एकाधिकशततमः सर्गः १०१
श्रीवसिष्ठ उवाच ।
चिन्मात्रमेव पुरुषस्तदेवेत्थमवस्थितम् ।
चिन्मात्रव्यतिरेकेण किमन्यदुपपद्यते ॥ १ ॥
संविदैकात्म्यममलं सदा सर्वत्र पश्यतः ।
अप्राप्तेर्भयहेतूनामभयस्थितिरीर्यते ॥
सर्ववादिनामपि चिन्मात्रमेव तत्त्वमित्यवगमे यथा अभयप्रतिष्ठाप्राप्तिस्तथा
वर्णयितुं पीठिकां रचयति - चिन्मात्रमेवेत्यादिना । इत्थमनेन
नानावादिपरिकल्पितस्थायिक्षणिकादिरूपेण जन्ममरणभयशोकादिरूपेण च ॥ १ ॥
तच्चावदातमाकाशं तन्मये द्रष्ट्ट दृश्यते ।
तावन्मात्रं जगदतो हेयोपादेयधीः कुतः ॥ २ ॥
तदेवोपपादयंस्तत्फलमाह - तच्चेति । तच्चिन्मात्रं चावदातं
निर्मलमाकाशमेव । तन्मये तद्विवर्तभूते ॥ २ ॥
न विद्यते परो लोको बार्हस्पत्यस्य यस्य तु ।
विदोऽन्यत्तस्य किं सारं रागद्वेषावतः कुतः ॥ ३ ॥
हेयोपादेयाभावेन रागद्वेषप्रसक्तिरिति विज्ञानैकस्कन्धवादिनो बौद्धस्यापि
सम्मतं किन्तु क्षणिकविज्ञानमसारमित्येव तन्मतमुपेक्षितव्यमित्याह - न
विद्यत इति । बार्हस्पत्यस्य बृहस्पतिप्रणीतबुद्धशास्त्रानुसारिणो यस्य वादिनः
क्षणिकविज्ञानात्परोऽन्यो लोक्यत इति लोको जगन्न विद्यते तस्य । अतो निर्विषयत्वादेव
रागद्वेषौ कुतः न प्रसज्जेते एवकिन्तु विदः अन्यत् किं सारं नित्यं पुरुषार्थरूपं
यत्सम्भावनया विदः शाश्वतत्वं स नेच्छतीत्यर्थः । रजिपुत्राणामसुराणां च
विमोहनाय बृहस्पतिनापि बुद्धशास्त्रं प्रणीतमिति मत्स्यपुराणादौ प्रसिद्धम् ॥ ३
॥
इष्टानिष्टदृशो रागद्वेषदोषाः किमात्मकाः ।
संविद्योममये स्वप्ने जगदाख्येऽङ्ग कथ्यताम् ॥ ४ ॥
कूटस्थसंविद एव विवर्तरूपः स्वप्नो जगदित्यस्मत्सिद्धान्ते तु सुतरां न
रागद्वेषप्रसक्तिरित्याह - इष्टानिष्टेति ॥ ४ ॥
इदं हेयमुपादेयं वेति संवित्खमात्मनि ।
निर्मले निर्मलं भाति केवात्र तदतद्दृशौ ॥ ५ ॥
अस्तु वा हेयोपादेयविकल्पाध्यासस्तथापि संविदाकाशे न कश्चिद्विशेष इत्याशयेनाह
- इदमिति । तदतद्दृशौ इष्टानिष्टादिदृष्टी ॥ ५ ॥
संविन्नरोऽमरो नागः संवित्स्थावरजङ्गमम् ।
भावाभावादयोऽस्याब्धेस्तरङ्गावर्तवृत्तयः ॥ ६ ॥
सर्वस्याविनाशिसंविन्मात्रत्वे जन्ममरणादयोऽपि न सम्भावयितुं शक्या इत्याह ##-
संविदाकाशमेवाहं भवानपि जना अपि ।
म्रियामहे नो कदाचित्संवित्किल कदा मृता ॥ ७ ॥
संविदो नास्ति संवेद्यं स्वयं संवेद्यतामिता ।
चित्त्वादतो बिशालाक्ष द्वितैकत्वे क्व वा स्थिते ॥ ८ ॥
