०९१

एकनवतितमः सर्गः ९१

श्रीवसिष्ठ उवाच ।

ततोऽहमभवं तेजस्तेजोधारणयेद्धया ।
चन्द्रार्कतारकाग्न्यादिविचित्रावयवान्वितम् ॥ १ ॥

तेजोधारणया तेजोभावमासाद्य वीक्षिताः ।
सूर्यचन्द्राग्निरत्नादिचमत्कारा इहोदिताः ॥

ततो जलधारणाकौतुकदर्शनानन्तरम् ॥ १ ॥

नित्यं सत्त्वप्रधानत्वात्प्रकाशाकृतिराजगत् ।
सर्वं दृश्यमृते सर्वचौरध्वान्तप्रतापयुक् ॥ २ ॥

आजगत् सर्व जगदभिव्याप्य प्रकाशाकृतिः । राजवत् इति पाठे सर्व दृश्यं
चक्षुर्विषयं स्वापहृतं ऋते विहाय सर्वतश्चौरेष्विव पलायमानेषु ध्वान्तेषु
राजवत्प्रतापयुगिति सम्बन्धः ॥ २ ॥

दीपादिभिः शनैः स्निग्धैर्दशाशतविहारिभिः ।
प्रत्यक्षीकृतसर्वार्थं प्रतिगेहं सुराजवत् ॥ ३ ॥

यथा सुराजा दशाशतैर्नानावेषैर्विहारिभिः स्निग्धैश्चारैः प्रतिगेहं
प्रत्यक्षीकृतसर्ववृत्तान्तार्थस्तद्वद्वर्तिकाशतविहारिभिर्दीपादिभिः
प्रत्यक्षीकृतसर्वार्थम् । तेज एव सर्वत्र विशेष्यमनुवर्तते ॥ ३ ॥

लोकालोके च हृषितैश्चन्द्रार्काद्यंशुरोमभिः ।
परप्रकाशैकरतैर्दूरोत्क्षिप्ताम्बराम्बरम् [दूरोत्क्षिप्तासिताम्बरम् इति
पाठः ।] ॥ ४ ॥

परप्रकाशैकरतैरत एव लोकानां जनानां भुवनानां च आलोके अतिसन्तुष्टैः
पुलकितैश्च चन्द्रार्काद्यंशुलक्षणै रोमभिर्दूरे उत् ऊर्ध्वं क्षिप्तमस्तमम्बरं
सर्वावरकतमोवस्त्रमिव दृश्यमानमम्बरमाकाशं येनेत्युत्प्रेक्षा ॥ ४ ॥

अन्धकारस्य दैन्यस्य समस्तगुणनाशिनः ।
दृश्यं सद्दृश्यमनिशं सर्वस्य गुणशालिनः ॥ ५ ॥

किमर्थमन्धकारं दूरे उत्क्षिपतीति चेत्तत्राह - अन्धकारस्येति । यतः सत्
विद्यमानं जगत्सर्व समस्तान् गुणान् रूपादीन्नाशयत्यदर्शनं नयति
तथाविधस्यान्धकारलक्षणस्य दैन्यस्य दृश्यं विषयः । सर्वस्य च
गुणशालिनः परदैन्यनिवर्तनसमर्थस्य सत् उत्तममपगतदैन्यं जगद्दृश्यं
दर्शनार्हमतस्तदपनयनं युक्तमेवेत्यर्थः ॥ ५ ॥

तमस्तमालपरशुः परशुद्धिकरं पदम् ।
सुवर्णमणिमाणिक्यमुक्तादिजनजीवितम् ॥ ६ ॥

पुनः कीदृशं तेजः । तमोलक्षणानां तमालवृक्षाणां परशुः खण्डकम् ।
परमुत्कृष्टं शुद्धिकरं पद्यते अनेनेति पदम् । निस्तेजस्कानां
सुवर्णादीनामनादरात्तल्लक्षणानां जनानां जीवितमादरहेतुः । सुवर्णादिरूपेण
जनानां जीवनसाधनमिति वा ॥ ६ ॥

शुक्लकृष्णारुणादीनां नित्यं ज्योत्स्नाङ्गशायिनाम् ।
पुत्राणामिव वर्णानां सर्वेषां देहदः पिता ॥ ७ ॥

