०९५

पञ्चनवतितमः सर्गः ९५

श्रीवसिष्ठ उवाच ।

ततश्चिदाकाशवपुर्भूतपञ्चकवर्जितः ।
विहरन्नहमाकाशे पिशाच इव संस्थितः ॥ १ ॥

सत्यसङ्कल्पतास्मृत्या व्यवहारः पुनर्जनैः ।
स्वस्याकाशवसिष्ठादिनामाप्तिश्चेह वर्ण्यते ॥

विहरन् सञ्चरन् ॥ १ ॥

न मां पश्यन्ति चन्द्रार्कशक्रा हरिहरादयः ।
न देवसिद्धगन्धर्वकिन्नरा नाप्सरोगणाः ॥ २ ॥

नाक्रामन्ति मयाक्रान्ता न च शृण्वन्ति मद्वचः ।
इत्यहं मोहमापन्नो विक्रीत इव सज्जनः ॥ ३ ॥

मया पादन्यासारोहणाध्यासनादिना आक्रान्ता अपि मां न प्रत्याक्रामन्ति । मोहं
पूर्वापरकर्तव्याप्रतिसन्धानम् ॥ ३ ॥

अथ चिन्तितवानस्मि सत्यकामा इमे वयम् ।
पश्यन्तु मां सुरगणास्तेन तस्मिन् सुरालये ॥ ४ ॥

चिन्तितवान् चिन्तया स्मृतवान् । सत्यकामा इमे वयमिति स्मृत्यभिनयः । पश्यन्तु
मां सुरगणा इति च सङ्कल्पितवानिति शेषः ॥ ४ ॥

द्रष्टुं प्रवृत्ता मामग्रे वास्तव्याः सर्व एव ते ।
झटित्येव पुरं प्राप्तमिन्द्रजालद्रुमं यथा ॥ ५ ॥

अग्रे वसन्तीति वास्तव्याः । वसेस्तव्यत्कर्तरि णिच्च इत्युपसङ्ख्यानात् ॥ ५ ॥

अथ गीर्वाणगेहेषु सम्पन्नो व्यवहार्यहम् ।
यथास्थितसमाचारः स्थितो निःशङ्कचेष्टितः ॥ ६ ॥

व्यवहारी सम्भाषणादिव्यवहरणशीलः सम्पन्नः ॥ ६ ॥

यैरविज्ञातवृत्तान्तैर्दृष्टोऽहमजिरोत्थितः ।
वसिष्ठः पार्थिव इति लोकेषु प्रथितोऽस्मि तैः ॥ ७ ॥

अजिरे चत्वरभूमौ प्रथममाविर्भूतो दृष्टस्तैस्तत्पृथिवीत एव मदुत्पत्तिं
कल्पयद्भिः पृथिव्या जातः पार्थिवोऽयं वसिष्ठ इति लोकेषु प्रथितः प्रख्यातिं
नीतोऽस्मि । एवमग्रेऽपि योज्यम् ॥ ७ ॥

व्योमन्यादित्यरश्मिभ्यो दृष्टोऽहं यैर्नभोगतैः ।
वसिष्ठस्तैजस इति लोकेषु प्रथितोऽस्मि तैः ॥ ८ ॥

वातात्समुदितो दृष्टो यैरहं गगनास्पदैः ।
सिद्धैर्वातवसिष्ठाख्यस्तैरहं समुदाहृतः ॥ ९ ॥

यैरहं सलिलाद्दृष्टः प्रोत्थितस्तैर्मुनीश्वरैः ।
उक्तो वारिवसिष्ठोऽहमिति मे जन्मसन्ततिः ॥ १० ॥

इति एवंरीत्या परकल्पनयैव मे पृथिव्यादिभ्यो जन्मनां सन्ततिः परम्परा ॥ १० ॥

ततःप्रभृति लोकेऽहं पार्थिवः प्रथितः क्वचित् ।
अम्मयः क्वचिदन्येषां तैजसो मारुतः क्वचित् ॥ ११ ॥

मारुतो मरुन्मयदेहः ॥ ११ ॥

अथ कालेन मे तत्र तस्मिन्नेवातिवाहिके ।
आधिभौतिकता देहे रूढा रूढान्तरेरिता ॥ १२ ॥

तस्मिन्नेवातिवाहिके देहे आधिभौतिकता रूढा प्रादुर्भूता रूढेन
चिराभ्यासपरिणतेन आन्तरेण मनसा ईरिता गमिता । आरूढान्तरैरन्यैः सिद्धैरीरिता
गदितेति वा ॥ १२ ॥