सर्वस्य संवित्त्वे संवेद्यमन्यन्न परिशिष्यते । स्वस्याः स्वसंवेद्यताकल्पना तु
स्वस्य स्वस्कन्धारोहणकल्पनाकल्पेत्याह - संविद इति । स्वयमेव चेत्संवेद्यतां
इता प्राप्ता अतश्चित्त्वादन्यत्संवेद्यतालक्षणक्रियाकर्मभेदरूपं द्वित्वं
तद्व्यावृत्तमेकत्वं वा क्व स्थिते ॥ ८ ॥
संविन्मात्रादृते तस्माद्भूतं किमिव कथ्यताम् ।
कथ्यतां म्रियते तच्चेत्तदद्येमे कुतो वयम् ॥ ९ ॥
भूतं नित्यं सद्वस्तु । कुतो वयन्न् जीवाम इति शेषः ॥ ९ ॥
वादिनः सौगताद्या ये ये लोकायतिकादयः ।
संविदाकाशमुत्सृज्य यन्मन्यन्ते [यन्मयन्ते यन्मयत्वे इति पाठौ ।]
तदुच्यताम् ॥ १० ॥
एवं सति संविदाकाश एव सर्ववादिनां स्वस्वाभिमतार्थाकारेण प्रथत इति फलितम् ।
तां विना गत्यन्तराभावादित्याशयेनाह - वादिन इति ॥ १० ॥
संविदाकाशमेवैतत्केनचिद्ब्रह्म कथ्यते ।
केनचित्प्रोच्यते ज्ञानं केनचिच्छून्यमुच्यते ॥ ११ ॥
उक्तमर्थं ब्रह्मवादिनं पुरस्कृत्य प्रपञ्चयति - संविदाकाशमिति
द्वाभ्याम् । ज्ञानं विज्ञानम् ॥ ११ ॥
केनचिन्मदशक्त्याभं केनचित्पुरुषाभिधम् ।
केनचिच्च चिदाकाशं शिव आत्मा च केनचित् ॥ १२ ॥
केनचिद्देहात्मवादिना । मदिरामदशक्त्याभं देहाकारपरिणतभूतधर्मभूतम् ।
पुरुषाभिधं साङ्ख्येन । चिदाकाशं योगिना । शिव ईश्वर आत्मा अणुर्जीवश्चेति
शैवेन ॥ १२ ॥
चिन्मात्रमेवमप्युक्तं याति न क्वचिदन्यताम् ।
यस्मात्स्वयन्न् तदेवैवमात्मानं वेत्ति नेतरत् ॥ १३ ॥
एवं वादिभिर्बहुधा विकल्पनेऽपि चितो न काचित्क्षतिः । स्वस्याः सर्वविकल्पसाक्षिणीत्वेन
निर्विकल्पत्वादित्याह - चिन्मात्रमिति ॥ १३ ॥
चूर्णतां यान्तु मेऽङ्गानि सन्तु मेरूपमानि च ।
का क्षतिः का च वा वृद्धिश्चिद्रूपवपुषो मम ॥ १४ ॥
चिद्रूपमेव वपुः स्वरूपं यस्य तथाविधस्य मम ॥ १४ ॥
मृताः पितामहाद्याश्चिन्न मृता सा म्रियेत चेत् ।
तज्जन्म नैव नाम स्यादस्माकं मृतसंविदाम् ॥ १५ ॥
अस्माकं पितामहाद्या देहा मृतास्तेषां चित्तु न मृता । सापि म्रियेत
चेन्मृतसंविदां तेषां पुनर्जन्मैव न स्यादित्यर्थः । अस्माकमिति अस्मास्वपि
तन्न्यायसाम्यप्रदर्शनपरतया वा योज्यम् ॥ १५ ॥
न जायते न म्रियते संविदाकाशमक्षयम् ।
भवेत्कथं कथय किं किलाकाशस्य सङ्क्षयः ॥ १६ ॥
आकाशस्य सङ्क्षयः किं भवेत्कथं वा भवेत्कथय ॥ १६ ॥
जगद्रूपैककचनमविनाशि चिदम्बरम् ।