ज्योत्स्ना आलोकस्तदङ्गशायिनाम् । रूपमात्रस्यालोकांशगुणत्वादिति भावः ॥ ७ ॥

घनस्नेहरसं पृथ्व्या रक्षितानलवेधनम् ।
गृहं प्रति घनानन्दैर्वृतदीपकपुत्रकम् ॥ ८ ॥

इदं च तेजः पृथ्व्या सह घनः स्नेहरसः प्रीत्यतिशयो यस्य तथाविधम् । कुतः ।
यतो रक्षितमनलाद्वेधनं दहनं येन । सर्वदाहकोऽप्यनलो मृदं न दहति
तदस्य स्नेहलक्षणमित्यर्थः । एवं पृथ्व्यापि स्वस्नेहलक्षणप्रकटनाय गृहं
प्रति प्रतिगृहं घननन्दैः प्रीत्यतिशयैर्भित्तिप्रासादादिभावेन वृतो
वाय्वभिघाताद्रक्षितो दीपकपुत्रको यस्य ॥ ८ ॥

दृष्टं पातालकेष्वीषत्तमोरूपेषु [अत्र टीकाकृतां ईषत्पावक इति
पाठोऽभिप्रेत इति दृश्यते ।] पावकम् ।
अर्धदृष्टं रजोरूपे भूतले भूतमालिते ॥ ९ ॥

तमोरजःसत्त्वबहलेषु पातालादिषु लोकेषु तेजसः प्रकाशतारतम्यमाह -
दृष्टमिति सार्धेन । ईषत्पावकं ईषत्प्रकाशकम् । अर्धदृष्टमर्धप्रकाशम् ॥ ९

सत्त्वात्मसु महासत्त्वं नित्यत्वं देवसद्मसु ।
जगज्जीर्णकुटीदीपः कूपोम्भस्तमसोर्महान् ॥ १० ॥

महासत्त्वं महाप्रकाशम् । नित्यत्वं नित्यता । अम्भस्तमसोर्महान् अगाधः कूप
इवान्तर्ग्रासि ॥ १० ॥

दिग्वधूविमलादर्शो निशानीहारमारुतः ।
सत्त्वं चन्द्रार्कवह्नीनां कुङ्कुमालेपनं दिवः ॥ ११ ॥

दिग्वधूनां विमल आदर्श इव विविच्य प्रकाशकम् । निशानीहारस्य मारुत इव
अपनेतृसत्त्वं जीवितसर्वस्वम् ॥ ११ ॥

केदारं दिनसस्यानां तमोच्छूनामनुग्रहः ।
नभःकाचबृहत्पात्रक्षालनाम्बु समुल्लसत् ॥ १२ ॥

तमसा उच्छूनामुच्छूनानां रूपाणामनुग्रहः । नभोलक्षणस्य
काचमयबृहत्पात्रस्य क्षालनार्थमम्बु ॥ १२ ॥

सत्ताप्रदतयार्थानां प्रकाशकतयापि च ।
चिन्मात्रपरमार्थस्य सहोदर इवानुजः ॥ १३ ॥

चिन्मात्रलक्षणस्य परमार्थस्य जाड्यमात्रेण जघन्यत्वादनुज इव ॥ ३ ॥

क्रियाकमलिनीभानुर्भूतलोदरजीवितम् ।
रूपालोकमनस्कारचमत्कारश्चितेर्यथा ॥ १४ ॥

रूपालोकस्य चाक्षुषस्य तत्प्रयुक्तमनस्कारस्य च वृत्त्या रूढचितेरिव
विषयावरणतमोनिवर्तनलक्षणश्चमत्कारः ॥ १४ ॥

नभस्तलगतासङ्ख्यनक्षत्रमणिमालितः ।
दिनर्तुवत्सराबृंह्यवाडवाग्न्यादिफेनिलः ॥ १५ ॥

किञ्चेदं तेजो बृहद्ब्रह्माण्डखातस्थो महार्णव एवेत्युत्प्रेक्षणाय
रूपककल्पितैरर्णवधर्मैर्विशिनष्टि - नभस्तलेति ।
दिनर्तुवत्सरादिकालभेदलक्षणैराबृंह्यैः सर्वतः
प्रवृद्धैर्वाडवाग्न्यादिभिर्विक्षोभात्फेनिलः ॥ १५ ॥

चन्द्रार्कादितरङ्गान्तरजडं पङ्किलो महान् ।
बृहद्ब्रह्माण्डखातस्थो नित्यमेकार्णवोऽक्षयः ॥ १६ ॥

