०८९

एकोननवतितमः सर्गः ८९

श्रीराम उवाच ।

पार्थिवीं धारणां बद्ध्वा जगन्ति समवेक्षितुम् ।
सम्पन्नस्त्वमसौ भूमिलोकः किमुत मानसः ॥ १ ॥

अत्र तद्धारणादृष्टं भूमण्डलमिदं तथा ।
जगत्सर्वं च चिद्व्योम्नि मनोमात्रमितीर्यते ॥

हे गुरो कौतुकात्स्वात्मनि जगन्ति समवेक्षितुं प्रवृत्तस्त्वं पार्थिवीं धारणां
बद्ध्वा किमसावस्मदादिदृश्यो मृत्पाषाणादिमयो लोकः सम्पन्न उत मानसो
मनोमात्रमयो मनोराज्यकल्पो मृदाद्यघटितः स्वप्नमयो लोकः सम्पन्न इति
प्रश्नः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

इदं च मानसं चाहं सम्पन्नः पृथुभूतलम् ।
नेदं न मानसं नैव सम्पन्नो वस्तुतस्त्वहम् ॥ २ ॥

कल्पनादृशा तत्त्वदृशा वा विमर्शे कोटिद्वयभेदाप्रसिद्धेः
संशयानुपपत्तिं सूचयन्वसिष्ठ उत्तरमाह - इदं चेति । यदि कल्पनादृशा
पृच्छति तर्हि इदं मृत्पाषाणमयत्वेन त्वत्प्रसिद्धं च तदेव
मनोमात्रविकारत्वान्मानसं चेति समुच्चयः सम्पन्नः । यदि तु तत्त्वदृशा
पृच्छसि तर्हि नोभयमपि सम्पन्न इत्यर्थः ॥ २ ॥

अमानसं महीपीठं न सम्भवति किञ्चन ।
यदसद्वेत्सि यत्सद्वा मनोमात्रकमेव तत् ॥ ३ ॥

पूर्वार्धोक्तं प्रतिज्ञापूर्वकं समर्थयति - अमानसमित्यादिना । सत्येव मनसि
तस्मिन्नेवास्तिनास्तीति विकल्पदर्शनादिति भावः ॥ ३ ॥

चिदाकाशमाहं शुद्धं तस्य मे तत्पदात्मनः ।
यच्चिन्मात्रात्मकचनं तत्सङ्कल्पाभिदं स्मृतम् ॥ ४ ॥

तन्मनस्तन्महीपृष्ठं तज्जगत्स पितामहः ।
सङ्कल्पपुरवद्व्योम्नि कचत्येतन्मनोनभः ॥ ५ ॥

एवं सङ्कल्पमात्रं मे मनोमात्रं तदाततम् ।
धारणाभ्याससम्पुष्टं भूमण्डलमिति स्थितम् ॥ ६ ॥

नेदं भूमण्डलं तद्वै तदन्यद्धि मनोमयम् ।
आकाशमात्रकचनमचेत्यं कचनं चितेः ॥ ७ ॥

अज्ञप्रसिद्धमृद्दारुपाषाणादिमयत्वस्य अपागादग्नेरग्नित्वं त्रीणि रूपाणीत्येव
सत्यम् इत्यादिश्रुतिनिषिद्धत्वात्तत्त्वज्ञस्य धारणायां दृष्टं
नाज्ञदृष्टिप्रसिद्धेदंरूपमित्यसमुच्चयो वास्त्वित्याशयेनाह - नेदमिति ॥ ७ ॥

तदेवाकाशमात्रत्म तथाभूतं चिरं स्थितम् ।
इदम्प्रत्ययलब्धत्वान्मानसत्वं समुज्झति ॥ ८ ॥

यद्याकाशमात्रस्यामूर्तस्यैवेत्थं कचनं तर्हि कथं मूर्तेदम्प्रत्ययमाधत्ते
तत्राह - तदेवेति । तर्हि किं दधित्वे दुग्धत्वमिव मानसत्वं मुञ्चति नेत्याह ##-
पृथ्व्यादेर्जाग्रद्वदिदम्प्रत्ययेनोपलब्धत्वन्नादुग्धत्वसाम्यं किन्तु
तरङ्गकटकशाटकादिभावेऽपि जलकनककार्पासमयत्ववदिदं बोध्यमिति भावः
॥ ८ ॥

इदं स्थिरं सुकठिनं विततं भूमिमण्डलम् ।
अस्तीति जायते बुद्धिर्व्योम्नीव चिरवेदनात् ॥ ९ ॥

व्योम्नि नैल्यादिबुद्धिरिव चिरवेदनाज्जायते ॥ ९ ॥

न्यायेनेदमिवानेन न स्थितं वसुधातलम् ।
इदं चैवैकमेवाद्यसर्गस्याद्यमुपागतम् ॥ १० ॥

वाचारम्भणश्रुतिदर्शितन्यायेन तु दर्शने इदमिवाज्ञप्रसिद्धरूपेण
वसुधातलं न स्थितं किन्त्वाद्यसर्गस्य मनोरूपस्य आद्यं सूक्ष्मं यदेकमेव
रूपं तदेवोपागतं स्थितम् । त्रीणि रूपाणीत्येव सत्यम् इति श्रुत्योपदर्शितमित्यर्थः ॥
१० ॥

यथा स्वप्ने पुरत्वेन चिदेव व्योम्नि भासते ।
तथा चिदेव सर्गादाविदं जगदिति स्थितम् ॥ ११ ॥

