त्रिनवतितमः सर्गः ९३
श्रीवसिष्ठ उवाच ।
अथैवंरूपसंवित्तेः परावृत्त्य प्रयत्नतः ।
तमम्बरकुटीकोशदेशमागतवानहम् ॥ १ ॥
वसिष्ठकुठ्यान्न् ध्यानस्थसिद्धस्येह निरीक्षणम् ।
पातः कुट्युपसंहारात्स्वोदन्तोक्तिश्च वर्ण्यते ॥
अथ धारणासिद्धजगद्देहदर्शनानन्तरमेवंरूपाया उक्तरूपायाः
कौतुकदर्शनसंवित्तेः सकाशात्परावृत्त्याहं तत्प्राक्तनं
स्वसमाधिस्थानमम्बरकुटीकोशदेशमागतवान् ॥ १ ॥
यावत्तत्र न पश्यामि स्वदेहं क्वचन स्थितम् ।
पश्यामि केवलं सिद्धं कमप्यन्यं पुरः स्थितम् ॥ २ ॥
यावत्साकल्येनान्विष्टमपि क्वचन स्वदेहं न पश्यामि ॥ २ ॥
उपविष्टं समाधाननिष्ठमिष्टं पदं गतम् ।
सौम्योदयमिवादित्यं दग्धेन्धनमिवानलम् ॥ ३ ॥
इष्टं परमप्रेमास्पदं निरतिशयानन्दब्रह्मपदं गतम् । तं वर्णयति -
सौम्योदयमिवेत्यादिना ॥ ३ ॥
बद्धपद्मासनं शान्तं समाधाननिरिङ्गनम् ।
गुल्फद्वितयमध्यस्थवृषणं विषयातिगम् ॥ ४ ॥
समाधानेनेष्टविषये चित्तस्थैर्येण निरिङ्गनं निश्चलम् ॥ ४ ॥
मृष्टसौम्यसमाभोगस्कन्धबन्धुरकन्धरम् ।
सुस्थिरोदारविश्रान्तस्फारकस्थितिसुन्दरम् ॥ ५ ॥
समं कायशिरोग्रीवं धारयन् इति भगवदुक्तध्यानाङ्गदेहस्थितिलक्षणान्यस्याह
- मृष्टेति । भस्मत्रिपुण्ड्ररेखामृष्टाभ्यां सौम्याभ्यां
गाम्भीर्यरम्याभ्यां समाभोगाभ्यां स्कन्धाभ्यां बन्धुरा कन्धरा ग्रीवा
यस्य । सुस्थिरस्य उदारे वस्तुनि विश्रान्तेन मनसा स्फारस्य प्रसन्नवदनस्य कस्य
शिरसः स्थित्या सुन्दरम् ॥ ५ ॥
नाभीनिकटगोत्तानपाणिद्वितयदीप्तिभिः ।
हृदयाम्भोजतेजोभिर्बहिष्ठैरिव भासितम् ॥ ६ ॥
पाणिद्वितयस्य दीप्तिभिः फुल्लपद्मद्वयसदृशशोभाभिः । हृदयाम्भोजेति
तासामेवोत्प्रेक्षा ॥ ६ ॥
श्लिष्टपक्ष्मेक्षणं क्षीणसर्वेक्षं स्वच्छतां गतम् ।
सरो निमीलिताम्भोजमिव सुप्तं दिनात्यये ॥ ७ ॥
क्षीणाः सर्वा ईक्षा बाह्येन्द्रियव्यापारा यस्य । दिनात्यये रात्रौ ॥ ७ ॥
अविक्षुभितमाशान्तमन्तःकरणकोटरम् ।
दधानं धीरया वृत्त्या शान्तोत्पातमिवाम्बरम् ॥ ८ ॥
अपश्यता निजं देहं तं मुनिं पश्यता पुरः ।
इदं मया तदा तत्र चिन्तितं चारुचेतसा ॥ ९ ॥
इदं वक्ष्यमाणं चिन्तितम् ॥ ९ ॥
अयं कश्चिन्महासिद्धः सम्प्राप्तोऽस्मिन्दिगन्तरे ।
विचार्याहमिवैकान्तं विश्रामार्थी महाम्बरम् ॥ १० ॥
पूर्वमहमिवैकान्तविश्रामार्थी ॥ १० ॥
समाधियोग्यमेकान्तं लभेयेतीह चिन्तया ।
कुटी दृष्टेयमेतेन सत्यसङ्कल्पशालिना ॥ ११ ॥
समाधियोग्यमेकान्तं स्थलं लभेय इति चिन्तया इह सम्प्राप्तः । एतेन इयं कुटी
स्वध्यानयोग्या दृष्टा ॥ ११ ॥
मदागमनमेतेन ततोऽचिन्तयता चिरम् ।
तं स्वदेहं शवीभूतमपास्येह कृता स्थितिः ॥ १२ ॥
