सप्ताशीतितमः सर्गः ८७
श्रीवसिष्ठ उवाच ।
ततश्चिदाकाशवपुर्व्याप्यनन्तो निरामयः ।
दत्तावधानो वपुषि तदा पश्याम्यहं क्वचित् ॥ १ ॥
वसिष्ठेन स्वदेहेऽत्र वर्ण्यते विश्वकल्पनम् ।
स्वस्यैव हि स्वयम्भूत्वं तन्वक्षाद्युद्भवक्रमात् ॥
कलधौतशिलावृक्षतृणगुल्मलतादिष्विव मया
स्वशरीरावयवेष्वप्यवहितदृशा सर्गा दृष्टा इत्याह - तत इति । ततः
शिलातृणगुल्मादिषु विचित्रसर्गदर्शनानन्तरम् ॥ १ ॥
यावदन्तर्गतः सर्गः संस्थितोऽङ्कुरितोपमः ।
कुसूलस्येव बीजस्य सिक्तस्येवाङ्कुरो हृदि ॥ २ ॥
कथमङ्कुरितोपमस्तदाह - कुसूलस्येति । कुसूलस्य हृदि वृष्टिसिक्तस्य बीजस्येव
॥ २ ॥
ऊर्ध्वमुच्छून एवान्तःसेकाद्बीजे यथाङ्कुरः ।
आकारवत्यनाकारे चित्त्वाचित्त्वे तथा जगत् ॥ ३ ॥
आकारवति मूर्ते अनाकारे अमूर्ते चित्त्वाचित्त्वे चेतनाचेतने सर्ववस्तुनि
अन्तःसेकादूर्ध्वमुच्छूने बीजेऽङ्कुर इव जगदस्तीति शेषः ॥ ३ ॥
यथोन्मिषति दृश्यश्रीः सुषुप्ताद्बोधमेयुषः ।
जाग्रद्वा विगते स्वप्ने चिन्मात्रस्य स्वचेतनात् ॥ ४ ॥
स त्वया समाधौ कथमनुभूतस्तत्राह - यथेति । यथा सुषुप्तात्सकाशाद्बोधं
स्वप्नदर्शनमेयुषश्चिन्मात्रस्य पुंसः स्वचेतनात्स्वाप्नदृश्यश्रीरुन्मिषति ।
विगते वा स्वप्ने बोधमेयुषो जाग्रत्प्रपञ्च उन्मिषति तथैवेत्यग्रेऽन्वयः ॥ ४ ॥
तथैवात्मनि सर्गादावनुभूतस्वरूपिणि ।
हृदि सर्गोदयो नान्यरूप आकाशरूपतः ॥ ५ ॥
श्रीराम उवाच ।
आकाशरूप आकाशे परमाकाश कथ्यताम् ।
भूयो निपुणबोधाय कथं सर्गः प्रवर्तते ॥ ६ ॥
हृदि सर्गोदय इति त्वया हृत्पदेन हृदयाकाश उक्तः आकाशरूपत इति च चिदाकाश
इति मया त्वदभिप्रायोऽवगत इति सम्बोधनेन सूचयन् रामः स्फुटपरिज्ञानाय
विस्तरात्पुनः कथयेति प्रार्थयते - आकाशेति । हृदयाकाश परमाकाशरूप हे
वसिष्ठ चिदाकाशरूपे त्वयि कथं सर्गः प्रवर्तते तत्पुनः कथ्यतामित्यर्थः ॥ ६ ॥
श्रीवसिष्ठ उवाच ।
शृणु राम यथापूर्वं स्वयम्भूत्वं मया तदा ।
अनुभूतमसत्सद्वदिदं स्वप्नपुरोपमम् ॥ ७ ॥
पृष्टमर्थं विस्तराद्वक्तुं प्रतिजानीते - शृण्विति । स्वयम्भूत्वं शरीरे
सर्वजगत्सर्गकल्पनात्परमेष्ठित्वम् ॥ ७ ॥
तमालोक्य महाकल्पसम्भ्रमं व्योमरूपिणा ।
