०९७

सप्तनवतितमः सर्गः ९७

श्रीवसिष्ठ उवाच ।

संविन्मयत्वाज्जगतः स्वप्नस्य परमात्मनः ।
ब्रह्माकाशतया सर्वं ब्रह्मैवेत्यनुभूयते ॥ १ ॥

वर्ण्यते सर्वशक्तित्वात्सर्ववाद्युक्तिसत्यता ।
भोगासक्तिश्च सर्वेषां तत्त्वज्ञविरलस्थितिः ॥

ब्रह्मणः सर्वशक्तित्वात्सर्ववाद्युक्तीनां सत्यतेति वक्ष्यमाणार्थोपयोगितयान
तदस्ति न यत्सत्यम् इति सर्गोपान्त्यश्लोकोक्तं समर्थयितुं भूमिकां रचयति -
संविन्मयत्वादिति । परमात्मनः स्वप्नभूतस्य जगतः
परमार्थसत्यब्रह्माकाशतया सर्वं ब्रह्मैवेति सत्यमेव जगत्सर्वैरनुभूयत इति
नासत्यं किञ्चिदस्तीत्युक्तमित्यर्थः ॥ १ ॥

भ्रमस्य चातिदृश्यत्वाददृश्यत्वान्महाचितेः ।
मदशक्तिवदात्मेति सत्यतास्यापि युज्यते ॥ २ ॥

एवं ब्रह्मरूपेण सत्यत्वेऽपि कथं प्रतीयमानरूपेण सत्यता । न हि रज्जुरूपं
सत्यमिति तदध्यस्तः सर्पः सत्यो भवति तत्राह - भ्रमस्येति । तत्र हि सर्पोऽपि
दृश्यो रज्जुरपि दृश्या । उभयोर्दृश्यत्वे रज्जुदर्शने सर्पबाधादसत्यता इह तु
जगद्भ्रान्तिर्दृश्या तदधिष्ठानं महाचितिरदृश्येति वैषम्याच्चिदात्मा
मदशक्तिरिव स्वयमदृश्यो दृश्यभ्रमहेतुः कार्यरूपेणैव स्वसत्तां
प्रकटयतीत्यस्य जगद्रूपस्य सत्यता युज्यत इत्यर्थः ॥ २ ॥

असत्त्वाद्दृश्यविश्रान्तेरलभ्यत्वान्महाचितेः ।
उपलब्धुरभावाच्च शून्यनाम्नीव सत्यपि ॥ ३ ॥

तर्हि न तदस्ति न यन्मृषेत्युक्तिः कथं घटतां ब्रह्मणो मृषात्वायोगात्तत्राह

  • असत्त्वादिति । बन्धकाले दृश्यविश्रान्तेः
    सर्वदृश्योपरमलक्षणमोक्षस्यासत्त्वादसम्पत्तेस्तां विना
    महाचितेरद्वितीयचिदात्मनः अलभ्यत्वान्मुक्तिकालेऽपि उपलब्धुः
    प्रमातुरन्तःकरणोपहितजीवस्योपलम्भकप्रमाणादेश्च बाधेनाभावाच्चा
    त्यन्ताप्रसिद्धप्रायतया सति परमार्थवस्तुन्यपि शून्यत्वमिव सुवचमित्यर्थः ॥ ३ ॥

चिन्मात्रं पुरुषोऽकर्ता समेत्यव्यक्ततो जगत् ।
एवन्दृष्टेः सत्यमेतदेवमर्थानुभूतितः ॥ ४ ॥

