नवनवतितमः सर्गः ९९
श्रीराम उवाच ।
सन्ति दुःखक्षयेऽस्माकं शास्त्रसत्सङ्गयुक्तयः ।
मन्त्रौषधितपोदानतीर्थपुण्याश्रमाश्रयाः ॥ १ ॥
कृमिकीटपतङ्गानां तिर्यक्स्थावरजन्मनाम् ।
संसारे यादृशो भोगस्तत्सर्वमिह वर्ण्यते ॥
कृमिकीटपतङ्गादीनामतिमूढजन्तूनां तात्कालिकदुःखोपशमोपायाभावे
जीवनमेव दुर्लभम् । उपायं च ते ज्ञातुन्न् न शक्नुवन्ति । तथा सति कथं जीवन्तीति
तेषां संसरणस्थितिं जातिप्रसङ्गाज्जिज्ञासमानो रामः पृच्छति -
सन्तीत्यादिना । अस्माकं मनुष्यजातीनामैहिकामुष्मिकदुःखक्षये शास्त्रादय
उपायाः सन्ति । ये कृम्यादयस्तेषां दुःखक्षयः कथं केनोपायेन तदभावे च ते
कथं स्थिता जीवन्तीत्यन्वयः ॥ १ ॥
कृमिकीटपतङ्गाद्यास्तिर्यक्स्थावरजातयः ।
कथं स्थिताः किमारम्भास्तेषां दुःखक्षयः कथम् ॥ २ ॥
श्रीवसिष्ठ उवाच ।
सर्वाण्येवेह भूतानि स्थावराणि चराणि च ।
आत्मोचितायां सत्तायां विश्रान्तानि स्थितान्यलम् ॥ ३ ॥
आत्मोचितायां तत्तद्योग्यभोगोचितायां सुखसत्तायाम् । तथा च
तत्तद्योनिभोग्यविषयसुखलव एव तेषां महान्पुरुषार्थ इव भाति । तावन्मात्रेण
विश्रान्तास्तदाशयैव बहुतरदुःखान्यपि सहमाना जीवन्तीत्यर्थः ॥ ३ ॥
भूतानामणुमात्राणामप्यस्माकमिवैषणाः ।
किन्त्वल्पास्था वयं विघ्नास्तेषां त्वचलसन्निभाः ॥ ४ ॥
एषणाः स्वस्वयोन्युचितसुखभोगेच्छाः सन्तीति शेषः । किन्तु वयं तेषु
भोगेष्वल्पास्था अल्पविघ्नाश्च । अचलसन्निभाः महान्तो बहवश्च विघ्नाः ॥ ४ ॥
यथा विराट् प्रयतते वालखिल्यास्तथैव खे ।
बालमुष्ट्यल्पकायेऽपि पश्याहङ्कृतिजृम्भितम् ॥ ५ ॥
भोगेषु बह्वास्था इति कुतो ज्ञायते इति चेत्प्रयत्नाधिक्यलिङ्गादित्याशयेनाह -
यथेति । विराट् ब्रह्माण्डशरीरो जीवो यथा स्वाधिकारनिर्वाहचेष्टाभिः स्वभोगाय
प्रयतते तथा वालानां केशानां खिलैरग्रभागैः सम्मितदेहाः
कृमिकीटमशकमत्कुणादयोपि तथैव बालमुष्टिच्छिद्रापेक्षया अल्पकायेऽपि खे
स्वावकाशे प्रयतन्ते ॥ ५ ॥
जायन्ते च म्रियन्ते च निराधारेऽम्बरे खगाः ।
शून्यैकविषयास्तेषां स्वास्थ्यं न भवति क्षणम् ॥ ६ ॥
खगाः प्रागुक्ता आकाशपक्षिणः । स्वास्थ्यं स्थैर्यम् । प्रयत्नविच्छित्तिरिति यावत् ॥ ६ ॥
पिपीलिकायाश्चेष्टाभिर्ग्रासावासात्मबन्धुभिः ।
अस्मद्दिवसकल्पोऽपि न पर्याप्तः क्षणो यथा ॥ ७ ॥
