०८४

चतुरशीतितमः सर्गः ८४

श्रीराम उवाच ।

अनन्तरं मुने ब्रूहि काली किमिव नृत्यति ।
किं शूर्पफलकुद्दालमुसलादिस्रजाऽऽवृता ॥ १ ॥

शिवशक्त्योर्निजं रूपं विविच्यात्रोपवर्ण्यते ।
शूर्पादिमालारूपं च सत्यासत्याविमर्शतः ॥

या काली नृत्यतीति त्वया वर्णिता सा किमिव । किंस्वरूपेत्यर्थः । सा च
किमात्मकशूर्पफलकुद्दालादिस्रजा आवृता तदुभयन्न् ब्रूहीत्यर्थः । कालः किमिव
नृत्यति इति पाठेऽपि कालात्मककालीस्वरूपस्यैव प्रश्नस्तस्या एव
पूर्वोत्तरग्रन्थयोर्नृत्यस्य शूर्पमुसलादिस्रग्धारणस्य च वर्णनात् ॥ १ ॥

श्रीवसिष्ठ उवाच ।

स भैरवश्चिदाकाशः शिव इत्यभिधीयते ।
अनन्यां तस्य तां विद्धि स्पन्दशक्तिं मनोमयीम् ॥ २ ॥

शिवस्य स्वरूपमनिरूप्य तच्छक्तिस्वरूपनिरूपणायोगादुभयरूपं सहैव
निरूपयितुमुपक्रमते - स इति । चलनस्वभावरजोगुणप्राधान्येन स्पन्दशक्तिं
सत्त्वगुणस्वच्छताप्राधान्येन सर्वतश्चित्प्रतिबिम्बव्याप्त्या
जगत्संस्कारघटितत्वेन च सर्गादिसङ्कल्पविकल्पहेतुत्वेन मनःसाम्यान्मनोमयीम् ।
शिवे तादात्म्येनाध्यासात्तदधीनसत्तास्फूर्तिकत्वाच्च तदनन्यां मायां तां
विद्धीत्यर्थः ॥ २ ॥

यथैकं पवनस्पन्दमेकमौष्ण्यानलौ यथा ।
चिन्मात्रं स्पन्दशक्तिश्च तथैवैकात्म सर्वदा ॥ ३ ॥

अनन्यत्वं दृष्टान्ताभ्यां समर्थयति - यथेति । मोक्षात्प्रागेव
सर्वकालव्यवहारसमाप्तेः सर्वकालव्याप्तिरस्त्येवेत्याशयेन सर्वदेत्युक्तिः ॥ ३ ॥

स्पन्देन लक्ष्यते वायुर्वह्निरौष्ण्येन लक्ष्यते ।
चिन्मात्रममलं शान्तं शिव इत्यभिधीयते ॥ ४ ॥

यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति इत्यादिश्रुतिषु
जगत्सर्गप्राणस्पन्दादितत्क्रिययैव शिवस्य ब्रह्मणो लक्षणादपि तदनन्यत्वमित्याह

  • स्पन्देनेति द्वाभ्याम् ॥ ४ ॥

तत्स्पन्दमायाशक्त्यैव लक्ष्यते नान्यथा किल ।
शिवं ब्रह्म विदुः शान्तमवाच्यं वाग्विदामपि ॥ ५ ॥

ननु श्रुतौ सर्गादिब्रह्मलक्षणं तच्छिवस्य कथमुच्यते तत्राह - शिवमिति ।
यतः सर्वाः श्रुतयो ब्रह्मविदश्च शिवमेव ब्रह्म विदुरतो नाशिवं
ब्रह्मान्यदस्तीत्यर्थः ॥ ५ ॥

स्पन्दशक्तिस्तदिच्छेदं दृश्याभासं तनोति सा ।
साकारस्य नरस्येच्छा यथा वै कल्पनापुरम् ॥ ६ ॥

