०९४

चतुर्नवतितमः सर्गः ९४

श्रीवसिष्ठ उवाच ।

अथ हेममयाकाशविस्तीर्णायां महाभुवि ।
सौहार्दादेव सिद्धस्य तस्येदमहमुक्तवान् ॥ १ ॥

सिद्धलोके द्वयोर्यानं पिशाचानां च संस्थितिः ।
वर्ण्यते देवतानां च मनोमात्रानुसारिणी ॥

हेममय्यामाकाशमिव विस्तीर्णायां सप्तद्वीपसमुद्रबहिःस्थितायां महाभुवि ।
सौहार्दात् सुहृद्भावात् ॥ १ ॥

त्वया न केवलं तावन्मयापि न विचारितम् ।
आव्याप्तिरहिता नाम न सम्भवति देहिनाम् ॥ २ ॥

अयमविचारापराधो न केवलं तवैव किन्तु ममापि तुल्य इत्याह - त्वयेति । तत्र
सिद्धैर्न यावदवधानपरैरिति यत्त्वयोक्तं तत्सत्यमेवेत्याह - आव्याप्तीति ।
देहिनां देहवतां योगिनामपि आव्याप्तिः प्रणिधानेन सर्वविषये
मनोव्याप्तिस्तद्रहिता अतीतानागतार्थसंवित्तिर्न सम्भवत्येव ॥ २ ॥

कस्मान्मया तवोदन्तं विचार्यासौ स्थिरीकृता ।
न कुटी व्योम्नि तेन त्वमभविष्यः स्थिरस्थितिः ॥ ३ ॥

यदि सम्भवति तर्हि तव पतनं मा भूदिति सा सङ्कल्पकुटी स्थिरीकृता स्यादित्याह ##-
क्षन्तव्य इति भावः ॥ ३ ॥

उत्तिष्ठ सिद्धलोकेषु निवसावो यथास्थितम् ।
स्वास्पदस्थितयः सौम्याः स्वात्मसिद्धौ सुसाधनम् ॥ ४ ॥

स्वं स्वीयं मया सप्तर्षिलोके त्वया नन्दनवने च प्राक्तने निवसितव्यमिति भावः ।
तत्किमर्थं तत्राह - स्वास्पदेति । स्वात्मनः सिद्धौ निर्विक्षेपस्थितौ ॥ ४ ॥

इति निर्णीय तावुच्चैरुत्सृतौ तारकोपमौ ।
सममेकपुटोड्डीनौ व्योम यन्त्रोपलाविव ॥ ५ ॥

उच्चैर्व्योम । उत्सृतौ उड्डीनौ । एकयन्त्रपुटादुड्डीनौ यन्त्रोपलाविव ॥ ५ ॥

प्रणामपूर्वमन्योन्यमथ कृत्वा विसर्जनम् ।
गतः सोऽभिमतं देशमहं चाभिमतं गतः ॥ ६ ॥

उड्डीय व्योम्नि किं चक्रथुस्तत्राह - प्रणामपूर्वमिति । सः नन्दनं अहं
सप्तर्षिलोकादीन् गतः ॥ ६ ॥

इति वृत्तान्तमखिलमुक्तवानस्मि राघव ।
तवाश्चर्यमयीं पश्य संसृतीनां विचित्रताम् ॥ ७ ॥

इति वर्णितपाषाणाख्यायिकालक्षणं वृत्तान्तं स्वानुभूतमखिलं
सिद्धवृत्तान्तं च तवाहमुक्तवानस्मि । तं वृत्तान्तं प्रस्तुते योजयति -
आश्चर्यमयीमिति ॥ ७ ॥

श्रीराम उवाच ।

भगवंस्तव देहोऽसौ पृथिव्यामणुतां गतः ।
भ्रान्तः केन शरीरेण सिद्धलोकांस्ततो भवान् ॥ ८ ॥

कुटीसंस्थस्त्वदीयस्थूलदेहः सिद्धेनापास्त इति त्वयैव स्वयमूहितमित्युक्तम् ।
निरस्तश्च पार्थिवो देहः पृथिव्यां कालेन पांसुभावमापद्यत इति परिशेषादेव
ज्ञातम् । एवं सति मनोमात्रदेहेन सिद्धलोकान्गतो भवान्कथं तत्रत्यजनैः सह
व्यवहृतवान् । न हि मनोमात्रात्मा अन्यैः सह व्यवहर्तुं शक्नोत्यन्ये वा तेन सह
व्यवहर्तुं शक्नुवन्तीत्याशयेन रामः पृच्छति - भगवन्निति । अणुतां
पांसुताम् । सञ्चरितवानसि ॥ ८ ॥

श्रीवसिष्ठ उवाच ।

आ स्मृतं शृणु वृत्तान्तं ततो मम जगद्गृहे ।
भ्रमतः सिद्धसेनासु लोकपालपुरीषु च ॥ ९ ॥

आ इति स्मरणद्योतको निपातः । आङित् ॥ ९ ॥

अहमिन्द्रपुरं प्राप्तो न कश्चित्तत्र दृष्टवान् ।
मामिमं देहरहितमातिवाहिकदेहिनम् ॥ १० ॥