तत एतेन चिरं मदुपेक्षणाच्छवीभूतं तत्र स्थितं स्वदेहं वसिष्ठदेहं
दृष्ट्वा तत्र पुनर्मदागमनमचिन्तयता अजानता तं देहमपास्य अन्यतः क्षिप्त्वा
इह कुट्यां स्थितिः कृता ॥ १२ ॥
तदिहास्तमहं यामि स्वं लोकमिति निश्चयम् ।
यावद्गन्तुं प्रवृत्तोऽस्मि तावत्सङ्कल्पनक्षयात् ॥ १३ ॥
तन्मम शरीरमिह अस्तं नष्टमतोऽहमातिवाहिकदेहेनैव स्वं सप्तर्षिलोकं यामि इति
निश्चयं कृत्वा यावद्गन्तुमहं प्रवृत्तोऽस्मि तावदित्यर्थः ॥ १३ ॥
सा निवृत्ता कुटी तत्र सम्पन्नं व्योम केवलम् ।
स सिद्धोऽपि निराधारः पतितोधः समाधिमान् ॥ १४ ॥
स्वप्नसङ्कल्पसंशान्तौ स्वप्नसङ्कल्पपत्तनम् ।
यदा सा सुकुटी नष्टा मत्सङ्कल्पोपशान्तितः ॥ १५ ।
पत्तनम् इवेति शेषः । पूर्वस्य परस्य चायं कुटीनाशस्य दृष्टान्तः ॥ १५ ॥
स पपात ततो ध्यानी जलोत्पीड इवाम्बुदात् ।
खादिवानिलनुन्नोऽब्द इन्दुबिम्बमिव क्षये ॥ १६ ॥
जलोत्पीडो जलासारः । क्षये प्रलयकाले इन्दुब्बिम्बमिव ॥ १६ ॥
वैमानिक इवापुण्यश्छिन्नमूल इव द्रुमः ।
खात्त्यक्त इव पाषाणः स पपात ततोऽवनौ ॥ १७ ॥
अपुण्यः क्षीणपुण्यः । अवनौ वक्ष्यमाणकाञ्चनावनौ ॥ १७ ॥
अहं यावदियं तावत्कुटिकास्त्विति कल्पने ।
क्षीणे कुटीक्षये जाते स सिद्धः पतितः क्षणात् ॥ १८ ॥
अहं यावदिह स्थास्यामि तावदियं कुटिका अस्तु तिष्ठतु इति एवंरूपे
मदीयसत्यसङ्कल्पने गमनसङ्कल्पने क्षीणे सति ॥ १८ ॥
पतता तेन सिद्धेन ततः सौजन्यकौतुकः ।
मनसैवाहमगनं नभसो वसुधातलम् ॥ १९ ॥
तेन सिद्धेन सह अहं मनसा तेनातिवाहिकदेहेनैव वसुधातलमगमम् ॥ १९ ॥
सोऽपतत्पवनस्कन्धवलनावर्तवृत्तिभिः ।
सप्तद्वीपसमुद्रान्ते गीर्वाणरमणावनौ ॥ २० ॥
प्रवहादिपवनस्कन्धानां बलनं परिवर्तनं
तत्प्रयुक्ताभिरावर्तसदृशवृत्तिभिर्यथा आवर्ते भ्रमज्जलमधः प्रविशति
तद्वदित्यर्थः । गीर्वाणानां रमणाधिकरणे काञ्चनावनौ ॥ २० ॥
प्राणापानोर्ध्वगामित्वात्खाद्यथास्थितमेव सः ।
सृष्टपूर्वोर्ध्वमूर्धोर्व्यां बद्धपद्मासनोऽपतत् ॥ २१ ॥
उर्व्यां सृष्टः प्रथमं निवेशितः पूर्वः पदभागो येन
तथाविधश्चासावूर्ध्वमूर्धा च तथाविधः सन् । तत्कुतः । प्राणेनापानस्योर्ध्वं
आकर्षणेनोर्ध्वगामित्वात्कूपेऽवतरतः कुम्भस्य रज्ज्वेव तुम्बस्य वृन्तेनेव
चोर्ध्वं प्राणापानाभ्यां विष्टब्धत्वेनाधःशिरस्कत्वाघटनादित्यर्थः ॥ २१ ॥
न प्रबुद्धो बभूवासौविचरं तमचेतनः ।
पाषाणदेह इव ता तूलात्मेवैव वा लघुः ॥ २२ ॥
तं तथाविधं विचरं चलनं प्राप्याप्यसौ समाधेर्न प्रबुद्धो बभूव ।
यतश्चित्तस्यान्यत्र दृढासक्तेरचेतनप्रायः । तर्हि अतिदूरात्पतनेन भग्नगात्रः
कुतो नाभूत्तत्राह - पाषाणेति । वज्रपाषाणदेह इव योगबलाद्दृढस्तूलपिण्ड