भागेऽन्यत्र शरीरस्य संविदुन्मेषिता मया ॥ ८ ॥
तं प्राग्विस्तराद्वर्णितं कलधौतशिलादौ महाकल्पसम्भ्रममालोक्य
चिद्व्योमरूपिणा मया शरीरस्यान्यत्र भागे स्थिता संवित् सर्गदर्शनसङ्कल्पेन
कौतुकादुन्मेषितेत्यर्थः ॥ ८ ॥
यदैव सामला संवित्किञ्चिदुन्मेषिता स्थिता ।
तदैवाहं क्वचित्तत्र पश्याम्याकाशतामिव ॥ ९ ॥
तत्रादौ तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः इति
श्रुत्युक्तक्रमोपलक्षणमाकाशकल्पनमाह - यदैवेति । यथैव इति पाठे
तथैवेति पाठ्यम् ॥ ९ ॥
गतं स्वभावं चिद्व्योम यथा त्वं राम निद्रया ।
जाग्रद्वा स्वप्नलोकं वा विशन्वेत्सि समं घनम् ॥ १० ॥
इयं चाकाशता न चिद्घनस्यान्तःशून्यभावप्राप्तिलक्षणसौक्ष्म्याधिक्यं किन्तु
चित्सौक्ष्म्यापेक्षया जाड्याधिक्यात्स्थौल्यमेवेत्याशयेन दृष्टान्तेन सम्भावयति
- गतमिति । हे राम यथा त्वं निद्रया प्राग्वर्णितस्वप्नजाग्रल्लोकं वा स्वप्नं
स्वप्नलोकं वा विशन् स्वात्मन एव समं घनं तदाधारस्वभावं वेत्सि
तद्वत्सम्भावयेत्यर्थः ॥ १० ॥
दिङ्मात्राकाशमेवादौ ततोऽस्मीत्येव वेदनम् ।
तद्घनं कथ्यते बुद्धिः सा घना मन उच्यते ॥ ११ ॥
आकाशकल्पनयैव तद्गोचरचित्ताद्यन्तःकरणचतुष्टयसिद्धिमाह - दिङ्मात्रेति ।
दिशो मिमीते स्वचलनानुकूलतया स्वात्मनि पर्यालोचयतीति दिङ्मात्रं
तथाविधमाकाशमेवादौ चेतनाच्चित्तं भवति । तत आकाशमहमस्मीत्येव वेदनं
सोऽहङ्कारः । तदेव घनमाकाशमेवेत्यवधारणात्पूर्वभावविस्मरणाच्च
बुद्धिः कथ्यते । सैव सङ्कल्पविकल्पकामविचिकित्सादिकल्पनघना मन उच्यत इत्यर्थः
॥ ११ ॥
तद्वेती शब्दतन्मात्रं तन्मात्राणीतराण्यथ ।
पञ्चेन्द्रियाणि तत्स्थौल्यादितीन्द्रियगणोदयः ॥ १२ ॥
तदेव विषयान्कल्पयित्वा तद्ग्राहकानीन्द्रियाण्यपि कपयतीत्याह - तदिति ॥ १२ ॥
सुषुप्ताद्विशतः स्वप्नं जगद्दृश्यघनोदयम् ।
यथा तथैव सर्गादौ दुःखं भाति निमेषतः ॥ १३ ॥
तद्वशादेव प्राङ्निर्दुःखस्यात्मनः स्वप्न इव व्यवहारदुःखावाप्तिरित्याह -
सुषुप्तादिति ॥ १३ ॥
तुल्यकालमनन्तेऽस्मिन्दृश्यजालावभासने ।
कथयन्ति क्रमं केचित्केचिन्न कथयन्ति च ॥ १४ ॥
ननु स्वप्ने नाकाशादिक्रमेण सर्गः किन्तु तुल्यकालमेव सहसा सर्वजगद्दर्शनमिति
