षण्णवतितमः सर्गः ९६
श्रीवसिष्ठ उवाच ।
पाषाणाख्यानमेतत्ते कथितं कार्यकोविद ।
अनयेमाः स्फुरद्दृष्ट्या सृष्टयो नभसि स्थिताः ॥ १ ॥
पाषाणाख्यानतात्पर्यं विद्विवर्तो जगद्भ्रमः ।
वर्ण्यतेऽत्र चिदेवात्मा ब्रह्मानन्दोऽजरामरः ॥
विस्तरेण वर्णितं पाषाणाख्यानं परमप्रकृते योजयति - पाषाणाख्यानमिति ।
अनया आख्यायिकया स्फुरन्त्या चिन्मात्रपूर्णतादृष्ट्या सर्वाः सृष्टयो नभसि
चिदाकाशे शून्यभावे च स्थिता इति निश्चिन्वित्यर्थः ॥ १ ॥
न च स्थितं किञ्चनापि क्वचनापि कदाचन ।
स्थितं ब्रह्मघने ब्रह्म यथास्थितमखण्डितम् ॥ २ ॥
ब्रह्मघने सैन्धवघनवदेकरसे स्वभावे ॥ २ ॥
ब्रह्म चिन्मात्रकं विद्धि तद्यथा स्वप्नदृष्टिषु ।
पुरं भवन्निजाद्रूपान्न कदाचन भिद्यते ॥ ३ ॥
जगतश्चिन्मात्रविवर्तत्वं स्वप्ने सर्वानुभवसिद्धमित्याह - ब्रह्मेति ।
निजाच्चिद्रूपात्कदापि न भिद्यते न प्रच्यवते । तथा च स्वरूपादप्रच्युतस्य
रूपान्तरप्रतिभासो विवर्त इति तल्लक्षणं जगति प्रसिद्धमित्यर्थः ॥ ३ ॥
स्वयम्भूत्वसमापत्तौ तथा दृश्यव्यवस्थितौ ।
स्वरूपमजहत्त्वेव चिदाकाशमजं स्थितम् ॥ ४ ॥
स्वप्नवत्सर्गेऽपि विवर्तता बोध्येत्याह - स्वयम्भूत्वसमापत्ताविति । स्वयम्भूः
समष्टिजीवस्तत्त्वेन सूक्ष्मोपाधिसमापत्तौ दृश्यस्थूलव्यवस्थितौ च । अजं
निर्विकारम् ॥ ४ ॥
न स्वयम्भूर्न च जगन्न स्वप्नपुरमस्त्यलम् ।
स्थितं संविन्महादृष्ट्या ब्रह्म चिन्मात्रमेतया ॥ ५ ॥
जगच्चेद्विवर्तस्तर्हि परमार्थदृष्ट्या किं स्थितं तदाह - नेति ॥ ५ ॥
यथा पुरं भवत्स्वप्ने चिद्रूपं स्वात्मनि स्थितम् ।
अखण्डमेवमासृष्टेरामहाप्रलयस्थितेः ॥ ६ ॥
दृष्टान्तेऽपि तत्सममित्याह - यथेति । अखण्डचिद्रूपं
यथास्थितमेवमासृष्टेरामहाप्रलयाज्जगद्रूपं भवत्तदेव स्थितमित्यर्थः ॥ ६ ॥
हेमहेमाश्मनोः स्वप्नपुरचेतनयोर्यथा ।
भेदो न सम्भवत्येव न भेदश्चितिसर्गयोः ॥ ७ ॥
चिदनुविद्धतया सर्वसर्गानुभवादपि सैव तथा स्थितेति निश्चय इत्याह - हेमेति ।
हेमाश्ममेर्वादौ प्रसिद्धम् ॥ ७ ॥
चितिरेकास्ति नो सर्गो हेमास्ति न तदूर्मिका ।
स्वप्नाचले चिदेवास्ति न तु काचन शैलता ॥ ८ ॥
चिदेव शैलवद्भाति यथा स्वप्ने निरामया ।
तथा ब्रह्म निराकारं सर्गवद्भाति नेतरत् ॥ ९ ॥
चिन्मात्रमिदमाकाशमनन्तमजमव्ययम् ।
महाकल्पसहस्रेषु नोदेति न च शाम्यति ॥ १० ॥
आकाशं स्वच्छं सर्वगतमलेपकं च ॥ १० ॥
