०८३

त्र्यशीतितमः सर्गः ८३

श्रीवसिष्ठ उवाच ।

चिन्मात्रपरमाकाश एष यः कथितो मया ।
एषोऽसौ शिव इत्युक्तस्तदा रुद्रः प्रनृत्यति ॥ १ ॥

चिन्मात्रमेव स शिवो न काली भैरवाकृतिः ।
बोधाय कल्पनादृष्ट्या तथा भातीति वर्ण्यते ॥

यासौ तस्याकृतिर्नासावाकृतिः कृतिनां वर ।
तच्चिन्मात्रघनं व्योम तथा कचति तादृशम् ॥ २ ॥

अत एव तव मया अविद्याभ्रन्तिनिरासेन तात्त्विकशिवस्वभावदृष्ट्युद्घाटनाय
जगत्प्रलयरुद्रनृत्यादि स्वानुभूतं वर्णितं न तदेव परमार्थ इति
भ्रमितव्यमित्याह - चिन्मात्रेत्यादिना ॥ १ ॥ २ ॥

मया दृष्टा तदाकाशमेव शान्तं तदाकृतिः ।
मयेव तत्परिज्ञातं नान्यः पश्यति तत्तथा ॥ ३ ॥

तत्त्वदृशा तु मया तदाकृतिश्चिदाकाशमात्रमेव दृष्टा ।
अन्यस्तत्त्वदृष्टिहीनः ॥ ३ ॥

यथा नाम स कल्पान्तः स रुद्रः सा च भैरवी ।
मायामात्रं तथा सर्वं परिज्ञातमलं मया ॥ ४ ॥

तत्त्वदृष्ट्यैव मया कल्पान्तादिसर्वं मायामात्रमिति परिज्ञातम् ॥ ४ ॥

चिद्व्योमैव परं शून्यं सन्निवेशेन तेन तत् ।
तथा संलक्ष्यते नाम भैरवाकारतां गतम् ॥ ५ ॥

वाच्यवाचकसम्बन्धं विना बोधो न जायते ।
यस्मात्तस्मात्त्वयि मया दृष्टमेव प्रवर्णितम् ॥ ६ ॥

कल्पनादृष्टिदृष्टस्यापि तव पुरतो वर्णनं तु
वाच्यवाचकशब्दार्थसम्बन्धकल्पनं विना निर्विशेषस्य
व्युत्पादनायोगात्तत्कल्पनेन त्वद्व्युत्पादनार्थमित्याह - वाच्येति ॥ ६ ॥

यदेव वाच्युपारूढमेतद्राम सदैव ते ।
रूढाधिभौतिकदृशः क्षणान्मायात्मतां गतम् ॥ ७ ॥

तन्निरसनं तु कल्पितप्रक्रियायां सत्यताबुद्धिर्मा भूदित्येतदर्थमित्याह -
यदेवेति । हे राम सदैव चिराभ्यासाज्जगति रूढाधिभौतिकदृशस्ते यदेव
वाच्युपारूढं तदेव क्षणान्मायात्मतां सत्यताभ्रान्तिं गतम् ॥ ७ ॥

न भैरवी सा नैवासो भैरवो नैव सङ्क्षयः ।
समस्तमेव तद्भ्रान्तिमात्रं चिद्व्योम भासते ॥ ८ ॥

न भैरवीत्यादिना पुनर्निषेधेन तत्समस्तमेव भ्रान्तिमात्रं
परमार्थतश्चिद्व्योमेवेति भासते ॥ ८ ॥

स्वप्ननिर्माणपुरवत्सङ्कल्परणवेगवत् ।
कथार्थसार्थरसवन्मनोराज्यविलासवत् ॥ ९ ॥

यथा स्वप्नपुरं स्वच्छे व्योम्नि मौक्तिकधीर्यथा ।
यथा केशोण्ड्रकं व्योम्नि तथाऽचिद्भाति चिद्घने ॥ १० ॥

तथ अचित् चिद्घने भाति भ्रान्त्या ॥ १० ॥

चिन्मात्राकाशमेवाच्छं कचति स्वात्मनात्मनि ।
तथा नाम यदाभाति तदात्मैवं जगत्तया ॥ ११ ॥

प्रबोधेन तर्हि कथं भाति तदाह - चिन्मात्रेति ॥ ११ ॥

यथा चिद्व्योम्नि चकति स्व एवात्मा तथा पटे ।
तथा कचति तत्तत्र कल्पान्तानलनर्तने ॥ १२ ॥

तर्हि किं स्वप्रकाशचिदात्मनः स्वपरकचने विशेषोऽस्ति नेत्याह - यथेति ॥ १२ ॥

शिवयोरेवमाकारो निराकारोऽङ्ग वर्णितः ।
अधुना शृणु ते वक्ष्ये नृत्यस्यानृत्ततास्थितिम् ॥ १३ ॥

