पञ्चाशीतितमः सर्गः ८५
श्रीवसिष्ठ उवाच ।
इति नृत्यति सा देवी दीर्घदोर्दण्डमण्डलैः ।
परिस्पन्दात्मकैर्व्योम कुर्वाणा घनकाननम् ॥ १ ॥
देवास्तथा प्रनृत्यन्त्या दृष्ट्वा स्पृष्ट्वा च तं शिवम् ।
प्रेम्णा तदङ्गे विलयादेकीभावोऽत्र वर्ण्यते ॥
परिस्पन्दात्मकैर्दीर्घदोर्दण्डमण्डलैर्व्योम घनं काननं कुर्वाणा सा देवी इति
प्रागुक्तरीत्या नृत्यति ॥ १ ॥
क्रियासौ नृत्यति तथा चितिशक्तिरनामया ।
अस्या विभूषणं शूर्पकुद्दालपटलादिकम् ॥ २ ॥
अज्ञातस्वतत्त्वा चितिशक्तिरेवासौ क्रिया । सा च तथा नृत्यति स्वभावादेवेत्यर्थः ॥ २ ॥
शरशक्तिगदाप्रासमुसलादि शिलादि च ।
भावाभावपदार्थौघकलाकालक्रमादि च ॥ ३ ॥
चित्स्पन्दोऽन्तर्जगद्धत्ते कल्पनेव पुरं हृदि ।
सैव वा जगदित्येव कल्पनैव यथा पुरम् ॥ ४ ॥
अलातस्पन्दश्चक्राद्याकारमिव स चित्स्पन्द एव जगदाकारं धत्ते इत्याह -
चित्स्पन्द इति । यथा मनोराज्यकल्पनैव हृदि पुराकारं धत्ते तद्वत् । अथवा जगदेव
सा न भेद इत्याह - सैवेति ॥ ४ ॥
पवनस्य यथा स्पन्दस्तथैवेच्छा शिवस्य सा ।
यथा स्पन्दोऽनिलस्यान्तः प्रशान्तेच्छस्तथा शिवः ॥ ५ ॥
अथ शिवेच्छा सा शिवाभिन्नेत्याह - पवनस्येति । इच्छात्मिकायास्तस्याः कथं
पूर्णकामशिवाभेदस्तत्राह - यथेति । यथा अनिलस्यान्तः स्पन्दो
नानिलस्वरूपादन्य इत्यस्पन्द एव । एवं शिवेच्छापि शिवादनन्येत्यनिच्छैव
तद्दृष्ट्येति भावः ॥ ५ ॥
अमूर्तो मूर्तमाकाशे शब्दाडम्बरमानिलः ।
यथा स्पन्दस्तनोत्येवं शिवेच्छा कुरुते जगत् ॥ ६ ॥
कथममूर्ताया इच्छाया मूर्तजगदाकारस्तत्राह - अमूर्त इति । आनिलः अनिलाश्रितः
स्पन्दः ॥ ६ ॥
नृत्यन्त्याथ यदा तत्र तथा तस्मिन्पराम्बरे ।
काकतालीययोगेन संरम्भवशतः स्वयम् ॥ ७ ॥
संरम्भः प्रेमनिर्भरस्तद्वशतो यदा शिवः स्पृष्टस्तदा प्रकृतिं गन्तुं
प्रवृत्तेति व्यवहितेनान्वयः ॥ ७ ॥
निकटस्थः शिवः स्पृष्टः स मनागभ्रमन्तिकम् ।
वाडवोऽग्निः स्वनाशाय वहन्त्येवाम्बुलेखया ॥ ८ ॥
अन्तिकं अभ्रमिव तिरोधायकं स्वावरणशक्त्यंशं मनाक् अपनीयेति शेषः । यथा
वहन्त्या समुद्राम्बुलेखया वाडवोऽग्निः स्वनाशाय स्पृश्यते तद्वत् ॥ ८ ॥
स्पृष्टमात्रे शिवे तस्मिंस्ततः परमकारणे ।
प्रवृत्ता प्रकृतिं गन्तुं सा शनैस्तनुतां तथा ॥ ९ ॥
प्रकृतिं अव्यक्तभावम् ॥ ९ ॥
अनन्ताकारतां त्यक्त्वा सम्पन्ना गिरिमात्रिका ।
ततो नगरमात्रासौ ततश्च द्रुमसुन्दरी ॥ १० ॥
तत्रादौ भौतिकानन्ताकारत्यागेन भूतमात्रभावमाह - अनन्तेति । ततः
पञ्चीकरणत्यागेन सूक्ष्मभूतात्मना नगरमात्रा । ततो
विचित्रवासनामात्रपल्लवशाखाशालित्वात् द्रुम इव सुन्दरी ॥ १० ॥
ततो व्योमसमाकारा शिवस्यैवाकृतिं ततः ।
सा प्रविष्टा सरिच्छान्तसंरम्भेव महार्णवम् ॥ ११ ॥
अव्याकृतव्योमसमाकारा ॥ ११ ॥
एक एवाभवदथो शिवया परिवर्जितः ।
शिव एव शिवः शान्त आकाशे शमनोऽभितः ॥ १२ ॥
आकाशे प्राग्वर्णिते शमनः सर्वसंहर्ता सर्वोपप्लवशान्त्या शिव एक
एवाभितोऽभवत् ॥ १२ ॥
श्रीराम उवाच ।
भगवञ्छिवसंस्पृष्टा सा शिवा परमेश्वरी ।
किमर्थमागता शान्तिमिति मे ब्रूहि तत्त्वतः ॥ १३ ॥