अहं किल तदा राम सम्पन्नो गगनाकृतिः ।
न चाधारो न चाधेयश्चिदाकाशमयात्मकः ॥ ११ ॥

गगनाकृतिराकाशवदस्थूलः । चिदाकाशप्रचुरं यन्मनस्तदात्मकः ॥ ११ ॥

न ग्रहीता न च ग्राह्यस्त्वादृशार्थावबोधिनाम् ।
न चैव देशकालानां क्वचिदावृत्तिकारकः ॥ १२ ॥

त्वादृशा ये स्थूलार्थावबोधिनस्तेषां न तु सूक्ष्मार्थदर्शिनां योगिनाम् ।
प्रेषणप्रतीक्षणादिनन्येषां देशकालपरिवर्तनकारकश्च न सम्पन्नः ॥ १२ ॥

मनोमननमात्रात्मा पृथ्व्यादिपरिवर्जितः ।
सङ्कल्पपुरुषाकारः पदार्थानामरोधकः ॥ १३ ॥

पदार्थानां स्तम्भकुम्भादीनामसंस्पर्शादरोधकः ॥ १३ ॥

अरुद्धश्च पदार्थौघैः स्वयं स्वानुभवोन्मुखः ।
व्यवहर्ता तथाभूतैरेवं पुम्भिर्मनोमयैः ॥ १४ ॥

स्वप्नमनोराज्यवत्स्वमनोमयैर्भूतैर्व्यवहर्ता ॥ १४ ॥

स्वप्नानुभूतयो राम दृष्टान्तोऽत्राविखण्डितः ।
अनुभूत्यपलापं तु यः कुर्यात्तेन तेऽस्त्वलम् ॥ १५ ॥

स्वप्नानुभूतयः स्वप्नानुभवाः अत्र ईदृशार्थसम्भावने अविखण्डितः समस्तो
दृष्टान्तोऽनुसन्धेय इत्यर्थः । यस्तु नैयायिको ज्ञानमात्रे
अवच्छेदकतासम्बन्धेन देहस्य कारणता त्वङ्मनोयोगस्यापि कारणता सुषुप्तौ
तदभावे ज्ञानाभावोपपत्तेरित्यादि प्रलपति स मूर्खस्त्वया न सम्भाष्य एवेत्याह

  • अनुभूतीति । तेन सह ते अलमस्तु सम्भाषणादिना प्रयोजनं नास्ति । सुषुप्तावपि
    सुखमहमस्वाप्समित्यादिस्मृतिदर्शनेन सुखस्वापादिज्ञानसत्त्वात् स्वप्नेन
    शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरेति स्थानं
    हिरण्मयः पूरुष एकहंसः इत्यादिश्रुतिविरोधान्निमिशापात्त्यक्तशरीरेण मया
    दुःखानुभवात्तन्निवारणाय ब्रह्माज्ञया मित्रावरुणोद्भवशरीरपरिग्रहाच्चेति
    भावः ॥ १५ ॥

यथा स्वप्नचरो गेहे व्यवहर्ता न दृश्यते ।
तथा तदा न दृष्टोस्मि पुरस्थोऽपि नभोगतैः ॥ १६ ॥

गेहे सुप्तः स्वप्ने चरतीति स्वप्नचरः पुरुषह् स्वप्ने व्यवहर्ताप्यन्यैस्तद्गेहस्थैर्न
दृश्यते तथा अहमपि नभोगतैर्देवैर्न दृष्ट इत्यर्थः ॥ १६ ॥

अहमन्यान्प्रपश्यामि पार्थिवाकारभासुरान् ।
मामातिवाहिकात्मानं न कश्चिदपि पश्यति ॥ १७ ॥

श्रीराम उवाच ।

न दृश्यते विदेहत्वाद्भवान्व्योमवपुर्यदि ।
तत्कथं तेन सिद्धेन दृष्टोऽसि कनकावनौ ॥ १८ ॥

मां न कश्चिदपि पश्यतीत्येतत्ते स्वोक्तिविरुद्धम् । प्राक् सिद्धेन दृष्टोऽहमिति
त्वयैवोक्तत्वात् । अहमन्यान्प्रपश्यामीत्यप्यसङ्गतम् । मनसो बहिरस्वातन्त्र्यात्स्वप्ने
स्वमनोमयानामेव दर्शनादित्याशयेन रामः पृच्छति - न दृश्यत इति ॥ १८

श्रीवसिष्ठ उवाच ।

अस्मदादिर्जनो नाम यथा सङ्कल्पकल्पितान् ।
नासङ्कल्पितमाप्नोति सत्यकामवपुर्यतः ॥ १९ ॥

सत्यसङ्कल्पानुसारिदर्शनव्यवस्थया उभयं वसिष्ठः परिहरति - अस्मदादिरिति
। अस्मदादिर्ज्ञानयोगसिद्धो जनः ॥ १९ ॥