सोऽकामयत बहु स्यां प्रजायेय इत्यादिषु सा स्पन्दशक्तिरेव शिवस्येच्छेत्युक्ता सैव
सत्यकामस्य तस्य मनोराज्यमिव जगत्तनोतीत्याह - स्पन्दशक्तिरिति ॥ ६ ॥

करोत्येव शिवस्येच्छा करोतीदमनाकृतेः ।
सैषा चितिरिति प्रोक्ता जीवनाज्जीवितैषिणाम् [अस्याग्रे - चेत्योन्मुखतयोदिता ।
सैषोक्ता वासनानाम्नी वासना दृश्यसंविदः ॥ सैषा जीवकला प्रोक्ता इत्यपि
क्वचिद्दृश्यते ।] ॥ ७ ॥

सैषा स्वान्तर्गतचिदाभासप्रदीप्तत्वाच्चितिशक्तिर्जीवचैतन्यमिति प्रोक्ता ॥ ७ ॥

प्रकृतित्वेन सर्गस्य स्वयं प्रकृतितां गता ।
दृश्याभासानुभूतानां करणात्सोच्यते क्रिया ॥ ८ ॥

प्रकृतित्वेन जगदाकारपरिणामित्वेन । तथा च श्रुतिः मायां तु प्रकृतिं
विद्यान्मायिनं तु महेश्वरं इति ।
दृश्याभासेष्वनुभूतानामुत्पत्त्याप्तिविकृतिसंस्कारलक्षणानां
चतुर्विधफलानां करणात् ॥ ८ ॥

वडवाग्निशिखाकाराच्छोष्याच्छुष्केति कथ्यते ।
चण्डित्वाच्चण्डिका प्रोक्ता सोत्पलोत्पलवर्णतः ॥ ९ ॥

द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा इत्यादिपुराणेषु तस्याः
शुष्कताप्रसिद्धेरपि निमित्तमाह - वडवेति । यतः
समुद्रादिजलार्द्रब्रह्माण्डदेहा सा वडवाग्निशिखाकाराद्ग्रैष्मादित्यादिज्योतिषः
सकाशाच्छोष्या अतः शुष्केति कथ्यत इति ॥ ९ ॥

जया जयैकनिष्ठत्वात्सिद्धा सिद्धिसमाश्रयात् ।
जयन्ती च जया प्रोक्ता विजया विजयाश्रयात् ॥ १० ॥

यतो जया अतो जयन्ती च प्रोक्ता । तथा च नामद्वयस्याप्येकमेव प्रवृत्तिनिमित्तम् ।
विशिष्ठो जयस्तु विजयापदस्य । एवमग्रेऽप्यूह्यम् ॥ १० ॥

प्रोक्ता पराजिता वीर्याद्दुर्गा दुर्ग्रहरूपतः ।
ॐकारसारशक्तित्वादुमेति परिकीर्तिता ॥ ११ ॥

उमेति परिकीर्तिता ॐकारघटकानामकारोकारमकाराणां उ म अ इति व्यत्यासेन
घटने टापि उमाशब्दनिष्पत्तेरिति भावः । समेति परिकीर्तितेति पाठे तु
ॐकारलक्ष्यतुरीयस्वरूपस्थूलसूक्ष्मादिसर्वप्रपञ्चसारचिच्छक्तित्वात्##-

गायत्री गायनात्मत्वात्सावित्री प्रसवस्थितेः ।
सरणात्सर्वदृष्टीनां कथितैषा सरस्वती ॥ १२ ॥

गायना जापकास्तेषां परमपुरुषार्थात्मत्वात् ।
स्वर्गापवर्गसाधनसर्वकर्मोपासनज्ञानदृष्ठीनां सरणात्प्रसरात् ॥ १२ ॥

गौरी गौराङ्गदेहत्वाद्भवदेहानुषङ्गिणी ।
सुप्तानामथ बुद्धानाममात्रोच्चारणाद्धृदि ॥ १३ ॥

