०९८

अष्टनवतितमः सर्गः ९८

श्रीवसिष्ठ उवाच ।

विवेकिनो विरक्ता ये विश्रान्ता ये परे पदे ।
तेषां तनुत्वमायान्ति लोभमोहादयोऽरयः ॥ १ ॥

लक्षणान्युपवर्ण्यन्ते सतां तत्त्वविदामिह ।
परीक्ष्योपेक्ष्य तद्दोषान् कर्तव्यश्च तदाश्रयः ॥

तनुत्वमल्पताम् । तथा च लोभादिदोषाल्पतापि तल्लक्षणं चेन्निर्दोषत्वं किं वाच्यमिति
भावः ॥ १ ॥

न हृष्यन्ति न कुप्यन्ति नाविशन्त्याहरन्ति च ।
उद्विजन्तेऽपि नो लोकाल्लोकान्नोद्वेजयन्ति च ॥ २ ॥

नाविशन्ति क्वापि विषये नाभिनिविशन्ते । एवं नाहरन्ति न सङ्गृह्णन्ति भोग्यजातम् ॥
२ ॥

न नास्तिक्यान्न चास्तिक्यात्कष्टानुष्ठानवैदिकाः ।
मनोज्ञमधुराचाराः प्रियपेशलवादिनः ॥ ३ ॥

एवं पारलौकिककर्मस्वपि नात्यन्तकायक्लेशावहेषु
शुष्कवैदिकवद्धठात्क्लिश्यन्तीत्याह - नेति । अस्ति परलोक इति मतिर्यस्य स आस्तिकः
नास्ति स इति मतिर्यस्य स नास्तिकः तदन्यतरभावाभिमानप्रयुक्ताद्धठादित्यर्थः ॥ ३

सङ्गादाह्लादयन्त्यन्तः शशाङ्ककिरणा इव ।
विवेचितारः कार्याणां निर्णेतारः क्षणादपि ॥ ४ ॥

कार्याणां कर्तुमुचितानां लौकिकवैदिककर्मणां
परस्परविरोधादनुष्ठानसङ्कटे अकार्येभ्यो विवेचयितारः सन्देहनिर्णेतारः ॥ ४ ॥

अनुद्वेगकराचारा वान्धवा नागरा इव ।
बहिः सर्वसमाचारा अन्तः सर्वार्थशीतलाः ॥ ५ ॥

नागराश्चतुराः । सर्वैः समः साधारण आचारो येषाम् ॥ ५ ॥

शास्त्रार्थरसिकास्तज्ज्ञा ज्ञातलोकपरावराः ।
हेयोपादेयवेत्तारो यथाप्राप्ताभिपातिनः ॥ ६ ॥

विरुद्धकार्यविरता रसिकाः सज्जनस्थितौ ।
अनावरणसौगन्ध्यैः परास्पदसुखाशनैः ॥ ७ ॥

सज्जनस्थितौ सदाचारे । अनावरणमुपदेशेन हृदयकोशोद्घाटनं
तत्प्रयुक्तैर्ज्ञानोदयसौगन्ध्यैः परैः आस्पदैः आश्रयदानैः
सुखैरशनैरन्नैश्च आगतमर्थिनं पूजयन्तीति परेणान्वयः ॥ ७ ॥

पूजयन्त्यागतं फुल्ला भङ्गं पद्मा इवार्थिनम् ।
आवर्जयन्ति जनतां जनतापापहारिणः ॥ ८ ॥

पद्मपक्षे अनावरणेत्यादि स्पष्टम् । आवर्जयन्ति गुणैर्वशीकुर्वन्ति ॥ ८ ॥

शीतलास्पदवत्स्निग्धाः प्रावृषीव पयोधराः ।
भूभृद्भङ्गकरं धीरा देशभङ्गदमाकुलम् ॥ ९ ॥

शीतलमास्पदमुद्यानादि तद्वत्स्निग्धाः । भूभृतां राज्ञां भङ्गकरं
देशभङ्गदं च आकुलं दुर्भिक्षमारीपरचक्रादिप्रयुक्तं जनक्षोभं
तपःप्रभावसत्कर्मानुष्ठापनसामाद्युपायैः रोधयन्ति विष्टभ्य निवारयन्तीति
परेणान्वयः ॥ ९ ॥