व्यवहारेषु मग्नेन लौकिकेष्वमलात्मना ।
क्षणाद्विस्मर्यते पुंसा आतिवाहिकमात्मनः ॥ २० ॥

ननु ज्ञानसिद्धानां सदैवातिवाहिकदेह एवास्ति न स्थूल इति त्वयैवासकृदुक्तं
तत्कथं तेषां स्थूलदेहबुद्ध्या परदर्शनसंवादादिसत्यसङ्कल्पनं घटते
तत्राह - व्यवहारेष्विति । सत्यम् । समाधिविवेककालयोस्तथैव
व्युत्थानव्यवहारकाले आतिवाहिकभावविस्मरणमप्यस्तीति तत्सङ्कल्पनसम्भव
इत्यर्थः ॥ २० ॥

मया पश्यतु मामेष इति सङ्कल्पितं तदा ।
तेन मां दृष्टवानेष स्वसङ्कल्पार्थभाजनम् ॥ २१ ॥

एष सिद्धः सोऽपि सत्यसङ्कल्पः सिद्धश्चेति वा मां द्रष्टुं शक्नोतीत्याशयेन तं
विविनष्टि - स्वसङ्कल्पार्थभाजनमिति ॥ २१ ॥

जनो जरठभेदत्वान्न सङ्कल्पार्थभाजनम् ।
स एष जीर्णभेदत्वात्सत्यकामत्वभाजनम् ॥ २२ ॥

सिद्धस्येतरजनेभ्यो विशेषमाह - जन इति । जरठश्चिरवासनादृढीकृतो
भेदः स्वस्याब्रह्मभावो येन तथाविधत्वात् जीर्णभेदत्वाद्बाधितभेदवासनत्वात्स
एष सिद्धः सत्यकामत्वस्य भाजनं योग्यः ॥ २२ ॥

द्वयोस्तु सिद्धयोः सिद्धविरुद्धेप्सितयोर्मिथः ।
अधिकैकावदातात्मा जयी पुरुषयत्नवान् ॥ २३ ॥

ननु तर्हि यत्र द्वौ सिद्धौ परस्परविरुद्धं सङ्कल्पयतः । यथा एकः अहमेनं
पश्यामीति सङ्कल्पयति अपरस्तु मामयं न पश्यत्विति । तत्र कथं व्यवस्था तत्राह

  • द्वयोरिति । यस्यैवात्मज्ञानवैश्द्याधिक्यं तत्सङ्कल्पः प्रबलः ।
    यथैकराज्यसिद्ध्यर्थं यतमानयो राजपुत्रयोर्यस्यैव शौर्याद्याधिक्यं तस्य
    जयस्तद्वदित्यर्थः । तुल्यबलत्वे तूभयसम्पत्तिर्वरशापाविरोधसर्गे वक्ष्यते ॥ २३ ॥

भ्रमतः सिद्धसेनासु लोकपालपुरीषु मे ।
विस्मृता व्यवहारौघैः सातिवाहिकतात्मनः ॥ २४ ॥

अस्त्वेवं तथापि प्रकृते किं तत्राह - भ्रमत इति । व्यवहारौघैर्हेतुभिर्यदा
विस्मृता तदा व्यवहर्तुं प्रवृत्त इति परेणान्वयः ॥ २४ ॥

यदा तदाहमपरैर्व्यवहर्तुं महाम्बरे ।
प्रवृत्तो न च मां कश्चित्तत्र पश्यति चञ्चलम् ॥ २५ ॥

अत्यन्तमप्यारटतः शब्दो न श्रूयते मम ।
केनचित्सुरलोकेषु स्वप्नपुम्स इवानघ ॥ २६ ॥

आरटतः कूजतः ॥ २६ ॥

अवष्टब्धुं प्रवृत्तस्य नान्यावष्टब्धये मम ।
सम्पद्यते किञ्चिदपि मनोमननदेहिनः ॥ २७ ॥

अवष्टब्धुं अन्यस्य पतनारोहणादिप्रसङ्गे कराद्यवलम्बनं दातुं प्रवृत्तस्य
मम किञ्चिदपि हस्ताद्यन्यस्य अवष्टब्धये अवलम्बनाय न सम्पद्यते ॥ २७ ॥

एवं व्योमपिशाचोऽहं सम्पन्नो रघुनन्दन ।
मयानुभूता काप्येषा देवागारपिशाचता ॥ २८ ॥

एवमनया रीत्या । देवागारेषु पिशाचता अनुभूता ॥ २८ ॥

श्रीराम उवाच ।

पिशाचाः सन्ति लोकेस्मिन्किमाकाराः किमास्पदाः ।
किञ्जातीयाः किमाचाराः कीदृशाः कीदृशाशयाः ॥

प्रासङ्गिको रामप्रश्नः ॥ २९ ॥

श्रीवसिष्ठ उवाच ।

पिशाचाः सन्ति लोकेऽस्मिन्यादृशास्तादृशान्शृणु ।
न सभ्योऽसौ न यो वक्ति प्रसङ्गापतितं वचः ॥ ३० ॥