इव लघुरेव वा ॥ २२ ॥
मया तदवबोधार्थमथ यत्नवता तदा ।
कृत्वा जलदतां व्योम्नि वृष्टं गर्जितमूर्जितम् ॥ २३ ॥
बोधार्थं समाधेर्व्युत्थापनार्थम् । जलदतां मेघतां कृत्वा वृष्टम् ।
ऊर्जितं बलवत्तरं च गर्जितम् ॥ २३ ॥
करकाशनिपातेन तेन तस्मिन्दिगन्तरे ।
मयूरं प्रावृषेवामुं बुद्ध्या बोधितवानसौ ॥ २४ ॥
असौ मेघभूतोऽहं प्रावृषा मयूरमिवामुं सिद्धं बुद्ध्या स्वबुद्धिकौशलेन
बहिराकृष्टया तद्बुद्ध्या वा बोधितवान् समाधेर्व्युत्थापितवान् ॥ २४ ॥
बभूवाभासिताङ्गश्रीर्विकासितविलोचनः ।
धारानिकरफुल्लात्मा प्रावृषीवाम्बुजाकरः ॥ २५ ॥
प्रबुद्धं सम्प्रशान्तायां दृष्टौ तमहमग्रतः ।
अपृच्छं स्वच्छया वृत्त्या निवृत्तं परमार्थतः ॥ २६ ॥
परमार्थतः परमार्थस्थितिहेतोः समाधेः ॥ २६ ॥
क्व स्थितोऽसि करोषीदं किं च भो मुनिनायक ।
कस्त्वं कस्मादलं दूरान्न भ्रंशमपि चेतसि ॥ २७ ॥
किमपृच्छस्तदाह - क्वेति । दूराद्भ्रंशमधःपातमपि कस्मान्न चेतसि न
सञ्जानासि ॥ २७ ॥
इत्युक्तो मामसौ प्रेक्ष्य संस्मृत्य प्राक्तनीं गतिम् ।
उवाच वचनं चारु चातको जलदं यथा ॥ २८ ॥
सिद्ध उवाच ।
प्रतिपालय मे यावत्स्ववृत्तान्तं स्मराम्यहम् ।
कथयिष्यामि ते पश्चात्पाश्चात्यं वृत्तमात्मनः ॥ २९ ॥
प्रतिपालय प्रतीक्षस्व ॥ २९ ॥
इत्युक्त्वा चिन्तयित्वाशु स यथा वृत्तमक्षतम् ।
स्मृतवान्सायमह्नीव समाचरितमात्मनः ॥ ३० ॥
वृत्तं पूर्वस्ववृत्तान्तं जन्मान्तरवृत्तान्तैः सह । अक्षतं समग्रम् । अह्नि
वृत्तमात्मनश्चरितं यथा जनः सायं स्मरति तद्वत् ॥ ३० ॥
मामथोवाच वचनं चारु चन्द्रांशुशीतलम् ।
आह्लादनमनिन्द्यं च निरवद्यं सुखोदयम् ॥ ३१ ॥
वक्ष्यमाणवचनस्य विवेकवैराग्यप्रधानत्वाच्चार्वित्यादिविशेषणैः प्रशंसा ॥ ३१
॥
सिद्ध उवाच ।
अधुना त्वं मया ब्रह्मन्परिज्ञातोऽभिवादये ।
अतिक्रमोऽयं क्षन्तव्यः स्वभावो हि सतां क्षमा ॥ ३२ ॥
अतिक्रमः प्रथमदर्शनेऽनभिवादनलक्षणोऽपराधः ॥ ३२ ॥
मुने चिरमहं भ्रान्तो देवोपवनभूमिषु ।
भोगामोदविमोहेषु षट्पदः पद्मिनीष्विव ॥ ३३ ॥
तत्र क्व स्थितोऽसीति प्रश्नस्य
प्रत्यक्षदृष्टसमाधिस्थानकुटीविषयत्वायोगात्तत्पूर्वतनाधारभेदान्
जातिस्मारत्वं ख्यापयन् जन्मान्तरसाधारणानाह - मुने इति ॥ ३३ ॥
दृश्यनद्यामथो चित्तजलकल्लोलहेलया ।
चक्रावर्तोह्यमानेन मयोद्विग्नेन चिन्तितम् ॥ ३४ ॥
चित्तजलकल्लोलहेलया स्वप्नवद्दृश्यनद्यामुह्यमानेन अत एव चिरकालेन विचारोदये
संसारादुद्विग्नेन वक्ष्यमाणं चिन्तितम् ॥ ३४ ॥
संसारसागरे दृश्यकल्लोलैरहमाकुलः ।
कालेनोद्वेगमायातश्चातकोऽवग्रहे यथा ॥ ३५ ॥
अवग्रहे वृष्टिप्रतिबन्धे ॥ ३५ ॥
संविन्मात्रैकसारेषु रम्यं भोगेषु नाम किम् ।
