्यादिगुणसारमादत्ते इत्याह - करुणेति । इत्थं नीरसो
विरक्तः सः करुणया उदारा वृत्तिः सर्वस्वव्ययेनाप्यार्तपरिपालनव्रतं तया ।
व्रततिर्लता तद्वद्धीरया वृत्त्या परार्थैकप्रयोजनच्छायाफलपुष्पादिसङ्ग्रहः
स्वतरुदृढावलम्बो जलमात्रेणापि यथाप्राप्तेन सन्तोष इत्येवंरूपया वृत्त्या
नीरमात्रमपि सारः सन्तोषहेतुर्यस्यां स्थितौ तादृशस्थितिरूपां सारतां सरति ॥
४७ ॥
व्यवहारं यथाप्राप्तं लोकसामान्यमाचरन् ।
चराचराणां भूतानामुपर्येवावतिष्ठते ॥ ४८ ॥
उपरि उत्कर्षे ऊर्ध्वमूलभूते ब्रह्मणि वा ॥ ४८ ॥
प्रज्ञाप्रासादमारूढस्त्वशोच्यः शोचते जनान् ।
भूमिष्ठानिव शैलस्थः सर्वान्प्रज्ञोऽनुपश्यति ॥ ४९ ॥
उपरिस्थितिमेव दर्शयति - प्रज्ञेति ॥ ४९ ॥
चिरं कल्लोलवलितः सुमना जलधौ भ्रमे ।
परं पारमुपागत्य परां विश्रान्तिमेति सः ॥ ५० ॥
तदैवासौ चिरप्रवृत्तरागादिविक्षेपदुःखेभ्यो मुक्तः सम्यग्विश्राम्यतीत्याह -
चिरमिति । कल्लोलैः षडूर्मिभिर्वलितो विक्षिप्तः ॥ ५० ॥
हसन्स शान्तया वृत्त्या प्राक्तनीर्जागतीर्गतीः ।
स्मयमान इवास्तेऽन्तर्जनताश्च घनभ्रमाः ॥ ५१ ॥
एताः कान्तारनिर्मग्नमिताः संसारदृष्टयः ।
असत्यो हृतवत्यो मामित्यन्तर्याति विस्मयम् ॥ ५२ ॥
कान्तारे मार्गभ्रंशेन निर्मग्नो योऽन्धस्तेन मिता उपमिताः । हृतवत्यो
मोहितवत्यः ॥ ५२ ॥
दृष्ट्याष्टगुणमैश्वर्यमनिष्टं मे तृणायते ।
इत्युपैत्युपशान्तत्वात्स्मयमानोऽपि न स्मयम् ॥ ५३ ॥
इति एवं ज्ञात्वा स्मयमान ईषद्धसन्नपि स्मयं गर्व नोपैति ॥ ५३ ॥
कश्चिद्गिरिगुहागेहः कश्चित्पुण्याश्रमाश्रयः ।
कश्चिद्गृहस्थाश्रमवान्कश्चिद्बहुरटन्स्थितः ॥ ५४ ॥
तस्य स्थानादिनियमोऽपि नास्तीत्याह - कश्चिदिति । अटन् रटन् इति वा छेदः ॥ ५४ ॥
कश्चिद्भिक्षाचराचारः कश्चिदेकान्ततापसः ।
कश्चिन्मौनव्रतधरः कश्चिद्व्यानपरायणः ॥ ५५ ॥
कश्चिद्विपश्चिद्विख्यातः कश्चिच्छ्रोता श्रुतेः स्मृतेः ।
कश्चिद्राजा द्विजः कश्चित्कश्चिदज्ञ इव स्थितः ॥ ५६ ॥
गुटिकाञ्जनखट्गादिसिद्धः कश्चिन्नभोगतः ।
कश्चिच्छिल्पकलाजीवी कश्चित्पामररूपभृत् ॥ ५७ ॥
कश्चित्यक्तसमाचारः कश्चिच्छ्रोत्रियनायकः ।
कश्चिदुन्मत्तचरितः प्रव्रज्यां कश्चिदाश्रितः ॥ ५८ ॥
पुरुषो न शरीरादि न च चित्तादि किञ्चन ।
पुरुषश्चेतनं नाम न स नश्यति कर्हिचित् ॥ ५९ ॥
रामप्रश्नवाक्ये कीदृशः पुरुषोत्तम इति पदं श्रुत्वा तदर्थजिज्ञासामपि
सम्भावयन्पुरुषं वर्णयंस्तदुत्तमतां दर्शयति - पुरुष इति । न स
नश्यतीत्यविनाशित्वात्स एवोत्तम इत्यर्थः ॥ ५९ ॥
अच्छेद्योऽसावदाह्योऽसावक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽसौ सनातनः ॥ ६० ॥
छेदभेदादिविनाशहेत्वसंस्पर्शादिभिरपि स एवोत्तम इत्याह - अच्छेद्य इति ॥ ६० ॥
इति सम्यक्प्रबुद्धो यः स यथा यत्र तिष्ठति ।
तथा तिष्ठतु तत्रात्र स्थानास्थानियमेन किम् ॥ ६१ ॥
एतादृशपुरुषोत्तमतत्त्वपरिज्ञानादेव तत्त्ववित्पुरुषोत्तमो न तु
वर्णाश्रममर्यादापालनमात्रेण । तदभावेऽपि तस्य
पुरुषोत्तमत्वानपायादित्याशयेनाह - इतीति । स्थानं
वर्णाश्रममर्यादास्थितिस्तदास्थानियमेन तस्य किं साध्यमिति
विद्याप्रभावोक्तिररुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छमितिवत् ॥ ६१ ॥
पातालमाविशतु यातु नभो विलङ्घ्य दिङ्मण्डलं भ्रमतु पेषणमेव येन ।
चिन्मात्रमेतदजरं न तु यातु नाशमाकाशकोश इव शान्तमजं शिवं तत् ॥
६२ ॥
तस्याविनाशिपुरुषत्वमेव द्रढयन्नुपसंहरति - पातालमिति ।
तत्त्वविद्बलात्स्वनाशचिकीर्षया पातालमाविशतु नभो विलङ्घ्योर्ध्व वा यातु
दिङ्मण्डलं वा भ्रमतु येन भ्रमणेन
मानसोत्तरलोकालोकादिगिरिशिलासहस्रघर्षणात्पेषणं सञ्चूर्णनमेव सम्भाव्यते ।
पेषणमेव यातु इति पाठे गिरिशिलासहस्रैः स्वस्य पेषणं कारयतु वेत्यर्थः ।
तथाप्येतत्तत्त्ववित्स्वरूपमसङ्गाद्वयन्न् चिन्मात्रमजरमेवेति नाशं न तु याति ।
यतस्तदाकाशकोश इव शिवं निरुपल्लवनित्यनिरतिशयानन्दरूपमेवेत्यर्थः ॥ ६२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ०
मरणाद्यभावोपदेशो नाम द्व्युत्तरशततमः सर्गः ॥ १०२ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
मरणाद्यभावोपदेशो नाम द्व्युत्तरशततमः सर्गः ॥ १०२ ॥