इदम्प्रत्ययलब्धत्वात् इत्युक्तिं विशदयति - यथेति ॥ ११ ॥

विद्धि चिद्रूपबालस्य मनोराज्यं जगत्त्रयम् ।
महीतलादिकं दृश्यमिदं सर्वं च सर्वदा ॥ १२ ॥

चिद्रूपबालस्य चतुर्मुखस्य ॥ १२ ॥

चिद्रूपस्यात्मनो नान्यः सङ्कल्पस्तन्मयं जगत् ।
वस्तुतस्तु न सत्यात्म न पिण्डात्म न भासुरम् ॥ १३ ॥

दृश्यमस्त्यपरिज्ञातं परिज्ञातं न विद्यते ।
परिज्ञातं तदेवास्य शृणोषि यदिदं चिरम् ॥ १४ ॥

अज्ञदृष्टिनिष्कर्षे अज्ञातचिन्मात्रं जगत् । तत्त्वनिष्कर्षे तु
चिन्मात्रमेवेत्याशयेनाह - दृश्यमिति । यदिदं चिरं मयोपदिश्यमानं
शृणोषि कथं न प्रबुध्यसे इत्यर्थः ॥ १४ ॥

सर्वं चिन्मात्रमाशान्तं प्रकचत्यात्मनात्मनि ।
भूमण्डलात्म दृश्यात्म द्वैतैक्याभ्यां विवर्जितम् ॥ १५ ॥

कीदृशं परिज्ञातं तत्राह - सर्वमिति ॥ १५ ॥

मणिर्यथा स्वभावेन शुक्लपीतादिकास्त्विषः ।
अकुर्वन्नेव कुरुते चिदाकाशस्तथा जगत् ॥ १६ ॥

मणिर्वैदूर्यादिः । अकुर्वन् अव्याप्रियमाणः ॥ १६ ॥

यतो न किञ्चित्कुरुते न च रूपं समुज्झति ।
तस्मान्न मानसं नेदं किञ्चिदस्ति महीतलम् ॥ १७ ॥

नेतिनेत्यादिश्रुतिपर्यालोचनेनोपसंहरति - यत इति ॥ १७ ॥

महीतलमिवाभाति चिद्व्योमैव निरन्तरम् ।
आत्मन्येवातलं व्योम यथामलतलं स्थितम् ॥ १८ ॥

अतलं तलभावशून्यम् ॥ १८ ॥

स्वभावमात्रकचनं तत्तदेव यथास्थितम् ।
भूमण्डलमिवात्यच्छं खमेव विशतान्तरम् ॥ १९ ॥

अन्तरं भेदं अन्तर्द्धिं वा विशता स्वभावेन भूमण्डलमिव दृश्यत इत्यर्थः ॥
१९ ॥

इदं भूमण्डलं तच्च द्वयमेतन्महाचितेः ।
स्वरूपमेव कचति तव स्वप्नपुरं यथा ॥ २० ॥

तत्र धारणाकल्पितभूमण्डलमिदं भूमण्डलं च तुल्यमेव चिद्विवर्तत्वे इत्याह

  • इदमिति ॥ २० ॥

इदमाकाशमात्रात्म तदप्याकाशमात्रकम् ।
अज्ञानात्मपरिज्ञानाज्ज्ञानान्नेदं न तत्क्वचित् ॥ २१ ॥

अज्ञानोपहितात्मपरिज्ञानाद्भाति । ज्ञानात्तु न इदं नापि तत् धारणास्थम् ॥ २१ ॥

त्रैलोक्यभूतजालानां कालत्रितयभाविनाम् ।
सम्भ्रमः स्वप्नसङ्कलो मनोराज्यदशास्थितौ ॥ २२ ॥

सम्भ्रमो भ्रान्तिरेव । स च मनोराज्यदशायाः स्थितौ मर्यादायां तत्साम्ये बोध्य
इति यावत् ॥ २२ ॥

भूतान्यथ भविष्यन्ति वर्तमानानि यानि च ।
भूमण्डलानि तान्यङ्ग सत्ता सामान्यतां गता ॥ २३ ॥

सामान्यतां सर्वाधिष्ठानत्वात्साधारणतां गता आत्मसत्तैव तानि सर्वाणि
सत्तासामान्यमेव तेन हेतुना तानि तदन्तर्गतानि च सर्ववस्तून्यहमेवेति धारणायां
मया मनसा अनुभूतानि साक्षिदृशा च अखिलं निःशेषं यथा स्यात्तथा
दृष्टानीत्यर्थः ॥ २३ ॥

अहमेव समग्राणि तेषामन्तर्गतान्यपि ।
तेन तान्यनुभूतानि तथा दृष्टानि चाखिलम् ॥ २४ ॥

चिन्मात्रमेतदजरं परमात्मतत्त्वं शुद्धात्मतामजहदङ्गगतं विभर्ति

सर्वं यथास्थितमिदं जगदात्तभेदं बुद्धं सदङ्ग न बिभर्ति तु
किञ्चनापि ॥ २५ ॥

हे राम परमात्मतत्त्वमेवाबोधदशायां स्वशुद्धात्मतामजहदत्यजदेव
यथास्थितं सर्व जगदात्मगतं स्वात्मतामिव प्राप्तं सद्रूपं कृत्वा बिभर्ति
बुद्धं तु सत् किञ्चनापि न बिभर्ति सैवास्य मुक्तिरित्यर्थः ॥ २५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पा०
दृश्यमनोमात्रत्वप्रतिपादनं नामैकोननवतितमः सर्गः ॥ ८९ ॥

इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
दृश्यमनोमात्रत्वप्रतिपादनं नामैकोननवतितमः सर्गः ॥ ८९ ॥