नवतितमः सर्गः ९०
श्रीराम उवाच ।
अनन्तरं वद ब्रह्मञ्जगन्ति भवता तदा ।
भूमण्डलानां हृदये क्वचिद्दृष्टानि नैव वा ॥ १ ॥
पृथिवीहृदयेऽनन्तजगद्वृष्टिरिहोच्यते ।
जलधारणया सर्वजललीला च पूर्ववत् ॥
यथा प्रसिद्धे जगति कलधौतशिलादिप्रदेशभेदेष्वनेकानि ब्रह्माण्डानि सन्ति तथा
धारणादृष्टेष्वपि भूमण्डलेषु प्रतिवस्तु तानि सन्ति न वेति सन्दिहानो रामः
पृच्छति - अनन्तरमिति । मण्डलशब्दः प्रदेशभेदपरः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
परात्मजाग्रत्स्वप्नोर्वीमण्डलौघात्मना मया ।
ततोऽनुभूतं हृदये दृष्टं च परया दृशा ॥ २ ॥
उर्वीधारणया परमात्मनो जाग्रदुर्वीमण्डलात्मना स्वप्नोर्वीमण्डलात्मना च मया
तत्तदुर्वीप्रदेशभेदलक्षणे तद्धृदये परया ईश्वरसाक्षिदृशा
साक्षाद्दृष्टं मनसा च विमृश्यानुभूतम् । स्वप्नग्रहणं
स्वाप्नोर्व्यादिप्रदेशभेदेष्वप्यनन्तजगत्सम्भवप्रदर्शनाय ॥ २ ॥
यावत्तथैव सर्वत्र जगज्जालमवस्थितम् ।
सर्वं दृश्यमयं शान्तमपि द्वैतमयात्मकम् ॥ ३ ॥
किं दृष्टमनुभूतं च तदाह - यावदिति । तथा
प्राग्दृष्टकलधौतशिलादिवदेव । यावदिति साकल्ये । शान्तमद्वैतं
द्वैतमयात्मकमपि ॥ ३ ॥
जगन्ति सन्ति सर्वत्र सर्वत्र ब्रह्म संस्थितम् ।
सर्वं शून्यं परं शान्तं सर्वमारम्भमन्थरम् ॥ ४ ॥
कुतो द्वैतमयं कुतो वा शान्तं तत्राह - जगन्तीति ॥ ४ ॥
सर्वत्रैवास्ति पृथ्व्यादि स्थूलं तच्च न किञ्चन ।
चिद्व्योमैव यथा स्वप्नपुरं परमजातवत् ॥ ५ ॥
नेह नानास्ति नो नाना न नास्तित्वं न चास्तिता ।
अहमित्येव नैवास्ति यत्र तत्र कुतोऽस्ति किम् ॥ ६ ॥
अनुभूतमपीदं सदहमित्यादिरूपकम् [दृश्यकं इति पाठः] ।
नास्त्येव यदि वाप्यस्ति तद्ब्रह्माजमनामयम् ॥ ७ ॥
यत्स्वप्नपुरमेवेदं सर्गादावेव चिन्नभः ।
अस्तितानास्तिते तत्र कीदृशे क्व कुतः स्थिते ॥ ८ ॥
यद्यस्मात्सर्गादौ सृष्टेः प्राक् चिन्नभ एव तत्तस्मात्तदुत्तरं चिन्नभसि
दृष्टमपीदं स्वप्नपुरसममेव । इत्थं प्रतियोगिन्या अस्तिताया अव्यवस्थितौ
तदभावो नास्तिताप्यव्यवस्थितैवेत्याह - अस्तितेति ॥ ८ ॥
यथाहं दृष्टवांस्तानि जगन्त्यवनिरूपधृक् ।
तथा मया जलीभूय दृष्टं तादृशमेव तत् ॥ ९ ॥
पृष्टस्योत्तरं समाप्य जलधारणया यद्यत्कौतुकं दृष्टं तद्वक्तुमारभते
- यथेत्यादिना ॥ ९ ॥
वारिधारणया वारि भूत्वा जडमिवाजडम् ।
समुद्रमन्दिरेष्वन्तश्चिरं गुलगुलायितम् ॥ १० ॥
गुलगुलायितम् । अव्यक्तानुकरणादिवार्थगर्भादाचारे अवयङि भावे क्तः ॥ १० ॥