यदेतदातिवाहित्वमाधिभौतिकता च खम् ।
द्वयमप्येकदेहात्म ततः कचति मे चितिः ॥ १३ ॥

तर्हि किमज्ञवद्भौतिकदेहात्मैवाभूर्नेत्याह - यदेतदिति । यत इदं द्वयमपि
खमाकाशमेव तद्रूपेणैकदेहात्मेत्येततत्त्वतः परिज्ञातं ततो मे
चितिरेवात्मभावेन कचति न देहात्मभावेन देहात्मभाव इत्यर्थः ॥ १३ ॥

एवमात्म क्वचिद्व्योम कचनात्माप्यहं नभः ।
परमेव निराकारं युष्मास्वाकारवानपि ॥ १४ ॥

क्वचिद्व्योमादिभूतरूपेण कचनात्माप्यहम् । एवमात्म चिदेकस्वभावं परं नभ
एव न भूताकाशादिस्वभावः । कथं तर्ह्याकारवान् दृश्यसे तत्राह -
युष्मास्विति । युष्मदुपदेशादिव्यवहारसिद्ध्यर्थमित्यर्थः ॥ १४ ॥

जीवन्मुक्तो व्यवहरंस्तथास्ते ब्रह्मखात्मकः ।
तथैवादेहमुक्तोऽपि तिष्ठति ब्रह्ममात्रकः ॥ १५ ॥

वस्तुतस्तु सदेहविदेहमुक्तयोरैकरूप्यमेवेत्याह - जीवन्मुक्त इति ॥ १५ ॥

मम न ब्रह्मतापेता तादृग्व्यवहृतेरपि ।
असम्भवादन्यदृशो युष्मदादिष्वहं त्वहम् ॥ १६ ॥

युष्मदादिषु उपदेशार्थमहं वसिष्ठदेहः सम्पन्न इत्यर्थः ॥ १६ ॥

यथाऽज्ञस्य स्वप्ननरे निर्जन्मनि निराकृतौ ।
आधिभौतिकताबुद्धिस्तथा मे जगतोपि च ॥ १७ ॥

शून्ये देहे कथं तर्हि आधिभौतिकता रूढेत्युक्तिस्तत्राह - यथेति । जगतो
जनान्तरस्य [जन्यन्तरस्य इत्यपि पाठः ।] च ॥ १७ ॥

एवमेवावभासन्ते सर्व एव स्वयम्भुवः ।
सर्गाश्च न तु जायन्ते प्रयाता इव चोदिताः ॥ १८ ॥

ब्रह्मादिशरीराणि तत्कृतसर्गाश्चैवमेव परदृष्ट्यैवाधिभौतिका इत्याह -
एवमेवेति ॥ १८ ॥

एष सोहमिहाकाशवसिष्ठः पुष्टतामिव ।
गतोऽद्य स्वात्मनाभ्यासाद्भवतां वा भवत्स्थितिः ॥ १९ ॥

भवत्स्थितिर्भवद्बुद्ध्यनुसारिभौतिकदेहस्थितिः ॥ १९ ॥

आकाशात्मान एवैते सर्व एव स्वयम्भुवः ।
यथा त्वेतन्मनोमात्रमिमे सर्गास्तथैव हि ॥ २० ॥

ममेव हिरण्यगर्भस्यापि स्वदृष्ट्या जगद्ब्रह्माकाशात्मकमेवेत्याह -
आकाशेति । परीक्षकदृशा एतन्मनोमात्रम् ॥ २० ॥

अहमादिरयं सर्गस्त्वपरिज्ञानदोषतः ।
वेताल इव बालानां गतो वो वज्रसारताम् ॥ २१ ॥

वः अज्ञजनानाम् ॥ २१ ॥

परिज्ञातस्तु कालेन स्वल्पेनैवोपशाम्यति ।
वासनातानवात्स्नेहो बन्धौ दूरगते यथा ॥ २२ ॥

दूरगते बन्धौ स्नेहो यथा कालेनोपशाम्यति तद्वत् ॥ २२ ॥

घनत्वमहमासाद्य तथा सर्गस्य शाम्यति ।
परिज्ञाता यथा स्वप्ननिधेरादेयभावना ॥ २३ ॥

अहङ्काररूपं घनत्वं स्थौल्यं तथा शाम्यति । आदेयभावना उपादेयतावासना ॥
२३ ॥

शाम्यन्ति सम्परिज्ञाताः सकला दृश्यदृष्टयः ।
यथा मरुनदीवेगवारिग्रहणबुद्धयः ॥ २४ ॥

महारामायणप्रायशास्त्रप्रेक्षणमात्रतः ।
एतदासाद्यते नित्यं किमेतावति दुष्करम् ॥ २५ ॥

