शततमः सर्गः १००
श्रीराम उवाच ।
युक्तिः स्यात्कीदृशी ब्रह्मन्संसारे दुःखशान्तये ।
तेषां येषामयं पक्षः श्रूयतामुच्यतां ततः ॥ १ ॥
देहात्मवाद्यादिमते निविष्टानां मतेरपि ।
यथा तत्त्वेऽवतारः स्यात्तथा युक्तिरिहोच्यते ॥
प्राक्सर्गवाद्युक्तिसत्यतावर्णनक्रमे स्वभावसिद्धमेवेदं युक्तमित्येव तद्विदाम् इति
यच्चार्वाकोक्तीनां युक्तत्वं वर्णितं तत्तेषां देहात्मवादविषये
सर्वास्तिकपक्षप्रतिपक्षभूते कथं युक्तम् तेषां कथं वा पुरुषार्थसिद्धिः
स्यादित्येतज्जिज्ञासमानो रामः पृच्छति - युक्तिरिति । अयं वक्ष्यमाणो मत्प्रश्नो
मनो दत्त्वा श्रूयतां तत उत्तरमुच्यताम् ॥ १ ॥
यावज्जीवं सुखं जीवेन्नास्ति मृत्युरगोचरः ।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥ २ ॥
अगोचरः अप्रत्यक्षः । न तावज्जीवतः स्वस्य मृत्युः प्रत्यक्षः । परेषां
मृत्युदर्शनाद्धि स्वस्यापि मृत्युस्तद्वदनुमीयते । न चानुमानं चार्वाकाणां
प्रमाणम् । प्रत्यक्षातिरिक्तप्रमाणानभ्युपगमादिति भावः । अस्तु वा देहनाश एव
मृत्युस्तथापि पुनर्जन्मानभ्युपगमात्स एव सर्वदुःखनिवृत्तिलक्षणो मोक्ष एवेति
स्पृहणीय एव तेषामित्याशयेनाह - भस्मीभूतस्येति । शान्तस्य
सर्वदुःखोपशमं प्राप्तस्य । अयं येषां पक्षस्तेषामिति पूर्वत्रान्वयः ॥ २ ॥
श्रीवसिष्ठ उवाच ।
यं यं निश्चयमादत्ते संविदन्तरखण्डितम् ।
तत्तथैवानुभवति प्रत्यक्षमिति सर्वगम् ॥ ३ ॥
संविदा स्वनिश्चयानुसारिविवर्तानुभवनियम एव
देहात्मभावेऽप्युपपत्तिस्तन्मोक्षेऽपीत्याशयेन वसिष्ठस्तं समर्थयितुमुपक्रमते
- यं यमिति । इति इदं सर्वगं सर्वजनीनं प्रत्यक्षं स्वानुभवसिद्धम् ॥ ३ ॥
यथा खं सर्वगं शान्तं तथा चिद्व्योम सर्वगम् ।
तदेवैक्यमथ द्वैतमन्यार्थस्यात्यसम्भवात् ॥ ४ ॥
तत्तद्वादिपामरजनकल्पितदेहादिद्वैतं वेदान्तविद्वदनुभवादिसिद्धमैक्यं च
तच्चिद्व्योमैव । तद्व्यतिरिक्तस्यात्यन्तमसम्भवादित्यर्थः ॥ ४ ॥
सर्गादौ तदृतेऽन्योऽर्थो महाप्रलयरूपिणि ।
अकाणरत्वान्नास्त्येव ब्रह्मैवेदमतस्ततम् ॥ ५ ॥
अन्यस्यासम्भवे सदेव सोम्येदमग्र आसीत् इत्यादिश्रुत्यनुगृहीतां युक्तिमाह -
सर्गादाविति । सर्गस्य आदौ पूर्वावस्थायामद्वितीयब्रह्मरूपे महाप्रलये । तर्हि
ब्रह्मणः कारणं ततोऽन्यत्पूर्वमस्तु तत्राह - अकारणत्वादिति ॥ ५ ॥
समस्तवेदशास्त्रार्थं ये महाप्रलयादि च ।
नेच्छन्ति ते महामूढा निःशास्त्रा नो मृता इव ॥ ६ ॥
ननु ब्रह्मरूपो महाप्रलय एव नाभ्युपगम्यते बीजाङ्कुरादिपरम्परानादित्वेन