उदयास्तमयोन्मुक्तं स्थितमात्मनि केवलम् ॥ १७ ॥
एवं सङ्क्षयासम्भवे जगद्रूपस्य कचनं प्रथारूपं तच्चिदेवाम्बरमविनाशि
स्थितम् ॥ १७ ॥
जगद्भानन्न् दधद्दाहन्न् चिन्नभःस्फटिकाचलः ।
अनादिमध्यपर्यन्तः स्वच्छ आत्मनि तिष्ठति ॥ १८ ॥
चिन्नभोलक्षणः स्फटिकाचलः स्वान्तः स्वयमेव जगद्भानं दधत् स्वतः
स्वसाक्षात्कारवह्निना तद्दाहं विधाय स्वच्छ आत्मनि तिष्ठति । यथा स्वच्छः
स्फटिकाचलः स्वान्तः प्रतिबिम्बवनं प्राग्दधत्कदाचित्प्रतिबिम्बवह्निभावमिव
प्राप्तेन स्वेनैव तद्वनं दग्ध्वा स्वरूपमात्रे अवतिष्ठते तद्वदित्याशयः ॥ १८ ॥
यथा यथान्धकारेण प्रेक्ष्यमाणं प्रणश्यति ।
किमप्यङ्गाभ्रचक्राभं तथेदं विश्वमात्मनि ॥ १९ ॥
यथा यथा ज्ञानप्राबल्यं तथा तथा साज्ञानस्य जगतो नाशे दृष्टान्तमाह ##-
प्रेक्ष्यमाणं यथा यथा क्रमान्निःशेषं प्रणश्यति तथा अज्ञानान्धकारेण
कृतमिदं विश्वमपीत्यर्थः ॥ १९ ॥
यथाम्बुधिः स्वयं याति तोयाद्यावर्तकादिकम् ।
स्थितो दधत्तथैवेदं चिदाकाशोऽङ्गमात्मनि ॥ २० ॥
यथा स्वयमेव तोयप्रवाहस्तरङ्गादिष्वावर्तकफेनबुद्बुदादिकमङ्गं
दधत्स्थितस्तथैव चिदाकाशोऽप्यात्मनि जगदङ्गं दधत्स्थित इत्यर्थः ॥ २० ॥
चिन्मात्रमेव पुरुषः खवत्स च न नश्यति ।
कदाचनापि तद्व्यर्थं यन्नश्यामीति शोकिता ॥ २१ ॥
देहाद्देहान्तरप्राप्तौ नव एव महोत्सवः ।
मरणात्मनि किं मूढा हर्षस्थाने विषीदथ ॥ २२ ॥
जीर्णदेहत्यागेन नवतरदेहप्राप्तिनिमित्ते मरणे उपस्थिते हर्ष एवोचितो न शोक इत्याह
- देहादिति ॥ २२ ॥
मृतश्चेन्न भवेद्भूयः सोऽत्राप्युपचयो महान् ।
भावाभावग्रहोत्सर्गज्वरः प्रशममागतः ॥ २३ ॥
यदि पुनर्जन्म नास्त्येवेति वो भ्रमस्तथापि विषादो नोचितः । मरणादेव
सर्वानर्थप्राप्तिनिवारणादित्याह - मृत इति । उपचयः पुरुषार्थोत्कर्षः ॥ २३ ॥
मरणं जीवितं तस्मान्न दुःखं न सुखं यतः ।
नास्त्येवैतच्चिदाकाशः किलेत्थमभिजृम्भते ॥ २४ ॥
इत्थं जन्ममरणयोः सतोरपि यत्र न दुःखप्रसक्तिस्तत्रात्यन्तमसतोस्तयोर्दूरे
तत्प्रसक्तिरित्याशयेनोपसंहरति - मरणमिति ॥ २४ ॥
मृतस्य देहलाभश्चेन्नव एव तदुत्सवः ।
मृतिर्नाशो हि देहस्य सा मृतिः परमं सुखम् ॥ २५ ॥
मृतस्य देहलाभोऽस्ति वा न वेति सन्देहादेव मरणाद्भयमिति मन्वानं प्रति
उक्तमेवार्थं भङ्ग्यन्तरेणाह - मृतस्येति । हि
यस्मान्मृतिर्जरारोगादिग्रस्तस्य कारागृहकल्पस्य पूर्वदेहस्य नाशः ॥ २५ ॥