वैषम्यं तत्राह - तुल्यकालेति । स ऐक्षत लोकान्नु सृजा इति स इमाṁल्लोकानसृजत
। स तपस्तप्त्वा इदं सर्वमसृजत इत्यादिश्रुतिषु तुल्यकालमपि सर्गश्रवणात्
क्षणोदरेऽपि कालदैर्घ्यकल्पनेन क्रमोपपत्तेरिति भावः ॥ १४ ॥
परमाणुकणे कान्ते सम्पन्नमनुभूतवान् ।
अहं चेतनमात्मानं वस्तुतोऽमलमेव खम् ॥ १५ ॥
क्षणोदरे कालदैर्घ्यमिव परमाणूदरेऽपि देशदैर्घ्यकल्पनया तत्र
ब्रह्माण्डात्मकं चेतनमात्मानमहमेव कल्पनया दृष्टवानित्याह -
परमाण्विति ॥ १५ ॥
यथा स्वभावतो व्योम्नि चलत्येवानिशं मरुत् ।
तथा स्वभावात्सर्वत्र पश्यत्येव वपुस्त्विति ॥ १६ ॥
मरुतश्चलनमिव मनसः शरीरादिकल्पनं स्वभाव इत्याह - यथेति ॥ १६ ॥
यादृशं चेतितं रूपं शक्त्या परमया तया ।
तच्छक्नोत्यन्यथाकर्तुं नैषा यत्नेन भूयसा ॥ १७ ॥
तया प्राथमिकमनःकल्पनाशक्त्या एषा शक्तिः स्वयमप्यन्यथाकर्तुं न
शक्नोतीत्युत्तरकल्पनासु सैव स्थिरा नियतिरित्यर्थः ॥ १७ ॥
ततः पश्याम्यहं यावत्सम्पन्नोऽप्यणुरूपकः ।
चित्त्वाच्चेतस्तदेवाशु तथाभूतोऽस्मि संस्थितः ॥ १८ ॥
अत एवाहमपरिच्छिन्नोऽपि तत्कृतपरिच्छेदकल्पनया अणुरूपकः परिच्छिन्नः
सम्पन्न इत्याह - तत इति ॥ १८ ॥
ततोऽहं बुद्धवान्रूपं तनु तेजःकणाकृति ।
तदेव भावयन्पश्चाद्गतोऽहं स्थूलतामिव ॥ १९ ॥
तनु सूक्ष्मं लिङ्गशरीरं चित्प्रतिबिम्बव्याप्त्या तेजःकणाकृति । स्थूलतां
स्थूलदेहतामिव ॥ १९ ॥
प्रेक्षे तावदहं किञ्चिदिति बोधाल्लघोस्ततः ।
मनागालोकनायैव सम्प्रवृत्तोऽनुभूतवान् ॥ २० ॥
तत्र चक्षुरादिद्वारकल्पनया रूपादिद्रष्टृता स्वस्य सम्पन्नेत्याह - प्रेक्षे
इत्यादिना ॥ २० ॥
यन्नाम तत्र तत्किञ्चित्तस्येहाद्य रघूद्वह ।
शृणु नामानि मुख्यानि कल्पितानि भवादृशैः ॥ २१ ॥
द्रष्टुं प्रवृत्तो रन्ध्रेण येन तच्चक्षुरुच्यते ।
यच्च पश्यामि तद्दृश्यं दर्शनं तु फलं ततः ॥ २२ ॥
तद्दृश्यं रूपम् ॥ २२ ॥
यदा पश्यामि कालोऽसौ यथा पश्यामि स क्रमः ।
प्रौढा नियतिरित्यस्य यत्र पश्यामि तन्नभः ॥ २३ ॥
तदनु निष्पादिनी नान्तरीयकी देशकालादिनियतिरपि सम्पन्नेत्याह - यदेति ॥ २३ ॥
स्थितोऽस्मि यत्र देशोऽसावित्यदयिषा प्रकल्पना ।
तदा त्वहं चिदुन्मेषमात्रात्तन्मात्रकारणम् ॥ २४ ॥