भवत्यस्माद्विश्वमिति भव ईश्वरस्तद्देहानुषङ्गिणी । उमानाम पुनः
प्रकारान्तरेण व्याचष्टे - सुप्तानामिति । चार्थे अथशब्दः । सुप्तानां
प्रबुद्धानां च त्रैलोक्यस्थसर्वप्राणिनां हृदि अनाहतनादात्मना
अकारादिमात्रात्रयशून्यस्य प्रणवनादभागस्य शब्दब्रह्माख्यस्य नित्यं
सर्वदैवोच्चारणादङ्गुष्ठपरिमितहृत्पुण्डरीकच्छिद्रे लिङ्गाकारेण स्थितस्य
दहराकाशाख्यस्य शिवस्य मूर्ध्नि भूषणभूता बिन्दुरूपा इन्दुकला उमेत्युच्यते ।
तथा चोक्तं वायवीयसंहितायाम् - ओमित्येकाक्षरं ब्रह्म ब्रह्मणः
प्रतिपादकम् । अ-उमेति त्रिमात्राभिः परस्तादर्धमात्रया । तत्राकारः स्थितो भागे
ज्वालालिङ्गस्य दक्षिणे । उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः । अर्धमात्रात्मको
नादः श्रूयते लिङ्गमूर्धनि इति । हंसोपनिषदि च पूर्वे दले पुण्यमतिः
इत्यादिहृदयपुण्डरीकदलेषु जीवस्य मतिभेदमुक्त्वा लिङ्गे सुषुप्तिः पद्मत्यागे
तुरीयं यदा हंसो नादे विलीनो भवति तत्तुरीयातीतमिति लिङ्गमूर्धस्ते नादे
सर्वोपाधिविलयेन ब्रह्मप्रतिष्ठा तुरीयातीतावस्थेत्युक्तमिति भावः ॥ १३ ॥

नित्यं त्रैलोक्यभूतानामुमेतीन्दुकलोच्यते ।
शिवयोर्व्योमरूपत्वादसितं लक्ष्यते वपुः ॥ १४ ॥

काली किमिति नृत्यति इति प्रश्ने किमिति कालीति वर्णनिमित्तप्रश्नमभिप्रेत्योत्तरमाह -
शिवयोरिति ॥ १४ ॥

नभो हि मांसमेताभ्यां दृष्टिदृष्टं विलोक्यते ।
अस्ति नभो नभस्येव तौ नभोनभसि स्थितौ ॥ १५ ॥

ननु चिद्रूपयोः शिवयोर्जडव्योमरूपता कथं तत्राह - नभ इति ।
चिद्रूपाभ्यामेवैताभ्यां मांसमयन्न् स्वशरीरमिव श्यामं
सर्गसङ्कल्पदृष्ट्या दृष्टमतः श्याममिव जडमिव च विलोक्यते ।
निराधारस्थितिरपि तयोर्नभोवदेवानुमेयेत्याह - अस्तीति ॥ १५ ॥

नभोनिभावभूताङ्गावच्छौ व्योम्न इवाग्रजौ ।
हस्तपादास्यमूर्ध्नो यद्बहुत्वाल्पत्वभेदतः ॥ १६ ॥

अमूर्तत्वस्वच्छत्वे अपि तयोर्व्योमवदेव बोध्ये इत्याह - नभोनिभाविति । अग्रजौ
ज्येष्ठभ्रातराविवेत्युपमादार्ढ्याय सम्भावना । अमूर्तत्वे हस्तपादादिमत्त्वं
हलशूर्पादिस्रग्धरत्वं च कथमिति चेत्तत्रोत्तरं श्रावयति - हस्तेत्यादिना ।
हस्तपादास्यमूर्ध्न इति समाहारद्वन्द्वैकवद्भावः ।
हस्तादेर्यद्बहुत्वाल्पत्वभेदतो नानात्वं वैचित्र्यं यच्च हलशूर्पादिस्रग्धरत्वं
तच्छृण्विति परेणान्वयः ॥ १६ ॥

