०९२

द्विनवतितमः सर्गः ९२

श्रीवसिष्ठ उवाच ।

अथ वातमयीं कृत्वाजगत्प्रेक्षणकौतुकात्
धारणां धीरया वृत्त्या विततामहमागतः ॥ १ ॥

वायुधारणया वायुभावे तत्कर्मविस्तरः ।
ततः साकाशसार्वात्म्यस्थितिश्चात्रोपवर्ण्यते ॥

विततां वायुभावप्रतिष्ठापर्यन्तं विस्तीर्णां तामागतः प्राप्तः सन्ननिलः
सम्पन्नोऽस्मीत्यन्वयः ॥ १ ॥

सम्पन्नोऽस्म्यनिलो वल्लीललनालोकलासकः ।
कमलोत्पलकुन्दादिजालकामोदपालकः ॥ २ ॥

प्रसिद्धैरनिलधर्मैरात्मानं विशिनष्टि - वल्लीत्यादिना । आमोदान्पालयति
स्वाधीनीकृत्य रक्षतीत्यामोदपालकः ॥ २ ॥

सीकरोत्करनीहारहेलाहरणतत्परः ।
सुरतश्रान्तसर्वाङ्गसमाह्लादनतर्षुलः ॥ ३ ॥

तृणगुल्मलतावल्लीदलताण्डवपण्डितः ।
लतौषधिफलोल्लासकुसुमामोदमण्डितः ॥ ४ ॥

फलोल्लासानां कुसुमानां चामोदैर्मण्डितः सम्पन्नोऽस्मीति सर्वत्रानुषङ्गः ॥ ४ ॥

मृदुर्मङ्गलकालेषु ललनालोकलालकः ।
भीम उत्पातकालेषु पर्णवत्प्रौढपर्वतः ॥ ५ ॥

मङ्गलकालेषु भाविकल्याणसूचनाय मृदुशैत्यमान्द्यसौरभयुक्तः ।
उत्पतकालेषु तु भीमस्तद्विपरीतत्वात्खरोष्णपरुषः । प्रलयकाले तु पर्णवत्प्रौढा
उड्डायिताः पर्वता येन तथाविधः ॥ ५ ॥

नन्दने कुन्दमन्दारमकरन्दरजोरुणः ।
नरकेऽङ्गारसम्भारभूरिनीहारभासुरः ॥ ६ ॥

नन्दने स्वर्गे ॥ ६ ॥

सागरे सरलावर्तलेखानुमितसर्पणः ।
दिवि वारिदसञ्चारमृष्टामृष्टेन्दुदर्पणः ॥ ७ ॥

सरलाभिराव्र्तलेखाभिस्तरङ्गलेखाभिरनुमितं सर्पणं प्रचलनं यस्य ।
मेघापसारणे मृष्ट इव तदाच्छादनेनामृष्टो मलिनीकृत इवेन्दुदर्पणो येन ॥
७ ॥

नक्षत्रक्षत्रसैन्यस्य रथो रंहोविबृंहितः ।
त्रैलोक्यसिद्धसञ्चारविमानधरणे हितः ॥ ८ ॥

नक्षत्रलक्षणस्य क्षत्रसैन्यस्य राजसेनाया रंहोभिर्विबृंहितो विवृद्धो रथः ।
प्रवहाख्यो मरुद्भेदो नक्षत्रचक्रं भ्रमयतीति ज्योतिःशास्त्रप्रसिद्धेः । तथा
त्रैलोक्येऽपि सिद्धानां सञ्चारे देवानां विमानधारणे च हितोऽनुकूलः ॥ ८ ॥

सहोदर इव क्षिप्रगामित्वादस्य चेतसः ।
अनङ्गोऽपि समस्ताङ्गः स्पन्दानन्दनचन्दनः ॥ ९ ॥

तुषारसीकरासारजरारोमविवर्जरः ।
आमोदयौवनोन्मादो मौनमार्दवशैशवः ॥ १० ॥

तुषारादिलक्षणैर्जराधवलरोमभिर्विजर्जरो वृद्ध इव ।
कुसुमाद्यामोदैर्यौवनोन्मादवानिव । मौनमार्दवे शैशवमिव यस्य ॥ १० ॥