सभ्यः सभार्हः । सत्यः इति पाठे यथार्थवक्ता । श्रोतुः प्रमया हि
अर्थयाथार्थ्यग्रहः । न च श्रोतुः प्रासङ्गिकार्थजिज्ञासायामजिज्ञासितेऽर्थान्तरे
वाक्यात्प्रमोत्पद्यत इत्यनवधेयवचनोऽसावुन्मत्तवदुपेक्ष्येतेति । तथा
चाहुर्वाचस्पतिमिश्राः - प्रतिपित्सितमर्थं प्रतिपादयन्प्रतिपादयिता
अवधेयवचनो भवति । अप्रतिपित्सितं तु प्रतिपादयन्नसौ न लौकिको न परीक्षक
इत्युन्मत्तवदुपेक्ष्येत इति ॥ ३० ॥

पिशाचाः केचिदाकाशसदृशाः सूक्ष्मदेहकाः ।
हस्तपादादिसंयुक्ताः पश्यन्ति त्वमिवाकृतिम् ॥ ३१ ॥

सूक्ष्मदेहका मनोमयदेहकाः । स्वप्नवन्मनःकल्पितहस्तपादादिसंयुक्ताः ॥ ३१ ॥

छायया भयदायिन्या त्वन्यत्र भ्रमरूपया ।
ते चित्ताक्रमणं कृत्वा बोधयन्ति नराशयम् ॥ ३२ ॥

यदि ते मनोमात्रमयदेहास्तर्हि अन्येषामाक्रमणं कथं कुर्वन्ति । मनसो
बहिराक्रमणाद्यसामर्थ्यादित्यत आह - छाययेति । ते पिशाचा अन्यत्र नरान्तरे
तदीयचित्तभ्रमरूपया अत एव नानाभयदायिन्या स्वच्छायया
प्रतिबिम्बेनानुप्रविश्य तदीयचित्ते तादात्म्यमिवापद्य तस्य नरस्याशयं
दुःखभोगप्रदं कर्मकामवासनादिकं नानाभ्रान्तिचेष्टाद्यनुरूपतया
उद्बोधयन्तीत्यर्थः ॥ ३२ ॥

घ्नन्त्यदन्ति पिबन्त्याशु लघुसत्त्वबलं जनम् ।
बलं सत्त्वमथो जीवान्हिसन्त्याक्रम्य चित्तकम् ॥ ३३ ॥

तन्मरणानुकूले कर्माशये सति घ्नन्ति स्वयं च स्वीयऋणानुबन्धानुसारेण
तदीयदेहधातूनदन्ति रुधिरादि पिबन्ति । बलं सत्त्वं च क्षपयन्तीति शेषः ॥ ३३ ॥

आकाशसदृशाः केचित्केचिन्नीहारसन्निभाः ।
केचित्स्वप्ननराकाराः साकारा अपि स्वात्मकाः ॥ ३४ ॥

एतेन किमाचारा इति प्रश्नः समाहितः । किमाकाराः किञ्जातीया इति प्रश्नौ समाधत्ते

  • आकाशेति । विचित्रकर्मानुसारेण तेषां सौक्ष्म्यतारतम्येन
    देहारम्भादन्तर्धानादिशक्तितारतम्येन नानावासनानुसारिरूपभेदेन
    चावस्थानमिति भावः ॥ ३४ ॥

केचिदभ्रदलप्रख्याः केचित्पवनदेहकाः ।
केचिद्भ्रमात्मका एव सर्वे बुद्धिमनोमयाः ॥ ३५ ॥

अभ्रदलं मेघखण्डः । भ्रमात्मकाः आक्रमणीयपुरुषभ्रान्त्यनुसारिदेहा इति
यावत् ॥ ३५ ॥

ग्रहीतुं नैव युज्यन्ते ग्रहीतुं शक्नुवन्ति नो ।
आकाशशून्यवपुषः पश्यन्त्याकृतिमात्मनः ॥ ३६ ॥

पश्यन्ति स्वयमनुभवन्ति । परस्परं च पश्यन्ति ॥ ३६ ॥

शीतातपादिविहितं सुखं दुःखं विदन्ति च ।
पातुमत्तुमवष्टब्धुमीहितुं शक्नुवन्ति नो ॥ ३७ ॥

इच्छाद्वेषभयक्रोधलोभमोहसमन्विताः ।
मन्त्रौषधतपोदानधैर्यधर्मवशीकृताः ॥ ३८ ॥

बाह्यजलादि पातुम् । अन्नाद्यत्तुं भोक्तुम् । ईहितुं यथेष्टं दानादानादिना
व्यवहर्तुम् ॥ ३७ ॥ ३८ ॥

सत्त्वावष्टम्भयन्त्रेण मन्त्रेणाराधितेन वा ।
दृश्यन्तेऽपि च गृह्यन्ते कदाचित्केनचित्क्वचित् ॥ ३९ ॥