नानात्वं हलशूर्पादिस्रग्धरत्वं च तच्छृणु ।
सा हि क्रिया भगवती परिस्पन्दैकरूपिणी ॥ १७ ॥

हि यस्मात्सा भगवती अनाद्यन्ता चितिशक्तिरपि आत्मना स्वेच्छयैव स्वात्मनि
सर्ववैदिकक्रियारूपा भूत्वा
दद्यात्स्नायाज्जुहुयादित्यादिवेदविहितदानस्नानयागादिश्रेष्ठशरीरिणी सम्पन्ना
तस्मात्तथा देव्या या नानाविधाभिनयसहिता नर्तनास्ता इमा ब्रह्मणः
कर्मफलरूपाः सर्वप्राणिसर्गस्थितिजरामरणरीतयो बोध्या इति परेणान्वयः ॥ १७ ॥

दद्यात्स्नायाच्च जुहुयादित्याद्यग्रशरीरिणी ।
चितिशक्तिरनाद्यन्ता तथा भातात्मनात्मनि ॥ १८ ॥

साकाशरूपिणी कान्ता दृश्यश्रीः स्पन्दधर्मिणी ।
देव्यास्तस्या हि याः काल्या नानाभिनयनर्तनाः ॥ १९ ॥

ता इमा ब्रह्मणः सर्गजरामरणरीतयः ।
क्रियासौ ग्रामनगरद्वीपमण्डलमालिकाः ॥ २० ॥

यतः असौ देवी क्रिया अतो निरवयवायाः क्रियाया अप्रसिद्धेः स्वरूपप्रसिद्ध्यर्थमेव
कल्पितहस्तपादाद्यवयवात्मिका ग्रामनगरद्वीपमण्डलमालिकाः शरीरान्तर्धत्ते
तैः स्पन्दान्करोति । स्वां क्रियारूपतां प्रकटयतीति यावत् ॥ २० ॥

स्पन्दान्करोति धत्तेऽन्तः कल्पितावयवात्मिका ।
काली कमलिनी काली क्रिया ब्रह्माण्डकालिका ॥ २१ ॥

कालीनामनिर्वचनेऽपि तस्याः क्रियैकस्वभावत्वं ब्रह्माण्डशरीरतया
सर्वलोकाद्यवयवधारिणीत्वं च प्रसिद्ध्यतीत्याशयेनाह - कालीति । कल गतौ
सङ्ख्याने च इति धातोर्हि कालशब्दः कालीशब्दश्च निष्पद्यते । कलिः कामधेनुरिति च
वैयाकरणा धारणादिसर्वक्रियावाची कलधातुरित्याहुः । तथा चेयं
ब्रह्माण्डलक्षणानां बीजकोशानां कालिका कलयित्री निर्मात्री धारयित्री
परिणामादिविकारप्रापयित्री च क्रिया स्वयं सती कमलिनी पद्मिनीलतेव काली श्यामला
सम्पन्ना । अत एव हि स्वपुष्पाद्यवयवीभूतामिमां पृथ्व्यादिदृश्यलक्ष्मीं
हृदि धत्ते इत्यर्थः । एवं जगदङ्गधारणेऽपि तस्या
असङ्गोदासीनद्रूपशिवस्वभावत्वान्निरवयवत्वमेवेत्याह - न कदाचनेति ॥ २१ ॥

धत्ते स्वावयवीभूतां दृश्यलक्ष्मीमिमां हृदि ।
न कदाचन चिद्देवी निर्देश्यावयवा क्वचित् ॥ २२ ॥

शिवत्वाव्यतिरेकेण शिवतैवं विदृश्यताम् ।
यथाङ्ग शून्यता व्योम्नः स्पन्दनं मातरिश्वनः ॥ २३ ॥

अङ्गाभावेऽप्यङ्गव्यपदेशे दृष्टान्तानाह -यथेति ॥ २३ ॥

ज्योत्स्नायाश्चेत्यमेवं हि दृश्यमङ्गं चितेः क्रिया ।
शिवं शान्तमनायासमव्ययं विद्धि निर्मलम् ॥ २४ ॥