पिपीलिकादीनां कणाद्यर्जनप्रयत्नबाहुल्यदर्शनादपि तेषां
भोगास्थाबाहुल्यमनुमीयत इत्याशयेनाह - पिपीलिकाया इति । ग्रासावासपदाभ्यां
तत्सम्पादनप्रयत्ना लक्ष्यन्ते । आत्मबन्धुपदेन च कुटुम्बपोषणप्रयत्नः ।
अस्मद्दिवसकल्पोऽपि दीर्घः कालस्तासां कणार्जनादिप्रयत्ने क्षणवन्न पर्याप्तो
नालमित्यर्थः ॥ ७ ॥
त्रसरेणुप्रमाणात्मा कृम्यणुस्तिमिनामकः ।
गमने व्यग्रता तस्य गरुडस्येव लष्यते ॥ ८ ॥
तिमिनामकः कृम्यणुरणुतमः कृमिरस्ति ॥ ८ ॥
अयं सोहमिदं तन्म इत्याकल्पितकल्पनम् ।
जगद्यथा नृणां स्फारं तथैवोच्चैर्गुणैः कृमेः ॥ ९ ॥
देहे तद्भोग्येषु चाहम्ममतालक्षणाध्यासश्च नृणां कृमेश्च समान इत्याह
- अयमिति । उच्चैर्गुणैर्गुणातिशयैः स्फारं बाहुतरास्थायोग्यं तथैव
कृमेरपि ॥ ९ ॥
देशकालक्रियाद्रव्यव्यग्रया जर्जरीकृतम् ।
क्षीयते व्रणकीटानामस्माकमिव जीवितम् ॥ १० ॥
विषयास्थया व्यर्थमायुषः क्षयोऽपि कीटादीनामस्माकं च समान इत्याह -
देशेति ॥ १० ॥
पादपाः किञ्चिदुन्निद्रा घननिद्राः खलूपलाः ।
कृमिकीटादयः कार्ये नरवत्स्वप्नबोधिनः ॥ ११ ॥
किञ्चिदुन्निद्रा ईषज्जागरूकाः । कार्ये स्वस्वोचितविषयभोगे स्वप्नश्च बोधो जागरश्च
येषां स्त इति स्वप्नबोधिनः ॥ ११ ॥
शरीरनाश एवैषां सुखं सम्प्रति दुःखकृत् ।
अस्माकमिव तेषां तज्जीवितं तु सुखायते ॥ १२ ॥
एषां कृमिकीटस्थावराणां सम्प्रति शरीरकाले सुखं स्थितानामस्माकमिव
शरीरनाश एव दुःखकृत् । तज्जीवनं शरीरे प्राणावस्थानम् ॥ १२ ॥
जनो द्वीपान्तरं यादृग्विक्रीतः परिपश्यति ।
पदार्थजालं पश्यन्ति तादृक्पशुमृगादयः ॥ १३ ॥
अस्मद्भोग्यगृहप्रासादधनरत्नादिकं ते कथं पश्यन्ति तदाह - जन इति ।
स्वाभोग्यं पदार्थजालमुदासीनतया सम्मुग्धदृशा पश्यन्तीत्यर्थः ॥ १३ ॥
अस्माकमिव संसारस्तिरश्चां सुखदुःखदः ।
पदार्थप्रविभागेन केवलं ते विवर्जिताः ॥ १४ ॥
पदार्थानामुत्कर्षापकर्षादिबुद्धिहेतुना गुणक्रियोपयोगादिप्रविभागेन ॥ १४ ॥
हृदयात्सुखदुःखाभ्यां नासातो रशनागुणैः ।
पशवः परिकृष्यन्ते विक्रीताः पामरा अपि ॥ १५ ॥
विक्रीतजनसाम्यं पशूनामुपपादयति - हृदयादिति । पशवो हि बलीवर्दादयो
नाथहरयो हृदयान्मनसः सकाशादन्तः सुखदुःखाभ्यां परिकृष्यन्ते ।
नासातो नासिकाप्रदेशाच्च नाथेन रशनागुणैर्बहिः परिकृष्यन्ते । एवमुभयतः
