०८६

षडशीतितमः सर्गः ८६

श्रीवसिष्ठ उवाच ।

शृणु राम कथं तत्र महाकाशे तथा स्थितः ।
देहे भ्रान्तिं तु तां त्यक्त्वा स रुद्रोऽप्युपशाम्यति ॥ १ ॥

ब्रह्माण्डखर्परग्रासिरुद्रदेहस्य सौक्ष्म्यतः ।
चिदाकाशे तिरोभावः शिलायामत्र वर्ण्यते ॥

तत्प्रदेशान्तरेष्वन्यशिलावृक्षतृणादिषु ।
सर्वत्र सर्गवैचित्र्यदर्शनं ब्रह्मणीर्यते ॥

तत्रादौ रुद्रदेहोपसंहारक्रमं श्रावयति - शृण्विति । यथा इत्यर्थे
कथंशब्दः । स प्राग्वर्णितप्रभावः ॥ १ ॥

स रुद्रस्तौ जगत्खण्डौ तदा चित्र इवार्पिताः ।
निस्पन्दा एव तत्रासन्प्रेक्षमाणे स्थिते मयि ॥ २ ॥

तौ जगत्खण्डौ ऊर्ध्वाधस्ता नब्रह्माण्डखर्परे चेति त्रयोऽपि चित्रे अर्पिता लिखिता इव
निस्पन्दएव तत्राकाशे तदा आसन् ॥ २ ॥

ततो मुहूर्तमात्रेण स रुद्रस्तौ नभोन्तरे ।
खण्डौ विलोकयामास दृशार्केणेव रोदसी ॥ ३ ॥

अर्केण सूर्यात्मिकया दृशा रोदसी द्यावाभूमी इव । कोणेन इति पाठे कटाक्षेण
रोदसी द्यावाभूमीभूतौ तौ जगत्खण्डाविति व्याख्येयम् ॥ ३ ॥

ततो निमेषमात्रेण घोणाश्वासेन खण्डकौ ।
तौ समानीय चिक्षेप पातालान्तरिवानने ॥ ४ ॥

घोणा नासिका तदुपलक्षितमुखाकृष्टेन श्वासेन ॥ ४ ॥

अतिष्ठदेक एवासावेकं खे खमिवाखिले ।
भुक्तब्रह्माण्डखण्डोग्रमण्डमण्डकमण्डलः ॥ ५ ॥

भुक्ते ब्रह्माण्डखण्डलक्षणे उग्रे क्षीरमण्डं च मण्डकं मण्डलं चेत्येते
द्वे येन । जलाद्यावरणलक्षणक्षीरमण्डसहिते वा
ब्रह्माण्डखण्डमण्डकमण्डले द्वे व्याख्येये । क्षीरमण्डेन सह हि
मण्डकमण्डलं तद्भुजां रोचते ॥ ५ ॥

ततो मुहूर्तमात्रेण लघुः सोऽभ्रमिवाभवत् ।
ततोऽभवद्यष्टिसमस्ततः प्रादेशमात्रकः ॥ ६ ॥

अभ्नमिव लघुरभवत् । यष्टिर्दण्डस्तत्समः ॥ ६ ॥

ततः काचकणाकारो मया दृष्टः स तादृशः ।
ततः सोऽणूभवन्दृष्टो मया खाद्दिव्यदृष्टिना ॥ ७ ॥

काचकणः सूक्ष्मं काचशकलम् । खादाकाशदप्यणूभवन् ॥ ७ ॥

परमाणुरथो भूत्वा ततस्त्वन्तर्द्धिमाययौ ।
इत्यसौ शममायातः शरदम्बुदखण्डवत् ॥ ८ ॥

तादृशोऽपि महारम्भः पुरः पश्यत एव मे ।
इति सावरणे तेन ते ब्रह्माण्डकवाटके ॥ ९ ॥

विनिगीर्णे क्षुधार्तेन हरिणेनेव पर्णके ।
अथाभून्निर्मलं व्योम शान्तं ब्रह्मैव केवलम् ॥ १० ॥

अल्पे पर्णे पर्णके । निर्मलं दृश्यकालुष्यरहितम् ॥ १० ॥

अनादिमध्यपर्यन्तं संविदाकाशमात्रकम् ।
इत्यहं दृष्टवांस्तत्र कल्पान्तमुरुविभ्रमम् ॥ ११ ॥

पाषाणोदरसंसारकथासमाप्तिं सूचयन्नुपसंहरति - इत्यहमिति । कल्पान्तं
महाप्रलय्म् ॥ ११ ॥