ज्योत्स्नायाश्चन्द्रिकायाश्चेत्यं प्रबोधनीयं कुमुदाद्यङ्गम् । ज्योत्स्नाङ्गमिन्दोः
इति पाठे तु स्पष्टम् । एवं तस्याः कालात्मकं जगदङ्गकं क्रियास्वरूपमुपवर्ण्य
वास्तवं स्वरूपं वर्णयति - शिवमिति ॥ २४ ॥

न मनागपि तत्रास्ति स्तैमित्यं स्पन्दधर्मता ।
सा क्रियैव तथारूपा सती बोधवशाद्यदा ॥ २५ ॥

तत्र क्रियास्वरूपं तस्या अबोधदशामात्रदृश्यमवास्तवं शिवरूपं तु
बोधदृश्यं वास्तवमित्याह - सेति ॥ २५ ॥

व्यावृत्त्यैव तथैवास्ते शिव इत्युच्यते तदा ।
चितिशक्तेः क्रिया देव्याः प्रतिस्थानं यदात्मनि ॥ २६ ॥

यदा बोधवशात्क्रियास्वभावाद्व्यावृत्त्य तथैव वास्तवस्वभावेनास्ते तदैव शिव
इत्युच्यते । कूटस्थस्य चितिशक्त्यात्मिकाया देव्या आत्मनि स्वस्या
अविद्यावशाद्यत्प्रतिस्थानं प्रतिकूलस्पन्दजडभावेनावस्थानं तदेव क्रियेत्युच्यते
॥ २६ ॥

यथाभूतस्थितेरेव तदेव शिव उच्यते ।
देव्याः क्रियायाश्चिच्छक्तेः स्वरूपिण्या महाकृतेः ॥ २७ ॥

विद्यया यथाभूतचिन्मात्रस्वभावस्थितेरेव हेतोः शिव इत्युच्यते ॥ २७ ॥

कल्पिताकारधारिण्या अनन्यावयवा इमे ।
सर्गाः सज्जनतावर्गा लोका आलोकभास्वराः ॥ २८ ॥

तथा च कल्पितजगद्देहधारिण्या नृत्ये कल्पिता गीतय इव
तादृशशूर्पमुसलादिस्रग्दामभूषणमेवोचितमिति वक्तुं भूमिकां रचयति -
कल्पिताकारेति । सन्तो विद्यमाना जनतावर्गा येषु । इमे वक्ष्यमाणाः सर्वे ॥ २८ ॥

सद्वीपसागराः पृथ्व्यः सवनावनयोऽद्रयः ।
साङ्गोपाङ्गास्त्रयो वेदाः सविद्यास्थानगीतयः ॥ २९ ॥

सविधिप्रतिषेधार्थाः सशुभाशुभकल्पनाः ।
सदक्षिणाग्नयो यज्ञाः पुरोडाशाद्यशंसिनः ॥ ३० ॥

पुरोडाशरूपं यदाद्यमदनीयं तच्छंसिनस्तन्निरूप्याः । यज्ञानां
द्रव्यदेवतानिरूप्यत्वादिति भावः ॥ ३० ॥

भूपालोलूखलबृसीशूर्पयूपादिसंयुताः ।
सङ्ग्रामाः सायुधग्रामाः सशूलशरशक्तयः ॥ ३१ ॥

युद्धानामपि योद्धूस्वर्गसम्पत्त्यादिहेतुविहितकर्मत्वेन यज्ञसाम्यात्तदङ्गैः
सह निर्देशः । भूपालोलूखलबृस्यादिघटितस्रग्दामसंयुताः ॥ ३१ ॥

सभुशुण्डीगदाप्रासहयेभभटभासुराः ।
ज्ञातयो भूतसङ्घानां चतुर्दश सुरादिकाः ।
चतुर्दशाब्धिद्वीपोर्व्यस्तथा लोकाश्चतुर्दश ॥ ३२ ॥