पृथिव्यादिभूतानां प्रवाहानादित्वान्न कदाचिदनीदृशं जगदिति कर्मजडानां
पूर्वमीमांसकादीनां पक्षं दूषयति - समस्तेति । सर्वे वेदा यत्पदमामनन्ति
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति इत्यादिश्रुतेः समस्तवेदशास्त्रार्थं
आदिपदाज्जीवानां ब्रह्मप्राप्तिलक्षणं मोक्षं तत्साधनानि च ये नेच्छन्ति ते
मोक्षशास्त्रवैयर्थ्ये तुल्यन्यायेन कर्मशास्त्रस्याप्यप्रामाण्यावारणान्निःशास्त्रा
नोऽस्माकं तत्त्वविदां दृशा मृता इव । न तत्त्वोपदेशकथायोग्या इत्यर्थः ॥ ६ ॥
सर्वशास्त्राविरुद्धेन सर्वं ब्रह्मेदमित्यलम् ।
स्थितं सानुभवं योक्तृ येषां तैर्न कथाक्रमः ॥ ७ ॥
येषां योक्तृदेहेन्द्रियादीनां सर्वव्यवहारेषु नियोक्तृ प्रत्यगात्मचैतन्यं मनो
वा सर्वशास्त्राविरुद्धेन सर्वं खल्विदं ब्रह्मेति दर्शनेन सानुभवमलं
पर्याप्तं पूर्णकामं स्थितम् । कृतकृत्यैस्तैः सहापि नोपदेशकथाक्रम इति
जिज्ञासून्प्रत्येवोपदेशकथाप्रस्ताव इत्यर्थः ॥ ७ ॥
नित्या निरन्तरोदेति यादृशी संविदाशये ।
भूयते तन्मयेनैव पुंसा देहोऽस्तु माथवा ॥ ८ ॥
प्रासङ्गिकं समाप्य प्रस्तुतमनुसन्धत्ते - नित्येति । तथा च चार्वाकाभिमते
देहात्मभावेऽपि तादृशदृढनिश्चयात्मकसंविदुदय एवान्वयव्यतिरेकाभ्यां
हेतुर्न देहो व्यभिचारादिति भावः ॥ ८ ॥
बोधाच्चेत्संविदो जातः स दुःखी पुरुषो भवेत् ।
विरुद्धं वेदनं यावत्तावज्जीवोऽङ्ग तन्मयः ॥ ९ ॥
अत एवानन्दैकरसस्याप्यात्मनो विरुद्धदुःखित्ववेदनदार्ढ्येन दुःखमयता
सर्वानुभवसिद्धेत्याह - बोधादिति । अङ्गेति सम्बोधने ॥ ९ ॥
जगच्चिद्व्योमकचनमात्रमेवेति भाविते ।
तत्कथं वेदनं व्योम्ना बोधः कस्य कुतो भवेत् ॥ १० ॥
एवं दुःखमयस्यापि जगतो निरतिशयानन्दचिद्व्योमकचनमात्रमेवेति
भावनाद्वास्तवतद्भावदर्शने भ्रान्तिकल्पितदुःखरूपता
तद्ग्रहणग्राहकादयश्च शाम्यन्तीति देहात्मवादिनामपि तथाभावने
निस्तारसिद्धिरित्याशयेनाह - जगदिति । तत् प्राक्प्रसिद्धं दुःखादिवेदनं कथं
व्योम्ना कूटस्थाद्वयचिदाकाशेन दुःखादेर्बोधः कस्य भवेत् कुतो वा
निमित्तादित्यर्थः ॥ १० ॥
ना कानिचित्प्रधावन्ति एकनिश्चयसंविदाम् ।
पुंसां सुखानि दुःखानि रजांसि नभसामिव ॥ ११ ॥
उक्तेऽर्थे तत्र को मोहः कः शोक एकत्वमनुपश्यतः इति श्रुतिमर्थत उदाहरति - न
कानिचिदिति । प्रधावन्ति प्राप्नुवन्ति । लिम्पन्तीति यावत् ॥ ११ ॥
संवित्सत्यास्त्वसत्या वा निश्चयस्तावदीदृशः ।