केनोपायेन तर्हि ते दृश्यन्ते मनुष्यैस्तमाह - सत्त्वेति । सत्त्वावष्टम्भो
योगधारणाभेदः । यन्त्रं भूतदर्शनानुकूलबीजाक्षरघटितं
रजतादिपत्रलिखितं कण्ठादौ धार्यमाणं तेन । गृह्यन्ते वशीकृत्य सेवादौ
नियुज्यन्ते । केनचिद्भूतविद्यावता पुरुषेण । क्वचिद्देशे प्रसिद्धमेतदित्यर्थः ॥ ३९ ॥

देवयोनिर्हि सा तेन केचिद्देवोपमादयः ।
केचिन्नरसमश्रीकाः केचिन्नागसमन्वयाः ॥ ४० ॥

एकादशदेवयोनिभेदान्तर्गतत्वादणिमाद्यैश्वर्यतारतम्येन सुखभोगोऽपि तेष्वतीति
सूचयंस्तज्जात्याकृतिभेदान्प्रपञ्चयति - देवयोनिर्हीति । नागैः सर्पैः
समन्वयः सादृश्यं येषाम् ॥ ४० ॥

श्वशृगालोपमाः केचिद्ग्रामजङ्गलवासिनः ।
कुल्यावकररथ्यासु वसन्ति निरयेषु च ॥ ४१ ॥

निरयेषु न्रकप्रायेष्वशुचिदेशेषु ॥ ४१ ।

एतदास्पदमेतेषामित्याकाराः प्रकीर्तिताः ।
पिशाचा एवमाचारा जन्मैषां श्रूयतामिदम् ॥ ४२ ॥

एतेन किमाकाराः किमास्पदाः किमाचारा इति प्रश्नाः समाहिता इत्याह - एतदिति ।
किञ्जातीया इति प्रश्नो यदि जन्मपरस्तथाप्युत्तरं मूलत आरभ्य सर्गादिना जगत्तत्त्वं
व्युत्पादयन्श्रावयति - जन्मेत्यादिना ॥ ४२ ॥

अचेत्यचिन्मयन्न् ब्रह्म सर्वशक्तिस्वभावतः ।
यत्स्थितं बुद्धमेवान्तश्चेत्यं सङ्कल्पयन्निव ॥ ४३ ॥

तत्र प्रथमं मायाशबलस्य ब्रह्मणो जीवभावप्राप्तिं मन##-
तद्विलक्षणमचेत्यचिन्मयम् । चेत्यं सङ्कल्पयन् मनह् पुरुष इव बुद्धं
सत्तद्रूपेण यत्स्थितं तदेव जीवं प्रथमाङ्कुरं विद्धि ॥ ४३ ॥

तं जीवं विद्धि स प्रौढस्त्वहङ्कार इति स्मृतः ।
सोऽहङ्कारः स्मृतः पुष्टो मन इत्युदितात्मभिः ॥ ४४ ॥

प्रौढः अभिमानोर्जितः । अज्ञानतिमिरनाशाय तत्त्वसाक्षात्कारवृत्त्यारूढतया
उदित आविर्भूत आत्मा येषां तैः ॥ ४४ ॥

स एव कथ्यते ब्रह्मा सङ्कल्पाकाशरूपवान् ।
असदेवासतो बीजं जगतो विगताकृतिः ॥ ४५ ॥

स मनोरूपो जीव एव समष्ट्यात्मना ब्रह्मा कथ्यते । असतो जगतः असन्मन एव बीजम् ॥
४५ ॥

एवं मनःस्थितो ब्रह्मा सदेहोऽप्यमलं नभः ।
तत्स्वप्नपुरुषाकारः सन्नेवासद्वपुः सदा ॥ ४६ ॥

पृथ्व्यादिमूर्तिरहितस्त्वातिवाहिकदेहवान् ।
पृथ्व्यादयः किल कुतः सङ्कल्पपुरुषस्य खे ॥ ४७ ॥

भवन्मनो यथाकाशपुरं पश्यति कल्पितम् ।
तथा मनोविरञ्चित्वं पश्यत्यात्मनि कल्पितम् ॥ ४८ ॥

यद्वेत्ति कल्पितं तत्सत्पश्यत्यनुभवत्यपि ।
यो यावन्मात्रकस्तत्स कस्मात्किल न पश्यति ॥ ४९ ॥

अत एव स विरिञ्चो यद्यत्स्वसङ्कल्पनं वेत्ति तत्तदर्थाकारेण पश्यत्यनुभवत्यपि । यो
यावन्मात्रको जीवः प्रसिद्धः स सर्वोऽपि तच्चिद्रूपं सदेव अतो
ज्ञानशक्तिमत्तत्कस्माद्धेतोर्न पश्यति ॥ ४९ ॥

स यत्पश्यति तत्तादृक् शून्यात्मा शून्यमम्बरे ।
ब्रह्म ब्रह्मणि वा ब्रह्मा तदिदं जगदुच्यते ॥ ५० ॥

शून्यात्मा निराकारमनोरूपः स ब्रह्मा अम्बरे चिदाकाशे शून्यमेव
यद्ब्रह्माण्डाकारं पश्यति तदिदं जगदित्यर्थः ॥ ५० ॥