प्रायपदं सदृशपरम् । एतत् उक्तरूपं जीवन्मुक्तत्वम् ॥ २५ ॥

संसारवासनाभावरूपे सक्ता नु यस्य धीः ।
मन्दो मोक्षे निराकाङ्क्षी स श्वा कीटोऽथवा जनः ॥ २६ ॥

संसारात्यासक्त्या अध्यात्मशास्त्रपराङ्मुखं निन्दति - संसारेति । यस्य जनस्य
धीः संसारवासनावशात् अभावरूपे अवस्तुस्वभावे देहेन्द्रियभोग्यादिरूपे सक्ता
मोक्षविषये निराकाङ्क्षी स जनोऽशुचिभोगासक्तिसाम्याच्छ्वा अथवा कीटो न तु
मनुष्यः । ज्ञानाधिकारयोग्यमनुष्यदेहस्यायोग्य इत्यर्थः ॥ २६ ॥

भोगाभोगः किलायं यः स जीवन्मुक्तबुद्धिना ।
कीदृशो भुज्यमानः स्यात्कीदृक्स्यान्मौर्ख्यसेविना ॥ २७ ॥

यथैकमेवान्नं हविःपुरोडाशादिशुचितमरूपं देवद्विजादिभिर्भुज्यते
उच्छिष्टपुरीषाद्यशुचिरूपं तु श्वकीटादिभिस्तथा जीवन्मुक्तैः शब्दादिर्भोगः
शुद्धचिन्मात्रानन्दस्वरूपो भुज्यते । मूर्खैस्तु अशुचितमविषयरूप इत्याशयेनाह

  • भोगेति । जीवन्मुक्तबुद्धिना भुज्यमानो भोगस्याभोगः कलापः कीदृशः स्यात्
    । मौर्ख्यमन्यथावस्तुवेदनं सेवते तच्छीलेन मूर्खेण च भुज्यमानः कीदृक्
    स्यात्तद्विमृश्यमित्यर्थः ॥ २७ ॥

महारामायणप्रायशास्त्रप्रेक्षणमात्रतः ।
अन्तःशीतलतोदेति परार्थेषु हिमोपमा ॥ २८ ॥

किञ्चाज्ञानां भोग्यार्थेष्वग्निरिव तृष्णाक्रोधलोभादिलक्षणः सन्ताप एवोदेति
शास्त्रपरिशीलिनां सुज्ञानां सर्वार्थेषु परा अन्तःशीतलतोदेतीत्यपरो विशेष इत्याह

  • महारामायणेति ॥ २८ ॥

मोक्षः शीतलचित्तत्वं बन्धः सन्तप्तचित्तता ।
एतस्मिन्नपि नार्थित्वमहो लोकस्य मूढता ॥ २९ ॥

एतस्मिन्नीदृशेऽपि मोक्षे लोकस्य नार्थित्वम् । अहो आश्चर्यम् ॥ २९ ॥

अयं प्रकृत्या विषयैर्वशीकृतः परस्परं स्त्रीधनलोलुपो जनः ।
यथार्थसन्दर्शनतः सुखी भवेन्मुमुक्षुशास्त्रार्थविचारणादितः ॥ ३० ॥

अयं जनः प्रकृत्या स्वभावेनैव विषयैर्वशीकृतः अत एव परस्परं
युद्धचौर्यहरणादिनापि स्त्रीधनादिसम्पादनात्तल्लोलुपः । एवं भ्रान्तिसन्तापैः
सदा दन्दह्यमानोऽयं मुमुक्षुशास्त्राणामर्थविचारणानिदिध्यासनाद्युपायतो
यथार्थवस्तुसन्दर्शनत एव सुखी गतसन्तापः पूर्णानन्दो
भवेन्नोपायान्तरेणेत्यर्थः ॥ ३० ॥

श्रीवाल्मीकिरुवाच ।

इत्युक्तवत्यथ मुनौ दिवसो जगाम सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम ॥
३१ ॥

३१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पाषा०
वसिष्ठशरीरवर्णनं नाम पञ्चनवतितमः सर्गः ॥ ९५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
वसिष्ठशरीरवर्णनं नाम पञ्चनवतितमः सर्गः ॥ ९५ ॥