०८८

अष्टाशीतितमः सर्गः ८८

श्रीवसिष्ठ उवाच ।

भूपीठेन सता तत्र मया तदनु मानव ।
अनुभूतं नदनदीस्वसंवेदनसंस्थितेः ॥ १ ॥

स्वदेहभूते भूपीठे तत्र तत्र व्यवस्थिताः ।
विशेषा इह वर्ण्यन्ते कौतुकात्स्वेन वीक्षिताः ॥

हे मानव मनुवंशोद्भव वर्णितरीत्या भूपीठभूतेन मया तदनु
प्राग्वर्णितसाधारणसर्वभूधर्मघटितस्वदेहदर्शनानन्तरं प्रत्येकं
नदनदीसमुद्रादिविशेषाकारप्रातिस्विकसंवेदनेच्छावशाद्यथा यथानुभूतं
तच्छृण्विति शेषः ॥ १ ॥

क्वचिन्मरणसाक्रन्दनारीकरुणवेदनम् ।
क्वचिदुत्ताण्डवस्त्रैणमहोत्सवमहासुखम् ॥ २ ॥

क्वचित्प्रदेशे भर्तृपुत्रभ्रात्रादिमरणेन साक्रन्दानां नारीणां करुणवेदना
यत्र तथाविधम् । अत्रापि प्रायेण सर्वत्र भूपीठमेव विशेष्यम् । स्त्रैणानां
स्त्रीसमूहादीनां महोत्सवैर्महत्सुखं यत्र ॥ २ ॥

क्वचिद्दुर्वारदुर्भिक्षदुराक्रन्दं दुरीहितम् ।
क्वचित्सकलसस्यौघसम्पन्नघनसौहृदम् ॥ ३ ॥

सुवृष्ट्या फलितैः सकलसस्यौघैः सुभिक्षत्वात्सम्पन्नानि घनसौहृदानि यत्र ॥
३ ॥

क्वचिदग्निमहादाहदग्धदेहोग्रवेदनम् ।
क्वचिज्जलप्लवालूनपुरपत्तनखण्डकम् ॥ ४ ॥

जलेन प्लवनमाप्लावनं तेनालूनाः । पुरपत्तनयोर्योधवणिक्प्रकर्षाभ्यां भेदः
॥ ४ ॥

क्वचिच्चपलसामन्तकृतलुण्ठनमण्डलम् ।
क्वचिदुद्दामदौरात्म्यरक्षःपैशाचमण्डलम् ॥ ५ ॥

क्वचिज्जलाशयोल्लासवेल्लनोत्पुलकाग्रकम् ।
कन्दरोदरनिष्क्रान्तवातवेल्लितवारिदम् ॥ ६ ॥

जलाशयानामुल्लासेन पूर्त्या केदारारामादीनां वेल्लनैः
सेकैरुत्पुलकसस्यगुल्माद्यग्रकम् । कन्दरोदरेति तत्रोपपत्तिः ॥ ६ ॥

संविद्बोधोन्नमत्स्वाङ्गकेशोत्थाङ्कुरलोमकम् ।
वारिवाहनविक्षोभनतोन्नतलसत्तलम् [जलं इति पाठः ।] ॥ ७ ॥

संविद्बोधेन प्रहर्षेण उन्नमन्तः पुलकिताः स्वाङ्गकेशा इव
उत्थान्यङ्कुरलोमानि यत्र । वारीणां वहनमेव वाहनं प्रवाहस्तद्विक्षोभेण ॥ ७ ॥

सशृङ्न्गभैरवश्वभ्रपुराद्रिवनपत्तनम् ।
संविन्मण्डलसञ्चाललेखाङ्कमृदुकम्पनम् ॥ ८ ॥

नतोन्नतत्वमेव भूतलानां दर्शयति - सशृङ्गेति । अन्तर्गतबृहच्छिलादिभिः
सशृङ्गाणीव भैरवाणि भीषणानि श्वभ्राणि येषु तथाविधानि पुरादीनि यत्र । अत
एव संविदन्तीति संविदो नागरादिजनास्तन्मण्डलस्य सञ्चाले
तत्पदलेखाङ्कनिपतनादिशङ्कया मृदु कम्पनं च यत्र ॥ ८ ॥