अद्य कल्पनादार्ढ्यकाले । तदा तर्हि त्वं कीदृक्तत्राह - तदेति ।
तदानीन्तनदृष्ट्या सर्वं चिदुन्मेष एवेति तन्मात्रकारणमहमित्यर्थः ॥ २४ ॥
पश्यामीति ततस्तत्र मनाग्बोधो ममोदभूत् ।
ततो रन्ध्रद्वयेनाहमपश्यं यत्तदप्यखम् ॥ २५ ॥
देहे चक्षुरादिरन्ध्रकल्पनादिदर्शनादिकौतुकात्तदाभूदित्याह - पश्यामीति ॥ २५ ॥
याभ्यामपश्यन्न् रन्ध्राभ्यां त इमे लोचने स्थिते ।
ततः किञ्चिच्छृणोमीति संविदित्युदिता मम ॥ २६ ॥
ततः किञ्चिन्मनाङ्मात्रं झङ्कारं श्रुतवानहम् ।
प्रध्मातस्येव शङ्खस्य शब्दं व्योम्नः स्वभावजम् ॥ २७ ॥
सहैव विषयकल्पनामाह - तत इति ॥ २७ ॥
याभ्यामहमथाश्रौषं त इमे श्रवणव्रणे ।
प्रदेशाभ्यां विचरता मरुता विततस्वनम् ॥ २८ ॥
याभ्यां प्रदेशाभ्यां विततस्वनमश्रौतं ते इमे । प्रगृह्यत्वे सन्धिरार्षः ।
श्रवणव्रणे कर्णच्छिद्रे । विचरता मरुतेति श्रोत्रादिव्यापारस्यापि
प्राणाधीनत्वद्योतनार्थम् ॥ २८ ॥
स्पर्शसंवेदनं किञ्चिदहमत्रानुभूतवान् ।
येन नाम प्रदेशेन तेन सा त्वक्च कथ्यते ॥ २९ ॥
एवं त्वक्कल्पनेत्याह - स्पर्शेति ॥ २९ ॥
येन स्पृष्टमिवाङ्गं तत्तदाहमनुभूतवान् ।
सत्संवेदनमात्रात्मा सोऽयं वायुरिति स्मृतः ॥ ३० ॥
सहैव तद्विषयकल्पनामाह - येनेति । वायुग्रहणं त्वग्विषयमात्रोपलक्षणम् ।
सत्संवेदनं सत्यसङ्कल्पस्तन्मात्रात्मा ॥ ३० ॥
स्पर्शनेन्द्रियतन्मात्रमिति वेदिनि संस्थितम् ।
आस्वादसंविद्याभून्मे तदास्वाद्यरसेन्द्रियम् ॥ ३१ ॥
इति उक्तरीत्या वेदिनि मयि स्पर्शनेन्द्रियतन्मात्रं संस्थितं सम्पन्नमिति
पूर्वानुवादः । रसनेन्द्रियकल्पनामाह - आस्वादेति । तत् आस्वाद्यरसभेदसहितं
रसनेन्द्रियं संस्थितमित्यनुकृष्यते ॥ ३१ ॥
प्राणान्मे घ्राणतन्मात्रमुदितं व्योमरूपिणः ।
इत्थं न किञ्चित्सम्पन्नं सर्वं सम्पन्नमत्र मे ॥ ३२ ॥
प्राणात् आघ्राणसङ्कल्पाकृष्टप्राणभेदादपानात् । घ्राणं च
तद्विषयगन्धतन्मात्रा च तयोः समाहारो घ्राणतन्मात्रम् । सेयं
देहेन्द्रियविषयसम्पत्तिः कल्पनामात्रत्वान्मिथ्यैवेति दर्शयन्नुपसंहरति -
इत्थमिति ॥ ३२ ॥
एवमिन्द्रियतन्मात्रजालं चेत्तत्र संस्थितः ।
यावत्तावद्विदः पञ्च बलादेव ममोदिताः ॥ ३३ ॥