दर्पणप्रतिबिम्बाभं शिलाशकलकोटरे ।
अथ तामङ्गनां स्मृत्वा तां शिलां तच्च [शिलान्तर्गतं
ब्रह्मवृत्तं लयपर्यन्तं तद्विलासं चेत्यर्थः ।] विभ्रमम् ॥ १२ ॥

तामङ्गनां विद्याधरीम् ॥ १२ ॥

राजद्वारगतो ग्राम्य इवाहं विस्मयं गतः ।
तामालोकितवान्भूयः कलधौतशिलामहम् ॥ १३ ॥

ग्रामे भवो ग्राम्यः कदाप्यदृष्टनगरो जन इव । तां शिलां
पूर्वदृष्टप्रदेशात् प्रदेशान्तरेष्वप्यालोकितवान् ॥ १३ ॥

यावत्सर्वत्र सन्त्यत्र सर्गाः काल्या इवाङ्गके ।
बुद्धिनेत्रेण दृश्यन्ते दिव्याक्ष्णा वा न ते यथा ॥ १४ ॥

यावदिति साकल्ये यत इत्यर्थे वा । प्राग्दृष्टे काल्या अङ्गके शरीरे इव सर्वत्र सर्गाः
सन्ति । कल्पा इव इति पाठे कल्पाः सर्गा इवेति मिथ्यात्वसूचक इवशब्दो व्याख्येयः । ते
सर्गाः ॥ १४ ॥

सर्वत्र सर्वदा सर्वं यदस्त्येव तदा तया ।
दूरवत्प्रेक्ष्यते मांसदृशा यद्येव सा शिला ॥ १५ ॥

यदि सा शिला मांसदृशैव दूरस्थवस्तुवदापाततः प्रेक्ष्यते तत्तर्हि एका
शिलैवेत्यन्वयः ॥ १५ ॥

दृश्यते तच्छिलैवैका न तु सर्गादि किञ्चन ।
सावस्थिता शिलैवैकरूपा निबिडमण्डला ॥ १६ ॥

कलधौतमयी स्फारा सन्ध्याजलदसुन्दरी ।
ततोऽहं विस्मयाविष्टः प्रविचारितवान्पुनः ॥ १७ ॥

सन्ध्याजलदस्य काञ्चनवर्णप्रसिद्धेः स इव सुन्दरी ॥ १७ ॥

शिलायामपरं भागं तथैव परया दृशा ।
यावत्तमपि पश्यामि जगदारम्भमन्थरम् ॥ १८ ॥

जगदारम्भैर्मन्थरं सङ्क्लिष्टम् । अम्बरम् इति पाठे तु जगतामारम्भा यत्र
तथाविधमम्बरं यस्मिन् ॥ १८ ॥

तथैव सुषिराकार इव नानार्थसुन्दरम् ।
पुनरन्यं तथैवाहं प्रदेशं परिदृष्टवान् ॥ १९ ॥

तथा पूर्वदृष्टप्रदेशवदेन सुषिराकारे नानार्थसुन्दरम् । इवशब्दो
मिथ्यात्वद्योतकः ॥ १९ ॥

सर्गसंरम्भवलितं यावत्तमपि तादृशम् ।
यं यं प्रदेशं पश्यामि शिलायास्तत्र तत्र वै ॥ २० ॥

जगत्पश्यामि विमलमादर्श इव बिम्बितम् ।
मयातिकौतुकेनाथ सर्वास्तस्य गिरेः शिलाः ॥ २१ ॥

अन्विष्टा भूतिभागाश्च तृणगुल्मादयस्तथा ।
यावत्सर्वत्र तत्तादृग्जगदस्ति यथास्थितम् ॥ २२ ॥

बुद्ध्यैव दृश्यते नाक्ष्णा परया विविधाकृति ।
क्वचित्प्रथमसर्गात्म जायमानप्रजापति ॥ २३ ॥

परया आधिभौतिकदेहभावभ्रान्तिशून्यया सर्वसाक्ष्यहम्भावबुद्ध्यैव । तत्र
तत्र दृष्टान्विशेषान्प्रपञ्चयति - क्वचिदित्यादिना । प्रायशो बहुव्रीहयः
सर्वत्र । जायमानः प्रजापतिर्यस्मिन् । जायमानप्रजापतिना
कल्प्यमानर्क्षेत्याद्युत्तरश्लोकार्धेन सह तत्पुरुषघटितबहुव्रीहिर्वा ॥ २३ ॥