आबालमेतत्संसिद्धं केनापह्नूयते कथम् ॥ १२ ॥
स्वस्वदृढनिश्चयानुसार्यर्थानुभवे संविदः प्रामाण्यं चित्तवृत्तेः सत्यत्वं
वा नोपयुज्यते देहात्मभावाद्यनुभवे आद्याभावाद्ब्रह्मसाक्षात्कारवृत्तौ
द्वितीयाभावादित्याशयेनाह - संविदिति । संवेदनं संवित् सत्या प्रमा
संवेद्यते यया सा संवित् सत्या अबाधिता वेत्युभयनियमाभावोक्तिः । ईदृश
एतादृशसदसदर्थानुभवहेतुर्भवत्येवेत्यर्थः । कथमपह्नूयते । न
ह्यनुभवविरुद्धमवलम्ब्यानुभवोऽपह्नोतुं शक्य इत्यर्थः ॥ १२ ॥
न देहः पुरुषो वापि जीवोऽन्य उपलभ्यते ।
संवित्सर्वमिदं सा तु यथा वेत्ति तथा जगत् ॥ १३ ॥
अत एव सर्ववाद्यभिप्रेततत्तद्वेषकल्पनासमर्था संविदेवात्मेति सर्वे वादिनो
बोधयित्वा कृतार्थीकर्तुं शक्या इत्याशयेनाह- न देह इति ।
देहश्चार्वाकाभिमतः पुरुषः साङ्ख्याभिमतो जीवो मीमांसकाद्यभिमतो वापि
भोक्ता अन्यः संवित्पृथक्कृतो नोपलभ्यते । अतः सर्वमिदं वादिनां
कल्पनापदं देहादिसंविदेव ॥ १३ ॥
सा सत्याप्यथवासत्या तया देहोऽनुभूयते ।
स्वातन्त्र्येण यथा स्वप्ने पाताले खे जले दिवि ॥ १४ ॥
स्वातन्त्र्येण स्वकल्पनामात्रेण न पृथिव्यादिकारणसापेक्षतयेत्यर्थः ॥ १४ ॥
संवित्सत्यास्त्वसत्या वा तावन्मात्रः स्मृतः पुमान् ।
स यथानिश्चयो नूनं तत्सत्यमिति निश्चयः ॥ १५ ॥
पुमान् आत्मा । तत् सत्यं तदर्थक्रियासमर्थम् ॥ १५ ॥
प्रामाण्यं सर्वशास्त्राणामेतेनैव प्रसिद्ध्यति ।
सर्वसिद्धान्तसिद्धान्त एष एवेति मे मतिः ॥ १६ ॥
संविद एव सर्ववाद्यभिमतात्मादिभावेनावस्थाने तस्याः
परमार्थसत्यत्वात्तत्कल्पितार्थानां तत्तदभिमतार्थक्रियासमर्थत्वाच्च
सर्वशास्त्रप्रामाण्यं प्रागुक्तं प्रतिष्ठितमित्याह - प्रामाण्यमिति । तथा
चायं संविदद्वैतात्मवादसिद्धान्तः सर्ववादिनामुपजीव्यत्वात्पुरुषार्थहेतुत्वाच्च
सर्वसिद्धान्तशिरोमणिः सिद्धान्त इत्याह - सर्वेति ॥ १६ ॥
तस्मादबोधता यास्ते यथा संवित्तथैव सा ।
भवत्यकलुषाकारा तथैव फलभागिनी ॥ १७ ॥
तर्हि किं संविदेव तत्तद्वाद्यभिमतदेहाद्याकारेण तत्तन्निश्चयानुरोधेन
परिणमते नेत्याह - तस्मादिति । या संविदि अबोधता अविद्या आस्ते सैव यथा
तत्तद्वादिनां संवित्तथैव परिणामेन प्रवृत्त्यादिकाले भवति । सैव
तत्त्वबोधात्मना परिणामे अकलुषशुद्धचिदाकारा तथैव मोक्षफलभागिनीत्यर्थः
॥ १७ ॥
देशकालक्रियाद्रव्यवेदशास्त्रैषणाभ्रमैः ।
अबोधता तु या संवित्कदाचित्सा न नश्यति ॥ १८ ॥
अत एव पुण्यदेशकालादौ स्नानदानादिक्रियाभिः रसायनमन्त्रौषधादिद्रव्यैः