ततो बलादेव पञ्चभोगसंविद उदिता इत्याह - एवमिति । विदः
शब्दादिप्रथालक्षणा भोगसंविदो मिथ्यात्वादेव अनाकारा भ्रान्तिमात्रेण तथा
भातस्वरूपिण्यः ॥ ३३ ॥
शब्दरूपरसस्पर्शगन्धमात्रशरीरिकाः ।
अनाकारास्तथा भातस्वरूपिण्यो भ्रमात्मिकाः ॥ ३४ ॥
एवंरूपमहं जालं भावयन्यत्तदास्थितः ।
तदहङ्कार इत्यद्य कथ्यते त्वादृशैर्जनैः ॥ ३५ ॥
भावयन् अभिमन्यमानः । तेनैवाहङ्कारकल्पनाभूदित्याह - तदिति ॥ ३५ ॥
एष एव घनीभूतो बुद्धिरित्यभिधीयते ।
साथ बुद्धिर्घनीभूता मन इत्यभिधीयते ॥ ३६ ॥
घनीभूतो दृढाध्यवसायेन बहलीभूतः । मनोऽपि पुनःपुनर्विषयान्स्मरच्चित्तं
सम्पन्नमित्यपि बोध्यम् ॥ ३६ ॥
अन्तःकरणरूपत्वमेवमत्राहमास्थितः ।
आतिवाहिकदेहात्मा चिन्मयव्योमरूपवान् ॥ ३७ ॥
पवनाद्यप्यहं शून्यः केवलाकाशमात्रकः ।
सर्वेषामेव भावानां शून्याकृतिररोधकः ॥ ३८ ॥
यतोऽहं शून्याकृतिरत एव सर्वेषामेव कल्प्यमानभावानामरोधकः
अनिरोधकोऽनिवारकश्च ॥ ३८ ॥
अथैवम्भावनाच्चाहं यदा तत्र चिरं स्थितः ।
तदाहं देहवान्दृष्ट इति मे प्रत्ययोऽभवत् ॥ ३९ ॥
तत्र तस्मिन्पूर्वकल्पिते ब्रह्मात्मकदेहे चिरं यदा स्थितस्तदा तदन्तः अहं स्वेनैव
चतुर्मुखदेहवान्दृष्टः ॥ ३९ ॥
तेनाहम्प्रत्ययेनाथ शब्दं कर्तुं प्रवृत्तवान् ।
शून्य एव यथा सुप्तः स्वप्नोड्डीननरो रवम् ॥ ४० ॥
तेन तादृशदेहप्रत्ययेन स्वप्ने उड्डीनो नभसि सञ्चरन्नरो यथा रवं करोति तथा
शब्दं कर्तुं प्रवृत्तवान् ॥ ४० ॥
अथ पूर्वं कृतः शब्दो बालेनेव तदोमिते ।
ततः स एष ॐकार इति नीतः पुनः प्रथाम् ॥ ४१ ॥
तत्र विशेषाभिलापे विनिगमकाभावात्सर्वसाधारणार्थकः शब्दसमष्ट्यात्मा
ॐकार एव प्रथममुच्चारित इत्याह - अथेति ॥ ४१ ॥
ततः स्वप्ननरेणेव यत्किञ्चिद्गदितं मया ।
तदेतद्विद्धि वाचं त्वं पश्चान्नीतां प्रथामिह ॥ ४२ ॥
यत्किञ्चिद्व्याहृतिगायत्रीवेदादि प्रागभ्यस्तं गदितम् ॥ ४२ ॥
ब्रह्मैव सोऽस्मि सम्पन्नः सृष्टेः कर्ता जगद्गुरुः ।
ततो मनोमयेनैव कल्पिताः सृष्टयो मया ॥ ४३ ॥
ब्रह्मा चतुर्मुख एव । मनोमयेनैव चतुर्मुखदेहेन मया ॥ ४३ ॥
एवमस्मि समुत्पन्नो न तु जातोऽस्मि किञ्चन ।
दृष्टवानस्मि ब्रह्माण्डं ब्रह्माण्डान्तं न किञ्चन ॥ ४४ ॥