पराधीनतया कृष्यमाणा अपि किञ्चिदपिस्वदुःखं परिहर्तुं निवेदयितुं वा न
शक्नुवन्ति तथा द्वीपान्तरे विक्रीताः पामरा अपीति तयोः साम्यमित्यर्थः ॥ १५ ॥
सुप्तानां यादृगस्माकं वेदनं स्पष्टसुत्वचाम् ।
वृक्षगुल्माङ्कुरादीनां तादृगुद्दामवेदनम् ॥ १६ ॥
वृक्षादीनां सुखदुःखानुभवप्रकारमप्यस्मदनुभवानुकूल्येनोपपादयति ##-
निद्रापरवशचेतसामस्माकं
बहुतरशीतोष्णमशकमत्कुणादिभिर्बाध्यमानानामसुखनिद्रायां यादृक्
उद्दामं दुःखवेदनं तादृगित्यर्थः । अङ्कुरग्रहणं सौकुमार्यात्तत्र
कृमिकीटादिदंशने दुःखातिशयद्योतनार्थम् ॥ १६ ॥
यादृगस्माकमीत्यर्थक्रमसंसारपातिनाम् ।
पदार्थवेदनन्न् तादृक्तिरश्चां भ्रान्तमभ्रमम् ॥ १७ ॥
तिरश्चां पदार्थप्रविभागेन विवर्जितं वेदनं यदुक्तं
तदप्युपपादनेनानुभवमारोहयति - यादृगिति । ईतिर्देशक्षोभपलायनेन
धावनादिगतिस्तदर्थे कुशकण्टकतप्तवालुकाक्रमणभारोद्वहनादिक्रमसंसारे
पतनशीलानामस्माकं यादृशं सर्वतो भयाशङ्कि पदार्थवेदनं तादृक्
पक्षिसर्पादितिरश्चामपि सदेत्यर्थः ॥ १७ ॥
आह्लादमात्रे सौम्यत्वं सुखतश्चेन्द्रकीटयोः ।
समं विकल्पविन्मुक्तं विकल्पस्त्वनतिक्रमः ॥ १८ ॥
विकल्पविद्भिर्विक्षेपानुभवैर्मुक्तं चेत् आह्लादमात्रे सामान्यभूते स्वरूपानन्दे
सुखतः आहारनिद्रामैथुनादिसुखेषु च इन्द्रस्य कीटस्य च सौम्यत्वं
मनःप्रसादलक्षणं समम् । विकल्पो विक्षेप एव तु द्वयोरप्यनतिक्रमो दुरतिक्रम
इत्यर्थः ॥ १८ ॥
रागद्वेषभयाहारमैथुनोत्थं सुखासुखम् ।
तिरश्चां जन्ममृत्यादिखेदः कश्चिन्न भिद्यते ॥ १९ ॥
तिरश्चां इन्द्रस्य चेति शेषः । न भिद्यते न विशिष्यते ॥ १९ ॥
ऋते पदार्थभूतार्थभविष्यद्वस्तुबोधतः ।
शेषं बभ्र्वहिगोमायुगजादीनां नृभिः समम् ॥ २० ॥
पदार्थाः शास्त्रगम्याः पुण्यपापब्रह्मतत्त्वादयः । भूतार्था अतीतपदार्थाः
भविष्यद्वस्तूनि भाविकृषिफलादिपदार्थाः एतेषां बोधतः ऋते एतद्बोधान्विहाय
शेषं ज्ञानं बभ्रुर्नकुलः अहिः सर्पः गोमायुः शृगालः गजादिश्च ये
पशवस्तेषां सर्वेषां नृभिः समं तुल्यमित्यर्थः ॥ २० ॥
निद्रामयानां वृक्षाणां स्वसत्तामचलादयः ।
स्थिता अनुभवन्तोऽन्ये चिदाकाशमखण्डितम् ॥ २१ ॥
पर्वतादयस्तर्हि कथमनुभवन्ति तत्राह - निद्रेति । निद्राप्रचुराणां