चिदाकाशो ह्हि पुरुषश्चिदाकाशो भवानयम् ।
चिदाकाशोऽहमजरश्चिदाकाशो जगत्त्रयम् ॥ ११ ॥
पुरुषो जीवः । भवानित्यादिरुक्तस्य प्रपञ्चः ॥ ११ ॥
चिदाकाशं वर्जयित्वा शवमेव शरीरकम् ।
अच्छेद्योऽसावदाह्योऽसौ चिदाकाशो न शाम्यति ॥ १२ ॥
शवं निर्जीवमेव स्यात् ॥ १२ ॥
अतो न किञ्चिन्म्रियते न च किञ्चन जायते ।
चित्त्वात्ततश्चित्कचनं जगदित्यनुभूयते ॥ १३ ॥
चिन्मात्रपुरुषो जन्तुर्म्रियते यदि नाम वा ।
ततो मरिष्यत्तत्पुत्रो निःसन्देहं पितुर्मृतौ ॥ १४ ॥
चितो मरणे तद्भेदे प्रमाणाभावात्सर्वमरणं स्यादित्याह - चिन्मात्रेति । आत्मा
वै पुत्रनामासि इति पुत्रस्य पित्रात्माऽभेदश्रुतेरिति भावः ॥ १४ ॥
एकस्मिन्प्रमृते जन्तावमरिष्यंस्तु सर्वदा ।
सर्व एव जनाः शून्यमभविष्यन्महीतलम् ॥ १५ ॥
एक एव हि भूतात्मा भूते भूते व्यवस्थितः इति श्रुतेरेकमरणे
सर्वमरणप्रसङ्गश्चेत्याह - एकस्मिन्निति ।
एकैकमरणानधिकरणक्षणाप्रसिद्धेः सर्वदेत्युक्तिः । महीतलग्रहणं
जगन्मात्रोपलक्षणम् ॥ १५ ॥
न चाद्यापि मृतं राम चिन्मात्रं कस्यचित्क्वचित् ।
न च शून्या स्थिता भूमिस्तस्माच्चित्पुरुषोऽक्षयः ॥ १६ ॥
तर्कस्य विपर्ययपर्यवसानं दर्शयति - न चेति ॥ १६ ॥
एकं चिन्मात्रमेवाहं न शरीरादयो मम ।
इति सत्यनुसन्धाने क्व जन्ममरणादयः ॥ १७ ॥
तथा च चिदात्मपरिज्ञानादेव जननमरणाद्यनर्थनिवृत्तिः सिद्धेत्याह -
एकमिति ॥ १७ ॥
अहं चिन्मात्रममलमित्यात्मानुभवं स्वयम् ।
अपहन्त्यात्महन्तारो निमज्जन्त्यापदर्णवे ॥ १८ ॥
चिन्मात्रमहमित्येवंरूपमात्मानुभवं ये अपहन्ति कुतर्कैः खण्डयन्ति त
एवात्महन्तारः । वचनव्यत्ययश्छान्दसः । अपहत्य इति वा पाठः ॥ १८ ॥
चिदहं गगनादच्छा नित्यानन्ता निरामया ।
किं जीवितं मे किं वापि मरणं वा सुखासुखे ॥ १९ ॥
व्योमात्मचेतनमहं के शरीरादयो मम ।
इत्यात्महापह्नुतेऽन्तर्योऽनुभूतं धिगस्तु तम् ॥ २० ॥
इति विद्वद्भिरन्तरनुभूतमनुभवं यः कुतर्कैरपह्नुते स आत्महा तं धिगस्तु ॥ २०
॥
चिदाकाशमहं स्वच्छमनुभूतिरिति स्फुटा ।
यस्यास्तमागता मूढं तं जीवन्तं शवं विदुः ॥ २१ ॥
यस्य चिदात्माहमित्यनुभूतिरस्तं नाशमागता तं मूढं जीवन्तमपि शवं
विदुस्तत्त्वविदः ॥ २१ ॥
अहं वेदनमात्रात्मा कानि देहेन्द्रियाणि मे ।
लब्धात्मानमिति स्वच्छं प्रविलुम्पन्ति नापदः ॥ २२ ॥
इति बोधेन लब्धात्मानं अविद्यादिमालिन्यापगमात् स्वच्छं पुरुषं मरणाद्यापदो