स्वीयस्थूलदेहभूतं ब्रह्माण्डं सावरणम् । ब्रह्माण्डान्तं
ब्रह्माण्डबहिर्भूतम् ॥ ४४ ॥
एवं जगति सम्पन्ने ममैतस्मिन्मनोमये ।
न किञ्चित्तत्र सम्पन्नं तच्छून्यं व्योम केवलम् ॥ ४५ ॥
इत्थं संशून्यमेवेदं सर्वं वेदनमात्रकम् ।
मनागपि न सन्त्येते भावाः पृथ्व्यादयः किल ॥ ४६ ॥
अयमेव न्यायः सर्वसर्गेषु बोध्य इत्याशयेनाह - इत्थमिति ॥ ४६ ॥
जगन्मृगतृडम्बूनि भान्ति संविदि संविदः ।
न बाह्यमस्ति नो बाह्ये खे तद्व्योम तथा स्थितम् ॥ ४७ ॥
तद्व्योम ब्रह्माकाशमेव तथा स्थितम् ॥ ४७ ॥
मरौ नास्त्येव सलिलं संवित्पश्यति तत्तथा ।
निर्मूलमन्तःसन्तप्ता स्वसम्भ्रमवती भ्रमम् ॥ ४८ ॥
निर्मूलं निष्कारणमेवान्तःसन्तप्तेव क्षुब्धा ॥ ४८ ॥
नास्त्येव ब्रह्मणि जगत् संवित्पश्यति तत्तथा ।
निर्मूलमेव संवित्त्वादेवं भ्रान्तेश्च सम्भ्रमम् ॥ ४९ ॥
संवित्त्वादज्ञानावृतसंवित्स्वभावात् ॥ ४९ ॥
असदेवेदमाभाति हृद्येव जगदाततम् ।
सङ्कल्पनमनोराज्यं यथा स्वप्नपुरादिवत् ॥ ५० ॥
सङ्कल्पनप्रयुक्तं मनोराज्यं यथा तथेति पृथग्योज्यम् । नृमनोराज्यम् इति
पाठे सङ्कल्पे स्थितस्य नुः पुरुषस्य मनोराज्यं यथेति ॥ ५० ॥
पार्श्वसुप्तजनस्वप्नस्तच्चित्तावेशनं विना ।
यथा न किञ्चित्तच्चित्तावेशनादनुभूयते ॥ ५१ ॥
परकायप्रवेशेन स्वप्नद्रष्ट्टचित्तावेशनाद्योगिभिरनुभूयते ॥ ५१ ॥
तथा जगत्तद्दृषदं सम्प्रविश्यानुभूयते ।
आदर्शबिम्बिताकारं दृष्टमप्यन्यथाप्यसत् ॥ ५२ ॥
तद्दृषदं तत्कल्पनाधिष्ठानचिच्छिलाम् । अन्यथा न तथा किन्त्वसदपि ॥ ५२ ॥
आधिभौतिकभावेन नेत्रेण यदि लक्ष्यते ।
तत्तन्न दृश्यते किञ्चिद्गिरिरेव प्रदृश्यते ॥ ५३ ॥
अत एव प्रागाधिभौतिकदृशा दर्शने लोकालोकगिरिरेव दृश्यते न शिलान्तर्गतं
ब्रह्माण्डमित्युक्तमित्याह - आधिभौतिकेति ॥ ५३ ॥
आतिवाहिकदेहेन परं बोधदृशा यदि ।
प्रेक्ष्यते दृश्यते सर्गः परमात्मैव चामलः ॥ ५४ ॥
सर्गो दृश्यतेस च परमात्मैव लक्ष्यते योगिभिरित्यर्थः ॥ ५४ ॥
सर्वत्र सर्गनिर्वाणं प्रज्ञालोकेन लक्ष्यते ।
ब्रह्मात्मैवान्यथा चेत्तन्न किञ्चिदभिलक्ष्यते ॥ ५५ ॥
तत्त्वदृशा दर्शने त्वाह - सर्वत्रेति ॥ ५५ ॥
यत्पश्यत्यवदाता धीः सोपपत्तिविचारणा ।