चन्द्रार्कादिलक्षणतरङ्गान्तःप्रसृतैः रजोभिः अजडं विनैव जलं
कदाचित्पङ्किलः ॥ १६ ॥

हेमादिषु सुवर्णत्वं नरादिषु पुराक्रमः ।
काचकच्यं च रत्नादौ वर्षादिष्ववभासनम् ॥ १७ ॥

किञ्चेदं तेजः सन् अहं हेमादिषु सुवर्णत्वं सम्पन्नः । नरादिषु पराक्रमः
सम्पन्न इति योज्यम् । काचकच्यं कान्तिविशेषः । अवभासनं विद्युत्प्रकाशः ॥ १७ ॥

ज्योत्स्ना मुखेन्दुबिम्बेषु पक्ष्मलेक्षणलक्ष्मसु ।
स्रवत्स्नेहामृतापूरो हाससौहार्दभासनम् ॥ १८ ॥

मुखसदृशेष्विन्दुबिम्बेषु तु ज्योत्स्ना सम्पन्नः । पक्ष्मलेक्षणलक्ष्मसु
मुखलक्षणेन्दुबिम्बेषु तु ज्योत्स्नासदृशः स्रवत्स्नेहामृतापूरो
हाससौहार्दयुक्तं भासनं च सम्पन्न इत्यर्थः ॥ १८ ॥

कपोलबाहुनेत्राक्षिभ्रूकरालकलासकः ।
निजोऽजेयतया जातो विलासः कामिनीजने ॥ १९ ॥

कामिनीजने त्वहमजेयतया प्रसिद्धो निजः स्वाभाविकः कामविलासो जातः । स कीदृक् ।
कपोलादीनां लासको लावण्यातिशयेन प्रकाशकः । लामकः इति पाठे
चलनादिविकारहेतुः ॥ १९ ॥

तृणीकृतत्रिभुवनचपेटास्फोटितद्विषाम् ।
शिरःसु वज्रीकरणं वीर्यं सिंहादिचेतसि ॥ २० ॥

किञ्चाहं तृणीकृतत्रिभुवनानां चपेटाभिरास्फोटिता द्विषो यैस्तथाविधानामपि
पराक्रमिणां वृत्रादीनां शिरःसु वज्रीकरणं वज्रप्रहारः सम्पन्नः ।
सिंहादिचेतसि वीर्य च सम्पन्न इति प्रत्येकं विशेषणविशेष्यभावेन वा योज्यम् ॥ २० ॥

कटुकङ्कटकुट्टाकखड्गसङ्घट्टटाङ्कृतैः ।
पटुस्पुटाटोपरटि भटेष्वटनमुद्भटम् ॥ २१ ॥

किञ्चाहं भटेषु उद्भटं रणाङ्गणेष्वटनन्न् लक्षणया तत्प्रयोजकं वीर्य
सम्पन्नः । तत्कीदृशम् । कटुभिः कङ्कटानामायसकवचानां कुट्टाका ये
खड्गास्तत्सङ्घट्टजन्यैष्टाङ्कृतैः पटु स्फुटाटोपं च यथा स्यात्तथा रटि
रटनशीलम् ॥ २१ ॥

देवेषु दानवारित्वं सुरारित्वं सुरारिषु ।
सर्वभूतेषु सोजस्त्वमुन्नामः स्थावरादिषु ॥ २२ ॥

उन्नामः औन्नत्यम् । वाय्वादिबलेनाप्यनाम्यत्वप्रयोजकं बलं वा ॥ २२ ॥

अथ ते मरुवद्भास्वांस्तत्राहमनुभूतवान् ।
जगदाकाशकोशेषु तेषु तामरसेक्षण ॥ २३ ॥

अथ तेषु स्वधारणाकल्पितेषु जगदाकाशकोशेषु ते तव प्रसिद्धा मरुस्थली यथा
स्वान्तर्नद्यादिकल्पनमनुभवति तद्वदहमपि भास्वान्सन् वक्ष्यमाणं सर्व
स्वान्तरनुभूतवानित्यर्थः ॥ २३ ॥

दिगन्तदशनिस्तीर्णैः करजालैर्जगत्खगम् ।
गृह्णदद्र्यङ्गमर्कत्वं ग्रामवद्दृष्टभूतलम् ॥ २४ ॥

तदेवाह - दिगन्तेत्यादिना । अहमर्कत्वमनुभूतवान् । कीदृशं तत् । दिगन्तेषु
दशसु निस्तीर्णैः प्रसृतैः करजालैः । अद्रयः अङ्गान्यवयवा यस्य तथाविधं
जगल्लक्षणं खगं पक्षिणं गृह्णत् । पुनः कीदृशम् । ग्रामवदल्पपरिमाणं
दृष्टं भूतलं यत्र ॥ २४ ॥