लोकाश्चतुर्दशेत्यन्तानां सर्वेषामिमे कल्पिताकारधारिण्या देव्या अनन्यावयवा इति
पूर्वत्र सम्बन्धः ॥ ३२ ॥

श्रीराम उवाच ।

चितेः कल्पाः शरीरिण्याः सर्गा येऽङ्गे स्थितास्तथा ।
ते किमात्मनि तिष्ठन्ति उतासत्या वदेति भो ॥ ३३ ॥

एवं प्रश्नद्वये त्वया समाहितेऽपि मम
प्राक्सर्गकृतद्वैतैक्ययौगपद्यासम्भवशङ्कायाः सम्यक् समाधानं न
वृत्तम् । नष्टस्यासतोऽर्थक्रियाकारित्वासम्भवात् । स्वसत्ताबलेन
कार्यसत्तासम्पादनमेव हि कारणानां कार्यार्थक्रिया । उपादानेन कार्यस्य
तत्तापहारश्च नाशः न चैकस्मिन्नेव काले कारणेन स्वकार्ये सत्ता सम्पाद्यते
अपह्रियते चेति श्लिष्यते । न वा सर्वकारणसदात्मप्रहृतसत्ताकैः पदार्थैः प्रलये
स्वस्वर्थक्रिया सम्भावयितुं शक्येत्याशयेन रामः पृच्छति - चितेरिति ।
रुद्रकालीशरीरिण्याश्चितेरग्रे प्रलयकालेऽप्यतीतानागताः सर्वे सर्गाः कल्पाः
प्रलयाश्च स्थिता इति यत्त्वया वर्णितं तत्र पृच्छामि । ये स्थिताः सर्गास्ते
किमात्मन्यर्थक्रियासमर्थे सत्स्वभावे तिष्ठन्ति उत
असत्यास्तादृशसत्स्वभावशून्या मृगतृष्णाम्बुप्राया इति वदेत्यर्थः ॥ ३३ ॥

श्रीवसिष्ठ उवाच ।

रामासौ किल चिच्छक्तिस्तया यच्चोदितं तथा ।
तत्प्रचेतितमेवातः सत्यं चेदमिवाखिलम् ॥ ३४ ॥

जगतः प्रलयस्य च कदाचिदपि नात्यन्तिकं सत्त्वं नाप्यसत्त्वं किन्तु
सत्यसङ्कल्पानुसारिचिता सत्यमिति चेतितं सत्यमसदिति चेतितमसत्यं न स्वतोऽस्य
किञ्चिद्व्यपदेशार्हं रूपमस्ति । तथा च प्रलयकालेऽप्यैन्दवसर्गाः स्थिता
अर्थक्रियासमर्थाश्च तत्सङ्कल्पचितो दृष्ट्या । इतरसङ्कल्पदृष्ट्या तु ते न स्थिता न
प्रलीनाश्चेति प्राग्वर्णितमेवेत्याशयेन वसिष्ठ उत्तरमाह - रामेत्यादिना ।
यद्वस्तुतया सत्यसङ्कल्पचिता तत्तद्भोक्तृवासनाकर्मबीजोद्भेदनेन सर्गाय वा
प्रलयाय वा चोदितं तथा तैर्भोक्तृभिः प्रचिएतितमनुभूतमेव ।
अतस्तदनुभवितृदृशा इदमखिलं सत्यमिव । चादन्यदृशा
अत्यन्ताप्रसिद्धेरसत्यमिव ॥ ३४ ॥

तत्प्रतिबिम्बितं बाह्यान्मुकुरप्रतिबिम्बवत् ।
सत्यं तदन्तरेवास्ति चितेर्नासत्यमर्थतः ॥ ३५ ॥