कर्मशास्त्रबोधितैः स्वर्गपशुपुत्राद्येषणाभ्रमैश्च सा अबोधता तत्प्रयुक्ताया
विक्षेपसंवित्सा च कदाचिदपि न विनश्यति ॥ १८ ॥
आविर्भवति सा भूयः क्षीणाशङ्का क्षणेन चेत् ।
तत्केन संविदो दुःखं कदा नामोपशाम्यति ॥ १९ ॥
बोधे बाधिताया अविद्यायाः पुनराविर्भावस्तु न शङ्क्यो
बीजाभावादनिर्मोक्षप्रसङ्गाच्चेत्याह - आविर्भवतीति । आत्यन्तिकबाधेन क्षीणा
पुनः प्रसक्त्याशङ्कापि । सा अविद्या भूयः क्षणादाविर्भवति चेत्तत्तर्हि संविदो
जीवस्य दुःखं कदा केन वा नामोपशाम्यति - न कदाचिन्न केनचिदपीत्यर्थः ॥
१९ ॥
संविदेव नृणां जीवः स यथा दृढभावनः ।
तथा सुखी वा दुःखी वा भवेदित्येष निश्चयः ॥ २० ॥
संविच्चेदस्ति तज्ज्ञानां शरणं भवभेदने ।
नास्ति चेत्तच्छिलामूकमान्ध्यमेवावशिष्यते ॥ २१ ॥
प्रत्यगात्मरूपसंविदेव तत्त्वतो ज्ञाता स्वकार्यं बन्धं हरतीति सैव
मुमूक्षूणां शरणम् तदभावे तु जगदान्ध्यमेव स्याद्दूरे मोक्षं
प्रत्याशेत्याह - संविदिति । अवशिष्यते परिशेषात्प्रसज्जते ॥ २१ ॥
यत्तयैव च संवित्त्या वेदनेनैव लभ्यते ।
अयं स्वभावज्ञप्त्यान्तर्जाड्यं पुंसेव निद्रया ॥ २२ ॥
कुत आन्ध्यमेवावशिष्यते तत्राह - यदिति । यद्यस्माद्धेतोः स्वभावज्ञप्त्या
स्वप्रकाशया तयैव प्रत्यगात्मसंवित्त्या पुंसा निद्रया स्वजाड्यमिव आन्ध्यकल्पेन
अवेदनेनैवायं प्रपञ्चो लभ्यते तत्र संवित्त्यपलापे असाक्षिकस्यान्ध्यस्यैव
परिशेषादित्यर्थः ॥ २२ ॥
श्रीराम उवाच ।
दिक्ष्वधस्ताच्च नान्तोऽस्या भावी नापि जगत्क्षयः ।
अस्तीति भावितं येन सन्त्यक्ताऽभावबुद्धिना ॥ २३ ॥
न कदाचिदनीदृशं जगदित्यभ्युपगम्य ये महाप्रलयादि नेच्छन्ति ते निःशास्त्रा
मृता इवेति ये त्वया निन्दितास्तन्मतानुसारिदृढनिश्चयवतां
तत्त्वज्ञानावतारादौ युक्तिरस्ति न वेति सन्दिहानो रामः पृच्छति - दिक्ष्विति ।
अस्याः संसृतेः प्राच्याद्यूर्ध्वान्तनवदिक्षु अधस्तादधोदिशि च अन्तएव नास्ति । एवं
जगतः क्षयो नाशोऽपि नास्तीति येन सन्त्यक्तप्रागभावाद्यभावत्रयबुद्धिना पुंसा
भावितम् ॥ २३ ॥
विज्ञानघनमेवेदमिति नूनमपश्यता ।
पश्यता च यथादृष्टं सर्वक्षयमपश्यता ॥ २४ ॥
पुनः कीदृशेन तेन पुंसा इदं सर्वं विज्ञानघनमेवेति
परमार्थतत्त्वमपश्यतेति पूर्वेणान्वयः । यथादृष्टं जगदेव सत्यमिति पश्यता
॥ २४ ॥
तस्य स्यात्कीदृशी ब्रह्मन्युक्तिराधिविनाशने ।
इति मे संशयं छिन्धि भूयो बोधाभिवृद्धये ॥ २५ ॥
श्रीवसिष्ठ उवाच ।