सुषुप्तिस्थानां वृक्षाणां या गाढमूढतया स्वसत्ता तां अचलाः
पाषाणादयोऽनुभवन्तः स्थिताः अन्ये
हिमवन्मेर्वादयस्तत्त्वज्ञपर्वतास्त्वखण्डितं चिदाकाशमनुभवन्तः सदा
समाधौ स्थिता इत्यर्थः ॥ २१ ॥
आपीननिद्रा वृक्षाद्याः स्वसत्तास्थास्तथाद्रयः ।
जङ्गमानि चिदाकाशं नाम किञ्चित्कदाचन ॥ २२ ॥
इत्थं च न वृक्षादिजीवदृशा जगत्कल्पना । तेषामापीननिद्रत्वात् ।
नाप्यद्यादिजीवजातिदृशा । तेषां स्वसत्तास्थत्वात् । जङ्गमजातिष्वपि न
तत्त्वज्ञदृशा । तेषां चिदाकाशमात्रत्वात्किन्तु कतिपयाज्ञजङ्गमजातिदृशा ।
सा च दृष्टिर्न बहुतरदृष्टिविरुद्धां जगत्सत्तां साधयितुं क्षमत
इत्याशयेनाह - आपीनेति । यानि जङ्गमानि जीवजातानि तान्यपि
सुषुप्तिमरणमूर्च्छामोक्षाद्यवस्थासु चिदाकाशमेव नाम । तत्र केषाञ्चित्कदाचन
खप्ने अर्धविकासेन जागरे सर्वविकासेन भासमानं
किञ्चिज्जगद्बहुतरदृष्ट्यनुरोधाच्चिदाकाशमेवेति युक्तमित्यर्थः ॥ २२ ॥
अखण्डचित्ता शैलादिसत्ता निद्रा च भूरुहाम् ।
द्वैतोपलम्भमुक्तत्वात्खमेवैकमतो जगत् ॥ २३ ॥
तत्र या शैलादिसत्ता या च भूरुहां निद्रा सा द्वैतोपलम्भमुक्तत्वात् खमेव ।
अतस्तद्दृशा जगदेकमज्ञानोपहितचिन्मात्रमेव ॥ २३ ॥
परिज्ञातं जगद्यावदपरिज्ञानसंयुतम् ।
न त्वं नाहं न चैवास्तिनास्ती न च भविष्यति ॥ २४ ॥
अन्यदृशापि स्वतत्त्वं यावदपरिज्ञानसंयुतं तावदेव जगत् । परिज्ञातं तु न
त्वं नाहं नाप्यस्तिनास्ती सत्तासत्ते नापि भविष्यतीति क्वचित्कोटौ व्यवतिष्ठत इत्यर्थः
॥ २४ ॥
यथास्थितं सदैवेदं मौनमेव शिलाघनम् ।
अनाद्यन्तमविच्छिद्रमनिद्रं च सनिद्रकम् ॥ २५ ॥
एवमव्यवस्थित्या जगद्भावनिरासे ब्रह्मैव परिशिष्टमिति दर्शयति -
यथास्थितमिति । अज्ञदृशा सनिद्रकं निद्रयेव स्वात्मन्येव जगद्वैचित्र्यं
कल्पयदित्यर्थः ॥ २५ ॥
पूर्वं सर्गाद्यथैवासीत्तथैवैकं समस्थितम् ।
भविष्यत्यधुनानन्तकालमेवं तथैव च ॥ २६ ॥
परमार्थतस्तु सदैवैकरूपमित्याह - पूर्वमिति । अधुना वर्तमानकाले तथैवास्ति
। अनन्तकालमग्रे च तथैव भविष्यतीत्यन्वयः ॥ २६ ॥
नैवात्मता न परता न जगत्ता न शून्यता ।
न मौनता न मौनित्वं किञ्चिन्नेहोपपद्यते ॥ २७ ॥
तस्य च आत्मत्वादयोऽपि विशेषा व्यावर्त्याभावान्न सन्ति किं पुनरन्ये इत्याह -
नैवेति ॥ २७ ॥
त्वं यथास्थितमेवास्व यथास्थितमहं स्थितः ।