एवं सति सर्वेषां वादिनां वाक्यं स्वस्वानुभवसिद्धार्थप्रतिपादनात्सत्यमेवेति
प्रपञ्चयिष्यन् प्रथमं साङ्ख्योक्तेः सत्यतां दर्शयति - चिन्मात्रमिति । इदं
जगत् सुखदुःखमोहात्मतया अन्वीयमानं
तथाविधसामान्यपरम्परावधिभूतगुणत्रयसाम्यावस्थालक्षणादव्यक्ततः
प्रधानाख्यान्मूलकारणान्महदहङ्कारादिक्रमेण समेति आविर्भवति । पुरुषस्तु
चिन्मात्रमकर्ता च । तस्य भोगमोक्षसिद्धये सर्गः प्रवर्तत इत्येवं दृष्टिर्यस्य
कपिलस्य तस्य तथैव तत्सत्यमित्यर्थः ॥ ४ ॥

विवर्तो ब्रह्मणो दृश्यमित्येवंवादिनोऽपि सत् ।
मतमेवंस्वरूपाणामर्थानामनुभूतितः ॥ ५ ॥

यस्तु वेदान्ती ब्रह्मणो विवर्तो जगदिति वादी तस्यापि मतं सत् । तथा पर्यालोचने
एवंरूपाणामेवार्थानामनुभवादित्यर्थः ॥ ५ ॥

परमाणुसमूहात्म जगदित्यपि सत्यतः ।
संवेद्यते यथा यद्यत्तत्तथैवानुभूतितः ॥ ६ ॥

एवं कणादगौतमसौत्रान्तिकवैशेषिकार्हतानां परमाणुसमूहात्मकमेव
जगदिति कपनापि तदनुभवानुसारित्वात्सत्यैवेत्याह - परमाण्विति ॥ ६ ॥

यथा दृष्टं तथैवेदमिह लोके परत्र च ।
नासन्न सदिति प्रौढा सत्यमाध्यात्मिकी गतिः ॥ ७ ॥

एवं दृष्टसृष्टिवादिनामनिर्वचनीयमेवेह लोके परत्र च जगन्न तु
सदसदन्यतरकोटिप्रतिष्ठितमित्याध्यात्मिकी मनःकल्पनामात्ररूपा जगतो
गतिरवगतिरपि सत्यम् । तैस्तथैवानुभवादित्यर्थः ॥ ७ ॥

बाह्यमेवास्ति नास्त्यन्यदित्यन्ये सत्यवादिनः ।
स्वात्मन्यक्षगणातीतं प्राप्नुवन्ति न ते यतः ॥ ८ ॥

एवं ये अन्ये चार्वाका बाह्यं पृथिव्यादिभूतचतुष्टयमेवास्ति
अन्यदान्तरमात्मरूपं नास्तीति वदन्ति तेऽपि सत्यवादिन एव । यतस्ते
अक्षगणेभ्यश्चक्षुरादिभ्योऽतीतं स्वात्मनि देहे विमृशन्तो न प्राप्नुवन्ति ॥ ८ ॥

अनारतविपर्यासदर्शनात्क्षणभङ्गधीः ।
युक्तैव तद्विदामाद्यं सर्वशक्ति हि तत्पदम् ॥ ९ ॥

एवं क्षणिकवादिनां क्षणभङ्गधीरपि युक्तैव । प्रतिक्षणपरिणामिनां
सर्वभावानामनारतं विपर्यासदर्शनादित्यर्थः ॥ ९ ॥

कलविङ्कघटन्यायो धर्म इत्यपि तद्विदाम् ।
तथात्मसिद्धेर्म्लेच्छानां तद्देशेषु न दुष्यति ॥ १० ॥

यथा घटेऽवरुद्धः कलविङ्कस्तन्मुखापावरणे बहिरुड्डीय गच्छति एवं
देहान्तःपरिच्छिन्नो धर्मो जीवः कर्मक्षये परलोके उड्डीय गच्छतीत्यार्हतकल्पनापि
सत्या । तथा म्लेच्छानां यवनादीनामीश्वरोत्पादितो देहाकार एव जीवो
देहनिखननदेशेषु तिष्ठति स ततः कालान्तरे ईश्वरेण परामृष्टस्तदिच्छया
मुच्यते उच्छिद्यते । शाश्वतं स्वर्गे नरके वा निवेश्यत इति कल्पनापि
तदनुभवानुसारादेव न दुष्यति ॥ १० ॥