कुतः सत्यमिव तत्राह - तदिति । यतस्तत्
बाह्यान्मुखादेर्बिम्बान्निमित्तान्मुकुरप्रतिबिम्बवत्
पूर्वानुभववासनादिनिमित्तात्तत्साक्षिचिति प्रतिबिम्बितं तदन्तरेवास्ति अतोऽर्थतस्तं प्रति
सत्यमेव ॥ ३५ ॥

चिद्रूपस्य तथाप्यन्तः सत्सङ्कल्पपुरं भवेत् ।
दृढध्यानाद्विशुद्धायाअश्चितेर्भवतु सा कथम् ॥ ३६ ॥

कथं तर्ह्यसत्यं तत्राह - चिद्रूपस्येति । तथा तदनुभवबलात्सत्यत्वेऽपि
चिद्रूपस्यान्तरचिद्रूपस्य प्रवेशायोगात्तत्सङ्कल्पनगरवन्मिथ्यैव भवेत् । अत एव
ध्यानदार्ढ्येन वासनाक्षये तत्प्रसक्तिरेव नास्तीत्याह - दृढेति ॥ ३६ ॥

आदर्शेष्वथवा स्वप्ने सर्गः सङ्कल्पनेऽस्तु वा ।
स आत्मन्यर्थकारित्वात्सत्य इत्येव मे मतिः ॥ ३७ ॥

प्रतीतिमात्रेणाज्ञदृशा सत्यत्वं तु प्रतिबिम्बस्वप्नाद्यर्थानामपि सुवचं
तेषामपि तदन्तः स्वानुरूपार्थक्रियाकारित्वदर्शनादित्याह - आदर्शेष्विति ॥ ३७ ॥

मम नार्थाय स इति वक्षि चेत्तत्कथं भवेत् ।
देशान्तरगताः सर्वे भवन्त्यर्थाय सम्प्रति ॥ ३८ ॥

स आदर्शान्तर्गतो घटादिर्मम बाह्यजलाहरणाद्यर्थाय समर्थो नेति चेत् त्वं वक्षि
वदसि तर्हि शृणु । तदादर्शान्तर्गतं बहिरर्थाय कथं भवेत् । न ह्यन्यत्र
विद्यमानमन्यत्र जलाहरणाद्यसमर्थमित्येतावता असद्भवति । किं तव
देशान्तरगताः सर्वे घटाद्यर्थाः सम्प्रति ते गृहे जलाहरणाद्यर्थाय समर्था
भवन्तीति काकुः । देशान्तरे तेषामर्थक्रियाकारित्वमिव
दर्पणस्वप्नाद्यनतरर्थक्रिया तु प्रतिबिम्बादेरप्यस्त्येवेत्याह - यथेति ।
सद्भावं स्वप्नादिद्रष्ट्टभावम् ॥ ३८ ॥

यथा देशान्तरग्रामस्तद्गतस्यार्थकृद्भवेत् ।
सर्वे तथैव तद्भावं गतस्यार्थविनिश्चयात् ॥ ३९ ॥

यद्यथाभूतसर्वार्थक्रियाकारि प्रदृश्यते ।
तत्सत्यमात्मनोऽन्यस्य नैवातत्तामुपेयुषः ॥ ४० ॥

अत एव तत्तदर्थक्रियाद्रष्ट्टदृष्ट्यैव तत्सत्यं नान्यदृष्ट्येति व्यवस्थितं तस्य
सत्यत्वमित्याह - यदिति । आत्मनस्तद्द्रष्ट्रात्मनः सत्यम् । अतत्तां
अतद्द्रष्ट्टतामुपेयुषः अन्यस्य पुरुषस्य दृशा नैव सत्यम् ॥ ४० ॥

तस्माच्छिच्छक्तिकोशस्थाः सर्वाः सर्गपरम्पराः ।
सत्य आत्मेति तद्भावं गतस्यान्यस्य नाखिलाः ॥ ४१ ॥