नन्दनामोदमधुरो [नन्दनोदारमधुरः इति पाठो व्याख्यानुगुणः ।
] मधुरोदारसंसृतिः ।
चारुचैत्ररथोन्मुक्तो हृतकान्तारतश्रमः ॥ ११ ॥

नन्दने इन्द्रोद्याने उदारो मधुरश्च । चैत्ररथात्कुबेरोद्यानादुन्मुक्तः प्रसृतः ॥
११ ॥

चिरं गङ्गातरङ्गाङ्गदोलान्दोलनसश्रमः ।
श्रमस्वरूपाज्ञतया निवारितततश्रमः ॥ १२ ॥

गङ्गातरङ्गाङ्गदोलासु आन्दोलनेन सश्रम इव परश्रमनिवारणौत्सुक्येन
स्वश्रमानभिज्ञतया निवारितास्तता विस्तीर्णाः परश्रमा येन ॥ १२ ॥

पुष्पभारानताः स्पर्शैर्वसन्तवनितालताः ।
चिरं चपलयṁल्लोलदलहस्तालिलोचनाः ॥ १३ ॥

वसन्तस्य वनिता इव स्थिता लता नर्मस्पर्शैरिव चिरं चपलयन् । लोलदलहस्ताश्च ता
अलिलोचनाश्चेति कर्मधारयः ॥ १३ ॥

चिरं भुक्त्वेन्दुबिम्बाग्रं सुप्ता पूर्णाभ्रतल्पके ।
विधूय कमलानीकमपनीतरतश्रमः ॥ १४ ॥

इन्दुबिम्बे अग्रं श्रेष्ठममृतं चिरं भुक्त्वा । रतश्रमः स्वीयः परकीयो वा ॥ १४

समस्तरजसामेको व्योमगामी तुरङ्गमः ।
आमोदमदमातङ्गसमुल्लासमहासुहृत् ॥ १५ ॥

धीरेणाप्य तडिच्छृङ्गं पयोदपशुपालकः ।
तन्तुः सीकरमुक्तानामरिधर्मा रजोरुजाम् ॥ १६ ॥

तडिल्लक्षणं शृङ्गं गोपबालानां प्रसिद्धं वाद्यमाप्य धीरेण तन्नादेन
पयोदलक्षणानां पशूनां गोमहिष्यादीनां पालकः । रजोरुजां
धूलिविनाशकानां जलभागानामरिधर्मा । शोषक इति यावत् ॥ १६ ॥

आकाशकुसुमामोदः सर्वशब्दसहोदरः ।
नाडीप्रणालीसलिलम् भूताङ्गोपाङ्गवर्तकः ॥ १७ ॥

आकाशलक्षणस्य कुसुमस्यामोदो गन्धभूतः अत एव तद्गुणानां सर्वशब्दानां
सहोदरः । भूतानां प्राणिनामङ्गेषु उपाङ्गेषु च वर्तकः
संस्तदीयनाडीलक्षणप्रणालीनां सलिलमिव सम्पन्न इत्यर्थः ॥ १७ ॥

मर्मकर्मकरैकात्मा हृद्गुहागेहकेसरी ।
नित्यमेकान्तपथिकः सारविज्जातवेदसः ॥ १८ ॥

एवम्भूतानां प्राणभूतत्वाद्धृदयादिमर्मस्थानत्वान्मर्मकर्मकराणां
सर्वेषामेक आत्मा । एकान्तं नियतं पथिकः सञ्चरणशीलः । जातवेदसः सारं
बलं वेत्तीति सारवित् । यतो दुर्बलं दीपादिभावे नाशयति प्रबलं च मित्रभावेन
वर्धयति ॥ १८ ॥

आमोदरत्नलुण्टाको विमाननगरावनिः ।
दाहान्धकारशीतांशुः शैत्येन्दुक्षीरसागरः ॥ १९ ॥

आमोदलक्षणरत्नानान्न् लुण्टाको बलात्कलिकाग्रन्थिमुन्मोच्य हर्ता ।
विमानगणलक्षणनगरस्य अवनिर्विधारकः । दाहस्तापस्तल्लक्षणान्धकारस्य
शीतांशुः । शैत्येन्दोः क्षीरसागर इव जन्मभूमिः ॥ १९ ॥