अत्रैकं तावदुचितं पूर्वमेव तथोत्तरम् ।
द्वितीयमुत्तरं न्याय्यं वक्ष्यमाणमिदं शृणु ॥ २६ ॥
पूर्व प्रागुक्तं निःशास्त्रा नो मृता इव तैर्न कथाक्रम इत्येवोत्तरम् । अथवा
पूर्वपूर्ववादिनं प्रति यदुक्तं यं यं निश्चयमादत्ते संविदन्तरखण्डितम्
इत्याद्युत्तरं तदेवोचितम् । तथा च चैतन्याननुविद्धतादृशनिश्चयाप्रसिद्धेः सोऽपि
मन्दचैतन्यं व्युत्पाद्य पूर्वनिश्चयस्य तद्विवर्तताव्युत्पादनेन
चिदखण्डैकरस्यानुभवे अवतारयितुं शक्य इति भावः ॥ २६ ॥
ईदृग्भावस्त्वया प्रोक्तो यः पुमान्पुरुषोत्तम ।
स तावच्चेतनामात्रं भवतीत्यनुभूयते ॥ २७ ॥
हे पुरुषोत्तम ईदृग्भावस्तदुक्तनिश्चयवान् यः पुमांस्त्वया प्रोक्तः स किं
देहातिरिक्तचेतनात्मदर्शी उत नित्यातिवाहिकदेहात्मदर्शी उत स्थूलदेहात्मदर्शी उत
शुद्धसंविदात्मदर्शी उताज्ञानावृतसंविदात्मदर्शी उत संविदपलापी ।
तत्राद्यकल्पे तावदाह - स तावदिति । स यदि चेतनाः रूपादिसंविदो मीयन्ते यत्र
तच्चेतनामात्रं चिदाभासरूपं भवतीत्यभ्युपगच्छति तर्ह्यनुभूयत एव
क्रमात्तेनात्मतत्त्वमित्यर्थः ॥ २७ ॥
स चाकारविनाशेन युज्यते नात्र संशयः ।
अथाविनाशो देहश्चेत्तद्दुःखस्यात्र कः क्रमः ॥ २८ ॥
तत्कुतस्तत्राह - स चेति । ह्यर्थेऽयं चः पठितः । यस्मात्स
देहाद्याकारोपाधिनाशेन परमात्मना सह युज्यते एकीभवति । द्वितीये त्वाह -
अथेति । विनाशिन्यन्नमये देहे आत्मताबुद्धौ सर्वतो विनाशाशङ्कया दुःखम् ।
अविनाशिन्यात्मतानिश्चये तु न देहाकारत्वदर्शनमात्रापराधेन दुःखप्रसक्तिरिति
क्रमात्सोऽपि बोध्यमानस्तत्त्वं प्रतिपत्स्यत इति भावतः । तत् तर्हि । क्रमः प्रसङ्गः ॥
२८ ॥
भवेद्भागविभागात्मविनाशस्त्वविचारितः ।
अवश्यं तस्य भवति किलेति ननु निश्चयः ॥ २९ ॥
तृतीये कल्पे तावदाह - भवेदिति । भागविभागोऽवयवभेदस्तद्घटितः
स्थूलात्मा तस्यात्मत्वदर्शिना तद्विनाशः सन्नपि न विचारितः । अवश्यं च
सावयवस्य विनाशो भवति । किलेति प्रतिबोधने । तस्यापि तदतिरिक्तात्मनिश्चयः
सिद्ध्यतीत्यर्थः ॥ २९ ॥
मृतः स संविदात्मत्वाद्भूयो नो वेत्ति संसृतिम् ।
ज्ञानधौता न या संविन्न सा तिष्ठत्यसंसृतिः ॥ ३० ॥
चतुर्थकल्पेऽप्याह - मृत इति । स शुद्धसंविदात्मदर्शी । जीवन्मुक्तः सर्वदा
सर्वत्र लीलया जगत्पश्यन्नपि मृतो विदेहतामात्रेण कैवल्यं प्राप्तः सन्भूयः
संसृतिं नो वेत्ति । न पश्यतीत्यर्थः । पञ्चमकल्पेऽप्याह - ज्ञानेति । या संवित्
तत्त्वज्ञानेन न धौता सा संसृतिबीजभावाविनाशादसंसृतिर्न तिष्ठति । अवश्यं