किमर्थं किं निमित्तम् ॥ १३ ॥
श्रीवसिष्ठ उवाच ।
सा राम प्रकृतिः प्रोक्ता शिवेच्छा पारमेश्वरी ।
जगन्मायेति विख्याता स्पन्दशक्तिरकृत्रिमा ॥ १४ ॥
स परः प्रकृतेः प्रोक्तः पुरुषः पवनाकृतिः ।
शिवरूपधरः शान्तः शरदाकाशशान्तिमान् ॥ १५ ॥
भ्रमति प्रकृतिस्तावत्संसारे भ्रमरूपिणी ।
स्पन्दमात्रात्मिका सेच्छा चिछक्तिः पारमेश्वरी ॥ १६ ॥
सा पारमेश्वरी इच्छा ॥ १६ ॥
यावन्न पश्यति शिवं नित्यतृप्तमनामयम् ।
अजरं परमाद्यन्तवर्जितं वर्जितद्वयम् ॥ १७ ॥
तथा चेच्छाया इष्टप्राप्तिपर्यन्तमेव स्पन्दस्तत्प्राप्तौ तु शान्तिरेवोचितेति भावः ॥ १७ ॥
संविन्मात्रैकधर्मित्वात्काकतालीययोगतः ।
संविद्देवी शिवं स्पृष्ट्वा तन्मयीव भवत्यलम् ॥ १८ ॥
प्रकृतिः पुरुषं स्पृष्ट्वा प्रकृतित्वं समुज्झति ।
तदन्तरेकतां गत्वा नदीरूपमिवार्णवे ॥ १९ ॥
प्रकृतित्वं कार्याकारपरिणामम् ॥ १९ ॥
आपगा हि पयोमात्रं सङ्गे अर्णव एव सा ।
यदा तदा तमेवाशु प्राप्य तत्रैव लीयते ॥ २० ॥
अत्रोपपत्तिमाह - आपगेत्यादि ॥ २० ॥
चितिः शिवेच्छा सा देवं तमेवासाद्य शाम्यति ।
जन्मस्थानशिलां प्राप्य तीक्ष्णधारा यथायसी ॥ २१ ॥
आयसी अयोविकारक्षुरादिसम्बन्धिनी धारेव ॥ २१ ॥
पुंसश्छायां निजच्छाया प्रविष्टस्य शरीरकम् ।
यथाशु प्रविशत्येव प्रकृतिः पुरुषं तथा ॥ २२ ॥
वनादिच्छायां प्रविष्ठस्य पुंसो निजच्छाया यथा तच्छरीरकं प्रविशति तद्वत् ॥
२२ ॥
चेतित्वा चिन्निजं भावं पुरुषाख्यं सनातनम् ।
भूयो भ्रमति संसारे नेह तत्तां प्रयाति हि ॥ २३ ॥
तर्हि वनाद्बहिर्निर्गमने पुनश्छायेव ब्रह्मप्राप्तस्यापि पुनः संसृतिः
स्यात्तत्राह - चेतित्वेति । पुनरागमने निमित्तस्याज्ञानस्य बाधादिति भावः ॥ २३ ॥
साधुर्वसति चोरौघे तावद्यावदसौ नतम् [नतमिति मूलस्थस्यायमर्थः ।
] ।
परिजानाति विज्ञाय न तत्र रमते पुनः ॥ २४ ॥
पुनः संसारेच्छायां हि पुनरागमः सम्भाव्येत तत्त्वबोधे सैव दुर्लभेत्याह ##-
] परिजानाति । चोरोऽयं ममाहित इति विज्ञाय तु तत्र न रमते ॥ २४ ॥
द्वैते तावदसद्रूपे रमते भ्रमते चितिः ।
परं पश्यति नो यावत्तं दृष्ट्वा तन्मयी भवेत् ॥ २५ ॥
चितिनिर्वाणरूपं यत्प्रकृतिः परमं पदम् ।
प्राप्य तत्तामवाप्नोति सरिदब्धाविवाब्धिताम् ॥ २६ ॥
यद्यस्माच्चितिनिर्वाणं प्रशान्तं रूपमेव परमं निरतिशयानन्दं पदं
तत्तस्मात्प्रकृतिरज्ञचिदपि ज्ञानेन तत्प्राप्य तत्तामवाप्नोति ॥ २६ ॥
तावद्विमोहवशतश्चितिराकुलेषु सर्गेषु संसरति जन्मदशासु तासु ।
यावन्न पश्यति परं तमथाशु दृष्ट्वा तत्रैव मज्जति घनं मधुनीव
भृङ्गी ॥ २७ ॥
उक्तमेवार्थ विवृत्त्योपसंहरति - तावदिति द्वाभ्याम् । स्पष्टम् ॥ २७ ॥
सम्प्राप्य कस्त्यजति नाम तदात्मतत्त्वं प्राप्यानुभूय च जहाति रसायनं
कः ।
शाम्यन्ति येन सकलानि निरन्तराणि दुःखानि जन्ममृतिमोहमयानि राम ॥ २८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पाषा०
प्रकृतिपुरुषक्रमवर्णनं नाम पञ्चाशीतितमः सर्गः ॥ ८५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
प्रकृतिपुरुषक्रमवर्णनं नाम पञ्चाशीतितमः सर्गः ॥ ८५ ॥