प्राणापानकलारज्ज्वा प्राणिनां यन्त्रवाहकः ।
अरिर्मित्रं च द्वीपानां द्वीपसञ्चारणे रतः ॥ २० ॥

द्वीपानां तरङ्गैः खण्डकत्वादरिः पांसुभिरुपचेतृत्वान्मित्रं च ॥ २० ॥

पुरोगतोऽप्यदृश्यात्मा मनोराज्यपुरोपमः ।
तालवृन्ततिलेतैलमालानं स्पन्ददन्तिनः । २१ ॥

एकक्षणलवेनैव चालिताखिलभूधरः ।
वर्णावलितरङ्गाणां गङ्गावाह इवैककृत् ॥ २२ ॥

प्रलयकाले एकक्षणलवेनैव चालिता उत्खाता अखिला भूधरा येन ।
वर्णावलिर्नानावर्णास्तल्लक्षणानां तरङ्गाणां गङ्गाप्रवाह इव
धूलिमिश्रणेनैकत्वकृत् ॥ २२ ॥

धूमाम्बुवाहरजसां महावर्तकृदम्भसाम् ।
द्युनदीवाहवार्योघनभोनीलोत्पलालिकः ॥ २३ ॥

पुनः कीदृग्वायुः । धूमानामम्बुवाहानां रजसामम्भसां च महावर्तकृत् ।
द्युनदीप्रवाह एव मकरन्दवार्योघो यत्र तथाविधस्य नभोलक्षणनीलोत्पलस्य अलिको
भ्रमरः ॥ २३ ॥

शरीरावेष्टितोन्मुक्तपुराणतृणचोपनः ।
स्पन्दपद्मवनादित्यः शब्दवर्षैकवारिदः ॥ २४ ॥

वात्याशरीरावेष्टनेनोन्मुक्तानां जीर्णतृणानां चोपनो मन्दगतिहेतुः । स्पन्दः
क्रियासामान्यं तल्लक्षणस्य पद्मवनस्य आदित्यो विकासहेतुः । शब्दलक्षणस्य
वर्षस्य वृष्टेरेको मुख्यो वारिदः ॥ २४ ॥

व्योमकाननमातङ्गः शरीरगृहगर्गटः ।
धूलीकदम्बविपिनमालालिङ्गननायकः ॥ २५ ॥

शरीरगृहे गर्गटो यन्त्रविशेष इव सदैव शब्दायमानः ।
धूलीलक्षणनायिकाकदम्बस्य विपिनमालालक्षणनायिकानां चालिङ्गने नायकः ॥ २५

स्त्यानीकरणसंशोषधृतिस्पन्दनसौरभैः ।
सशैत्यैः कर्मभिः षड्भिरलब्धक्षण आक्षयम् ॥ २६ ॥

स्त्यानीकरणं हिमघृतादेः पिण्डीकरणं कर्दमादेः संशोषो
मेघादेर्धृतिर्धारणं तृणादेः स्पन्दनन्न् सौरभानि गन्धाहरणानि शैत्यं
तापहरणन्न् चेति षड्भिः कर्मभिः आक्षयं प्रलयपर्यन्तमलब्धः क्षणो
विश्रामो येन ॥ २६ ॥

रसाकर्षणसव्यग्रो नित्यं भ्रातेव तेजसः ।
हरणादानकर्तॄणामङ्गानां विनियोगकृत् ॥ २७ ॥

हरणादानकर्तॄणां हस्ताद्यङ्गानां विनियोगकृत् चालक इति यावत् ॥ २७ ॥

शरीरनगरे नाडीमार्गैर्गतिनिरर्गलः ।
रसभाण्डे परावर्तादायुर्मणिमहावणिक् ॥ २८ ॥

गतिविषये निरर्गलो निरन्तरायः । अन्नरसमये देहभाण्डे प्राणापानादिभावेन
पराव्र्तादायुर्मणिरक्षणव्ययविषये महावणिक् ॥ २८ ॥