अवतिष्ठे गतोद्वेगसंविद्व्योम्न्येव केवलम् ॥ ३६ ॥
किं चिन्तितं तदाह - संविन्मात्रेति । भोगेषु किं नाम रम्यम् । यदि तत्र
संविदात्मना प्रथमानं सुखमेव रम्यं तदतिरिक्तानां तत्साधनानां
दुःखस्वरूपत्वेन तन्मात्रसारत्वात्तर्हि दुःखांशं सर्व विहाय सारभूते
सुखसंविद्व्योम्न्येव केवलमवतिष्ठे किमन्येनासारेणेत्यर्थः ॥ ३६ ॥
शब्दरूपरसस्पर्शगन्धमात्रादृते परम् ।
नेह किञ्चन नामास्ति किमेतावत्यहं रमे ॥ ३७ ॥
न ह्यपरिच्छिन्नं सुखं विहाय परिगणिते परिच्छिन्ने असुखे रमणमुचितमित्याह ##-
चिन्मात्राकाशमेवैतत्सर्वं चिन्मात्रमेव वा ।
तत्किमत्रासदाकारे रमे नष्टमतिर्यथा ॥ ३८ ॥
एतत् शब्दादिसर्वं चिन्मात्रे स्वतः सति तद्व्यतिरेकेण विभाव्यमानमाकाशं
शून्यमेव तदव्यतिरेकदर्शने चिन्मात्रमेव पर्यवस्यति ।
तदेवमुभयथाप्यसदाकारे अत्र शब्दादौ किं रमे । नष्टमतिरुन्मत्तो यथा
तथेत्यर्थः ॥ ३८ ॥
विषया विषवैषम्या वामाः कामविमोहदाः ।
रसाः सरसवैरस्या लुठन्नेषु न को हतः ॥ ३९ ॥
विषयाः शब्दादयो विषवन्मरणोन्मादादिवैषम्यहेतवः । वामाः स्त्रियः । रसाः
रागाः सरसस्यापि पुंसो वैरस्यहेतवः । एषु लुठन् को न हतः ।
कुरङ्गमातङ्गादीनामेकैकासक्त्यापि वधबन्धनादिदर्शनादित्यर्थः ॥ ३९ ॥
जीर्णा जीवितजम्बालजरच्छफरिकामतिः ।
कायं द्रुतगताऽऽदातुं जरेच्छति बृहद्बकी ॥ ४० ॥
एवं कायेऽप्यासक्तिर्नोचितेत्याह - जीर्णेति । द्रुतगता जरा बृहद्बकी जीवितजम्बाले
बृहतीयं शफरिका लब्धेति मतिर्यस्यास्तथाविधा सती कायमादातुन्न्
ग्रसितुमिच्छति ॥ ४० ॥
कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव ।
स्फुरन्नेव पुरोन्तर्द्धि याति दीपशिखा यथा ॥ ४१ ॥
विविधाकुलकल्लोला चक्रावर्तविधायिनी ।
मृतिजन्मबृहत्कूला सुखदुःखतरङ्गिणी ॥ ४२ ॥
एवं जीवितेऽप्याशा नोचितेति तन्नदीत्वेन वर्णयति - विविधेत्यादिना । विविधा आकुला
विक्षेपा एव कल्लोला यस्याः ॥ ४२ ॥
यौवनोल्लासकलिला जराधवलफेनिला ।
काकतालीययोगेन सम्पन्नसुखबुद्बुदा ॥ ४३ ॥
कलिला पङ्काविला ॥ ४३ ॥
व्यवहारमहावाहलेखाजडरवाकुला ।
रागद्वेषघनोल्लासा भूतलालोलदेहिका ॥ ४४ ॥
व्यवहारलक्षणया महाप्रवाहलेखया जडरवैर्मूर्खप्रलापैः
लडयोरभेदात्तल्लक्षणैर्जलरवैराकुला । रागद्वेषलक्षणैर्घनैर्मेघैरुल्लसति
वर्धते तथाविधा ॥ ४४ ॥
लोभमोहमहावर्ता पातोत्पातविवर्तनी ।
हा तप्ता जीविताख्येयं नदी नदनशीतला ॥ ४५ ॥
हा इति खेदे । नदनन्न् नदनः शब्दमात्रं तेन शीतला वस्तुतस्तापत्रयतप्ता वहतीति
सम्बन्धः ॥ ४५ ॥
अपूर्वाण्युपगच्छन्ति तथा पूर्वाणि यान्त्यलम् ।
संसारसरिदम्बूनि सङ्गतानि धनानि च ॥ ४६ ॥