समाः सन्तश्च विप्राग्निविषामृतमृतिष्वपि ।
भान्त्येवं तद्विदां सर्वमिदं सर्वात्मकं यतः ॥ ११ ॥

एवं सर्वत्र समबुद्धीनां सन्मात्रवस्तुनि दत्तदृष्टीनां
विषामृतमृतिजन्मादिषु विषमत्वेन कादाचित्कत्वेन च प्रसिद्धेष्वपि सर्वत्र समाः
सदा सन्तश्च भान्ति । यत इदं ब्रह्मैव सर्वं सर्वात्मकं चातो न किञ्चिदत्र
दुर्लभमिति सर्ववादिनामपि सर्वाभिलषितसिद्धिरित्यर्थः ॥ ११ ॥

स्वभावसिद्धमेवेदं युक्तमित्येव तद्विदाम् ।
अन्विष्टा याति नो प्राप्तिं बुद्धिमत्सर्वकर्तृता ॥ १२ ॥

एवं स्वभावादेव स्वयमेव सर्वं जगदुत्पद्यते स्वभावादेव नश्यति न जगतः
कर्ता कश्चिदस्तीति तद्विदां स्वभाववादिनां चार्वाकाणां मतमपि युक्तमेव । यतो
घटपटादौ दृष्टापि बुद्धिमत्सर्वकर्तृता वृष्टिवाततृणाङ्कुरादौ
सम्यगन्विष्टापि वाप्तिं नो याति । न ह्यकालवृष्टिसुक्षेत्रतृणादयः
कृषीवलानां सस्यकर्तॄणामनिष्टा विनैव कर्तारं स्वभावादेव जायमानाः
कर्तृकल्पनां सहन्ते । न हि सर्वानिष्टकर्ता कश्चिदस्ति तस्य
चाकालवृष्टिपरक्षेत्रतृणादिना प्रयोजनमस्तीति कल्पना सम्भवतीति भावः ॥ १२ ॥

एकः सर्वत्र कर्तेति सत्यं तन्मयचेतसाम् ।
सोऽयं निश्चयवान्सोऽत्र तदाप्नोतीत्यबाधितम् ॥ १३ ॥

क्षित्यङ्कुरादौ सर्वत्र कार्यमात्रे एकः कर्ता इति यत्कल्पनं तदपि सत्यम् । तथा
निश्चयवतामीश्वरोपासकानां तत्प्राप्त्यनुग्रहवरदानाद्यर्थक्रियादर्शनादित्याह

  • एक इति । तन्मयं तदासक्तं चेतो येषाम् । सोऽयमुपासको यतस्तथा
    निश्चयवांस्ततः सोऽन्तस्तत्स्वोपास्यं सर्वकर्तारं प्राप्नोति । न ह्यसौ पूर्वादीव तं
    बाधितं मन्यते । अकालवृष्टिसुक्षेत्रतृणादीनामपि सर्वानिष्टत्वासिद्धेः
    सर्वकर्मफलप्रदस्येश्वरस्य दुष्कर्मफलानिष्टकर्तृत्वे दोषाभावाच्चेति ॥ १३ ॥

अयं लोकः परश्चास्ति स्नानाग्न्यादि च नेतरत् ।
एतदेतादृशं सत्यं विद्धि भावितभावनम् ॥ १४ ॥

आस्तिकानामयं लोक इव परोऽपि लोकोऽस्ति । अतः परलोकार्थिनां तीर्थस्नानाग्निहोत्रादि इतरत्
निष्फलं न । एतादृशं तेषामेतद्भावितभावनं सत्यमेव ॥ १४ ॥