सुखासुखे पराकाशे शान्ते नेहास्ति किञ्चन ॥ २८ ॥
परमाकाशतां मुक्त्वा किं स्वप्ननगरे वद ।
विद्यते किल तच्छान्तं चिद्व्योमाच्छमनामयम् ॥ २९ ॥
अपरिज्ञप्तिरेवैका तत्र सम्भ्रमकारिणी ।
परिज्ञातमिदं यावद्विद्यते सापि न क्वचित् ॥ ३० ॥
सा अपरिज्ञप्तिरपि परिज्ञातमिति हेतोर्न विद्यते ॥ ३० ॥
परिज्ञाते जगत्स्वप्ने यावत्सत्यं न किञ्चन ।
ग्रहस्तदेनन्न् प्रति किं स्नेहो वन्ध्यासुते तु कः ॥ ३१ ॥
एवं जगत्स्वप्नं प्रति किं किमर्थ ग्रहः अभिनिवेशः ॥ ३१ ॥
स्वप्नकाले परिज्ञाते जगत्स्वप्नमणावणौ ।
किमुपादेयता कास्था प्रबोधेऽसौ न किञ्चन ॥ ३२ ॥
अणौ अणौ सम्भाव्यत इति शेषः ॥ ३२ ॥
यन्न किञ्चित्प्रबोधोऽस्ति नाप्रबोधोऽस्ति तत्क्वचित् ।
यस्तूपलम्भस्तत्काले पूर्वावस्थैव सा तथा ॥ ३३ ॥
प्रबोधकाले असदप्यप्रबोधकाले सदस्तु तत्राह - यदिति । पूर्वावस्था अज्ञतैव ।
सा तथा तदुपलम्भात्मना प्रथते इत्यर्थः ॥ ३३ ॥
विद्यते वर्तमानत्वं भविष्यद्भूतता तथा ।
बोधाबोधश्च नो सत्यं वस्तु शान्तं किलाखिलम् ॥ ३४ ॥
तर्हि कालत्रयमज्ञानन्न् तज्ज्ञानं चकिं सत्यं नेत्याह - विद्यत इति ॥ ३४ ॥
यथोर्मिणोर्मौ निहते न काचित्पयसां क्षतिः ।
तथा देहेन निहते देहे नास्ति चितेः क्षतिः ॥ ३५ ॥
तथा च मिथ्याभूतदेहादौ मिथ्याभूतैः शत्रुभिर्हतेऽपि न
तदुभयाधिष्ठानात्मनः क्षतिरित्याह - यथेति ॥ ३५ ॥
चितावाकाश एवाहं देह इत्युपजायते ।
संविदेव ततो देहे नष्टे किं नाम नश्यति ॥ ३६ ॥
आकाशभूतायां चितावेव देह इति भ्रान्तिसंविदेव उपजायते । तथा च
भ्रान्तिसंविद्रूपे देहे नष्टे किं नाम नश्यति ॥ ३६ ॥
प्रबुद्धस्यैव चिद्व्योम्नः स्वप्नो जगदिति स्थितम् ।
पृथ्व्यादिरहितं यस्मात्तस्मात्स्वप्नात्मकं जगत् ॥ ३७ ॥
सर्गादौ पूर्वचित्स्वप्नाज्जाता पृथ्व्यादिवस्तुधीः ।
स्वप्नार्थे सत्यताभ्रान्तिः कल्पनामात्ररूपिणी ॥ ३८ ॥
पूर्वपूर्वचित्स्वप्नसंस्कारात् ॥ ३८ ॥
पूर्वात्पूर्वतरस्यास्य स्वप्नस्यावयवस्थितौ ।
सत्येवासत्यरूपायां पृथ्व्यादिकलना कृता ॥ ३९ ॥
एवं पूर्वात्पूर्वतरस्यानादिप्रवाहरूपस्य स्वप्नस्यावयवस्थितौ
इदानीन्तन्यामसत्यरूपायामेव सत्येव कलना मूढैः कृता ॥ ३९ ॥
सा च भ्रान्तिस्तथा रूढा यथासत्यैव सत्यताम् ।
परमामागता तत्तु सत्यमत्यन्तनिर्मलम् ॥ ४० ॥