न प्रविलुम्पन्ति ॥ २२ ॥
चिन्मात्रं शुद्धमात्मानं योऽवलम्ब्य स्थिरः स्थितः ।
नाधयस्तं विलुम्पन्ति महोपलमिवेषवः ॥ २३ ॥
चित्त्वं स्वभावं विस्मृत्य बद्धास्था ये शरीरके ।
तैः सुवर्णं परित्यज्य गृहीतं भस्म वस्तुतः ॥ २४ ॥
वस्तुतः सुवर्णं परित्यज्य भस्मस्वर्णबुद्ध्या गृहीतम् ॥ २४ ॥
बलं बुद्धिश्च तेजश्च देहोऽहमिति भावनात् ।
नश्यत्युदेत्येतदेव चिदेवाहमिति स्थितेः ॥ २५ ॥
एतदेव बलबुद्ध्यादि ॥ २५ ॥
चिदाकाशमहं शुद्धं के मे मरणजन्मनी ।
एवं स्थिते स्युः किन्निष्ठा लोभमोहमदादयः ॥ २६ ॥
किन्निष्ठाः स्युः । न ह्यात्मनिष्ठास्ते तदा येन तैरात्मा दुष्येदित्यर्थः ॥ २६ ॥
चिदाकाशादृते देहान्योऽन्यत्सारमवाप्नुयात् ।
तस्मै तद्युज्यते वक्तुं सन्ति लोभादयस्त्विति ॥ २७ ॥
देहान् स्थूलसूक्ष्मकारणाख्यान् । सारमात्मानमवाप्नुयात्पश्येत् । तस्मै मूढाय ॥
२७ ॥
न च्छिद्ये न च दह्येऽहं चिन्मात्रं वज्रवच्चिति ।
न देही निश्चयो यस्य तं प्रत्यन्तकरस्तृणम् ॥ २८ ॥
अन्तकरो मृत्युः ॥ २८ ॥
अहो नु मुग्धता ज्ञानदृष्टीनां यद्विदन्त्यलम् ।
शरीरशकलाभावे नश्याम इति मोहिताः ॥ २९ ॥
ज्ञानदृष्टीनां पण्डितानामपि मुग्धता व्यामोहो दृश्यते । यत्
शरीरलक्षणशकलस्य जडवर्गैकदेशस्याभावे नाशे उपस्थिते नश्याम इति मोहिता
भीता जायन्त इति शेषः ॥ २९ ॥
अहं चिन्नभ एवेति सत्ये भावे स्थिरे सति ।
वज्रपातयुगान्ताग्निदाहाः पुष्पोत्करोपमाः ॥ ३० ॥
चिन्मात्रममरं नाहं यन्नश्यामीति रोदिति ।
अनष्ट एव तद्देहो जातापूर्वा खरोलिका ॥ ३१ ॥
अमरं चिन्मात्रमहं न अतो नश्यामीति यद्रोदिति तदनष्टे एवात्मनि रोदिति । सेयं
विवेकिदृशा नटस्येव रोदनविडम्बना अपूर्वा खरोलिका परिहासक्रीडैव जाता ॥ ३१ ॥
इदं चेतनमेवाहं नाहं देहादिदृष्टयः ।
इति निश्चयवान्योऽन्तर्न स मुह्यति कर्हिचित् ॥ ३२ ॥
इदं नित्यापरोक्षं चेतनं चिन्मात्रमेवाहम् ॥ ३२ ॥
अहं चेतनमाकाशो नाशो मे नोपपद्यते ।
चेतनेन जगत्पूर्णं केव सन्देहितात्र वः ॥ ३३ ॥
सन्देहिता जन्मरणादिसंशयः ॥ ३३ ॥
चेतनं वर्जयित्वान्यत्किञ्चिद्यूयं जना यदि ।
यदुच्यतां महामूढाः स्वात्मा किमपलप्यते ॥ ३४ ॥
चेतनादन्यद्वयमिति हि चेतयद्भिरुच्येत अचेतयद्भिर्वा । नाद्यः ।
चेतयद्भिश्चेतनास्वभावं स्वस्यानुभवद्भिस्तथा वक्तुमशक्यत्वात् । न द्वितीयः ।