तद्वदेव प्रकृतेऽपि योज्यमित्युपसंहरति - तस्मादिति ॥ ४१ ॥

भूतभव्यभविष्यस्थाः सङ्कल्पस्वप्नपूर्गणाः ।
सर्वे सत्याः परं तत्त्वं सर्वात्मा कथमन्यथा ॥ ४२ ॥

अन्यथा तेषामसत्यत्वे सर्वात्मा परं तत्त्वं कथं स्यात् । न
ह्यत्यन्तासतस्तत्त्वमात्मा वा प्रसिद्ध इति भावः ॥ ४२ ॥

प्राप्यन्ते योगसिद्धेन तद्भावं तु गतेन ते ।
अन्येन पर्वता ग्रामा गत्या देशान्तरे यथा ॥ ४३ ॥

अत एव परस्वप्नाद्यर्था अपि योगिभिः प्राप्यन्ते इच्छया उपभुज्यन्ते चेत्याह -
प्राप्यन्त इति । अन्येन तत्स्वाप्नपुरुषातिरिक्तेनापि परकायप्रवेशेन तद्धृदयं
प्रविश्य तन्मनोभावं गतेन यथा देशान्तरे विद्यमानाः पर्वतग्रामास्तत्र गत्या
प्राप्यन्ते तद्वत् ॥ ४३ ॥

चालितस्य यथा गाढनिद्रस्य स्वप्नपत्तनम् ।
न लुठत्येव लुठितमित्यप्यनुमतं स्फुटम् ॥ ४४ ॥

नृत्येन काल्याश्चलनेऽपि तद्देहगतभूम्याद्यचलने दृष्टान्तमाह -
चालितस्येति । शनैः पर्यङ्कस्यान्यत्र नयनेन शयनस्थलादन्यत्र चालितस्यापि ॥ ४४ ॥

तथा चलन्त्या लुठितं तस्या देहगतं जगत् ।
न लुठत्येव मुकुरप्रतिबिम्बमिव स्थितम् ॥ ४५ ॥

दार्ष्टान्तिके योजयति - तथेति ॥ ४५ ॥

स त्रैलोक्यमहारम्भः सत्योऽपि भ्रान्तिमात्रकम् ।
भ्रान्तिमात्रस्य के नाम लुठनालुठने वद ॥ ४६ ॥

तदचलने युक्त्यन्तरमाह - स इति ॥ ४६ ॥

कदा स्वप्नपुरं सत्यं कदा स्वप्नपुरं मुधा ।
कदा स्वप्नपुरं भग्नं कदा स्वप्नपुरं स्थितम् ॥ ४७ ॥

भ्रान्तित्वं केवलं सैव दृश्यश्रीर्यावदग्रगा ।
त्वं विद्धीमामपि भ्रान्तिं जगल्लक्ष्मीमवास्तवीम् ॥ ४८ ॥

इमां इदानीन्तनीमपि ॥ ४८ ॥

सङ्कल्पने मनोराज्ये स्वप्ने सङ्कथने भ्रमे ।
यथापुरानुभवं त्रैलोक्यानुभवं तथा ॥ ४९ ॥

तथा त्रैलोक्यानुभवं विद्धीत्यनुषज्यते ॥ ४९ ॥

अहमिति जगदिति नान्तर्भ्रान्तिरियं प्रकचतीव चितः ।
परमाकाशकृशाख्या शाम्यति निपुणं परिज्ञाता ॥ ५० ॥

चितः अन्तः अहमिति जगदिति च वस्तुतो नास्ति । परन्तु इयं आकाशः कृश इतीव
आख्यायत इत्याख्या भ्रान्तिः कचति । न ह्याकाशे कार्श्यं कार्ष्ण्यं वास्ति । सा
ह्यज्ञानाद्भ्रान्तिः । अत एव निपुणं परिज्ञाता शाम्यतीत्यर्थः ॥ ५० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० पाषा०
शिवशक्तिवर्णनं नाम चतुरशीतितमः सर्गः ॥ ८४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
शिवशक्तिवर्णनं नाम चतुरशीतितमः सर्गः ॥ ८४ ॥