कल्प्यमानर्क्षचन्द्रार्कदिनरात्र्यृतुवत्सरम् ।
क्वचित्क्वचिन्महीपीठसम्पन्नजनमण्डलम् ॥ २४ ॥

महीपीठे सम्पन्नं जनमण्डलं यत्र ॥ २४ ॥

क्वचित्किञ्चिदस्वातोग्रचतुःसागरखातकम् ।
क्वचित्किञ्चिदसञ्जातसुरसञ्जातदानवम् ॥ २५ ॥

सगरपुत्रैरद्याप्यखातमुग्रं चतुःसागरखातकं यत्र । अजातसुरं च
तत्सञ्जातदानवं च ॥ २५ ॥

क्वचित्किञ्चित्कृतयुगाचारसज्जनभूतकम् ।
क्वचित्किञ्चित्कलियुगाचारदुर्जनभूतकम् ॥ २६ ॥

क्वचित्किञ्चित्पुरव्यूहदैत्यसङ्गरदुस्तरम् ॥ २७ ॥

क्वचित्किञ्चिन्महाशैलजालनिर्विवरावनि ।
क्वचित्किञ्चिदसम्पन्नसर्गमेकाम्बुजोद्भवम् ॥ २८ ॥

एक अम्बुजोद्भवो द्रुहिण एव यस्मिन् ॥ २८ ॥

क्वचित्किञ्चिज्जरामृत्यून्मुक्तभूतलमानवम् ।
क्वचित्किञ्चिदसञ्जातचन्द्रशून्यशिरःशिवम् ॥ २९ ॥

असञ्जातचन्द्रत्वाद्भूषणशून्यशिराः शिवो यस्मिन् ॥ २९ ॥

अनिर्मथितदुग्धाब्धिमृत्युमत्सुरपूरितम् ।
असञ्जातामृताश्वेभवैद्यगोकमलाविषम् ॥ ३० ॥

वैद्यो धन्वन्तरिः । गावः कामधेनवः । कमला लक्ष्मीः । विषं कालकूटम् ॥ ३० ॥

शुक्रामरमहाविद्यानाशनोत्कसुरव्रजम् ।
क्वचित्किञ्चिच्च गर्भाङ्गकर्तनोत्कसुरेश्वरम् ॥ ३१ ॥

शुक्रेण तपसा साध्यमानाया अमरमहाविद्यायाः
मृतसञ्जीवनाख्यायास्तपोविघ्नाचरणेन नाशने उत्क उत्कठितमनाः सुरव्रजो यत्र
। किञ्चिच्च भाविस्वशत्रुविनाशमुद्दिश्य दितेरुदरं प्रविश्य तद्गर्भस्याङ्गानां
कर्तने उत्कः सुरेश्वर इन्द्रो यत्र ॥ ३१ ॥

अपरिम्लानधर्मत्वात्स्वप्रकाशाखिलव्रजम् ।
क्वचित्किञ्चिच्च पूर्वान्यसन्निवेशक्रमस्थिति ॥ ३२ ॥

पूर्वस्मात्प्रसिद्धसन्निवेशक्रमादन्यसन्निवेशक्रमा पदार्थस्थितिर्यस्मिन् ॥ ३२ ॥

अपूर्ववेदशास्त्रार्थसमाचारविचारणम् ।
क्वचित्किञ्चिन्न कल्पान्तसङ्क्षोभमिव संस्थितम् ॥ ३३ ॥

क्वचित्किञ्चिच्च दैत्यौघविलुण्ठितसुरालयम् ।
क्वचित्किञ्चित्सुरोद्यानगायद्गन्धर्वकिन्नरम् ॥ ३४ ॥

क्वचित्किञ्चित्समारब्धगीर्वाणासुरसौहृदम् ।
भूतभव्यभविष्यत्स्थजगदाडम्बरं मया ॥ ३५ ॥

अमृतमन्थनार्थं समारब्धं गीर्वाणानामसुराणान्न् च परस्परसौहृदं
यत्र ॥ ३५ ॥

तदानुभूतं वपुषि महाविश्वगणात्मनि ।
एकत्र कल्पविक्षुब्धपुष्करावर्तमन्थरम् ॥ ३६ ॥

महाविश्वगणात्मनि मायाशबलचिद्वपुषि तदा मया एवं
विचित्रजगदाडम्बरमनुभूतमित्यन्वयः । तमेव जगदाडम्बरं पुनः
प्रपञ्चयति - एकत्रेत्यादिना ॥ ३६ ॥