अचेतयद्भिर्जडैर्वयमचेतना इत्यनुभवितुमभिलपितुं किञ्चिदपलपितुं वा
शक्यमित्याशयेनाह - चेतनमिति ॥ ३४ ॥
तच्चेतनं चेन्म्रियते तज्जनाः प्रत्यहं मृताः ।
ब्रूत किं न मृता यूयं तन्मृतं किल चेतनम् ॥ ३५ ॥
किं च चैतन्यन्न् स्वमरणं चेत्पश्यति तर्हि सदैव पश्येत् । तदा सर्वदा सर्वेषां
जीवतां मरणानुभवः स्यादित्याह - तदिति ॥ ३५ ॥
तस्मान्न म्रियते किञ्चिन्न च जीवति किञ्चन ।
जीवामीति मृतोऽस्मीति चिच्चेतति न नश्यति ॥ ३६ ॥
एवं मरणाप्रसिद्धौ तद्व्यावृत्तं जीवनमित्यपि कल्पना वृथेत्याशयेनाह -
तस्मादिति । चेतति भ्रान्तिमनुभवति । स्वयन्न् तु कदापि न नश्यति । तथा च श्रुतिः न हि
द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् इति ॥ ३६ ॥
चिच्चेतति यथा वा यत्तत्तथा साशु पश्यति ।
आबालमेषोऽनुभवो न क्वचित्सा च नश्यति ॥ ३७ ॥
सर्वेषामविनाशिचिच्चेतनानुसारेणेवार्थानुभवः प्रसिद्धो न तद्वैपरीत्येनेत्याह ##-
परिपश्यति संसारं परिपश्यति मुक्तताम् ।
सुखदुःखानि जानाति स्वरूपात्तन्न भिद्यते ॥ ३८ ॥
स्वरूपाच्चित्स्वभावात्तु चेत्यभेदे देशभेदे कालभेदे च न भिद्यते ॥ ३८ ॥
अपरिज्ञातदेहात्तु धत्ते मोहाभिधां स्वयम् ।
परिज्ञातस्वरूपात्तु धत्ते मोक्षाभिधां स्वयम् ॥ ३९ ॥
तर्हि बन्धमोक्षयोः किङ्कृतः को वा विशेषस्तमाह - अपरिज्ञातेति ॥ ३९ ॥
नास्तमेति न चोदेति न कदाचन किञ्चन ।
सर्वमेव च चिन्मात्रमाकाशविशदं यतः ॥ ४० ॥
न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ।
यद्यथा येन निर्णीतं तत्तथा तं प्रति स्थितम् ॥ ४१ ॥
तथा च जगद्रूपेषु सत्यत्वमिथ्यात्वे स्वस्वनिर्णयानुसारनियते न वास्तवे इत्याह -
न तदस्तीति ॥ ४१ ॥
यद्यद्यथा जगति चेतति चेतनात्मा तत्तत्तथानुभवतीत्यनुभूतिसिद्धम् ।
दृष्टं विषामृतदृशेव पदार्थजातं नातोस्ति संविदविधेयमिति
प्रसिद्धम् ॥ ४२ ॥
उक्तमर्थं निगमयन्नुपसंहरति - यद्यदिति । पदार्थजातं विषामृतदृशेव
कालभेदाद्भोक्तृभेदात्सहकारिभेदाच्चानियतविपरीतव्यवस्थितार्थक्रियाभेद##-
संविदननुसारि किञ्चिदपि वस्तु नास्तीति यदुक्तं तत्प्रसिद्धमित्यर्थः ॥ ४२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ०
अमरत्वप्रतिपादनं नाम षण्णवतितमः सर्गः ॥ ९६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
अमरत्वप्रतिपादनं नाम षण्णवतितमः सर्गः ॥ ९६ ॥