अशेषं शून्यमेवेति बौद्धानामेतदेव सत् ।
लभ्यते तद्विचारेण यत्र किञ्चन नैव हि ॥ १५ ॥

एतत्तद्भावनमपि सत्यमेव । यत्र शून्यवादे तत्प्रमाणशून्ये
प्रमेयशून्यत्वकल्पनसम्भवादिति भावः ॥ १५ ॥

चितिश्चिन्तामणिरिव कल्पद्रुम इवेप्सितम् ।
आशु सम्पादयत्यन्तरात्मनात्मनि खात्मिका ॥ १६ ॥

सर्ववादिनां स्वस्वाभिलषितसिद्धावुपपत्तिमाह - चितिरिति ॥ १६ ॥

नेदं शून्यं न चाशून्यमित्यवस्तु न तद्विदाम् ।
सर्वशक्तिर्हि सा शक्तिर्न तद्विद्यत एव तत् ॥ १७ ॥

एवं शून्याशून्यविलक्षणानिर्वचनीयतृतीयविधावादिनामपि
तत्स्वाभिमतमवस्त्वसत्यं न । यतः सर्वशक्तेर्ब्रह्मणः सा अनिर्वचनीया
मायाशक्तिः । हि यस्मात्तच्छून्यं न । यद्विद्यते ब्रह्म तदेव च न
उभयविलक्षणेत्यर्थः ॥ १७ ॥

तस्मात्स्वनिश्चये यस्मिन्यः स्थितः स तथा ततः ।
अवश्यं फलमाप्नोति न चेद्बाल्यान्निवर्तते ॥ १८ ॥

बाल्यादविश्वासलक्षणाच्चापलाद्धेतोः पूर्वनिश्चयान्न निवर्तते चेदित्यर्थः । अथवा
बाल्यादज्ञानान्न न्निवर्तते चेत् । तथा च यावदात्मज्ञानं नास्ति तावदेव
तत्तत्सिद्धान्ताः सत्याः । आत्मज्ञाने तु आत्मैव सत्यो नान्यदिति भावः ॥ १८ ॥

विचार्य पण्डितैः सार्धं श्रेष्ठवस्तुनि धीमता ।
स रूढो निश्चयो ग्राह्यो नेतरत्र यथा तथा ॥ १९ ॥

अत एवाविचाराद्यस्य कस्यचित्सिद्धान्तोन ग्राह्य इत्याह - विचार्येति ॥ १९ ॥

सम्भवत्युत्तमप्रज्ञः शास्त्रतो व्यवहारतः ।
यो यत्र नाम तत्रासौ पण्डितस्तं समाश्रयेत् ॥ २० ॥

पण्डितश्रेष्ठलक्षणमाह - सम्भवतीति द्वाभ्याम् । शास्त्रतः अध्ययनतः ।
व्यवहारतः आचरणतः । यत्र देशे । नामेति तस्य दौर्लभ्यान्वेष्यत्वद्योतनाय ॥ २० ॥

सतां विवदमानानां सच्छास्त्रव्यवहारिणाम् ।
यः समाह्लादकोऽनिन्द्यः स श्रेष्ठस्तं समाश्रयेत् ॥ २१ ॥

अनिन्द्यो निन्दायोग्यनिषिद्धाचरणहीनः ॥ २१ ॥

सर्व एवानिशं श्रेयो धावन्ति प्राणिनो बलात् ।
परिनिम्नं पयांसीव तद्विचार्य समाश्रयेत् ॥ २२ ॥

तर्हि किं निश्चयान्तरनिष्ठा विफला एव नेत्याह - सर्व एवेति । श्रेयः
स्वस्वनिश्चयानुरूपमभिलषितम् । धावन्ति प्राप्नुवन्ति । तत्तेषु
परमपुरुषार्थसाधनं किं स्यादिति विचार्य सच्छास्त्रसद्गुरू एव समाश्रयेत् ॥ २२ ॥