शरीरनगरीनाशनिर्माणैकपरायणः ।
रसकिट्टकलाधातुपृथक्करणकोविदः ॥ २९ ॥

अन्नरसानां किट्टस्य मलस्य कलानां सूक्ष्मतरसारभागानां षण्णां
त्वगसृङ्मांसभेदोस्थितमज्जाशुक्राख्यानां वातपित्तकफाख्यानां
वाधातूनां च पृथक्करणे कोविदः कुशलः ॥ २९ ॥

प्रतिसूक्ष्माणुकं देहे ततो दृष्टं मया जगत् ।
तत्रेत्थं रूपवानस्मि स्फुटमाभोगि सुस्थिरम् ॥ ३० ॥

तत्र वायुभावेऽपि प्रतिसूक्ष्माणुकं परमाणुपर्यन्तं प्रतिद्रव्यं देहे तत्तदुदरे
मया कलधौतशिलावदेव जगद्दृष्टम् । तत्र तेष्वपि जगत्सु इत्थं
पृथिव्यादिजगद्रूपवानहमेवास्मि ॥ ३० ॥

परमाणुप्रति त्वत्र प्रोह्यन्त इव सर्गकाः ।
न च किञ्चित्किलोह्यन्ते खाकृते किमिवोह्यते ॥ ३१ ॥

परमार्थदृशा तु न च किञ्चित्किलोह्यन्ते । खाकृते शून्याकारे ॥ ३१ ॥

सचन्द्रार्कानिलाग्नीन्द्रपद्मवैश्रवणेश्वराः ।
सब्रह्महरिगन्धर्वा विद्याधरमहोरगाः ॥ ३२ ॥

प्रतिपरमाणु किङ्किंसहिताः सर्गकाः प्रोह्यन्त इव तदाह -
सचन्द्रार्केत्यादित्रिभिः । सर्वत्र तेन सहेति तुल्ययोगे इति बहुव्रीहिः । सहस्य सः ॥ ३२ ॥

ससागरगिरिद्वीपदिगन्तरमहार्णवाः ।
सलोकान्तरलोकेशक्रियाकालकलाक्रमाः ॥ ३३ ॥

सस्वर्गभूमिपातालततलोकान्तरान्तराः ।
सभावाभाववैधुर्यजरामरणसम्भ्रमाः ॥ ३४ ॥

एवं नाम तदा राम भूतपञ्चकरूपिणा ।
मया प्रविहृतं तत्र तैलोक्यनलिनोदरे ॥ ३५ ॥

एवमाकाशधारणया आकाशभावे तद्विलासभेदानुभवा अप्यूह्या
इत्याशयेनोपसंहरति - एवं नामेति ॥ ३५ ॥

रसः पीतोऽनुभूतश्च क्ष्माजलानिलतेजसाम् ।
मूलजालेन वृक्षाणां प्राणिनां वसता मया ॥ ३६ ॥

कथं कथं प्रविहृतं तत्प्रपञ्चयति - रसः पीत इत्यादिना । प्राणिनां
भूजलानिलतेजःसमवायरूपाणां वृक्षाणां देहे वसता मया मूलजालेन भौमो
रसः पीतः ॥ ३६ ॥

रसायनघनाङ्गेषु चन्दनद्रवशोभिषु ।
लुठितं चन्द्रबिम्बेषु तुषारशयनेष्विव ॥ ३७ ॥

रसायनममृतं तद्घनाङ्गेषु चन्दनद्रववच्छैत्यशौक्ल्यादिगुणशोभिषु ॥ ३७

सर्वर्तुवनजालेषु नानामोदानि दिक्ष्वलम् ।
भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददताऽलये ॥ ३८ ॥

नानामोदानि पुष्पजालानि भुक्तान्यनुभूतानि । स्वभोगप्रोच्छिष्टं मकरन्दं अलये
ददता मया ॥ ३८ ॥

ततोन्नतासु मृद्वीषु स्वास्तीर्णास्वम्बराजिरे ।
सुप्तं शुभ्राभ्रमालासु नवनीतस्थलीष्विव ॥ ३९ ॥