क्वचित्सामन्तसङ्क्षुब्धसैन्यसंहरणं रणे ।
क्वचित्सौम्यसुखासीनसर्वसामन्तमण्डलम् ॥ ९ ॥

अरण्यं क्वचिदाशून्यमुल्लसद्वातझङ्कृति ।
जङ्गलं क्वचिदालूनव्युप्तसम्पन्नसस्यकम् ॥ १० ॥

पूर्वमालूनं पश्चाद्व्युप्तं ततः सम्पन्नं सस्यं यत्र ॥ १० ॥

हंसकारण्डवाकीर्णसरः फुल्लाम्बुजं क्वचित् ।
क्वचिन्मरुस्थलस्थूलस्तम्भनार्जुनमारुतम् ॥ ११ ॥

मरुस्थलेषु वात्योड्डीनधूलिभिः स्थूलान्स्तम्भान्कुर्वन्तीति स्थूलस्तम्भना अर्जुनाः
पांसुधवला मारुता यस्मिन् ॥ ११ ॥

क्वचिन्नदनदीवाहहेलानिकषघर्घरम् ।
क्वचिदङ्कुरकार्याङ्गसिक्तबीजस्य जृम्भणम् ॥ १२ ॥

अङ्कुरकार्यार्थं कुल्याघटीयन्त्राद्यङ्गैः सिक्तस्य
क्षेत्रगतव्रीह्यादिबीजस्याङ्कुरादिभावेन जृम्भणम् ॥ १२ ॥

क्वचिदन्तस्तु कीटास्यमृदुस्पन्दनवेदनम् ।
मां त्वमेवाशु बुद्ध्वेह त्रायस्वेतीव बोधनम् ॥ १३ ॥

शिलादिसङ्कटनिविष्टं मां हे वसिष्ठ त्वमेव आशु बुद्ध्वा त्रायस्वेति कीटेन मां
प्रति बोध्यते यत्र तादृशमिव स्थितम् ॥ १३ ॥

शाखापरिकराभोगं मृद्भागाङ्गनिपीडनैः ।
मूलजालमवष्टभ्य क्वचिद्विटपधारिणम् ॥ १४ ॥

क्वचिद्वटादिवने शिखानां भूसंलग्नत्वान्मृद्भागाङ्गनिपीडनैरुपलक्षितः
शाखापरिकराणामाकारो यत्र । क्वचिच्च मूलजालमवष्टभ्य विटपानां
धारणशीलम् ॥ १४ ॥

अन्योन्यमलमाक्रम्य दिक्तटाङ्गनिपीडनैः ।
क्वचिदद्र्यस्थिनिबिडैरर्णवोल्लासवेल्लितम् ॥ १५ ॥

क्वचिदद्रीणामस्थीनि शिला इव निबिडैर्वृक्षैरन्योन्यमलमत्यन्तमाक्रम्य
संश्लिष्य दिक्तटाङ्गानां निरवकाशीकरणान्निपीडनैः अर्णवोल्लासेनेव वेल्लितं
वेष्टितम् ॥ १५ ॥

शुष्कपल्लवसङ्कोचनिबिडाङ्गनिपीडनम् ।
अमर्षणैः करैरार्कैः स्वरसाकर्षणं क्वचित् ॥ १६ ॥

क्वचित्तु गाढवृक्षैर्भुवि स्वप्रसरनिरोधापराधादमर्षणैः कुद्धैरार्कैः
करैरातपैः स्वरसाकर्षणं प्राप्य शुष्कपल्लवसङ्कोचं निबिडाङ्गनिपीडनं
वनं यत्र ॥ १६ ॥

शृङ्गमन्दिरमातङ्गप्रहाराशनिभूरुहाम् ।
निबिडाङ्गोत्कटस्थैर्यपरुषापतनं क्वचित् ॥ १७ ॥

क्वचित्तु गिरिशृङ्गमन्दिराणां मातङ्गानां दन्तप्रहाराशनेः भूरुहां
वृक्षाणां निबिडाङ्गोत्कटस्थैर्यं प्रति परुषाण्यापतनानि यत्र ।
सापेक्षसमासश्छान्दसः । परुषं पतनं क्वचित् इति पाठे अशनिभिर्भूरुहां
निबिडाङ्गोत्कटस्थैर्येण परुषं पतनमेव क्वचिन्मयानुभूतमिति योज्यम् ॥ १७ ॥