कल्लोलैरुह्यमानानां नृणां संसारसागरे ।
अज्ञाता दिवसा यान्ति तृणानामिव बिन्दवः ॥ २३ ॥

तौ च शीघ्रं समाश्रयेन्न विलम्बेन आयुषि विश्वासायोगादित्याशयेनाह -
कल्लोलैरिति । कल्लोलैर्मनोरथपरम्परातरङ्गैः । अज्ञाता अलक्षिताः तृणानामग्रे
लग्ना बिन्दव इव ॥ २३ ॥

श्रीराम उवाच ।

जगत्पूर्वं लेतवापि विश्रान्ता वितते पदे ।
पूर्वापरविचारेण के पराभावदर्शिनः ॥ २४ ॥

भोगतृष्णाप्राबल्यात्तद्विरक्ता मुमुक्षव एव दुर्लभास्तेष्वपि
परमात्मतत्त्वसाक्षात्कारवन्तस्त्वदुक्तलक्षणाः पण्डितश्रेष्ठा अतिदुर्लभा
इत्यमुमेवार्थं विस्तरेण श्रोतुकामो रामः पृच्छति - जगदिति । वितते पदे
ब्रह्माकाशे जगद्विटपसहस्रवितानजालप्रसारपूर्वकमतिविस्तारेण विश्रान्ता
प्राणिनां भोगतृष्णेति शेषः । एवं सति पूर्वापरजगत्स्वरूपानर्थविचारेण
सारासारविचारेण च भावः परमार्थस्तद्दर्शिनः परास्त्वदुक्तश्रेष्ठपण्डिताः के
वा स्युः । ते अतिदुर्लभा इत्यर्थः ॥ २४ ॥

श्रीवसिष्ठ उवाच ।

जातौ जातौ कतिपये व्यपदेश्या भवन्ति ते ।
येषां यान्ति प्रकाशेन दिवसा भास्वतामिव ॥ २५ ॥

सत्यमतिदुर्लभास्तथापि देवासुरमनुष्यगन्धर्वादिजातिभेदेषु ते सन्त्येवेति
प्रयत्नेनान्वेष्या इति प्रसिष्ठ उत्तरमाह - जातौ जाताविति । तद्यो योदेवानां
प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् इत्यादिश्रुतिव्यपदेश्या
भवन्ति सम्भवन्त्येव ॥ २५ ॥

अधश्चोर्ध्वं च धावन्तश्चक्रावर्तविवर्तनैः ।
सर्वे तृणवदुह्यन्ते मूढा मोहभवाम्बुधौ ॥ २६ ॥

अन्ये तु सर्वे मूढा मोहमहाम्बुधौ भोगतृष्णाकल्लोलैस्तृणवदुह्यन्ते ॥ २६ ॥

नष्टात्मस्थितयो भोगवह्निषु प्रज्वलन्त्यलम् ।
देवा दिवि दवेनाद्रौ दह्यमाना द्रुमा इव ॥ २७ ॥

तदेव देवादिजातिभेदेषु प्रपञ्चयति - नष्टात्मस्थितय इत्यादिना । दवेन
वनहुताशनेन ॥ २७ ॥

पातिता मदसम्पन्ना दानवा दानवारिभिः ।
गजा इव निरालाना घोरे नारायणावटे ॥ २८ ॥

दानवारिभिर्देवैर्नारायणलक्षणे अवटे महागर्ते पातिताः ॥ २८ ॥

न गन्धमपि गन्धर्वा दर्शयन्ति विवेकजम् ।
गीतपीतपरामर्शाः सरन्ति हरिणा इव ॥ २९ ॥

गन्धं लेशमपि । गीतलक्षणं यत्पीतं मदिरा तद्वशात्परैररिषड्वर्गैः ।
परामृश्यन्त इति परामर्शा हरिणा इव मृत्युव्याधसन्निधिं सरन्ति गच्छन्ति ॥
२९ ॥