कामोत्पले कोशचक्रं वाडवं तिमिरार्णवे ।
ब्रह्माण्डसदने दीपं वृक्षं दिनफलावलेः ॥ २५ ॥

पुनस्तत्कीदृशमर्कत्वम् । चन्द्रकामवत्युत्पले कोशबन्धनहेतुभूतं चक्रम् ।
शिष्टं स्पष्टम् ॥ २५ ॥

रसायनह्रदाकारमिन्दुत्वं वदनं दिवः ।
निशानिशाचरीहासं विकासं रजनीविशाम् ॥ २६ ॥

तथा इन्दुत्वं चन्द्रभावमप्यनुभूतवान् । तदपि कीदृशम् ।रसायनस्यामृतस्य
ह्रद इवाकारो यस्य । दिवो वदनमिव वदनम् । निशालक्षणाया निशाचर्या
अभिसारिकाया हासमिव हासम् । तथा रजन्यान्न् विशन्ति प्रवेशादिव्यवहारं ये
कुर्वन्ति ते रजनीविशस्तेषां विकासं प्रकाशकम् ॥ २६ ॥

जगल्लावण्यलक्ष्मीणां सर्वासामुपमास्पदम् ।
रजनीरोहिणीनारीकैरवाणां परं प्रियम् ॥ २७ ॥

नेत्रवृन्दस्य वक्त्रस्य द्युलतापुष्पजालकम् ।
स्वर्गौघमशकव्यूहं तारकापटलं मृदु ॥ २८ ॥

तथा सर्वप्राणिनां नेत्रवृन्दस्य वक्त्रस्य मुखस्य च
आह्लादविकासहेतुत्वात्परमं प्रियमित्यनुकृष्यान्वयः । तथा अहं गृदु
तारकापटलम् । भावप्रधानो निर्देशः । तारकासमूहत्वं चानुभूतवान् । तदपि
कीदृशम् । द्यौराकाशस्तल्लक्षणाया लतायाः पुष्पजालकमिव स्थितम् ।
स्वर्गसुखलक्षणे ओधे तन्मकरन्दप्रवाहे आसक्तं मशकव्यूहमिव मृदु
क्षुद्रम् ॥ २८ ॥

वणिङ्मात्रे वणिग्घस्ततुलातोलनदोलितम् ।
रत्नत्वं जलकल्लोलहस्तान्दोलनमब्धिभिः ॥ २९ ॥

तथा अहं रत्नत्वमप्यनुभूतवान् । तच्च वणिजो मिमीते इति वणिङ्मात्रो विपणिस्तस्मिन्
वणिजां हस्तैस्तुलासु तोलनैश्च दोलितमान्दोलितम् । प्राक्च
अब्धिभिर्जलकल्लोलहस्तैरान्दोलनं प्राप्तमिति शेषः । बाहुलकात्कर्मणि वा ल्युट् ॥ २९ ॥

अब्धाऽब्धौ शफरावर्तमब्धा गोमञ्जरीगणः ।
अब्दादौ दावदहनं वैद्युतं द्योतनं तनौ ॥ ३० ॥

किञ्चाहमब्धौ समुद्रे अपो धयति पिबतीत्यब्धा वडवानलः सन् शफराणां
क्षुद्रमत्स्यानां मद्भीतानामावर्तं परिभ्रमणकौतुकमनुभूतवान् । तथा
सर्वत्र अपः धयति शोषयतीत्यब्धा गोमञ्जरीगणः
सूर्यकिरणमञ्जरीसमूहात्मकः सस्तनौ स्वशरीरे द्योतनमनुभूतवान् । अब्दादौ
मेघपर्वतादौ प्रविश्य दावदहनवैद्युतं च तत्तच्छरीरे द्योतनं
स्वमनुभूतवानित्यर्थः ॥ ३० ॥

दारुदारणदुर्वारदीप्तं ज्वलनमाततम् ।
यज्ञाग्निदाहकल्याणं विस्फोटकठिनारवम् ॥ ३१ ॥

किञ्चाहमग्निभावं प्राप्य दारूणां दारणं विदारणनिमित्तं दुर्वारं यथा
स्यात्तथा दीप्तमत एव दारुविस्फोटैः कठिनारवमाततं सर्वतोविस्तृतं
ज्वलनमनुभूतवान् । तथा यज्ञाग्निः सन्नानाहविर्दाहकल्याणं
चानुभूतवानित्यर्थः ॥ ३१ ॥