संसरत्येवेत्यर्थः । तथा च तस्या अपि क्वचिज्जन्मनि ज्ञानोदयान्निस्तार इति भावः ॥ ३०
॥
अथवा नास्ति संवित्तिरिति निश्चयवान्यदि ।
ततस्तादृग्वेदनतो भवत्येव दृषज्जडः ॥ ३१ ॥
षष्ठकल्पेऽप्याह - अथवेति । दृषदिव जडो विशेषज्ञानशून्यो भवत्येव
चिरमित्यर्थः ॥ ३१ ॥
यथावेदनमर्थेषु चित्त्वे देहक्षयात्क्षते ।
मृतिरेव परं श्रेयो दृष्टं नानुभवादिति ॥ ३२ ॥
तेन तत्र किं कथं वा श्रेयो दृष्टं तत्राह - यथावेदनमिति । आमरणं
दृढीकृततादृग्वेदनानुसारेणैव देहपातादनन्तरं चित्त्वे विशेषविज्ञाने
क्षते नष्टे सति गाढसुषुप्तिकल्पा सा मृतिरेव नैयायिकमोक्षकल्पा
निर्दुःखत्वात्परं श्रेय इति तेन दृष्टं न तु निरतिशयानन्दानुभवाच्छ्रेयस्तेन
मूर्खेण दृष्टमित्यर्थः ॥ ३२ ॥
असम्भवाच्छुद्धविदो निःशरीरा भवन्ति ये ।
जडभावा जडीभूय दुर्भेदान्ध्या भवन्ति ते ॥ ३३ ॥
ये तु शून्यवादिनो नैरात्म्यदृढनिश्चयास्तेषां मृतानां का गतिस्तामाह -
असम्भवादिति । निःशरीरा मृताः । तथा च श्रुतिः असुर्या नाम ते लोका अन्धेन तमसा
वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः इति ॥ ३३ ॥
ये चापि स्वप्नपुरवत्सर्वं पश्यन्ति चिन्मयाः ।
तेषामिदमिवाशेषं जगज्जालं प्रवर्तते ॥ ३४ ॥
येऽपि विज्ञानवादिनः क्षणिकविज्ञानमयं स्वप्नतुल्यं जगदिति पश्यन्ति तेषामपि
व्यवहारसिद्धिस्तुल्येत्याह - ये चापीति । चिन्मयाः क्षणिकविकारिचिदात्मभूताः ॥ ३४
॥
स्थैर्यास्थैर्येण भूतानां किमपूर्वमतौ भवेत् ।
भूतस्थैर्ये तथास्थैर्ये सुखं चैवासुखं समम् ॥ ३५ ॥
ये जगतः स्थैर्यवादिनो ये च क्षणिकत्ववादिनस्तेषामुभयेषामपि
सुखदुःखभोगान्तव्यवहारसिद्धिः समेत्याह - स्थैर्येति । अपूर्वमतौ
जगद्व्यवहारवैचित्र्यबुद्धौ किमन्तरं भवेत् । असुखं दुःखम् ॥ ३५ ॥
स्थिरमस्त्वस्थिरं वापि मह्यादिमहतामपि ।
चिद्भामात्रमिदं भाति यावदज्ञानमाततम् ॥ ३६ ॥
तत्त्वविदां तु भूम्यादिभूतानां क्षणिकत्वाक्षणिकत्वयोर्नाग्रहः ।
अध्यस्तस्याधिष्ठानब्रह्ममात्रसतत्त्वकत्वेन शुक्तिरजतमूल्यविचारवत्तद्विचारस्य
व्यर्थत्वादित्याशयेनाह - स्थिरमिति । मह्यादीनां महतां भूतानामपि ॥ ३६ ॥
संविदा संविदोऽसत्तामिहाव्याप्य विनष्टया ।
निर्णीयाङ्गीकृतं यैर्वा जाड्यं तद्बालकैरलम् ॥ ३७ ॥
संविदस्तु न क्षणिकत्वं तत्या स्वासत्तालक्षणस्य स्वनाशस्य जाड्यस्य च
व्याप्तुमशक्यतया संविद्व्याप्तिमन्तरेण तदुभयसिद्ध्ययोगाच्च
तदुक्तिसम्भवाभावादित्याह - संविदेति । संविदः कालतोऽसत्ता क्षणिकत्वं