तथा सम्प्रति भासोऽस्य चिरकालैकभावनात् ।
घनीभूतः स्थितः पुष्टः सुदीर्घस्वप्नसुन्दरः ॥ ५१ ॥

आतिवाहिकदेहस्य तस्य तच्चिरभावनात् ।
सर्गानुभवनं भूरि ब्रह्मणो ब्रह्मरूप्यपि ॥ ५२ ॥

गतं प्रकटतोत्कर्षादाधिभौतिकदेहताम् ।
तेनैव सर्ग इत्युक्तो भेदसन्ततिभासुरः ॥ ५३ ॥

स ब्रह्मा ब्रह्ममात्रात्मा ब्रह्ममात्रात्मनोस्तयोः ।
अजातयोरेव सदा तदात्मजगतोर्द्वयोः ॥ ५४ ॥

तदात्मा जीवो जगच्च तयोर्द्वयोः ॥ ५४ ॥

अभिन्नयोरेव भृशं शून्यत्वाम्बरयोरिव ।
ऐकात्म्येनैव वसतोः पवनस्पन्दयोरिव ॥ ५५ ॥

वेत्ति भूतमयत्वं तन्मिथ्यैव न तु वास्तवम् ।
तथा यथा त्वं सङ्कल्पपुरुषस्य सतोऽसतः ॥ ५६ ॥

पृथ्व्यादिभूतमयत्वं वेत्ति । यथा त्वं स्वसङ्कल्पपुरुषस्य असत एव सतो
नगरादेर्भूतमयत्वं वेत्सि तद्वत् ॥ ५६ ॥

ततः शरीरधातूनां तेन पृथ्व्यादिकाः कृताः ।
अभिधाः पञ्च चित्पुष्टा जगदित्येव ताः स्थिताः ॥ ५७ ॥

ब्रह्माण्डात्मकस्वशरीरधातूनां कठिनद्रवादिभागानां तेन ब्रह्मणा
पृथ्व्यादिका अभिधाः सञ्ज्ञाः कृताः । ताः समुदितरूपेण जगदित्येव स्थिताः ॥
५७ ॥

यथा त्वसत्य एवायं सङ्कल्पः सत्य एव ते ।
तथासावात्मसङ्कल्पं सत्यमेवानुभूतवान् ॥ ५८ ॥

यथा असत्योऽपि ते सङ्कल्पो मनोराज्यकौतुकाद्यर्थक्रियाकारित्वात् सत्य एवानुभूयते
त्वया तथा असौ ब्रह्मापि आत्मनः सङ्कल्पं सत्यमित्येवानुभूतवान् । तस्य
समष्ट्यात्मत्वात्तु तत्सङ्कल्पजस्य सर्वजनसाधारणार्थक्रियेति विशेष इति भावः ॥ ५८

स स्वयं चिन्मयाकाशः स सङ्कल्पश्चिदम्बरम् ।
अतः स्वप्नो जगत्सर्वं कृतौ नाशोद्भवौ स्थितौ ॥ ५९ ॥

तमेव स्फुटयति - स इत्यादिना । स ब्रह्मा स्वयं चिन्मयाकाश एव परमार्थतः
तत्सङ्कल्पोऽपि चिदम्बरमेव ॥ ५९ ॥

यथैवैतन्मनः सत्यं तदंशाः सत्यमेव ते ।
तथैव तत्कृताश्चन्द्ररुद्रार्केन्दुमरीचयः ॥ ६० ॥

कथं तर्हि तत्कृताश्चन्द्रतारादयः सर्वार्थक्रियाहेतवस्तत्राह - यथैवेति ।
तदंशास्तद्वृत्तयस्ते सत्यं प्रवृत्त्याद्यर्थक्रियासमर्था एव ॥ ६० ॥

एवं स्थिते जगज्जालं तन्मनोराज्यमुच्यते ।
तच्च शून्यन्न् निरालम्बमाकाशकचनं चिति ॥ ६१ ॥

यथा स्वप्नपुरं व्योम सङ्कल्पाद्रिर्यथा नभः ।
तथा ब्रह्म जगच्चैव खमेवाच्छमनाकृति ॥ ६२ ॥

एवमाभासमात्रस्य कचतोऽनिशमव्ययम् ।
सर्गादिमध्यान्तदृशो मुधैवात्रोदिताः स्थिताः ॥ ६३ ॥

सर्गस्य आदिमध्यान्तदृशो जन्मस्थितिभङ्गप्रत्ययाः ॥ ६३ ॥

किञ्चिदाकाशकोशस्य तव वा मम वानघ ।
जगतो वापि जायेत किं वा नश्यति मे वद ॥ ६४ ॥

अत एवात्मनश्चिदाकाशरूपतानुसन्धाने तव वा मम वान्यस्य वा न
कस्यचित्सर्गादयः सन्तीत्याह - किमिति । जगतो जडत्वादेव सुतरां न
जन्मादिप्रत्ययप्रसक्तिरिति द्व्योतनाय ग्रहणं पुरुषान्तराभिप्रायेण ॥ ६४ ॥