तृणवृक्षलतागुल्मवल्लीनां स्तम्भनाडिषु ।
मृद्वलक्षितमारूढं तवाङ्गेष्विव यूकया ॥ ११ ॥
मृदुमन्दमलक्षितं च यथा स्यात्तथा आरूढम् ॥ ११ ॥
सर्वोत्थानोपमास्तम्भे तच्छेदे वलयोपमा ।
मृद्व्या कर्णाहिगत्येव [मया कर्णाहिगत्येव मृद्व्या गत्या तृणादीनां
स्तम्भे प्रकाण्डे सर्वोत्थानोपमा सर्वेषां
तृणादीनामुत्थानमूर्ध्वस्थितिस्तदुपमा तत्सदृशी यथा ऊर्ध्वस्थितिः
स्यात्तथेत्यर्थः । तेषां तृणादीनां छेदे भेदे पर्वभेदे तदुदरे
छिद्रभेदे च वलयोपमा वलयाकारवती रचना प्रकृता सम्पादितेत्यर्थ इति
योजना कार्या । पूर्वश्लोके यूकोपमया ह्यारोहणमात्रं प्रतिपादितं
कर्णाहीत्याद्युपमया त्वाकारविशेषप्रतिपादनपूर्वकं तत्प्रतिपादितमिति
ज्ञेयम् ।] रचना प्रकृतोदरे ॥ १२ ॥
यथा कर्णाहिः [मया कर्णाहिगत्येव मृद्व्या गत्या तृणादीनां स्तम्भे
प्रकाण्डे सर्वोत्थानोपमा सर्वेषां तृणादीनामुत्थानमूर्ध्वस्थितिस्तदुपमा
तत्सदृशी यथा ऊर्ध्वशितिः स्यात्तथेत्यर्थः । तेषां तृणादीनां छेदे भेदे
पर्वभेदे तदुदरे छिद्रभेदे च वलयोपमा वलयाकारवती रचना प्रकृता
सम्पादितेत्यर्थ इति योजना कार्या । पूर्वश्लोके यूकोपमया ह्यारोहणमात्रं
प्रतिपादितं कर्णाहीत्याद्युपमया त्वाकारविशेषप्रतिपादनपूर्वकं
तत्प्रतिपादितमिति ज्ञेयम् ।] सूक्ष्मतन्तुनिभः कीटकविशेषो मृद्व्या गत्या
अलक्षितः कर्णे लीन इव प्रविशति तद्वत्तेषां तृणगुल्मादीनां छेदे भेदे पर्वभेदे
तदुदरे छिद्रभेदे च गतिरचना प्रकृतेत्यर्थः ॥ १२ ॥
वल्लीतमालतालादिपल्लवेषु फलेषु च ।
विश्रम्य पुष्टयाऽऽकृत्या रेखाविरचनं कृतम् ॥ १३ ॥
वल्लीनां लतानां तमालतालादिवृक्षाणां च पल्लवेषु फलेषु च रसरूपेण
विश्रम्य पर्णादिभावेन कालतः पुष्टया तत्तत्पर्णाद्याकृत्या
अन्तःशिरारेखाविरचनं कृतम् ॥ १३ ॥
मुखेनाविश्य हृदयमृतुवैधुर्यधारिणा ।
हृता विधुरिता भुक्ता लूना देहेषु धातवः ॥ १४ ॥
तथा प्राणिनां देहेषु पानकाले मुखेन हृदयमाविश्य
वसन्तादिऋतुप्रयुक्तवैषम्यधारिणा मया वातपित्तकफाख्या धातवः
क्वचिद्धृताः कदाचिद्विधुरिताः केचिद्भुक्ता जठराग्निना परिपाचिताः केचिल्लूनाः
खण्डिता इत्यर्थः ॥ १४ ॥
सुप्तं पल्लवतल्पेषु प्रालेयकणरूपिणा ।
तुल्यकालमशेषेषु दिक्षु सर्वास्वखेदिना ॥ १५ ॥
नानाह्रदनदीगेहग्राहिणाऽविरताध्वना ।
विश्रान्तं सेतुसुहृदः प्रसादेन क्वचित्क्वचित् ॥ १६ ॥
ह्रदलक्षणा ये नदीनां गेहाः पथ्यावासास्तद्ग्राहिणा नित्यं