संसारसरिदम्बुभूतानि सङ्गतानि इष्टपुत्रमित्रादिसङ्गमाः । धनानि च
पूर्वाण्यपयान्ति अपूर्वाणि चोपगच्छन्ति ॥ ४६ ॥
प्रवृत्ता ये निवर्तन्ते तैरलं हतभावैकैः ।
अपूर्वा ये प्रवर्तन्ते तेष्वथास्थेह कीदृशी ॥ ४७ ॥
तत्र गच्छत्स्वागच्छत्सु च न शोकहर्षावुचितावित्याह - प्रवृत्ता इति ॥ ४७ ॥
सर्वस्याः सरितो वारि प्रयात्यायाति चाकरात् ।
देहनद्याः पयस्त्वायुर्यात्येवायाति नो पुनः ॥ ४८ ॥
आयुषि धनादिवैलक्षण्यमाह - सर्वस्या इति । आकराद्गिरिमेघादेः ॥ ४८ ॥
शतशः परिवर्तन्ते प्रतिपिण्डं क्षणं प्रति ।
कुलालचक्रकाभावा इव भावा भवाम्बुधौ ॥ ४९ ॥
प्रतिपिण्डं प्रतिदेहं प्रतिक्षणं च भोग्या भावाः कुलालचक्रकेष्वारूढा
घटशरावादिभावा इव ॥ ४९ ॥
चरन्ति चतुराश्चौरा विषमा विषयारयः ।
हरन्ति भावसर्वस्वं जागर्मि स्वपिमीह किम् ॥ ५० ॥
भावो विवेकस्तल्लक्षणं सर्वस्वम् ॥ ५० ॥
आयुषः खण्डखण्डाश्च निपतन्तः पुनः पुनः ।
न कश्चिद्वेत्ति कालेन क्षतानि दिवसान्यहो ॥ ५१ ॥
इदमद्य तथेदं च तथेदमिदमस्य मे ।
एवं कलनया लोको गतं प्राप्तं न वेत्त्यहो ॥ ५२ ॥
गतमायुः प्राप्तं मृत्युं च न वेत्ति ॥ ५२ ॥
भुक्तं पीतमनन्तासु भ्रान्तं च वनभूमिषु ।
दृष्टानि सुखदुःखानि किमन्यदिह साध्यते ॥ ५३ ॥
अन्यत् अपूर्वम् ॥ ५३ ॥
सुखदुःखानुभवनाद्भूयोभूयो विवर्तनात् ।
अनित्यत्वाच्च भावानां स्थिता निष्कौतुका वयम् ॥ ५४ ॥
निष्कौतुका भोगेषु निरुत्कण्ठाः ॥ ५४ ॥
भुक्तानि भोगवृन्दानि दृष्टा चानित्यता भृशम् ।
नोपलभ्यत एवाति विश्रान्तिरिह कुत्रचित् ॥ ५५ ॥
भ्रान्तमुत्तुङ्गशृङ्गासु मेरूपवनभूमिषु ।
लोकपालपुरीषूच्चैः सम्प्राप्तं किमकृत्रिमम् ॥ ५६ ॥
अकृत्रिमं शाश्वतं किं सम्प्राप्तम् । न किञ्चिदित्यर्थः ॥ ५६ ॥
सर्वत्र दारुभिर्वृक्षा मांसैर्भूतानि भूर्मृदा ।
दुःखान्यनित्यता चेति कथमाश्वास्यते वद ॥ ५७ ॥
सर्वभोगेष्वसारतां विविच्य दर्शयति - सर्वत्रेति ॥ ५७ ॥
न धनानि न मित्राणि न सुखानि न बान्धवाः ।
शक्नुवन्ति परित्रातुं कालेनाकलितं जनम् ॥ ५८ ॥
जनो जीमूतजठरजलवद्गिरिकुक्षिषु ।
यात्यन्तःशून्य एवास्तं पांसूपचयपेलवः ॥ ५९ ॥
पांसूपचयः पांसुराशिरिव पेलवः अस्थिरः अदृढश्च जनो गिरिकुक्षिषु
पतितजीमूतजठरजलवद्विषयान्तः आसक्तः सन् क्षने क्षणे हीयमानः
अन्तःपुरुषार्थशून्य एव अस्तं मरणन्न् याति । जरठजीमूत इति पाठे
शरन्मेघजलवत् ॥ ५९ ॥
न मे मनोरमाः कामा न च रम्या विभूतयः ।
इदं मत्ताङ्गनापाङ्गभङ्गलोलं च जीवितम् ॥ ६० ॥
क्वेव कस्य कथं नाम कुत आश्वासना मुने ।
अद्य श्वो वाऽऽपदं पापो मृत्युर्मूर्ध्नि नियच्छति ॥ ६१ ॥
किंवृत्तानि कालकर्तृप्रकारनिमित्ताक्षेपकाणि । पापः क्रूरो मृत्युर्यस्मादद्य