अम्बराजिरे आकाशचत्वरे स्वास्तीर्णासु शुभ्राभ्रशय्यासु सुप्तम् ॥ ३९ ॥

सुमनःपत्रमृदुषु नीललक्ष्मीविलासिषु ।
सुरसिद्धाङ्गनाङ्गेषु दूरास्तस्मरवासनम् ॥ ४० ॥

सुमनसां शिरीषादिपुष्पाणां पत्रमिव मृदुषु सुरसिद्धाङ्गनाङ्गेषु । किं
कामुकेन त्वया सुप्तं नेत्याह - दूरास्तेति ॥ ४० ॥

कृतः कुमुदकह्लारकमले नलिनीवने ।
कोमलः कलहंसीभिर्लीलाकलकलारवः ॥ ४१ ॥

सरत्सरिच्छिरासारा मूलभूमण्डलान्विताः ।
अङ्गैरूढाः स्फुरद्भूता लोमालय इवाद्रयः ॥ ४२ ॥

किं च ब्रह्माण्डभूतेन मया सरन्तीनां सरिच्छिरासाराणां
मूलभूतभूमण्डलेनान्विताः स्फुरद्भूता भुवनावलयः अङ्गैरूढाः अद्रयो
लोम्नामालयः पङ्क्तय इवाङ्गैरूढाः ॥ ४२ ॥

खाद्रयः प्रथिता दीर्घसरित्सूत्रैः समुद्रकैः ।
आदर्शैरिव विश्रान्तमङ्गेषु प्रतिबिम्बिभिः ॥ ४३ ॥

ये खादयो जगति प्रथितास्तैर्दीर्घसरित्सूत्रैः समुद्रकैश्च सह मम अङ्गेषु
प्रतिबिम्बसहितैरादर्शैरिव विश्रान्तं स्थितमित्यर्थः ॥ ४३ ॥

भूतसर्गेण विश्रान्तं सिद्धविद्याधरादिना ।
मद्देहे चेतितेनेव मक्षिकायौकरूपिणा ॥ ४४ ॥

सिद्धविद्याधरादिना भूतस्र्गेण प्राणिनिकायेन तु मद्देहे चेतितेन परिज्ञात्वेन
मक्षिकायौकरूपिणेन विश्रान्तम् ॥ ४४ ॥

मत्प्रसादेन मुदितैर्लब्धमर्कादिभिर्वपुः- ।
कृष्णरक्तसितापीतहरितैर्हरितैरिव ॥ ४५ ॥

तर्हि किं तैर्मक्षिकायूकावद्भीतैः प्रतिक्षणं निवार्यमाणैरुद्विग्नैरत्यास्थितं
नेत्याह - मत्प्रसादेनेति । वपुःकृष्णेत्यादिसमस्तपदं बोध्यम् । वपुषा
कृष्णरक्तादिवर्णैर्हरितैः स्निग्धैर्वृक्षैरिव स्थिरैः
पेपीयमानैर्मोदमानैश्चेत्यर्थः ॥ ४५ ॥

समुद्रमुद्रया सप्तद्वीपसप्तात्मरूपया ।
संस्थया स्थापिता भूमिः प्रकोष्ठे वलयोपमा ॥ ४६ ॥

सप्तद्वीपैः सप्तविधात्मरूपया संस्थया सन्निवेशेन प्रसिद्धा भूमिर्मया
प्रकोष्ठे वलयोपमा स्थापिता ॥ ४६ ॥

विद्याधरपुरन्ध्रीणां परामृष्टाङ्गयष्टिना ।
अदृष्टेनैव विहितः पुलकोल्लास आत्मना ॥ ४७ ॥

ताभिरदृष्टेनैवात्मना मया तासां स्वानन्देन पुलकोल्लासो विहितः ॥ ४७ ॥

सरिच्छिरामलस्फाररसानि सुषिराणि च ।
जगन्त्येवास्थिजालानि ममासन्संस्थितानि च ॥ ४८ ॥

सरिल्लक्षणशिराभिरमलस्फारान्तर्गतरसानि सुषिराणि च्छिद्रवन्ति च पर्वतादिजगन्ति
मम देहे अस्थिजालानि चान्मांसादीनि च संस्थितानि ॥ ४८ ॥