देशतः असत्ता तु जाड्यं द्विविधामपि तां अव्याप्य अस्पृष्ट्वा विनष्टया
क्षणिकत्वाभिमतसंविदा जाड्यम् । क्षणिकत्वस्याप्युपलक्षणमेतत् ।
यैर्निर्णीयाङ्गीकृतं तैस्तथाविधैर्बालकैर्मूर्खैरलं सम्भाषणेनेत्यर्थः ॥ ३७
॥
येषां विद्भ्यः शरीराणि ते वन्द्याः पुरुषोत्तमाः ।
शरीरेभ्यो विदो येषां तैरलं पुरुषाधमैः ॥ ३८ ॥
अत एव हि कूटस्थचितो विवर्तभावेन तद्व्याप्तदेहान्तजडप्रपञ्चोत्पत्तिवादिनो
धन्याः । वाचारम्भणन्यायेन विकारानृतत्वदर्शने चित्परिशेषलाभात् । अचितो
देहादेश्चिदुत्पत्तिवादिनश्चार्वाककणभक्षादयो मूर्खाः चिद्विनाशेन
जडपरिशेषस्यापुरुषार्थत्वात्साधकाभावाच्चेत्याशयेनाह - येषामिति । विद्भ्य
इति बहुत्वमविवक्षितम् ॥ ३८ ॥
चिद्रूपो जीवबीजौघ आकाशकृमिजालवत् ।
ऊर्ध्वं तिर्यगधो याति पूर्यमाण इव स्वयम् ॥ ३९ ॥
जीवसमष्टिरूपहिरण्यगर्भे चिदाभासबहुत्वाद्वा बहुवचननिर्देशः । तथा च
समष्ट्यात्मा हिरण्यगर्भ एक एव नानाजीवात्मना ऊर्ध्वाधोलोकगमनादिना
संसरतीति कल्पनापि साध्वीत्याह - चिद्रूप इति । आकाशकृमयो
मशकादयस्तज्जालवत् । यथा मणिकमल्लिकादौ पूर्यमाणो जलौघस्तिर्यगूर्ध्वमधो
याति तद्वत् ॥ ३९ ॥
चेत्यते येन कर्तान्यो बीजौघेन स तत्परः ।
तथैवानुभवत्यन्तः स्वयमेव विवल्गति ॥ ४० ॥
सा नानाकर्तृजीवसमष्टितापि हिरण्यगर्भचितः स्वकल्पनाभिनिवेशवशादेवेत्याह
- चेत्यत इति । बीजौघेनेतीत्थम्भावे तृतीया । येन हिरण्यगर्भचिदाभासेन
बीजौघभावेन समष्टितां स्वस्योपास्यतद्वासनानुसारात्कल्पादौ अन्यः बहुधा
भिन्नो व्यष्टिरूपः कर्ता स्वान्तश्चेत्यते स तत्परस्तदासक्तः संस्तथैव
नानाकर्तृरूपं स्वान्तः स्वयमेवानुभवति तथैव विवल्गति संसरति चेत्यर्थः ॥ ४०
॥
यद्यथा चेत्यते येन तज्जीवेनाशु तेन तत् ।
चिद्रूपेणाप्यते सिद्धमेतदाबालमक्षतम् ॥ ४१ ॥
अनेन प्रकारेणापि प्राग्यदस्माभिः प्रतिज्ञातं तदेव सिद्धमित्याह - यदिति ।
आबालं आवृद्धं च । अक्षतमव्याहतसिद्धम् ॥ ४१ ॥
यथा धूमस्य नभसि यथाम्भोधौ महाम्भसः ।
आवर्तवृत्तयश्चित्रास्तथा चिद्व्योम्नि संसृतेः ॥ ४२ ॥
अत एव हि तज्जीवचितां वासनावैचित्र्यानुरूपतत्तत्संसृति
चेतनवैचित्र्यात्संसृतिवैचित्र्यमनन्तमित्याह - यथेति ॥ ४२ ॥
पुरी भवति चिद्व्योम यथा स्वप्ने नरं प्रति ।
तथादिसर्गात्प्रभृति तदेवेदं जगत्स्थितम् ॥ ४३ ॥
तदेव चिद्व्योमैवेदं जगद्भूत्वा स्थितम् ॥ ४३ ॥
सहकारिनिमित्तानि यथा स्वप्ने न सन्ति वै ।