एकत्र सौम्यसकलभूतसन्ततिसंस्थितम् ।
एकत्र समनुक्षुब्धसुरासुरनरेश्वरम् ॥ ३७ ॥

एकत्रासम्भवद्भानुनित्याभिन्नतमोघनम् ।
एकत्रासम्भवद्ध्वान्तं कान्तं ज्वालोदरोपमम् ॥ ३८ ॥

नित्यमभिन्नेन अविनाशितेन तमसा घनम् ॥ ३८ ॥

एकत्र नलिनीनालनिलीनमधुकैटभम् ।
एकत्र पद्ममञ्जूषासुप्तबालनवाब्जजम् ॥ ३९ ॥

भगवन्नाभिनलिनीनाले निलीनौ मधुकैटभौ यत्र ॥ ३९ ॥

एकत्रैकार्णवोदग्रवृक्षविश्रान्तमाधवम् ।
एकत्र कल्परजनीनिःशून्यतिमिराकुलम् ॥ ४० ॥

एकार्णवे प्रलये उदग्रे उन्नताग्रे अक्षयवटवृक्षे पत्रपुटे विश्रान्तो माधवो यत्र ।
आलोकनिःशून्येन गाढेन तिमिरेणाकुलम् ॥ ४० ॥

शिलाजठरनिस्पन्दं व्योमैव वितताकृति ।
सुषुप्तजठराकारमप्रज्ञातमलक्षणम् ॥ ४१ ॥

भूम्याद्यनुत्पत्तेर्व्योममात्रोत्पत्तेव्योमैव एकत्रेत्यनुषज्यते ॥ ४१ ॥

अप्रतर्क्यमविज्ञेयन्न् सुषुप्तमिव सर्वतः ।
एकत्र पक्षविक्षुब्धशैलकाकाकुलाम्बरम् ॥ ४२ ॥

पक्षच्छेदाभावात्पक्षैर्विक्षुब्धाः शैला एव काका इव काकास्तैराकुलाम्बरम् ॥ ४२ ॥

एकत्र वज्रनिष्पेषद्रवद्भूधरभासुरम् ।
एकत्रोद्वृत्तमत्ताब्धिह्रियमाणधराचलम् ॥ ४३ ॥

एकत्र पुरवृत्रान्धबलिसङ्गरसङ्कुलम् ।
एकत्र मत्तपातालगजकम्पिवसुन्धरम् ॥ ४४ ॥

पुराणां त्रिपुराणां वृत्रस्य अन्धकस्य बलेश्च सङ्गरैः सङ्कुलम् । मत्तैः
पातालगजैर्दिग्गजैः कम्पिनी वसुन्धरा यत्र ॥ ४४ ॥

एकत्र शेषशिरसः कल्पान्तलुठितावनि ।
क्वचिदल्पेन रामेण हतरावणराक्षसम् ॥ ४५ ॥

अल्पेन बालेनैव रामेण ॥ ४५ ॥

रक्षसा रावणेनैव क्वचिद्विहतराघवम् ।
भूस्थपादेन देवाद्रिशिरस्थशिरसा परम् ॥ ४६ ॥

विहतः सीताहरणेन वञ्चितो राघवो यत्र ॥ ४६ ॥

पश्याम्यम्बरमाक्रान्तं क्वचिद्वै कालनेमिना ।
क्वचिच्चापसुरैर्नित्यं दानवैरेव पालितम् ॥ ४७ ॥

अपसुरैरपसारितदेवैः ॥ ४७ ॥

क्वचिच्च भ्रष्टदनुजैरमरैरेव पालितम् ।
जिष्णुयुक्तेन गुप्तेन विष्णुपाण्डवकौरवैः ॥ ४८ ॥

जिष्णुरर्जुनस्तद्युक्तेन । विष्णुना [अत्र समासैकदेशविष्णुशब्दे
तृतीयान्तविशेषणद्वयान्वये छान्दसः समासः ।] कृष्णेन । गुप्तेन
पालितस्वजनेन ॥ ४८ ॥

क्वचिद्भारतयुद्धेन निहताक्षौहिणीगणम् ।

श्रीराम उवाच ।

किमहं भगवन्पूर्वमभवं कथयेति मे ॥ ४९ ॥

क्वचिदल्पेन रामेण इत्यादि श्रुत्वा साश्चर्यो रामः पृच्छति - किमहमिति ॥ ४९ ॥

अभवं चेदनेनैव सन्निवेशेन तत्कथम् ।

श्रीवसिष्ठ उवाच ।

सर्व एव विवर्तन्ते राम भावाः पुनःपुनः ॥ ५० ॥

अनेन इदानीं दृश्यमानेनावयवाकृतिसन्निवेशेनाभवं किंवा
अन्यादृशेनेत्यर्थः ॥ ५० ॥

पूर्यमाणा यथा माषाः क्रमेणान्येन तेन वा ।
सर्वक्रमसमाः केचित्तयैवान्येन वा मिथः ॥ ५१ ॥