असङ्ख्यैर्व्योममातङ्गैश्चन्द्रार्कचलचामरैः ।
उदुम्बरान्तर्मशकैरिव मद्धृदये स्थितम् ॥ ४९ ॥

व्योमममातङ्गैरैरावतादिभिः । मद्धृदये हृदयाकाशे ॥ ४९ ॥

सर्वपातालपादेन भूतलोदरधारिणा ।
खमूर्ध्नापि तदा राम न त्यक्ताथ पराणुता ॥ ५० ॥

एवमतिविस्तृतब्रह्माण्डरूपेणापि मया परमसूक्ष्मचिन्मात्रस्वभावता न
हापितेत्याह - सर्वेति ॥ ५० ॥

दिक्षु सर्वासु सर्वत्र सर्वदासर्वकारिणा ।
सर्वात्मनाप्यसर्वेण शून्यरूपेण संस्थितम् ॥ ५१ ॥

शून्यरूपेण सर्वद्वैतशून्यचिन्मात्ररूपेण ॥ ५१ ॥

किञ्चित्त्वं सदकिञ्चित्त्वं साकृतित्वं निराकृति ।
अनुभूतं सजाढ्यं च चेतनत्वमलं मया ॥ ५२ ॥

तदा परिच्छेदापरिच्छेदादिसर्वविरुद्धधर्माणां स्वात्मनि समुच्चयोऽनुभूत
इत्याह - किञ्चित्त्वमिति ॥ ५२ ॥

मैनाकमुग्धपीनस्य सागरस्यावनिं प्रति ।
सन्ति सर्गसहस्राणि स्थाणुभूतान्यथो मया ॥ ५३ ॥

समुद्रादिकुक्षिदेशेष्वपि कलधौतशिलायामिवानन्तानि जगन्ति सन्ति तान्यपि
मयानुभूतानीत्याह - मैनाकेति । मैनाकवदन्तर्निलीनैः
पर्वतशिलादिभिर्मुग्धस्य पीनस्यातिविस्तृतय च सागरस्य अवनिं प्रति प्रतिदेशं
स्थाणुभूतानि सर्गसहस्राणि सन्ति तानि च मया अथो अनुभूतानीति
विपरिणामेनानुषज्यते ॥ ५३ ॥

जगन्त्यङ्गे मयोढानि गूढानि प्रकटान्यपि ।
प्रतिबिम्बपुराणीव मुकुरेणाजडात्मना ॥ ५४ ॥

एवं जलानिलाग्नित्वं भूमित्वं खात्मना मया ।
कृतं चितेव स्वप्नेषु बत मायाविजृम्भितम् ॥ ५५ ॥

स्वप्नेषु प्रसिद्धया चितेव कृतम् ॥ ५५ ॥

अपि तस्यामवस्थायां जगन्त्याकाशकोशके ।
मया दृष्टान्यसङ्ख्यानि परमाणुकणं प्रति ॥ ५६ ॥

परमाणु प्रति व्योम परमाणु प्रति स्थितम् ।
सर्गवृन्दं यथा स्वप्ने स्वप्नान्तरयुतं पुरम् ॥ ५७ ॥

प्रतिपरमाणु एवं विस्तृतं व्योम स्थितं तत्र सञ्चरत् प्रतिपरमाणु सर्गवृन्दं
स्थितम् ॥ ५७ ॥

स्वमेवाहमभूवं भूमण्डलं द्वीपकुण्डलम् ।
सर्वात्मनापि न व्याप्तं किञ्चनापि मया क्वचित् ॥ ५८ ॥

स्वं आध्यासिकमात्मरूपमेवाभूवम् । एवं सर्वजगदात्मभूतेनापि मया
क्वचित्किञ्चनापि न व्याप्तं न स्पृष्टम् । असङ्गाद्वयत्वादित्यर्थः ॥ ५८ ॥

समुत्पादयताशेषं लतातरुतृणाङ्कुरम् ।
भूतलेन रसाः कृष्टा मयार्थेनैव पुम्भृताम् ॥ ५९ ॥