तत् परमार्थसत्यन्न् त्वत्यन्तनिर्मलं न जाड्यकलुषमित्यर्थः ॥ ४० ॥
वस्तुतस्तु यथाभूतं चिद्ब्रह्मैवाततं स्थितम् ।
न च तत्संस्थितं किञ्चित्स्मर्ताऽस्मर्ता किमात्मकः ॥ ४१ ॥
असत्यरूपायान्न् सत्येव कलना कृतेति इवकारेणोपमित्वा तेन भ्रान्तिकलनायां
सत्यार्थकलनासादृश्यं दर्शितम् । तच्च सत्सु प्राक्सत्यार्थेषु तदनुभवे
साम्प्रतं च तत्स्मर्तरि युज्यते नान्यथेत्याशङ्क्त्याह - वस्तुत इति । तत् सत्यरूपं
पृथ्व्यादि किञ्चित्प्रागपि न च संस्थितम् । एवं च तदनुभवस्यात्यन्ताप्रसिद्धौ
स्मर्ता अस्मर्ता विस्मर्ता वा किमात्मकः ॥ ४१ ॥
एवं मात्रापरिज्ञानमेवात्र प्रतिबोधकम् ।
अत्रैव तु परिज्ञानं कवाटप्रविघाटनम् ॥ ४२ ॥
तर्ह्यसत्ये अत्यन्ताप्रसिद्धसत्यतायाः सादृश्यस्य च किं प्रतिबोधकमिति चेत्
स्वप्रकाशसत्यस्वरूपाऽपरिज्ञानमेवेत्याह - एवं मात्रेति ।
यथार्थभूतचिद्ब्रह्ममात्रगोचरमपरिज्ञानमज्ञानमेव जगति
सत्यताप्रतिबोधकम् । अत एव तत्त्वपरिज्ञानमेवाज्ञानावरणकवाटस्य जगत्सत्यता
भ्रान्त्यादिविक्षेपकपाटस्य च प्रविघाटनमपावरणमित्यर्थः ॥ ४२ ॥
पारिशेष्यान्न पृथ्व्यादि किञ्चित्सम्भवति क्वचित् ।
यो द्रष्टा यच्च वा दृश्यं विमलं शिवमेव तत् ॥ ४३ ॥
सकार्याज्ञानबाधे चिन्मात्रपारिशेष्यात्तत्परिशिष्टं चिन्मात्रं शिवमेव ॥ ४३ ॥
मुकुरेऽन्तर्यथा बिम्बाद्बिम्बं भाति जगत्तथा ।
चिद्व्योमनि स्वतो भातमबिम्बादेव बिम्बितम् ॥ ४४ ॥
बाह्याद्बिम्बान्निमित्ताद्बिम्बं प्रतिबिम्बम् । अबिम्बात् विनैव बाह्यं बिम्बमिति
मुकुरापेक्षया विशेषः ॥ ४४ ॥
मुकुरेऽन्तर्यथा बिम्बं न दृष्टमपि किञ्चन ।
तथा चिद्व्योमगं विश्वं न दृष्टमपि किञ्चन ॥ ४५ ॥
कस्तर्हि मुकुरदृष्टान्ते विवक्षित्ॐऽशस्तमाह - मुकुरे इति ॥ ४५ ॥
लभ्यते यद्विचारेण यत्सकारणकं स्थितम् ।
तत्सच्छेषं तु भामात्रमभूतं सत्कथं भवेत् ॥ ४६ ॥
विचारेण शास्त्रीयविचारेण । सकारणकं सप्रमाणकं तदेव सत् परमार्थसत्यम् ।
शेषमितरत्तु भामात्रं प्रतिभामात्रं कालत्रयेऽप्यभूतम् ॥ ४६ ॥
भवेद्भ्रमात्मकमपि किञ्चिदर्थक्रियाकरम् ।
स्वप्नाङ्गनापि कुरुते सत्यामर्थक्रियां नृणाम् ॥ ४७ ॥
असच्चेत्कथं व्यवहारार्थक्रियाक्षमं जगत्तत्राह - भवेदिति । सत्यां
स्वाधिकसत्तायां चरमधातुविसर्जनलक्षणामर्थक्रियाम् ॥ ४७ ॥