न तन्नेत्रैस्त्रिभिः शर्वो नेन्द्रो नेत्रशतैरपि ॥ ५६ ॥
तत्त्वदृष्टिं योगिदृष्टिं च सर्वोत्कर्षेण प्रशंसति - यदिति ॥ ५६ ॥
यथा खमावृतं सर्गैस्तथा भूरिति बुद्धवान् ।
तदाहमभवं ध्याता धराधारणयान्वितः ॥ ५७ ॥
तत्र स्वस्य तत्त्वज्ञस्य यदा जीवन्मुक्तयोगिदृशा पश्यत आकाशमिव भूरपि
सर्वतः सर्गैर्व्याप्तेति बुद्धिरुत्पन्ना तदा
क्रमाद्भूम्याद्येकैकभूताहम्भावधारणया यद्यत्कौतुकं स्वेन दृष्टं
तत्सर्वं विस्तराद्वर्णयिष्यन्प्रथमं धराधारणादृष्टं तद्वक्तुमुपक्रमते
- यथेति । यदा बुद्धवास्तदा धराधारणया अन्वितः अभवमित्यर्थः ॥ ५७ ॥
तया धराधारणया धरारूपधरोऽभवम् ।
अत्यजन्नेव चिद्व्योमवपुः सम्राडिवाचिरात् ॥ ५८ ॥
यथा सम्राट् चक्रवर्ती स्वदेहमात्राहम्भावमत्यजन्नेव समस्तभूमण्डले
ममताभावं धत्ते तथा अहमपि चिद्व्योमवपुर्ब्रह्माहम्भावमत्यजन्नेव
धराहम्भावेन धरारूपधरोऽभवमित्यर्थः ॥ ५८ ॥
धराधारणया चैव धराधातूदरं गतः ।
द्वीपाद्रितृणवृक्षादिदेहोऽहमनुभूतवान् ॥ ५९ ॥
धराधातुर्भूम्यभिमानिजीवस्तदुदरं तद्बुद्धितादात्म्यं गतः सन् ॥ ५९ ॥
सम्पन्नोऽस्म्यथ भूपीठं नानावनतनूरुहम् ।
नानारत्नावलीव्याप्तं नानानगरभूषणम् ॥ ६० ॥
यदनुभूतवांस्तदाह - सम्पन्न इत्यादिना । इत आरभ्य
आसर्गसमाप्तेर्भपीठमेव देहाधारेण वर्ण्यते ॥ ६० ॥
ग्रामगह्वरपर्वाढ्यं पातालसुषिरोदरम् ।
कुलाचलभुजाश्लिष्टद्वीपाब्धिवलयान्वितम् ॥ ६१ ॥
तृणौघतनुरोमाढ्यन्न् गिरिखण्डकगुल्मकम् ।
दिग्वारणकटव्यूहधृतं शेषशिरःशतैः ॥ ६२ ॥
गिरिखण्डका गिरिकदम्बा गुल्मरोगग्रन्थय इव यस्य । कटपदेन शिरांसि लक्ष्यन्ते
तद्व्यूहैर्धृतम् । तथा शेषस्य शिरसां शतैर्दशशतैर्धृतम् ॥ ६२ ॥
ह्रियमाणं महीपालैः शोभमानेभतन्तुभिः ।
प्राणिभिर्भुज्यमानाङ्गं वर्धमानं व्यवस्थया ॥ ६३ ॥
शोभमाना इभास्तन्तवः सेनाजालतन्तुग्रन्थय इव येषां तथाविधैर्महीपालैः
परस्परं युद्धैर्ह्रियमाणम् । उत्करनगरादिप्रदेशव्यवस्थया ॥ ६३ ॥
हिमवद्विन्ध्यसुस्कन्धं सुमेरूदारकन्धरम् ।
गङ्गादिसरिदापूरमुक्ताहाररणत्तनुम् ॥ ६४ ॥
गुहागहनकच्छादि सागरादर्शमण्डलम् ।
मरूषरस्थलश्वेतसुवराम्बरसुन्दरम् ॥ ६५ ॥
गुहागहनाः कच्छादयो देशा यस्मिन् । सागरा आदर्शमण्डला इव यस्मिन् ।