श्वो वा मूर्ध्नि आपदं यच्छति प्रापयतीत्यर्थः ॥ ६१ ॥
शरीरं पर्णवद्भ्रंशि जीवितं जीर्णसंस्थिति ।
धीरधीरतया ग्रस्ता रसा नीरसतां गताः ॥ ६२ ॥
नीतं मनोरथैरेव नीरसैर्वाऽऽयुराततम् ।
न मम स्वं चमत्कारकारि किञ्चिदपीहितम् ॥ ६३ ॥
नीरसैर्भोगैस्तन्मनोरन्थैरेव वा आततमायुर्नीतम् । चमत्कारकारि किञ्चित् स्वं
पुरुषार्थरूपं मम नेहितं न सम्पादितम् ॥ ६३ ॥
मोहोऽद्य मान्द्यमायातो देहो नेहोपयुज्यते ।
अनास्थैवोत्तमावस्था स्थानास्थैवाधमा स्थितिः ॥ ६४ ॥
अनास्था विषयेषु । स्थानं जीवनं तदास्थैव अधमा स्थितिः ॥ ६४ ॥
आपदापतितैवेयमहो मोहविधायिनी ।
नित्यमित्येव मन्तव्यं सक्तव्यं नेह संसृतौ ॥ ६५ ॥
विवेकिनां सम्पदादिप्राप्तौ इयं आपदेवापतितेति मन्तव्यम् ॥ ६५ ॥
विधिभिः प्रतिषेधैश्च शाश्वतैरप्यशाश्वतैः ।
यथेष्टं नीयते लोको जलं निम्नोन्नतैरिव ॥ ६६ ॥
विवेकिनः कर्मशास्त्राण्यपि व्यामोहकान्येव भान्तीत्याह - विधिभिरिति ॥ ६६ ॥
विवेकामोदसर्वस्वं चेतः कुसुमकोशतः ।
हृत्वा मूर्च्छां प्रयच्छन्ति विषया विषवायवः ॥ ६७ ॥
यतः कर्मिणामैहिकामुष्मिकविषयाविवेकं हृत्वा अनर्थमेव प्रापयन्तीत्याह ##-
असदेव तथा नाम दृष्टं सत्तामुपागतम् ।
यथाऽसदेव सद्रूपं सम्पन्नमसदेव सत् ॥ ६८ ॥
वस्तुतस्तु विषयरूपमसदेव तथा सद्बुद्ध्या दृष्टं सत्तामुपागतं न वस्तुतः ।
यथा सद्रूपमावरणेनासदेव सम्पन्नं तथा असदेव विक्षेपेण सत्सम्पन्नम् ।
मायाशक्तेरघटितघटनपटीयस्त्वादित्यर्थः ॥ ६८ ॥
दोलायन्त्योऽवनौ देहं सागरान्सागराङ्गनाः ।
यथा धावन्ति धावन्ति जनता विषयांस्तथा ॥ ६९ ॥
तत्र पराग्दृष्टीनां विषयोन्मुखी प्रवृत्तिः स्वाभाविकीत्याह - दोलायन्त्य इति ।
कूलद्वयावनौ देहं प्रवाहं दोलावदान्दोलायन्त्यः सागराङ्गना नद्यो यथा
सागरान् धावन्ति ॥ ६९ ॥
धावन्ति विषयाṁल्लक्ष्यमुन्मुक्ताश्चित्तसायकाः ।
स्पृशन्ति न गुणान्भूयः कृतघ्नाः सौहृदं यथा ॥ ७० ॥
गुणान् विवेकवैराग्यादीन्मौर्वीश्च ॥ ७० ॥
उत्पातवायुरेवायुर्मित्राण्येवातिशत्रवः ।
बन्धवो बन्धनान्येव धनान्येवाति नैधनम् ॥ ७१ ॥
अतितरां स्नेहासक्त्या शातयन्तीति शत्रवः । नैधनं निधनसाधनम् ॥ ७१ ॥
सुखान्येवातिदुःखानि सम्पदः परमापदः ।
भोगा भवमहारोगा रतिरेव परारतिः ॥ ७२ ॥
आसक्तिजननेनातिदुःखानि । रतिरासक्तिरेव परा अरतिरुद्वेगः ॥ ७२ ॥
आपदः सम्पदः सर्वाः सुखं दुःखाय केवलम् ।
जीवितं मरणायैव बत मायाविजृम्भितम् ॥ ७३ ॥
प्रागुक्तमेव विवृण्वन्नाह - आपद इत्यादिना ॥ ७३ ॥
बहून्कालपरावर्तानिष्टानिष्टान्सुखं मनाक् ।
पश्यन्प्रियवियोगांश्च याति जर्जरतां जनः ॥ ७४ ॥