तथा च कचनैकस्वभावं निर्विशेषं चिद्व्योमैव शिवयोस्तात्त्विको निराकार
एवाकारः परिशिष्ट इत्युपसंहृत्य नृत्यस्य स्थितिस्तु
मायामात्रत्वादनृत्ततास्थितिरेवेत्यंशं व्युत्पाद्यमानं शृण्वित्याह -
शिवयोरिति ॥ १३ ॥

चेतनं चेतनाधातोः किञ्चित्संस्पदनं विना ।
क्वचित्स्थातुं न शक्नोति वस्त्ववस्तुतया यथा ॥ १४ ॥

यथा भ्रान्त्या दृश्यमानं शुक्त्यादि वस्तु रजताद्यवस्तुतया विना स्थातुं न
शक्नोति तथा चेतनाधातोश्चेतनमपि किञ्चित्संस्पन्दनं विना स्थातुं न शक्नोति ।
भ्रान्तेः स्वभावविपर्यासकत्वनियमसाम्यादित्यर्थः ॥ १४ ॥

स्वभावाच्चेतनं तस्माद्रुद्रत्वेन तथा स्थितम् ।
हेमेव रूपकत्वेन सन्निवेशविलासिना ॥ १५ ॥

अत एव सद्रूपं ब्रह्म सर्वजगद्घटितदेहरुद्रदेव्याकारविपर्यासेन
अधिष्ठानतास्वभावेन स्थितमित्याह - स्वभावादित्यादिना ॥ १५ ॥

यन्नाम चेतनं यत्र तदवश्यं स्वभावतः ।
स्पन्दधर्मि भवत्येव वस्तुना हि स्वभावजा ॥ १६ ॥

वस्तुता अधिष्ठानता ॥ १६ ॥

यः स्पन्दश्चिद्घनस्यास्य शिवस्यास्य स एव नः ।
स्ववासनावेशवशान्नृत्यमेव [स्वयमेव इति पाठः ] विराजते ॥ १७ ॥

अतः स कल्पान्तशिवो रुद्रो रौद्राकृतिर्द्रुतम् ।
यन्नृत्यति हि तद्विद्धि चिद्घनस्पन्दनं न्निजम् ॥ १८ ॥

श्रीराम उवाच ।

प्रामाणिकदृशा दृश्यमिदं नास्त्येव वस्तुतः ।
यदेवास्तीव तत्सर्वं कल्पान्ते प्रविनश्यति ॥ १९ ॥

प्रामाणिकदृशा नास्त्येवेति न तस्मिन्कल्पे प्रश्नः । अप्रामाणिकदृष्टिकल्पे
पृच्छामि । यदेव किञ्चिदस्तीव तत्सर्व कल्पान्ते प्रविनश्यति ॥ १९ ॥

तत्कल्पान्तमहाशून्ये एतस्मिन्परमाम्बरे ।
कथं चिन्नाम वाऽचेत्यं चिता चेतति चिद्घनः ॥ २० ॥

तत्तथा सति चितः अचेत्यं चेत्यरहितं चिन्नाम वा कथम् । तथा आश्रयाभावे चेता
चेतयिता वा कथम् । स्वातिरिक्तचितिक्रियाभावे चिद्घनश्चेतति वा कथम् । त्रिपुटी
नोपपद्यत इत्यर्थः । यदि चाविद्या तदानीमसदपि दृश्यं दर्शयतीति तत एव
त्रिपुटीसिद्धिरुच्येत तर्हि सर्गप्रलययोरविशेषः । न ह्यचेतिते सर्वजगद्घटिते
रुद्रदेवीशरीरे तन्नृत्यं वा सम्भवति । न हि युगपद्द्वैतमैक्यं च भावयितुं
शक्यमिति भावः ॥ २० ॥

श्रीवसिष्ठ उवाच ।

एतदेव तदाप्यङ्ग द्वैतैक्याम्भोधिशान्तये ।
यदि चिन्मात्रनभसश्चेत्यमस्ति न किञ्चन ॥ २१ ॥

हे अङ्ग यद्येवं शङ्कसे तदापि तव द्वैतैक्यसन्देहाम्भोधिशान्तये
एतदेवोत्तरं शृणु । तदेवाह - यदीति । यदि सर्वप्रलये परिशिष्टस्य
चिन्मात्रनभसः किञ्चन चेत्यमस्ति तदा ततो द्वितीयासत्त्वादेव क्वचिद्देशे कदाचन
काले किञ्चिदपि वस्तु कश्चिदपि न चेतति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं
पश्येत् इत्यादिश्रुतिरिति भावः ॥ २१ ॥

न किञ्चिच्चेतति ततः क्वचित्किञ्चित्कदाचन ।
सर्वं शान्तं दृषन्मौनं विज्ञानघनमम्बरम् ॥ २२ ॥

तथा चायं प्रामाणिकदृष्टिसिद्धो नित्यमुक्तात्मस्वभाव एव प्रलय इति
त्वयोपन्यस्त इति प्रथमकल्प एव सम्पन्न इत्याह - सर्वमिति । तथा
चाप्रामाणिकदृशा द्वितीयकल्पमाश्रित्य प्रश्नो नोचिते इति भावः ॥ २२ ॥