कचत्काञ्चनमाणिक्यमुक्तामणिमयं महः ।
तपस्तां नीतमाक्षिप्य पाण्डित्यमिव पामरैः ॥ ३२ ॥

किं च तस्मिन्नग्निभावे क्चल्लावण्यातिशयेन दीप्यमानं काञ्चनादिमयं महो
ज्योतिः कोशागारदाहेन आक्षिप्य परिभूय भस्मादिभावं नीत्वा तत्स्वामिनां
तपस्तां सन्तापविषयतां नीतम् । यथा बलवद्भिः पामरैर्बहुभिरेकस्य पण्डितस्य
पाण्डित्यं वितण्डावादैरभिभूय सन्तापविषयतां नीयते तद्वत् । तथा
चाभाणकमाहुः - पलाशं पण्डितः प्राह मूर्खा जल्पन्ति पाडलम् ।
मुष्टिप्रहारैः सङ्क्लिष्टः पण्डितोऽप्याह पाडलम् इति ॥ ३२ ॥

निश्रान्तं स्तनशृङ्गेषु मुक्ताहारतया तया ।
असुरोरगगन्धर्वनरनायकयोषिताम् ॥ ३३ ॥

प्रसङ्गोपात्ते मुक्ताभावेऽपि यदनुभूतं तदाह - विश्रान्तमिति ॥ ३३ ॥

पादाहतिं गतं मार्गे तिलकत्वं वधूमुखे ।
खद्योतेन मया लब्धं पश्यावस्थासु चापलम् ॥ ३४ ॥

खद्योतभावे यदनुभूतं तदाह - पादाहतिमिति । खद्योतभूतेन मया
तत्खद्योतत्वं मार्गे सञ्चरतां जनानान्न् पादाहतिं गतं लब्धम् । वधूमुखे तु
तिलकत्वं गतं लब्धम् । स्थानभेदप्रयुक्तासूत्कर्षापकर्षावस्थासु
चापलमनैयत्वं पश्य ॥ ३४ ॥

क्वचिद्विद्युत्तया तेषु शफर्या चार्णवेष्विव ।
खस्थेषु विकृतं चारु वार्यावर्तविराविषु ॥ ३५ ॥

खस्थेषु मेघेषु मया क्वचिद्विद्युत्तयार्णवेषु शफर्येव चारु यथा स्यात्तथा
विकृतं चेष्टितम् । वार्यावर्तैर्विराविष्विति द्वयोरपि विशेषणम् ॥ ३५ ॥

क्वचिद्दीपतयानीय कलिकाकोमलाङ्गया ।
अन्तःपुरेषु कान्तानान्न् सुरतालोकनं कृतम् ॥ ३६ ॥

अन्तःपुरेषु आनीय स्थापितेनेति शेषः ॥ ३६ ॥

क्वचित्कज्जलजालस्य ज्वालाकनकदाकृते ।
खेदिना घनकूर्माभं सङ्गेनैव स्वकोटरे ॥ ३७ ॥

ज्वालालक्षणं कनकं दाति खण्डयति तथाविधाकृते [] बहुब्रीहिः -
आकृतमाकृतिः ।] स्वकोटरे वर्तिकाग्रे प्ररूढकज्जलजालस्य सङ्गेनैव खेदिना
मन्दप्राभेण दीपेन मया ज्वालाद्यवयवसङ्कोचाद्घनकूर्माभं रूपं
कृतमित्यर्थः । कल्पान्ताग्निभूतेन मया कल्पान्तेषु सर्वेषु जगत्सु
भ्रमणप्रयुक्ताद्बृहतः श्रमात्कज्जलेनासिते श्यामे क्वचित्खे आकाशे लीनम् । यथा
मेघवाहनस्य रुद्रस्य इभे वाहनभूते मेघे विद्युता लीनं तद्वत् ॥ ३७ ॥

कल्पान्तेषु क्वचित्सर्वजगद्भ्रमघनश्रमात् ।
खे कज्जलासिते लीनं रुद्रेभ इव विद्युता ॥ ३८ ॥