पूर्यमाणाः कुम्भकुसूलादौ पुनःपुनस्तेनान्येन च क्रमेण सन्निवेशेन यथा
विवर्तन्ते तद्वदित्यर्थः । तया प्राक्तनयाकृत्या अन्येन वा आकारेण ॥ ५१ ॥

स्फुरन्त्यर्थसमा भावाः केचिदब्धितरङ्गवत् ।
पुनस्त्वं पुनरेवाहं पुनः पुनरिमे जनाः ॥ ५२ ॥

न कदाचन नैवान्ये सम्भवन्त्यखिलं परे ।
त एवान्येऽथवाम्भोधौ तरङ्गा इव निर्णयः ॥ ५३ ॥

तत्त्वदृशा त्वाह - न कदाचनेति । मायादृशा त एव जायन्ते अन्ये वा जायन्ते
इत्यनिर्णय एवेत्याह - त एवेति । निर्णयो यद्वन्न जायते इत्यन्वयः ॥ ५३ ॥

यद्वन्न जायते तद्वद्भूतानां भ्रमतां भवेत् ।
आयान्ति यान्त्यनन्तानि भूतानीह भवद्भ्रमैः ॥ ५४ ॥

तान्येवान्यानि चान्यानि समानि विषमाणि च ।
आवृत्तिमन्ति तान्येव तथैवान्यानि चाभितः ॥ ५५ ॥

विद्धि सीकरजालानि भूतानि जगदम्बुधेः ।
वित्तबन्धुवयःकर्मविद्याविज्ञानचेष्टितैः ॥ ५६ ॥

इदं च प्राङ्मुमुक्षुव्यवहारप्रकरणे उक्तमेवेति स्मारयंस्तदेवाह - धित्तेति ॥
५६ ॥

तैरेव केचिज्जायन्ते भूयोभूयः शरीरिणः ।
अर्धैस्तैः सदृशाः केचित्केचित्पादेन तैः समाः ॥ ५७ ॥

तज्जीवास्तैर्विसदृशा भवन्त्यन्यशरीरिणः ।
सर्वैरेभिः समाः केचित्कालेनैव विलक्षणाः ।
कालेन सदृशाः केचिदनेन च विलक्षणाः ॥ ५८ ॥

जीवैक्ये सदृशान्येव शरीराणि भवन्तीत्यप्यनियम इत्याह - तज्जीवा इति । एवं
जीवभेदे विसदृशान्येव तानीत्यप्यनियम इत्याशयेनाह - सर्वैरिति । अनेन
शरीरेण ॥ ५८ ॥

कालेनाकुलचेष्टयान्य इव ते गच्छन्त्यधोर्ध्वं
पुनर्देहालेखनखेदितान्यगणितान्यन्यानि चान्यान्यलम् भूताम्बूनि वहन्ति
संसृतिमये तान्यम्बुधौ चञ्चले चक्रावृत्तिमयानि सङ्कलयितुं शक्नोति
कस्तान्यलम् ॥ ५९ ॥

यस्मात्कारणात्ते जीवा रागद्वेषभोगलाम्पट्यादिदोषाकुलया
विचित्रधर्माधर्मचेष्टया कालेन विचित्रनानादेहधारणादन्येऽन्ये इव भूत्वा
अधोलोकेषूर्ध्वं स्वर्गादिषु च पुनःपुनर्गच्छन्ति । अधोर्ध्वमिति यलोपासिद्धेः
सन्धिरार्षः । तस्मात्कारणाच्चञ्चले संसृतिमये अम्बुधौ चक्रावर्तप्रायाणि यानि
भूताम्बूनि वहन्ति तानि सदृशानि विसदृशानीति वा तान्येवान्यानीति वा अलं सम्यक्
सङ्कलयितुं निर्धारयितुं कः पुरुषः शक्नोतीत्यर्थः ॥ ५९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाण उ० पाषा०
जगदन्यायत्ववर्णनं नाम षडशीतितमः सर्गः ॥ ८६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जगदन्यायत्ववर्णनं नाम षडशीतितमः सर्गः ॥ ८६ ॥