प्रवाहादविरताध्वना ॥ १६ ॥
विदाऽविदनुसन्धानाज्जडेन तदनाश्रयात् ।
जडायशेषूल्लसितं जलेनावर्तवर्तिना ॥ १७ ॥
विदा चैतन्येनाविदंशस्य विषयतया अनुसन्धानात्तत्र विषयांशमात्रतया तस्य
चित्स्वभावस्यानाश्रयाज्जडेन अत एव लडयोरभेदाज्जलेन मया जडाशयेषु
जडाशयप्रायेषु भ्रान्तिसहस्रैरावर्तवद्वर्तिना उल्लसितम् ॥ १७ ॥
मया दुष्कृतिनेवोर्ध्वशिलास्वस्थेन भूभृताम् ।
स्वावर्तवर्तिना श्वभ्रपातेषु शतधा गतम् ॥ १८ ॥
प्रायश्चित्तार्थं भृगुपाते प्रवृत्तेन दुष्कृतिना पापकारिणेव मया
भूभृतां पर्वतानामूर्ध्वशिलाभ्यः अस्वस्थेन चलितेन निर्झरेण श्वभ्रपातेषु
विशीर्णेन शतधा गतम् ॥ १८ ॥
धूमरूपेण निर्गत्य दारुभ्यो गगनार्णवे ।
कणरत्नेन नीलर्क्षमण्यन्तर्वर्तिना स्थितम् ॥ १९ ॥
गगनलक्षणे अर्णवे समुद्रे नीलवर्णा ये ऋक्षमणयो नक्षत्ररत्नानि तदन्तर्वर्तिना
कणरत्नेन रत्नकणेन भूत्वा स्थितम् । वसिष्ठवचनप्रामाण्याद्भूस्थैरदृश्यानि
नीलवर्णान्यपि नक्षत्राणि दिवि सन्तीति गम्यते ॥ १९ ॥
विश्रान्तमभ्रपीठेषु विद्युद्वनितया सह ।
भिन्नेन्द्रनीलनीलेन शेषाङ्गेष्विव शौरिणा ॥ २० ॥
परमाणुमये सर्गे पिण्डरूपेष्वलक्षितम् ।
स्थितमन्तःपदार्थेषु ब्रह्मणेवाखिलात्मना ॥ २१ ॥
प्लुषिपुत्तिकादिपरमसूक्ष्मदेहात्मकेऽपि सर्गे तत्तत्प्राणिपिण्डरूपेष्वन्तर्गेषु
परमसूक्ष्मेषु तन्नाड्यादिपदार्थेषु ब्रह्मणेव परमसूक्ष्मजलात्मना मया
स्थितम् ॥ २१ ॥
प्राप्य जिह्वाणुभिः सङ्गमनुभूतिः कृतोत्तमा ।
यामात्मनो न देहस्य मन्ये ज्ञानस्य केवलम् ॥ २२ ॥
किं च मधुरादिरसात्मना मया तदीयजिह्वालक्षणैरणुभिः सह सङ्गं प्राप्य
तेषां तसास्वादलक्षणा उत्तमा अनुभूतिः कृता । यामनुभूतिं न देहस्य मन्ये
किन्तु केवलं ज्ञस्वरूपस्य आत्मन एव विषयानन्दाकाराविर्भूतं स्वरूपं मन्ये ।
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेरिति भावः ॥ २२ ॥
न मया न च देहेन नान्येनास्वादितात्म यत् ।
तदन्तर्विवृतं चेत्यमज्ञानाय तदप्यसत् ॥ २३ ॥
तत्र पृथग्जना विषयमेवानन्दरूपमास्ववाद्यमानं मन्यन्ते तन्न तथा विद्यात्
किन्त्वसद्दुःखरूपमनास्वादनीयमेवेति तं पृथक्कृत्य दर्शयति - न मयेति
। यच्चेत्यं विषयरूपं तन्न मया तदधिष्ठानचिता नाप्यास्वादकपुरुषदेहेन
नाप्यन्येन
तज्जीवेनास्वादितात्मसुखलेशस्याप्यभावेनास्वादनायोग्यत्वात्तत्तथाविधं चेत्यं
चिता यदन्तर्विवृतं प्रकाशितं तत्केवलं जीवानामज्ञानाय व्यामोहायैव