क्वचिदाकल्पमापीय वाडवाग्नितया जलम् ।
जगत्सु गगनेष्वन्ते ननृते जलराशिषु ॥ ३९ ॥

गगनेषु शून्यतां प्राप्तेषु जलराशिषु मया अन्ते गगने ननृते ।
गात्रविक्षेपार्थस्य नृतेर्धात्वर्थोपसङ्गृहीतकर्मकत्वेनाकर्मकत्वाद्भावे लिट् ॥
३९ ॥

क्वचिदुल्मुकदन्तेन मया ज्वालाभुजात्मना ।
विलोलधूमावर्तोग्रकुन्तलेनाकुलौजसा ॥ ४० ॥

क्वचिदुल्मुकदन्तेन ज्वालाभुजात्मना विलोलावर्तधूमाग्राण्येव कुन्तलाः केशा यस्य
तथाविधेनौजसाग्निना मया पुराणां प्ररूढकक्षपल्वलानां [पल्लव पल्लल
इत्यपि पाठौ ।] च दाहेषु क्रियामाणेषु काष्ठादिपदार्थाः खादनोचिता
भक्षणयोग्याः कृता इति परेणान्वयः ॥ ४० ॥

पुरपल्वलदाहेषु [पल्लव पल्ललैत्यपि पाठौ ।] कवलीकृतजन्तुना ।
कृताः कृताष्ट काष्ठादिपदार्थाः खादनोचिताः ॥ ४१ ॥

हे कृताष्ट । कृताः स्थिरीकृता दयाद्यस्पृहान्ता गौतमोक्ता अष्टौ गुणा येनेति
व्युत्पत्तेः ॥ ४१ ॥

हतेन शस्त्रपाषाणैरयःपिण्डादिवासिना ।
हन्तृदाहार्थमुद्गीर्णाः कणकोपलताः क्वचित् ॥ ४२ ॥

क्वचित्कर्मारशालादौ शस्त्रैरयोमुद्गरैः पाषाणैश्च हतेन
लोहाभिघातादभिहतेन कणका विस्फुलिङ्गा उपलताः [आर्षत्वाद्वामजनेत्यत्र
तलिति योगविभागाद्वा समूहे तल् ।] पाषाणखण्डाश्चोद्गीर्णाः ॥ ४२ ॥

क्वचिन्महाशिलाकोशे पाषाणमणिना मया ।
समस्तभूतादृश्येन स्थितं युगशतान्यपि ॥ ४३ ॥

पाषाणमणिना वज्रवैदूर्यादिरूपेण स्थितम् ॥ ४३ ॥

श्रीराम उवाच ।

मुने तस्यामवस्थायामनुभूतं त्वया सुखम् ।
उत दुःखमिति ब्रूहि बोधाय मम मानद ॥ ४४ ॥

तस्यां पाषाणमण्याद्यवस्थायाम् ॥ ४४ ॥

श्रीवसिष्ठ उवाच ।

यथा याति नरः सुप्तो जडतां चेतनोऽपि सन् ।
चिद्व्योम गच्छेद्दृश्यत्वं तथा जाड्यं प्रचेतति ॥ ४५ ॥

चिदानन्दैकरसपूर्णब्रह्मभूतस्य मम कौतुकाज्जगद्भावारोपवीक्षणे न
दुःखलेशस्यापि प्रसक्तिः किन्तु सुखमेवेत्युत्तरं वक्तुं वसिष्ठो भूमिकां
रचयति - यथेति ॥ ४५ ॥

आत्मानं चेतति ब्रह्म पृथ्व्यादीव यदा तदा ।
सुप्तं जडमिवास्तेऽन्तः स्यादस्य न तदन्यथा ॥ ४६ ॥

अस्य ब्रह्मणस्तद्वास्तवं सच्चिदानन्दरूपमन्यथा न स्यादेवेति न दुःखप्रसक्तिरिति
भावः ॥ ४६ ॥

वस्तुतस्तस्य खोर्व्यादि नासद्रूपं न सन्मयम् ।
द्रष्ट्टदृश्यमिवाभाति ब्रह्म चैतत्समं स्थितम् ॥ ४७ ॥

कुतो न स्यात्तत्राह - वस्तुत इति । सममविकृतमेव शितम् ॥ ४७ ॥

एतत्सत्यपरिज्ञानन्न् यस्योत्पन्नमखण्डितम् ।
न तस्य पञ्चभूतानि न दृश्यद्रष्ट्टविभ्रमः ॥ ४८ ॥

अज्ञाने हि दुःखप्रसक्तिः स्यान्न च तदस्तीत्याह - एतदिति ॥ ४८ ॥

तदा मयैवं शुद्धेन तत्कृतं ब्रह्मरूपिणा ।
ब्रह्मरूपादृते किञ्चिदेतत्कर्तुर्न युज्यते ॥ ४९ ॥