मृतिरत्यन्तनाशश्चेत्तद्भवामयसङ्क्षयः ।
भूयः शरीरलाभश्चेन्नव एव तदुत्सवः ॥ २६ ॥
अत एव कोट्यन्तरेऽपि सा तथैवेत्याह - मृतिरिति ॥ २६ ॥
कुकर्मभ्योऽथ भीतिश्चेत्सा समेह परत्र च ।
तानि मा कार्ष भोस्तस्माल्लोकद्वितयसिद्धये ॥ २७ ॥
मरणोत्तरं कुकर्मिणां नरकादिश्रवणाद्भयमिति चेज्जीवतामपि तेषां
राजदण्डादिवशादत्युत्कटानामिहैव फलदर्शनाच्च भयन्न् तुल्यमिति
कुकर्माण्येव मा कुर्वित्याह - कुकर्मभ्य इति । मा कार्ष मा कार्षीः ।
सिपश्छान्दसोऽकारादेशः ॥ २७ ॥
मरिष्यामि मरिष्यामि मरिष्यामीति भाषसे ।
भविष्यामि भविष्यामि भविष्यामीति नेक्षसे ॥ २८ ॥
क्व नाम जन्ममरणे क्व भवाभवभूमयः ।
संविदात्मकमेवेदं व्योम व्योम्नि विवर्तते ॥ २९ ॥
परमार्थदृशा तु जन्ममरणादिप्रसक्तिरेव नास्तीत्याह - क्वेति ॥ २९ ॥
संविदाकाशमात्रात्मा पिब भुङ्क्ष्वास्व निर्ममः ।
आकाशकोशकान्तस्य कुत इच्छोदयस्तव ॥ ३० ॥
ज्ञानपूर्णानां निरिच्छत्र्यवहारान्न कदापिदुःखप्रसक्तिरित्याह -
संविदाकाशेति ॥ ३० ॥
स्वप्रवाहबलोद्युक्तदेशकालवशादितान् ।
भावान्भुङ्क्तेऽभयो भव्यः पावनान्पावनादपि ॥ ३१ ॥
स्वीयप्रवाहबलेन प्रसक्तादुद्युक्तात्प्रयत्नाद्देशकालवशाच्च इतान्प्राप्तान्
भावान्शब्दादिविषयांस्तेष्वपि पावनादपि पावनान्भुङ्क्ते न
मनोमालिन्यविक्षेपहेतूनित्यर्थः । पावनान्पादपो यथा इति पाठे स्पष्टम् ॥ ३१ ॥
मध्यमध्यगतान्दोषान्देशकालवशोदितान् ।
अनादृत्यान्तरेवास्ते सुप्तधीरवहेलयन् ॥ ३२ ॥
मध्ये मध्ये देशक्षोभदुर्भिक्षादिकालेऽप्यस्य न दुःखप्रसक्तिस्तदा
क्वचिदेकान्तपर्वतगुहादौ समाधिसुखानुभवेन तत्कालावहेलनसम्भवादित्याह
- मध्येति । अन्तर्निर्विकल्पसमाधौ सुप्तधीः ॥ ३२ ॥
न दुःखमेति मरणात्सुखमेति न जीवितात् ।
नाभिवाञ्छति न द्वेष्टि स तदास्ते विवासनः ॥ ३३ ॥
मरणजीवितजन्मजरत्तृणान्यविमृशन्विगतेच्छमवासनः ।
विदितवेद्य इहाज्ञ इवोदितो वसति वीतभयस्त्वचलो यथा ॥ ३४ ॥
सर्गोक्तमर्थं सङ्क्षिप्योपसंहरति - मरणेति । मरणादिलक्षणानि जरत्तृणानि
अविमृशन्विदितवेद्योऽप्यज्ञोऽतिमूढ इव वीतभयः सन्नचलो यथा तथा
वसतीत्यर्थः ॥ ३४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
परमोपदेशो नामैकाधिकशततमः सर्गः ॥ १०१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
परमोपदेशो नामैकाधिकशततमः सर्गः ॥ १०१ ॥