यत्तद्भानं तु सा चिद्भा परमं तच्चिदम्बरम् ।
इति क्वाहं क्व विश्वश्रीः क्व त्वं दृश्यदृशश्च काः ॥ ४८ ॥
अहमादिविश्वश्रीर्हि भासमाना सिद्धा नान्यथा । तत्र यत्तद्भानन्न् सा चिद्भा
आत्मस्वरूपचित्प्रकाश एव नान्या । तद्भानव्यावर्तकं दृश्यरूपं तु भानात्
पृथक्कारे शून्यत्वाद्भानात्मकत्वे तद्व्यावर्तकत्वायोगाच्चिदम्बरमेव । इति
विमर्शेन किञ्चिज्जगद्रूपं प्रसिध्यतीत्यर्थः ॥ ४८ ॥
मृत्वा पुनर्भवनमस्ति किमङ्ग नष्टं मृत्वा न चेद्भवनमस्ति तथापि
शान्तिः ।
विज्ञानदृष्टिवशतोऽस्त्यथ चेद्विमोक्षस्तन्नेह किञ्चिदपि
दुःखमुदारबुद्धेः ॥ ४९ ॥
हे अङ्ग उदारबुद्धेस्तव दर्शितप्रकारा या
विज्ञानदृष्टिस्तद्वशतश्चिन्मात्रभूतस्य देहापगमेन मृत्वा
पुनर्देहान्तरोत्पत्त्या भवनं चेदस्ति । मोक्षो नास्तीति यावत् । तथापि किं नष्टं का
क्षतिः । निर्दुःखनिरतिशयानन्दचिदात्मनो नाशोत्पत्तिभ्यामस्पर्शात् । अथ चेन्मृत्वा
पुनर्भवनं नास्ति । विमोक्षोऽस्ति चेदिति यावत् । तथापि सर्वप्रपञ्चशान्तिरेव ।
तत्तस्मादिह दुःखं किञ्चिदपि पक्षद्वयेऽपि न प्रसज्जत इत्यर्थः ॥ ४९ ॥
मूर्खस्य यादृशमिदं तु तदज्ञ एव जानात्यसौ न हि वयं किल तत्र
तज्ज्ञाः ।
मत्स्यो हि यो मृगनदीसलिले स एव जानाति तच्चपलवीचिविवर्तनानि ॥ ५० ॥
मूर्खस्य तर्हि कथं मरणजन्मनोर्दुःखप्रसक्तिरिति चेत्तां स एव जानातीत्याह -
मूर्खस्येति । यो मृगनदीसलिले मत्स्योऽहमिति मत्स्यभावमनुभवति स एव
तस्याश्चपलवीचिविवर्तनानि जानाति न तु मृगनदीभ्रान्तिशून्यः कश्चिदित्यर्थः ॥ ५०
॥
अन्तर्बहिस्त्वमहमित्यपि चैवमादि सर्वात्मकं तपति चिन्नभ एकमेव ।
शाखाशिखाविटपपत्रफलैकदेहः सङ्कल्पवृक्ष इव बोधखमात्रसारः
॥ ५१ ॥
तत्त्वविद्दृष्ट्या त्वन्तर्बहिश्च तच्चिन्नभः त्वं अहमपि चैवमादि जगच्चेति
सर्वात्मकं भूत्वा तपति स्फुरति । यथा बोधखमात्रसार आत्मैव शाखा तच्छिखा
तद्विटपास्तत्पत्रफलानि चेत्याद्येकदेहः सङ्कल्पवृक्षः सन् मनोराज्ये स्फुरति
तद्वदित्यर्थः ॥ ५१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्रकरणे उ०
परमार्थनिरूपणं नाम नवनवतितमः सर्गः ॥ ९९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
परमार्थनिरूपणं नाम नवनवतितमः सर्गः ॥ ९९ ॥