तत्किमर्थमनर्थाय निरर्थकमपार्थकाः ।
कस्मादभ्युदिता ब्रूहि रागद्वेषभयादयः ॥ ६५ ॥

वस्तुतोऽङ्ग न सर्गादिर्न सर्गो नाप्यसर्गता ।
विद्यते सकृदाभातमिदमित्थं सदैव तत् ॥ ६६ ॥

वस्तुतः परमार्थदृशा । सर्गस्य आदिः कारणम् । सकृदाभातं
अपुनरावरणतया प्रथां गतम् । इदं प्रत्यग्रूपं सदैव तद्ब्रह्म ॥ ६६ ॥

आशून्ये विपुलाभोगे स्वच्छचिज्जलपूरिते ।
कलनापङ्ककलिले भविष्यति चिदम्बरे ॥ ६७ ॥

तथाविधेऽपि चिदम्बरे क्षेत्रे अज्ञानकल्पनापङ्केन कलिले सति खात्मनस्तस्मादेव
बीजादियं भूरिभूतशिलावलिर्भविष्यति प्राग्जाता चेति परेणान्वयः ॥ ६७ ॥

अन्तरिक्षाक्षयक्षेत्रे खात्मनो गगनात्मिका ।
तस्माद्बीजादित्यं जाता भूरिभूतशिलावलिः ॥ ६८ ॥

नास्ति किञ्चिदिह क्षेत्रं व्युप्तं नाम न किञ्चन ।
न बीजमस्ति नो जातं किञ्चित्सर्वं च संस्थितम् ॥ ६९ ॥

कलनापङ्कनिरासे त्वाह - नास्तीति ॥ ६९ ॥

याः शिलावलयस्तत्र पुष्टास्ता विबुधादयः ।
यास्तु वर्णोज्ज्वला एताः स्वास्थिता बुद्धबुद्धयः ॥ ७० ॥

एवं पिशाचजातिवर्णनप्रसङ्गेन सर्गतत्त्वं व्युत्पाद्य प्रस्तुतानुकूलतया
वर्णितभूतशिलाया अवयवादिभेदतया जातिभेदान्दर्शयति - या इति । तत्र
तस्मिन्कलनापङ्ककलिते आत्मक्षेत्रे याः शिलावलयः पुष्टाः संरूढास्ता
विबुधादयो जातय इति सामान्योक्तिः । विशिष्य विभजते - या इत्यादिना । तत्र यास्तु
वर्णेन कान्त्यतिशयेनोज्ज्वला रत्नरूपा बुद्धबुद्धयो देवर्ष्यादिजातयः ॥ ७० ॥

यास्त्वर्धपक्वास्ता एता नरनागादिजातयः ।
यास्त्वाश्याना रजोनष्टास्ताः कृमिस्थावरादयः ॥ ७१ ॥

अर्धपक्वा अर्धवर्णोज्ज्वलाः शिलाः । आश्याना म्लानाः शिलाः ॥ ७१ ॥

यास्तु गुर्व्यः फलैर्हीनाः शून्याकाराः क्षयक्षताः ।
अशरीराः शरीरिण्यस्ताः पिशाचादिकाः स्मृताः ॥ ७२ ॥

गुर्व्यो बृहत्यो भारभूताः कान्तिप्रकाशादिफलैर्हीना वृथापाषाणा इति यावत् ।
अशरीरा अदेहाकाराः शरीरिण्यो देहकाराश्च शिलाः ॥ ७२ ॥

न हि सङ्कल्पितुः स्वेच्छा क्वचित्पर्यनुयुज्यते ।
तास्तथेच्छा विरिञ्चस्य तथा नाम तथोदिताः ॥ ७३ ॥

ननु हिरण्यगर्भस्योत्तमदेवादिरत्नान्येव तत्र क्षेत्रे उत्पद्यन्तामित्येव सङ्कल्पः
कुतो नाभूत्किमर्थ वृथापाषाणरूपपिशाचजात्युत्पादनसङ्कल्पोऽभूत्तत्राह -
न हीति । सङ्कल्पितुः सङ्कल्पयितुर्धातुरिच्छा न हि पर्यनुयुज्यते आक्षिप्यते ।
तत्तत्सृज्यजीवप्राक्तनकर्माद्यनुसारित्वादिति भावः । विरिञ्चस्य ता इच्छास्तथा
जातास्तथैव पिशाचजातय उदिताः ॥ ७३ ॥

सर्वा एव चिदाका"अस्रूपिण्यो भूतजातयः ।
आतिवाहिकदेहिन्यः पृथ्व्यादिरहितात्मिकाः ॥ ७४ ॥

शिलात्वोत्प्रेक्षणात्प्रसक्तं भौतिकत्वं भूतजातीनां वारयति - सर्वा एवेति ॥ ७४ ॥

ताश्चिराभ्यासवशतस्त्वाधिभौतिकसंविदम् ।
प्राप्ता दीर्घानुभवनात्स्वप्नजाग्रद्दशामिव ॥ ७५ ॥