विद्याधराश्च विद्यानामाधारत्वेन मोहिताः ।
स्फुरितानामुदाराणामपि कुर्वन्ति नादरम् ॥ ३० ॥

ब्रह्मविद्याया अपि विद्यात्वात्तद्योग्यताबलेन स्फुरितानामप्युदाराणां
विवेकानामादरं न कुर्वन्ति । भोगसाधनविद्यास्वेवरमन्त इत्यर्थः ॥ ३० ॥

यक्षा विक्षोभितभुवो दक्षतामक्षता इव ।
दर्शयन्त्यसहायेषु बालवृद्धातुरेषु च ॥ ३१ ॥

भयज्वरोन्मादादिदोषोत्पादनेन विक्षोभिता भूर्जनावासो यैः । स्वयमक्षता इव
स्वदेह। स्थिरं मन्यमाना इति यावत् । असहायेष्वेकाकिषु मणिमन्त्रादिबलशून्येषु च
बालादिषु स्वदक्षतां दर्शयन्ति ॥ ३१ ॥

दन्तिनामिव मत्तानां रंहसा हरिणारिणा ।
कृतः करिष्यसि त्वं च राक्षसानां परिक्षयम् ॥ ३२ ॥

राक्षसानां तु कामबलशौर्यादिना दन्तिवन्मत्तानामरिणा शत्रुभूतेन हरिणा
सिंहभूतेन विष्णुना प्राग्बहुशः परिक्षयः कृतः अग्रे च त्वं करिष्यसीति
तत्प्रमादफलं तेषां प्रत्यक्षमेवेत्याह - दन्तिनामिति ॥ ३२ ॥

भृशं पिशाचाः पश्यन्ति भूतभोजनचिन्तया ।
धूमान्धकारानिलया ज्वालयाहुतयो यथा ॥ ३३ ॥

पिशाचानां तु सदा क्षुधातुरत्वात्प्राणिवधभोजनचिन्तैव सदेति न कदाचिदपि
विवेकप्रसक्तिरित्याह - पिशाचा इति ।
अज्ञानधूमान्धकारस्यान्निलवत्क्रोधहिंसादिज्वालात्वसम्पादिकया
भूतभोजनचिन्तया । यथा अग्नौ पतिता आहुतयः सदैव सधूमज्वालया
दन्दह्यमानं स्वं पश्यन्ति तथा पिशाचा अपीत्यर्थः ॥ ३३ ॥

नागजालमृणालानि मग्नानि धरणीतले ।
नगानामिव मूलानि जडानीव स्थितान्यलम् ॥ ३४ ॥

एवं नागजातावपि विवेको दुर्लभ इत्याह - नागजालेति । धरणीतले पाताले । नगानां
वृक्षाणां मूलानीव जडान्यचेतनानीव विवेकहीनानि स्थितानि ॥ ३४ ॥

विवरं शरणं येषां कीटानामिव भूतले ।
तेषामसुरबालानां विवेकेषु कथैव का ॥ ३५ ॥

अल्पमात्रकणार्थेन सञ्चरन्ति दिवानिशम् ।
पिपीलिकासधर्माणः प्रायेण पुरुषा अपि ॥ ३६ ॥

एवं बलवीर्यप्रभावादिसम्पन्नानान्न् देवाद्यसुरान्तानां विवेकदौर्लभ्ये
अन्येषां तत्किं वाच्यमित्याशयेनाह - अल्पमात्रेत्यादि । पुरुषा मनुष्याः ॥ ३६ ॥

सर्वासां भूतजातीनां व्यग्राणां व्यर्थदीर्घया ।
क्षीबाणामिव गच्छन्ति दिवसानि दुरीहया ॥ ३७ ॥

न कञ्चित्संस्पृशत्यन्तर्विवेको विमलो जनम् ।
जलेऽगाधे निपतितं निमज्जन्तं रजो यथा ॥ ३८ ॥