रोधयन्त्यागतं क्षोभं भूकम्पमिव पर्वताः ।
उत्साहयन्ति विपदि सुखयन्ति च सम्पदि ॥ १० ॥

चन्द्रबिम्बोपमाकारा दारा इव गुणाकराः ।
यशःपुष्पामलदिशो भाविसत्फलहेतवः ॥ ११ ॥

रूपमाधुर्यप्रेमादिगुणाकारा दाराः पतिव्रता इव । यश इत्यादिविशेषणैः साधून्
वसन्तत्वेनोत्प्रेक्षते ॥ ११ ॥

पुंस्कोकिलसमालापा माधवा इव साधवः ।
कल्लोलबहुलावर्तं व्यामोहमकरालयम् ॥ १२ ॥

माधवा वसन्ताः । कल्लोलेत्यादीनि परचित्तमहार्णवविशेषणानि ॥ १२ ॥

लुठन्तमिव हेमन्तं लोडयन्तं जनास्पदम् ।
वीचिविक्षोभचपलं परचित्तमहार्णवम् ॥ १३ ॥

पद्माकरेषु अतिशिशिरतरपवनविक्षिप्ततरङ्गच्छलेन लुठन्तं हेमन्तमिव
जनास्पदं जनपदं भृङ्गहंसादिजनास्पदं पद्मवनं च लोडयन्तम् ।
वीचयः षडूर्मयस्तद्विक्षोभैश्चपलं तत्प्रसिद्धलोभद्वेषादिमोहितम् । चोऽप्यर्थे ।
ईदृशमपि परेषां राजादीनां चित्तमहार्णवं सामदानादिना विवेकोपदेशैश्च
रोधयितुं शक्ताः ॥ १३ ॥

तच्च रोधयितुं शक्तास्तटस्थाः साधुपर्वताः ।
आपत्सु बुद्धिनाशेषु कल्लोलेष्वाकुलेषु च ॥ १४ ॥

तटस्था उदासीना वेलासन्निहिताश्च । साधुपर्वता इति रूपकं नोपमितसमासः ।
सामान्यधर्माणां प्रयोगात् । अत एव सतां विवेकिनामापदादिषु प्राप्तेषु सन्त एव
गतिः । कल्लोलेषु अशनायापिपासाशोकमोहजरामृत्युलक्षणषडूर्मिषु आकुलेषु
देशविवरादिषु [देशविड्वराहादिषु इति पाठः ।] च ॥ १४ ॥

सङ्कटेषु दुरन्तेषु सन्त एव गतिः सताम् ।
एभिश्चिह्नैरथान्यैश्च ज्ञात्वा तानुचिताशयान् ॥ १५ ॥

एभिरिदानीमुक्तैः । अथशब्दचशब्दौ समुच्चये । अन्यैः प्रागुक्तैश्च ॥ १५ ॥

आश्रयेतैकविश्रान्त्यै श्रान्तः संसारवर्त्मना ।
यस्मादत्यन्तविषमः संसारोरगसागरः ॥ १६ ॥

एकस्मिन्नद्वये ब्रह्मणि विश्रान्त्यै । उरगभीषणः सागर उरगसागरः ॥ १६ ॥

विना सत्सङ्गमन्येन पोतकेन न तीर्यते ।
आस्तां किं मे विचारेण यद्भवेदस्तु तन्मम ॥ १७ ॥

इत्यन्तः कल्कमासाद्य न स्थेयं गर्तकीटवत् ।
एकोऽपि विद्यते यस्य गुणस्तं सर्वमुत्सृजन् ॥ १८ ॥

कल्कं प्रमादम् । उक्तगुणानां मध्ये एकोऽपि गुणो यस्य विद्यते तमपि
तावन्मात्रमुद्दिश्य सर्वं कार्यान्तरमुत्सृजन्सन् अनादृतान्यतद्दोषं यथा
स्यात्तथा आश्रयेदिति परेणान्वयः ॥ १८ ॥