पुम्भृतां पुरुषादिशरीरभृतामर्थेनैवाशेषं लतातरुतृणाङ्कुरं
समुत्पादयता मया वृष्टिनिपतिता रसा भूतलेन कृष्टा निपीताः ॥ ५९ ॥

अवदाततमे युद्धबोधकालमुपेयुषि [शुद्धबोधकालमये मयि इति पाठः
।] ।
जगल्लक्षाणि तिष्ठन्ति न तिष्ठन्ति च कानिचित् ॥ ६० ॥

युद्धसदृशं सर्वद्वैतसंहारकं बोधकालं उपेयुषि मयि जगल्लक्षाणि
तिष्ठन्ति न तिष्ठन्ति च ॥ ६० ॥

चिति यास्तु चमत्कारं चमत्कुर्वन्ति यत्स्वतः ।
स्वचमत्कृतयोऽन्तस्थास्तदेताः सृष्टिदृष्टयः ॥ ६१ ॥

केन रूपेण तिष्ठन्ति केन च न तिष्ठन्तीति चेच्चिच्चमत्कारमात्ररूपेण तिष्ठन्ति
तदन्यरूपेण न तिष्ठन्तीत्याह - चितीति द्वाभ्याम् । चिति या अन्तस्थाः
स्वचमत्कृतयः स्वसत्तास्फूर्तिलक्षणं चमत्कारं यत्स्वतश्चमत्कुर्वन्ति
जगत्यारोप्य प्रकटयन्ति तत्तेन रूपेण एताः सर्गदृष्टयः सन्तीत्यर्थः ॥ ६१ ॥

अनुभूतं कृतं कष्टं यावत्क्वचन किञ्चन ।
परमार्थचमत्कारादृते नेहोपलभ्यते ॥ ६२ ॥

प्रत्येकं विश्वरूपात्मा सर्वकर्ता निरामयः ।
प्रबुद्धः शुद्धबोधात्मा सर्वं ब्रह्मात्मकं यतः ॥ ६३ ॥

अत एवाध्यारोपे प्रत्येकं स्वसत्तार्पणाद्विश्वरूपात्मापवादेन प्रबुद्धस्तु
शुद्धबोधात्मैवेत्यर्थः ॥ ६३ ॥

सर्वः सर्वत्र सर्वात्मा सर्वगः सर्वसंश्रयः ।
एतत्प्रबुद्धविषयमप्रबुद्धं न वेद्म्यहम् ॥ ६४ ॥

अत एव एकैकवस्त्वन्तरे ब्रह्मणि सर्वजगदध्यासात्सर्वः सर्वत्र सर्वात्मा च सर्वगः
सर्वसंश्रय इत्येतत्प्रबुद्धविषयं जगद्रूपं पर्यवस्यति । अप्रबुद्धगम्यं तु
रूपं न प्रबुद्धैर्द्रष्टुं शक्यमित्याह - अप्रबुद्धमिति ॥ ६४ ॥

आकाशकोशविशदात्मनि चित्स्वरूपे येयं सदा कचति सर्गपरम्परेति ।
सान्तस्तदेव किल ताप इवान्तरूष्मा भेदोपलम्भ इति नास्ति सदस्त्यनन्तम् ॥ ६५ ॥

तथा चाद्वये चिदात्मनि विदुषां सर्वत्र सर्वात्मताकल्पना विकल्पमात्रं न
चिद्व्यतिरिक्तं वस्तु किञ्चिदस्तीत्याह - आकाशेति । सा अन्तस्तदेव । यथा
तापस्यान्तरूष्मेति प्रयोगे तापपदस्य तदन्तःपदस्योष्मपदस्य च न पृथगर्थोऽस्ति
किन्तु वाक्याद्विकल्पमात्रं तद्वद्भेदोपलम्भोऽपीति न जगदस्ति किन्त्वनन्तं
सदस्तीत्यर्थः ॥ ६५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पाषा०
परमार्थसर्गयोरैक्यप्रतिपादनं नाम द्विनवतितमः सर्गः ॥ ९२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशेनिर्वाणप्रकरणे उत्तरार्धे
परमार्थसर्गयोरैक्यप्रतिपादनं नाम द्विनवतितमः सर्गः ॥ ९२ ॥