यच्चेदं चेत्यते नाम तत्स्वभावोऽस्य वल्गति ।
चित्स्वभावस्य शान्तस्य स्वसत्तायामवस्थितेः ॥ २३ ॥

यदि तु प्रथमकल्पवैलक्षण्याय प्रलये अविद्यादि किञ्चिच्चेत्यमभ्युपगच्छसि तर्हि
तेनैव तिपुटीजगद्घटितरुद्रदेवीशरीरे तन्नृत्यन्न् च सेत्स्यतीति नासम्भावितं
किञ्चिन्मयोक्तमित्याशयेनाह - यच्चेदमित्यादिना । स्वभावः
अविज्ञातात्मस्वरूपमस्य ब्रह्मणः प्रलयेऽपि रुद्रदेवी तन्नृत्यरूपेण वल्गति
प्रथते । न चैतावता वास्तवकूटस्थचित्स्वभावहानिरित्याह - चित्स्वभावस्येति ॥ २३ ॥

यथा स्वप्ने चिदेवान्तः पुरपत्तनवद्भवेत् ।
पुरादि न तु तत्किञ्चिद्विज्ञानाकाशमेव तत् ॥ २४ ॥

भ्रान्त्या अन्यथ त्वप्रतिभासेऽपि वास्तवस्वभावाप्रच्युतौ दृष्टान्तमाह -
यथेति ॥ २४ ॥

आत्मनात्मनि चिच्छून्यं ज्ञात्वा च ज्ञेयमप्यलम् ।
तथा च सर्गादारभ्य वेत्ति स्वं कचनं च तत् ॥ २५ ॥

तथा च सर्वं ज्ञेयं ज्ञात्वापि चित् आत्मना आत्मनि सदैव ज्ञेयं शून्यम् । तथा च
प्रलयकालेऽपि सर्गारम्भक्षणादारभ्य यावत्प्रलयक्षणं यद्यथा सम्पन्नं
तत्सर्वं स्वं कचनं वेत्तीति सदा सर्वज्ञं तद्ब्रह्म प्रसिद्धमित्यर्थः ॥ २५ ॥

स्वयमन्तः कचन्ती चित्स्वभावाकाशकोटरे ।
क्षणकल्पजगद्भ्रान्तिं धत्ते कल्पनया स्वया ॥ २६ ॥

अत एव तत्सर्गकालेऽपि प्रलयमतीतानागतसर्वप्रलयसहस्रैः सह पश्यत्येवेत्यपि
सम्भावनीयमित्याशयेनाह - स्वयमित्यादिना ॥ २६ ॥

स्वयमन्तः कचत्कान्तिश्चिदाकाशः स्वभावखे ।
अयं सोहमयं च त्वं करोतीत्यादिकल्पनम् ॥ २७ ॥

तस्मान्न द्वैतमस्तीह न चैक्यं न च शून्यता ।
न चेतनाचेतनन्न् वै मौनमेव न तच्च वा ॥ २८ ॥

अत एव हि सर्वदृश्यस्य तदभावस्य च परस्परबाधितत्वात्परमार्थवस्तुनो
भावाभावोभयनिषेधावधितेत्याशयेनोपसंहरति - तस्मादित्यादिना ।
सर्गप्रलययोर्विशेषोऽपि स्वानुभवेनैव सिद्धो न युगपत्प्रत्ययेनापलपितुं शक्य इति
भावः ॥ २८ ॥

न चेतति क्वचित्किञ्चित्कश्चिच्चेत्यात्मभावतः ।
तेन चेतापि नास्तीव मौनमेवावशिष्यते ॥ २९ ॥

निर्विकल्पसमाधिर्हि सिद्धान्तः सर्ववाङ्मये ।
तच्च जीवदृषन्मौनं तूष्णीमेवात आस्यताम् ॥ ३० ॥

कुर्वन्निजं प्रकृतमेव यथाप्रवाहमाचारजालमचलः परमार्थमौनात् ।
निर्मानमोहमदभेदमनङ्गजीवमाकाशकोशविशदाशयशान्तमास्व ॥ ३१

हे राम त्वमपि ईश्वर इव लोकदृशा निजं प्रकृतमेव
राज्यपरिपालनाद्याचारजालं यथाप्रवाहं पितृपितामहप्राप्तक्रमेण कुर्वन्नेव
स्वदृशा परमार्थमौनान्निर्मानं
निर्मोहमपगतमदभेदमङ्गैस्तदभिमानिजीवेन च
रहितमाकाशकोशवद्विशदाशयं च यथा स्यात्तथा शान्तं निर्विक्षेपमास्व ॥ ३१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रक० उत्तरार्धे पाषा०
विश्वरूपदर्शनं नाम त्र्यशीतितमः सर्गः ॥ ८३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विश्वरूपदर्शनं नाम त्र्यशीतितमः सर्गः ॥ ८३ ॥