यतस्तच्चेत्यन्न् तदज्ञानमप्यसदेव । असतः असदर्थत्वस्यैवौचित्यादित्यर्थः ॥ २३ ॥
सर्वर्तुरसरूपेण नानामोदानि दिक्ष्वलम् ।
भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददतालये ॥ २४ ॥
आस्वाद्यत्वपक्षेऽपि विषयाधिष्ठानचिदास्वादितानेव विषयांस्तदुच्छिष्टप्रायानन्ये
आस्वादयन्तीति वा कल्पनास्त्वित्याशयेनाह - सर्वर्त्विति । अलये भ्रमराय ॥ २४ ॥
चतुर्दशप्रकाराणां भूतानामङ्गसन्धिषु ।
उषितं चेतनेनेव जडेनाप्यजडात्मना ॥ २५ ॥
कल्पनया जडेनापि वस्तुतोऽजडात्मना ॥ २५ ॥
सीकरोत्कररूपेण रथमारुह्य मारुतम् ।
आमोदेनेव विहितं विमलव्योमवीथिषु ॥ २६ ॥
मारुतरूपं रथमारुह्य विधितं क्रीडनं जनाह्लादनं चेति शेषः ॥ २६ ॥
राम तस्यामवस्थायां परमाणुकणं प्रति ।
अनुभूतमशेषेण यथास्थितमिदं जगत् ॥ २७ ॥
तत्रापि परमाणुपर्यन्तसर्ववस्तुषु प्रतिवस्त्वन्तः कलधौतशिलायामिव सर्गा
अनुभूता इत्याह - रमेति ॥ २७ ॥
अजडेन जडेनेव समया जालया तया ।
अन्तःसर्वपदार्थानां ज्ञाताज्ञातेन संस्थितम् ॥ २८ ॥
जालया जलविषयिण्या समया तुल्यरूपया तया धारणया ॥ २८ ॥
जगतां तत्र लक्षाणि नाशोत्पातशतानि च ।
मया दृष्टानि रूढानि कदलीदलपीठवत् ॥ २९ ॥
प्रतिवस्त्वन्तर्दृष्टजगद्गतप्रतिवस्त्वन्तरेऽपि
तथाविधजगदन्तराण्यनवस्थितान्यन्तरन्तर्दृष्टानीत्याह - जगतामिति ।
कदलीदलपीठवदन्तरन्तः प्ररूढान्यनन्तानीत्यर्थः ॥ २९ ॥
एवं जगच्चाजगद्वा साकारं वा निराकृति ।
चिन्मात्रगगनं सर्वमाकाशाधिकनिर्मलम् ॥ ३० ॥
एवं कल्पितानन्तजगद्व्याप्तत्वेपि नाधिष्ठानचिति किञ्चिन्मालिन्यमस्तीत्याह -
एवमिति ॥ ३० ॥
न किञ्चन त्वं च न किञ्चनेदं शुद्धः परो बोध इदं विभाति ।
स चापि नो किञ्चन नापि शून्यमाकाशमेवासि विकासमास्व ॥ ३१ ॥
उक्तं न्यायं रामदृश्यजगत्यपि योजयन्सर्वाधिष्ठानशुद्धचिन्मात्रे रामं
प्रतिष्ठापयति - न किञ्चनेति । न किञ्चन त्वमित्यवस्थात्रयेण सह
देहेन्द्रियादिप्रतिषेधः । न च किञ्चनेदमिति वियदादिबाह्यप्रपञ्चप्रतिषेधः । स च
शोधिततत्त्वम्पदार्थलक्षणो बोधः नो किञ्चन दृश्यस्वभावो
नाप्यदृश्यस्वभावो नाप्यदृश्यशून्यस्वभावः किन्त्वखण्डाकाशरूपः स
एव त्वमसि अतो विकासमखण्डवाक्यार्थबोधध्वस्तसर्वद्वैतसङ्कोचं यथा
स्यत्तथा आस्वेत्यर्थः ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पाषा०
जलजगद्वर्णनं नाम नवतितमः सर्गः ॥ ९० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जलजगद्वर्णनं नाम नवतितमः सर्गः ॥ ९० ॥