मरुदेशलक्षणैरूषरस्थललक्षणैश्च श्वेतैः सुवराम्बरैः सुन्दरम् ॥ ६५ ॥
भूतपूर्वैः परापूर्णं परिपूतं महार्णवैः ।
अलङ्कृतं पुष्पवनैः समारब्धं [समार(ल)ब्धं इति
मूलटीकयोः पाठवैषम्यं सर्वादर्शेषु दृश्यते ।] रजोघनैः ॥ ६६ ॥
नित्यं कृषीवलैः कृष्टं वीजितं शिशिरानिलैः ।
तापितं तपनैस्तप्तैरुक्षितं प्रावृडम्बुभिः ॥ ६७ ॥
पूर्वं भूतैर्भूतपूर्वैर्महार्णवैः प्रलयकाले परापूर्णमत एव साम्प्रतं
स्नात्वोद्गतमिव परितः पूतं पवित्रम् । पुष्पवनैर्माल्यैरिवालङ्कृतम् ।
चन्दनस्थानीयै रजोघनैः समालब्धं [समार(ल)ब्धं इति
मूलटीकयोः पाठवैषम्यं सर्वादर्शेषु दृश्यते ।] लिप्तम् ॥ ६६ ॥ ६७ ॥
विपुलाग्रस्थलोरस्कं पद्माकरकृतेक्षणम् ।
सितासितघनोष्णीषं दशाशोदरमन्दिरम् ॥ ६८ ॥
अग्रस्थलं समभूप्रदेशः ॥ ६८ ॥
लोकालोकमहाखातवलयोग्रास्यभीषणम् ।
अनन्तभूतसङ्घातपरिस्पन्दैकचेतनम् ॥ ६९ ॥
लोकालोकसमीपे प्राग्वर्णितो यो महाखातवलयस्तल्लक्षणेनोग्रेणास्येन भीषणम्
भूतानां परिस्पन्द एव परिस्पन्द एकीभूतं चेतनमेव चेतन यस्य ॥ ६९ ॥
व्याप्तमन्तर्बहिश्चैव नानाभूतगणैः पृथक् ।
देवदानवगन्धर्वैर्बहिरन्तस्तु कीटकैः ॥ ७० ॥
नानाभूतगणलक्षणैः कीटकैर्व्याप्तम । तेषु देवदानवेत्यवयुत्यानुवादः ॥ ७० ॥
पातालेन्द्रियरन्ध्रेषु नागासुरकृमिव्रजैः ।
सप्तस्वर्णवकोशेषु नानाजातिजलेचरैः ॥ ७१ ॥
व्याप्तं नदीवनसमुद्रदिगन्तशैलद्वीपाख्यजन्तुविषयस्थलजङ्गलौघैः ।
नानावलीवलितमण्डलकोशखण्डं वल्लीसरःसरिदरातिगणाब्जखण्डैः ॥ ७२ ॥
उक्तमेव सङ्क्षिप्योपसंहरन्विशिनष्टि - व्याप्तमिति ।
नद्यादिद्वीपान्तैर्जन्तुविषयैः प्राणिभोग्यैः स्थलजङ्गलौघैश्च व्याप्तम् ।
नानाविधाभिर्गिरिनदीपर्वताद्यावलिभिर्जनावलिभिश्च वलिता मण्डलकोशानां
खण्डा यस्मिन् । तथा वल्लीभिः सरोभिः सरिद्भिररातिगणैरब्जखण्डैश्च
व्याप्तमित्यनुषज्यते ॥ ७२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० पा०
पार्थिवधात्वन्तर्गतजगदानन्त्यप्रतिपादनन्न् नाम सप्ताशीतितमः सर्गः ॥ ८७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
पार्थिवधात्वन्तर्गतजगदानन्त्यप्रतिपादनं नाम सप्ताशीतितमः सर्गः ॥ ८७ ॥