निमीलितेक्षणानन्दतनूनामसमाक्रमम् ।
क्वचित्सूक्ष्मतरोल्लेखमङ्कुरोल्लासनं नवम् ॥ १८ ॥

क्वचित्तु निमीलितानीक्षणानि येन तथाविधानन्दोपलक्षिततनूनां समाधिनिष्ठानां
सूक्ष्मतरं तत्त्वमुल्लिखत्यनुभूयमानं सूचयति तथाविधमत एवासमाक्रमं
नवमपूर्वं रोमाङ्कुरोल्लासनमनुभूतमित्यर्थः । अथवा क्वचित्क्षेत्रप्रदेशे
निमीलितेक्षणानामानन्दोपलक्षिततनूनां विषयभोगिनामिव असममक्रमं च
सूक्ष्मतरान्तरानन्दाविर्भावोल्लेखं बीजेभ्योऽङ्कुरोल्लासनं नवं
चमत्कृतमनुभूतमित्यर्थः ॥ १८ ॥

मक्षिकायौकमशकनिवाससदृशं क्वचित् ।
कुड्यलेशकुभृङ्गारिहलहेलानिकर्षणम् ॥ १९ ॥

यूकानां समूहो यौकं तन्निवासमलिनाम्बरसदृशम् ।
कुड्यलेशानामल्पकुड्यखण्डानां प्रमादात्पद्मकोशशायिनां
कुभृङ्गाणां चोपमर्दकत्वादरयो ये दन्तिनस्तैर्हलैरिव
हेलाभिर्वप्रादेर्निकर्षणं दृष्टम् । कुङ्मलेश इति पाठे कुङ्मलश्रेष्ठे
पद्मकुङ्मले सुप्तानां कुभृङ्गाणां ये अरय इति व्याख्येयम् ॥ १९ ॥

शीतं शीतविशीर्णाङ्गजर्जरत्वग्विकीर्णवत् ।
पाषाणीभूतसलिलं क्वचित्परुषमारुतम् ॥ २० ॥

क्वचित्क्वचिद्धिमवत्प्रदेशे शीतं शीतविदीर्णाङ्गानां देहिनां
जर्जरत्वग्व्याप्तवत्शितम् ॥ २० ॥

उद्दालीभूतमृद्वङ्गमज्जदन्तःकृमिव्रजम् ।
क्वचिदुद्भवदङ्गादिमूलं जलनिमज्जनम् ॥ २१ ॥

उद्दलनमुद्दालो विदलनं तथाभूतेषु मृदुष्वङ्गेषु मज्जन्तः अन्तः कृमिव्रजा
यत्र । क्वचिज्जलनिमज्जनमनुभूतमिति पृथक्सम्बन्धः ॥ २१ ॥

शनैरन्तर्निलीनाम्बुकृताह्लादं बहिश्च रसोन्नामाङ्कुररोमौघं
[बहिश्चरेत्यारभ्य रोमाघमित्यन्तं समस्तं पदम् । (अत्र बहिश्च
रसो इति पदद्वये एवार्थस्वारस्यमिति वयम् ।)] क्वचिद्वर्षविजृम्भितम् ॥
२२ ॥

क्वचिद्बीजेषु वर्षविजृम्भितमत एव शनैरन्तर्निविष्टैरम्बुभिः कृताह्लादं ततो
बहिश्च रसोन्नामाङ्कुररोमौघम् ॥ २२ ॥

तनुतरपवनविकम्पितकोमलनलिनीदलास्तरणैः ।
विहरणमिव मे विहितं सरोभिरङ्गेषु निर्वाणम् ॥ २३ ॥

किं च मे अङ्गेषु
सरोभिस्तनुतरपवनविकम्पितकोमलनलिनीदलानामास्तरणैर्निर्वाणं
निरतिशयानन्दरूपं विहरणं क्रीडनमिव विहितमित्यर्थः ॥ २३ ॥

इत्यार्षे श्रीवासिष्ठमहा० वाल्मी० दे० मो० न्निर्वाणप्रकरणे उ० पाषा०
भूमण्डलगतविशेषवर्णनं नामाष्टाशीतितमः सर्गः ॥ ८८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
भूमण्डलगतविशेषवर्णन।ं नामाष्टाशीतितमः सर्गः ॥ ८८ ॥