भोगा विषयसम्भोगा भोगा एव फणावताम् ।
दशन्त्येव मनाक् स्पृष्टा दृष्टा नष्टाः प्रतिक्षणम् ॥ ७५ ॥
फणावतां सर्पाणां भोगाः फणा एव । तदुपपादयति - दशन्त्येवेति ॥ ७५ ॥
आयुर्याति निरायासपदप्राप्तिविवर्जितैः ।
उदर्कभङ्गुराकारैः करालैः कष्टचेष्टितैः ॥ ७६ ॥
भोगाशाबद्धतृष्णानामपमानः पदे पदे ।
आलानमवलीनानां वन्यानामिव दन्तिनाम् ॥ ७७ ॥
अवलीनानां खानपानोपवासादिना कर्शितानाम् ॥ ७७ ॥
सम्पदः प्रमदाश्चैव तरङ्गोत्सङ्गभङ्गुराः ।
कस्तास्वहिफणाच्छत्रच्छायासु रमते बुधः ॥ ७८ ॥
न केवलं भङ्गुराअपि तु सद्यो मृत्युदाश्चेत्याह - अहिफणेति ॥ ७८ ॥
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ ७९ ॥
सत्यशब्दावभ्युपगमवादद्योतकौ । सन्तु नाम मनोरमा इत्यर्थः ॥ ७९ ॥
आपातरमणीयेषु रमन्ते विषयेषु ये ।
अत्यन्तविरसान्तेषु पतन्ति निरयेषु ते ॥ ८० ॥
आपात इन्द्रियसंयोगक्षणः अविचारो वा । पतन्तीति ।
विषयव्यसनिनामधर्मावश्यम्भावादिति भावः ॥ ८० ॥
द्वन्द्वदोषोपरुद्धानि दुःसाध्यान्यस्थिराणि च ।
धनान्यभव्यसेव्यानि मम जातु न तुष्टये ॥ ८१ ॥
तदुपायधनदोषमाह - द्वन्द्वेति । अर्जनकाले
शीतोष्णक्षुत्पिपासादिद्वन्द्वदोषोपरुद्धानि दुःसाध्यानि च । कष्टेनार्जितान्यपि
राजचोरदुर्व्यसनप्रमादादिभिर्विनाशादस्थिराणि च ॥ ८१ ॥
आपातमात्रमधुरा दुःखपर्यवसायिनी ।
मोहनायैव लोकस्य लक्ष्मीः क्षणविलासिनी ॥ ८२ ॥
आपातरमणीयानि विमर्दविसराण्यति ।
दुःखान्यापत्प्रदातृणि सङ्गतानि खलैरिव ॥ ८३ ॥
सङ्गतानि धनादिसम्बन्धाः खलैः सङ्गतानि मैत्र्य इवेत्यावृत्त्या योज्यम् ॥ ८३ ॥
शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ ८४ ॥
अयं श्लोकः किरातार्जुनीये अत्रत्य एव पठितो बोध्यः ॥ ८४ ॥
अन्तकः पर्यवस्थाता जीविते महतामपि ।
चलन्त्यायूंषि शाखाग्रलम्बाम्बूनीव देहिनाम् ॥ ८५ ॥
पर्यवस्थाता अवश्यं प्रत्यवस्थाता । चलन्ति स्खलन्ति ॥ ८५ ॥
जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
क्षीयते जीर्यते सर्वं तृष्णैवैका न जीर्यते ॥ ८६ ॥
भोगाभोगातिगहने सर्वस्मिन्कायकानने ।
परमुल्लासमायाति तृष्णैका विषमञ्जरी ॥ ८७ ॥
इदानीं भोगान्भुक्त्वा जन्मान्तरे विवेकवैराग्यादि प्राप्त्यामीति प्रत्याशा तु न
कार्यैवेत्याह - भोगेति । सर्वस्मिन्भाविदेहपरम्परारूपेऽपि कायकानने ॥ ८७ ॥
बाल्यं यौवनवद्याति यौवनं याति बाल्यवत् ।
उपमानोपमेयत्वं भङ्गुरत्वं मिथोऽनयोः ॥ ८८ ॥
तत्रापि बाल्यादिषु न वैतृष्ण्यप्रत्याशेत्याशयेनाह - बाल्यमिति ॥ ८८ ॥
जीवितं गलति क्षिप्रं जलमञ्जलिना यथा ।
प्रवाह इव वाहिन्या गतं न विनिवर्तते ॥ ८९ ॥