यदा सर्वमिदं दृश्यं जातं ब्रह्म निरामयम् ।
तदा ब्रह्मपदस्थेन मयात्मैवैवमीक्षितः ॥ ५० ॥

यदा पुनरहं पञ्चभूतानीत्येव भासयन् ।
भवामि जड एवाहं तदा चेतामि किं किल ॥ ५१ ॥

यदि मम पाषाणमण्यादिभावे चैतन्यमेव न स्यात्तर्हि तदनुभवोऽद्य स्मरणं च
न स्यादित्याशयेनाह - यदेति । किं चेतामि कथमनुभवामि ॥ ५१ ॥

सुप्तोऽस्मीति दृढं भावं बुद्धवांश्चेतनोऽपि सन् ।
नैद्रमेवैत्यलं जाड्यं लसच्चेतति किञ्चन ॥ ५२ ॥

सुषुप्तौ कथं तर्हि न किञ्चिदवेदिषमित्यवेदनप्रत्ययस्तत्राह - सुप्तोऽस्मीति । तत्र
नैद्रं निद्रोपस्थापितमज्ञानमेव नावेदिषमिति प्रतीतिप्रापितं जाड्यं अलं एति ।
लसत्स्वप्रकाशं किञ्चन वस्तु चेतत्येव । अन्यथा सुप्तिकालाननुभूतस्य
स्वापाज्ञानादेः स्मरणं कथं स्यादिति भावः ॥ ५२ ॥

यस्तु ज्ञानप्रबुद्धात्मा देहस्तस्याधिभौतिकः ।
शाम्यत्युदेति विमलो बोधात्मैवातिवाहितः ॥ ५३ ॥

ज्ञानोदयेन स्थूलव्यष्टिसमष्टिदेहस्याधिभौतिकभावापगमादपि न
जाड्यदुःखप्रसक्तिरित्याशयेनाह - यस्त्विति ॥ ५३ ॥

आतिवाहिकदेहेन तेन बोधात्मनाणुना ।
बृहता वा यथाकामं निर्वाणात्मावतिष्ठते ॥ ५४ ॥

निर्वाणात्मा जीवन्मुक्तः ॥ ५४ ॥

बोधदेहेन हृदयं शिलानामप्यभेदिनाम् [पुंस्त्वमार्षम् । अभेदि नेति
वा पाठस्तत्राभेदि नेति च्छेदः । ना पुरुषः । अभेदीति
हृदयविशेषणमित्यनुमीयते ।] ।
प्रविश्याशु विनिर्याति याति पातालमम्बरम् ॥ ५५ ॥

तस्मान्मया पुरा राम बोधदेहेन तत्तदा ।
तथा कृतमनन्तेन चिन्मयव्योमरूपिणा ॥ ५६ ॥

तथा च न मे दुःखप्रसक्तिरित्युपसंहरति - तस्मादिति ॥ ५६ ॥

वज्रपाषाणपातालनभोम्बरगमागमान् ।
कुर्वतस्तादृशस्याशु न विघ्न उपजायते ॥ ५७ ॥

बोधमात्रशरीरेण यावदास्ते जडेष्वसौ ।
पदार्थेषु तथाभूतस्तावत्तत्रावतिष्ठते ॥ ५८ ॥

स्वेच्छानिर्मितकौतुकत्वादपि न दुःखप्रसक्तिरित्याशयेनाह - स्वेच्छयैवेति ।
स्वेच्छयैवान्यत्र प्रयति चेद्यथा न दुःखं तथैव तत्तत्रैव स्थितिं याति चेदपि
यथा पुनरागतिस्तथैव तत्र स्थितिरपि इष्टैवनानिष्टेत्यर्थः ॥ ५८ ॥

स्वेच्छयैव चलित्वाथ ततोऽन्यत्र प्रयाति चेत् ।
तत्तत्रैव स्थितिं याति तत्तथैवागतिर्यथा ॥ ५९ ॥

बोधमात्रं विदुर्देहमातिवाहिकमव्ययम् ।
इदानीं त्वं तमेवेह बुधोऽनुभवसि स्वयम् ॥ ६० ॥