पृथिव्यादीनि भूतानि तथैवादौ जगत्स्थितेः ॥ ४४ ॥
सहकारिकारणानि विनैव स्वर्गादौ प्रतिभामात्रेण सिद्धत्वादपि
स्वप्नसाम्यमेवेत्याह - सहकारीति । आदौ सर्गादौ ॥ ४४ ॥
अङ्गानां स्वप्ननगरे वसुधा विविधाः कृताः ।
यास्ता एव जगत्स्वप्ननगरे पुष्टतां गताः ॥ ४५ ॥
अङ्गानां नगरावयवभूतगृहाणां वसुधा उत्तरोत्तरभूमिकाभेदाः । या
अर्धविकासेन पेलवाः कृतास्ता एव सम्यग्विकासेन घनीभावात्पुष्टतां गताः ॥ ४५ ॥
चिन्मात्राकाशमेवेमाः प्रजा द्वैतैक्यवर्जिताः ।
के वात्र रञ्जनान्या खे यद्वाभाति खमेव तत् ॥ ४६ ॥
यत् उ आभातीति च्छेदः ॥ ४६ ॥
चिच्चन्द्रिका चतुर्दिक्कं शीतलाह्लादकारिणी ।
तनोति चेतनालोकं तस्येदं कचनं जगत् ॥ ४७ ॥
त्रिविधतापोपशमनाच्छीतला चेतना अर्थप्रथा तल्लक्षणमालोकम् । तस्य
चेतनालोकस्यार्थरूपेण कचनम् ॥ ४७ ॥
अद्यैवाद्यन्तयोर्व्योम्नि चिन्मये सर्गदर्शनम् ।
चिदुन्मेषनिमेषाभ्यां खात्मोदेत्यस्तमेति च ॥ ४८ ॥
आदौ सर्गात्प्रागन्ते प्रलये चव्योम्नि सर्गशून्यस्वभावे चिन्मये व्योम्नि अद्य
वर्तमानक्षण एव सर्गदर्शनं प्रसिद्धं तच्च खात्मब्रह्मैव स्वचितः
परिच्छिन्नरूपेणोन्मेषादपरिच्छिन्नरूपेण निमेषाच्च स्वयमेव
स्वप्नवदुदेत्यस्तमेति चेति निष्कर्ष इत्यर्थः ॥ ४८ ॥
यद्यथा वेत्ति यत्तत्सत्तथैवानुभवत्यलम् ।
यस्मात्समस्तं चिन्मात्रं किमिवात्र न विद्यते ॥ ४९ ॥
चिच्चेत्स्वसत्ताबलेन सत्कृत्य जगत्पश्यति तदा न किञ्चिदसदिति वक्तुं शक्यमित्याह
- यदिति । तत्तच्छ्रुतिप्रसिद्धं सद्वस्तु यस्माद्धेतोः यद्यद्यथा यथा वेत्ति
सर्गादौ तदद्यापि तथैवानुभवति । तस्मात्समस्तमपि चिन्मात्रं तत्र किं न विद्यते
यदसत्स्यादित्यर्थः ॥ ४९ ॥
शरदाकाशविशदं संविदः सौम्यमानसाः ।
असन्त एव तिष्ठन्ति सन्तोऽधिगततत्पदाः ॥ ५० ॥
चिद्व्यतिरिक्तरूपेणासन्तः चिदात्मना तु सन्तः ॥ ५० ॥
निर्मानमोहा जितसङ्गदोषाः प्रवाहसम्प्राप्तनिजार्थभाजः ।
तिष्ठन्ति कार्यव्यवहारदृष्टौ निरामया यन्त्रमया इवैते ॥ ५१ ॥
तेषां तादृशीं स्थितिं लक्षणेनानुभावयति - निर्मानमोहा इति । यन्त्रमयाः
पुरुषप्रतिमा इव । तत्पक्षे जलादिप्रवाहवशात्सम्प्राप्तनिजचेष्टाद्यर्थभाजः
पश्यतामन्येषां कार्यव्यवहारदृष्टौ तिष्ठन्तीति योज्यम् ॥ ५१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
नास्तिक्यनिराकरणं नाम शततमः सर्गः ॥ १०० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
नास्तिक्यनिराकरणं नाम शततमः सर्गः ॥ १०० ॥