अनादृतान्यतद्दोषं तावन्मात्रं समाश्रयेत् ।
गुणान्दोषांश्च विज्ञातुमाबाल्यात्स्वप्रयत्नतः ॥ १९ ॥

यथासम्भवसत्सङ्गशास्त्रैः प्राग्धियमेधयेत् ।
दोषलेशमनादृत्य नित्यं सेवेत सज्जनम् ॥ २० ॥

स्थूलदोषं त्वनिर्वाणं शनैः परिहरेत्क्रमात् ।
याति रम्यमरम्यत्वं स्थिरमस्थिरतामपि ॥ २१ ॥

स्थूला दोषा यस्य तथाविधं त्वनिर्वाणं पूर्वपरिजनं शनैः परिहरेत्त्यजेत् ।
तदपरिहारे के दोषास्तानाह - यातीति । रम्यं शोधितमपि चित्तमरम्यत्वं
रागादिकलुषतां याति । स्थिरमपि विश्रान्तिसुखं विच्छेदादस्थिरतां याति ॥ २१ ॥

यथा दृष्टं तथा मन्ये याति साधुरसाधुताम् ।
एष सोऽत्यन्त उत्पातो यः साधुर्याति दुष्टताम् ॥ २२ ॥

कुत एतन्मन्यसे इति चेल्लोके तथैव दर्शनादित्याह - यथेति । अस्त्वेवं ततोऽपि को
दोषस्तत्राह - एष इति । उत्पातो जगदनिष्टसूचकः ॥ २२ ॥

देशकालवशात्पापैर्महोत्पातोऽपि दृश्यते ।
सर्वकर्माणि सन्त्यज्य कुर्यात्सज्जनसङ्गमम् ।
एतत्कर्म निराबाधं लोकद्वितयसाधनम् ॥ २३ ॥

पापैर्जनानां दुरदृष्टैः दृश्यते । यथा विश्वामित्रस्य
लुब्धामात्यादिसङ्गाद्वसिष्ठकामधेनुहरणे प्रवृत्तिस्तया च
परस्परवैरवृद्ध्या बहुतरमाडीबकयुद्धान्तं जगदनिष्टम् । एवं
कश्यपविश्रवःप्रभृतीनां भार्यासङ्गत्या
जगदनिष्टनिमित्तदैत्यराक्षसाद्युत्पादने प्रवृत्तिरपि
देशकालवशाद्धूमकेत्वादिप्रसिद्धमहोत्पातवद्दृश्यत इत्यर्थः ।
उक्तमनूद्योपसंहरति - सर्वेति ॥ २३ ॥

न सज्जनाद्दूरतरः क्वचिद्भवेद्भजेत साधून्विनयक्रियान्वितः ।
स्पृशन्त्ययत्नेन हि तत्समीपगं विदारिणस्तद्गतपुष्परेणवः ॥ २४ ॥

स च सज्जनसमागमो गुणार्जनक्रमेण ज्ञानप्रतिष्ठासिद्धिपर्यन्तं न
विच्छेदनीय इत्याह - नेति । क्वचिदपि काले सज्जनाद्गुरोर्दूरतरो न भवेत् ।
विनयसेवादिक्रियान्वितः सन् सदैव भजेत । किं ततस्तत्राह - स्पृशन्तीति । तेषां
साधूनां समीपगमेनं अयत्नेनैव विसारिणस्तेषां शान्तिदान्त्यादिगुणलक्षणाः
पुष्परेणवः सौगन्ध्यविशेषा अधिवासनमिश्रीकृततिलानिव स्पृशन्ति । अवश्यं
सङ्क्रामन्तीत्यर्थः ॥ २४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ०
सज्जनसमागमप्रशंसा नामाष्टनवतितमः सर्गः ॥ ९८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाअशे निर्वाणप्रकरणे उत्तरार्धे
सज्जनसमागमप्रशंसा नामाष्टनवतितमः सर्गः ॥ ९८ ॥