यथा जले निमज्जन्तं रजः शुष्कपांसुर्न स्पृशति तद्वत् ॥ ३८ ॥

नीयन्ते नियमाधूता मानवा मानवायुभिः ।
काम्पिकैः स्फुटतापूताः किरारुनिकरा इव ॥ ३९ ॥

मानो देहाद्यभिमानस्तल्लक्षणैर्वायुभिः अक्रोधादिनियमेभ्य आधूताश्चालिताः
क्रोधादिवश्यतां नीयन्ते । यथा काम्पिकैः शूर्पकम्पकर्तृभिः
कृषीवलैर्धानास्फुटतासिद्ध्यर्थं खलेषु पूता उड्डायिताः किरारुनिकरा
निःसारधान्याभाससमूहा वायुभिर्नीयन्ते तद्वदित्यर्थः ॥ ३९ ॥

पानभोजनजम्बाले गहने योगिनीगणाः ।
दुर्गन्धपल्वलोद्गारे पतिताः पामरा इव ॥ ४० ॥

सुरारुधिरपानमांसादिभोजनलक्षणो जम्बालः पङ्को यस्मिंस्तथाविधे
तामसधर्मफलभोगासक्तिलक्षणदुर्गन्धपल्वलोद्गारे पतिताः । अविवेकेनेत्यर्थः ॥
४० ॥

केवलं यमचन्द्रेन्द्ररुद्रार्कवरुणानिलाः ।
जीवन्मुक्ता हरिब्रह्मगुरुशुक्रानलादयः ॥ ४१ ॥

एवं देवादिजातिषु विवेकज्ञानदौर्लभ्यं प्रपञ्च्य तेषु ये
प्रबुद्धास्तान्परिगणितानिव कतिपयान्दर्शयति - केवलमित्यादिना ॥ ४१ ॥

प्रजापतीनां सप्तर्षिदक्षाद्याः कश्यपादयः ।
नारदाद्याः कुमाराद्याः सनकाद्याः सुरात्मजाः ॥ ४२ ॥

दानवानां हिरण्याक्षबलिप्रह्रादशम्बराः ।
मयवृत्रान्धनमुचिकेशिपुत्रमुरादयः ॥ ४३ ॥

विभीषणाद्या रक्षस्सु प्रहस्तेन्द्रजिदादयः ।
शेषतक्षककर्कोटमहापद्मादयोऽहिषु ॥ ४४ ॥

अहिषु नागेषु ॥ ४४ ॥

ब्रह्मविष्ण्विन्द्रलोकेषु वास्तव्या मुक्तदेहिनः ।
मुक्तस्वभावास्तुषिताः सिद्धाः साध्याश्च केचन ॥ ४५ ॥

वसन्तीति वास्तव्याः । मुक्तदेहिनो जीवन्मुक्ताः । तुषितादयो देवयोनिभेदाः । केचन न तु
सर्वे ॥ ४५ ॥

मानुषेषु च राजानो मुनयो ब्राह्मणोत्तमाः ।
जीवन्मुक्ताः सम्भवन्ति विरलास्तु रघूद्वह ॥ ४६ ॥

भूतानि सन्ति सकलानि बहूनि दिक्षु बोधान्वितानि विरलानि भवन्ति किन्तु ।
वृक्षा भवन्ति फलपल्लवजालयुक्ताः कल्पद्रुमास्तु विरलाः खलु सम्भवन्ति
॥ ४७ ॥

सर्वजातिष्वपि जीवन्मुक्ताः सन्ति किन्तु ते विरला इत्येतद्दृष्टान्तेनोपपादयति -
भूतानीति । स्पष्टम् ॥ ४७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे उ०
विवेकिविरलत्ववर्णनं नाम सप्तनवतितमः सर्गः ॥ ९७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विवेकिविरलत्ववर्णनं नम सप्तनवतितमह् सर्गः ॥ ९७ ॥