कुतो याति तत्राह - जीवितमिति । जीवितं आयुः । वाहिन्या नद्याः ॥ ८९ ॥
झटित्येवागतो देहः कुतोऽप्यर्जुनवातवत् ।
याति पश्यत एवास्तं तरङ्गाम्बुददीपवत् ॥ ९० ॥
यो यो देह आगतः स कुतोपि निमित्ताज्झटित्येव पश्यत एव अस्तं नाशं याति ।
तरङ्गवदम्बुदवद्दीपवच्च ॥ ९० ॥
रम्येष्वरम्यता दृष्टा स्थिरेष्वस्थिरतापि च ।
सत्येष्वसत्यतार्थेषु तेनेह विरसा वयम् ॥ ९१ ॥
सत्येषु सत्यतया ज्ञातेषु । विरसा विरागाः ॥ ९१ ॥
सुखं यदात्मविश्रान्तौ गते मनसि सत्त्वताम् ।
पाताले भूतले स्वर्गे तन्न भोगेषु केषुचित् ॥ ९२ ॥
सत्त्वतां निर्वासनताम् ॥ ९२ ॥
अपि सम्पूर्णहृद्यार्थाः पञ्चापीन्द्रियवृत्तयः ।
तावज्जयन्ति मामेता भृङ्गं चित्रलता इव ॥ ९३ ॥
साम्प्रतं दृढवैराग्यं मां सम्पूर्णसर्वविषयसहिता अपि
सर्वेन्द्रियवृत्तयः सम्भूयापि न जेतुं शक्नुवन्तीत्याह - अपीति । तावज्जयन्तीति
काकुस्तेन न जयन्त्येवेत्यर्थः ॥ ९३ ॥
अद्य दीर्घेण कालेन निरहङ्कृतिना मया ।
स्वर्गापवर्गवैतृष्ण्यमिदमासादितं धिया ॥ ९४ ॥
चिरमेकान्तविश्रान्त्यै तेनैतन्नभसः पदम् ।
त्वमिवागतवानत्र दृष्टवानस्मि तां कुटीम् ॥ ९५ ॥
एतत् त्वत्कुटीकल्पनास्पदम् ॥ ९५ ॥
अद्यैतत्सम्परिज्ञातं यदेषा भवतः कुटी ।
आगन्ता त्वं पुनश्चेति मया तत्र विचारितम् ॥ ९६ ॥
त्वत्कुटीयं त्वं च पुनस्तस्यामागतेति न तदा विचारितम् । एतत्सर्वमद्य
परिज्ञातमित्यर्थः ॥ ९६ ॥
तदा त्वत्र मया ज्ञातं कश्चित्सिद्धोऽयमात्मना ।
देहं त्यक्त्वेह निर्वाणं गत इत्यनुमानतः ॥ ९७ ॥
किं तर्हि तदा ज्ञातं तदाह - तदेति ॥ ९७ ॥
एतन्मे भगवन्वृत्तमेषोऽस्मीति यथास्थितम् ।
मया ते कथितं सर्वं यथा जानासि तत्कुरु ॥ ९८ ॥
क्व स्थितोऽसीत्यादि त्वया पृष्टं यन्मे वृत्तं तदेतन्मयोक्तमित्यर्थः । अतः परं
त्वं यथास्मिन्नपराधे दण्डमनुग्रहं वा जानासि तत्कुर्वित्यर्थः ॥ ९८ ॥
सिद्धैर्न यावदवधानपरैर्विचार्य निर्णीतमुत्तमधियान्तरशेषवस्तु ।
तावत्त्रिकालकलनं न विदन्ति किञ्चिदित्यब्जजादिमनसोऽपि मुने स्वभावः ॥ ९९ ॥
हे मुने सिद्धैरपि युष्मदादिभिर्यावत्पर्यन्तमवधानपरैर्भूत्वा अन्तः अशेषवस्तु
उत्तमया धिया विचार्य न निर्णीतं तावत्ते त्रिकालस्थवृत्तान्तस्य कलनं
सम्यग्ज्ञानं किञ्चिदपि न विदन्ति । अयमब्जजादिमनसोऽपीदृश एव स्वभावः किं
पुनर्मादृशस्येति त्वद्वृत्तान्तापरिज्ञानदेहनिरासाद्यपराधं क्षमस्वेत्यर्थः
॥ ९९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० पा०
आकाशमण्डपसिद्धसमागमगाथावर्णनं नाम त्रिनवतितमः सर्गः ॥ ९३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
आकाशमण्डपसिद्धसमागमगाथावर्णनं नाम त्रिनवतितमः सर्गः ॥ ९३ ॥