कथं तर्ह्यस्माकं देहे भौतिकत्वानुभवस्तत्राह - ता इति ॥ ७५ ॥

पिशाचाद्यास्तथा एते तथाभूताधिभौतिकाः ।
तिष्ठन्ति तुष्टमनसः स्वसंसारविहारिणः ॥ ७६ ॥

तथाभूतं चिराभ्यासप्राप्तमाधिभौतिकमाधिभौतिकत्वं येषाम् ।
स्वयोनिभोग्यभोगैस्तुष्टमनसः । तथा च तेषां पिशाचदेहः कुत्सितभोगश्च प्रिय
एव न विभत्सो भातीति भावः ॥ ७६ ॥

पश्यन्ति काश्चिदन्योन्यं ग्राम्या ग्राम्येयकानिव ।
स्वप्नैकलोकवास्तव्या इवैता भूतजातयः ॥ ७७ ॥

अन्योन्यं पश्यन्ति दर्शनादिना व्यवहरन्ति । ग्राम्येयकान् ग्रामीणानिव ।
ग्राम्यशब्दात्स्वार्थे ढकञ्छान्दसः ॥ ७७ ॥

काश्चिद्बहुनरप्राप्तस्वप्ननिर्माणलोकवत् ।
नान्योन्यमपि पश्यन्ति नानासंस्थानसंस्थिताः ॥ ७८ ॥

बहु प्रायेण ॥ ७८ ॥

स्थिता यथैता जगति पशाचाद्याः कुजातयः ।
प्रायस्तथैताः कुम्भाण्डयक्षप्रेतादयः स्थिताः ॥ ७९ ॥

पिशाचजातिवदेव कुम्भाण्डादिजातीनां प्रायशस्तामसी
आतिवाहिकदेहचेष्टादिस्थितिरित्याह - स्थिता इति ॥ ७९ ॥

यथा येत्रेह वै निम्ना जलं तत्रावतिष्ठते ।
तथा यत्र पिशाचाद्यास्तमस्तत्रावतिष्ठते ॥ ८० ॥

निम्नतातारतम्येन जलस्थितितारतम्यवत्पापतारतम्येन तेषु तमस्तारतम्यमित्याह

  • यथेति ॥ ८० ॥

मध्याह्नेपि पिशाचश्चेदजिरे तिष्ठति स्वयम् ।
तत्तस्यान्धं तमस्तत्र सन्निधानं करोत्यलम् ॥ ८१ ॥

तत्रेति दर्शनाद्यत्रेत्यध्याहार्यम् । अजिरे सातपचत्वरेऽपि तिष्ठति चेत् ॥ ८१ ॥

न निहन्ति च तद्भानुर्न चान्यस्तत्प्रपश्यति ।
स एव चानुभवति पश्य मायाविजृम्भितम् ॥ ८२ ॥

भानुः सूर्यस्तत्तमो न निहन्ति । स पिशाच एव ॥ ८२ ॥

अग्नेरादित्यचन्द्रादेस्तैजसं मण्डलं यथा ।
पिशाचादेरजन्यात्म तामसं मण्डलं तथा ॥ ८३ ॥

अस्मदादीनां प्रकाशसिद्धये अग्न्यादित्यादितेजोमण्डलमिव
पिशाचादेर्व्यवहारसिद्धये तामसं मण्डलमस्तीत्याह - अग्नेरिति ।
इन्धनाद्यजन्यात्म ॥ ८३ ॥

याति तेजस्यनोजस्त्वं तमस्योजःप्रधानताम् ।
उलूकवत्पिशाचाद्या आश्चर्यं तत्स्वभावतः ॥ ८४ ॥

अनोजस्त्वं नैर्बल्यम् । तदेतदाश्चर्यम् ॥ ८४ ॥

एषा पिशाचाजनितस्य जातिः प्रोक्ता मया ते समयानपेता ।
पिशाचतुल्यः सुरलोकपाललोकेषु जातोऽहमिति प्रसङ्गात् ॥ ८५ ॥

हे राम मया ते पिशाचयोनौ आजनितस्य जीवस्य एषा जातिर्यथाप्रश्नं प्रोक्ता । समयः
पृष्टमवश्यं वक्तव्यमिति व्याख्यातृसम्प्रदायस्तदनपेता । तद्वशादिति यावत् ।
सुरलोकपाललोकेष्वहं पिशाचतुल्यो जातोऽस्मीति यदवोचं तत्प्रसङ्गात्त्वया पृष्टे
सतीत्यर्थः ॥ ८५ ॥

इत्यार्षे श्रीवा० वा० दे० मोक्षो० नि०उ० पा० पिशाचवर्णनप्रसङ्गेन
जगद्ब्रह्मणोरैक्यप्रतिपादनं नाम चतुर्नवतितमः सर्गः ॥ ९४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
पिशाचवर्णनप्रसङ्गेन जगद्ब्रह्मणोरैक्यप्रतिपादनं नाम चतुर्नवतितमः
सर्गः ॥ ९४ ॥