तवापि तत्त्वज्ञानितया आतिवाहिकदेहत्वं धारणाभेदैर्जगद्भावकौतुकदर्शनं
च सुलभमेवेति मदुक्तं परीक्षस्वेत्याशयेनाह - बोधमात्रमिति ।
तमेवातिवाहिकदेहं धारणया जगद्भावं चानुभवसि यदीच्छरीति शेषः ॥ ६० ॥

चिन्मात्रव्योमरूपोऽस्मीत्यर्कादाविति बोधतः ।
आत्मैवास्तमुपानीतः सन्नेवासन्निवात्मना ॥ ६१ ॥

तत्त्वज्ञैरिच्छयैव अर्कादिसर्वं जगदस्तं नीत्वा आत्ममात्रतया स्थापयितुं
शक्यमित्याह - चिन्मात्रेति । आत्मना आत्मरूपेण सन्नेव जगद्रूपबाधादसन्निव
भवतीत्यर्थः ॥ ६१ ॥

स्थितं स्वप्नादिजगति तमसेवासतेव च ।
आवृतेनेव वान्यासामलभ्येन सता दृशम् ॥ ६२ ॥

ननु अस्मदादिदृशा सता जगता कथमसतेव स्थितमिति चेत्स्वप्नादिजगति
जाग्रज्जगतेवेत्याह - स्थितमिति । यथा दृशं जाग्रत्पुरुषदृष्टिं प्रति सता
विद्यमानेनैव जगता सुप्तपुरुषप्रसिद्धस्वप्नादिजगति तमसा अज्ञानभावेनेव असता
शून्यभावेनैव आवृतेनेव वा अन्यासां सुप्तदृशामलभ्येन स्थितं
तद्वदित्यर्थः ॥ ६२ ॥

तरङ्गलेखयाङ्गारसरितः स्वाङ्गलग्नया ।
मनोराज्यश्रियेवाशुक् प्रोत्पन्नस्तद्वदेहया ॥ ६३ ॥

किं च यथा कश्चिन्मनोराज्यश्रिया कल्पिताया अङ्गारसरितस्तरङ्गलेखया
स्वाङ्गलग्नयापि अशुक् निर्दुःख एव कौतुकी प्रोत्पन्नस्तद्वदहमपि आ ईहया
ईषदिच्छया पाषाणमण्यादिभावेन प्रोत्पन्न इति न शुक्प्रसक्तिरित्यर्थः ॥ ६३ ॥

कज्जलालिकया वह्निविपिनः पुष्पशोभया ।
फुल्लस्थलाम्बुजाकारं किंशुकाशोकरूपया ॥ ६४ ॥

इत्थं रामप्रश्नस्योत्तरमभिधाय प्रस्तुतमेवानुवर्तमान आह - कज्जलेति ।
वह्निभूतेनैव मया कज्जलमेवालिकं अलिसमूहो यस्यां तथाविधया अत एव
पुष्पशोभया किंशुकाशोकरूपया इद्धया दीप्तया ज्वालाज्वलतया वह्निव्याप्तं
विपिनः फुल्लस्थलाम्बुजाकारं कृतमिति शेषः ॥ ६४ ॥

विततारम्भयाप्युच्चैर्ज्वालाज्वलतयेद्धया ।
उपोत्थायाङ्ग गलितं खललक्ष्म्येव लोलया ॥ ६५ ॥

हे अङ्ग मया इद्धया दीप्तया खललक्ष्म्येव लोलया ज्वालाज्वलतया उपोत्थाय
झटित्येवोत्कर्षं प्राप्य सहसैव गलितम् ॥ ६५ ॥

तेजस्तयापि परमाणुकणोदरेऽपि दृष्टेत्थमेवमिह राम मया जगच्छ्रीः ।
अन्या च सा न च चिदम्बरतः परस्मात्स्वप्ने पुराचलगणोऽत्र न्निदर्शनं वः ॥
६६ ॥

हे राम मया तेजस्तयापि परमाणुकणानामुदरेऽपि प्रत्येकं इत्थमेवं
जगच्छ्रीर्दृष्टा सा जगच्छ्रीर्भवदादिप्रसिद्धा च जगछ्रीः परस्माच्चिदम्बरतः
अन्या न । अत्रास्मिन्नर्थे वः युष्माकं स्वप्ने प्रसिद्धः पुरगणः अचलगणश्च
निदर्शनं दृष्टान्त इत्यर्थः ॥ ६६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे उ० पाषा०
तैजसजगद्वर्णनं नामैकनवतितमः सर्गः ॥ ९१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
तैजराजगद्वर्णनं नामैकनवतितमः सर्गः ॥ ९१ ॥