द्व्यशीतितमः सर्गः ८२
श्रीराम उवाच ।
किमेतद्भगवन्सर्वनाशे नृत्यति केन सा ।
किं शूर्पफलकुम्भाद्यस्तस्याः स्रग्दामधारणम् ॥ १ ॥
विद्रूपस्य शिवस्यात्र तत्त्वं निष्कृष्य वर्ण्यते ।
सकलं यावदज्ञातं परिज्ञातं तु निष्कलम् ॥
सर्वस्य प्रपञ्चस्य विस्तरेण प्राक् प्रलयो वर्णितः । प्रलीनस्य च तस्य नृत्यन्त्याः
कालरात्र्या भूषणादिभावेनाङ्गे सद्भावो नृत्तभ्रमणादि च वर्णितमिति नष्टस्य
पुनरुन्मज्जनमुक्तमसम्भावितं मन्यमानो रामः पृच्छति - किमेतदिति ।
सर्वनाशे सति सा देवी केनाङ्गेन नृत्यति । शूर्पफलकुम्भाद्यैर्नष्टैस्तस्याः
स्रग्दामधारणं च त्वयोक्तं किं कथं सम्भावनीयमित्यर्थः ॥ १ ॥
किं नष्टं त्रिजगद्भूयः किं काल्या देहसंस्थितम् ।
परिनृत्यति निर्वाणं कथं पुनरुपागतम् ॥ २ ॥
तदेव स्पष्टमाह - किमिति । नष्टं स्थितं चेत्कथं निर्वाणमुपरतं
जगत्पुनरुपागतं सत् कथं परिनृत्यतीति व्याहतं प्रतिभातीत्यर्थः ॥ २ ॥
श्रीवसिष्ठ उवाच ।
नासौ पुमान्न चासौ स्त्री न तन्नृत्तं न तावुभौ ।
तथाभृते तथाचारे आकृती न च ते तयोः ॥ ३ ॥
यदि परमार्थदृष्ट्या मदुक्तं व्याहतं मन्यसे तर्ह्यस्तु नाम
परमार्थतश्चिन्मात्रैकरसपूर्णानन्दसन्मात्रातिरिक्तस्त्रीपुंसादिजगद्रूपस्य
रुद्रदेव्यादिविभागस्य चात्यन्तासम्भावितत्वात् । भ्रान्तदृशा तु न किञ्चिद्व्याहतम् ।
ब्रह्मसत्तया सदा सतां सर्ववस्तूनां नाशानाशयोर्विशेषस्य
दुर्निरूपत्वादित्यसकृदावेदितत्वान्नष्टानामपि
स्वप्नोन्मादयोरुन्मज्जनप्रसिद्धेर्मृतानामपि चिराद्भस्मीभूतानां
मुनिसिद्धेश्वरादिवरप्रभावात्पुनरागमनप्रसिद्धेर्यावदज्ञानं जगदाकारस्य
चित्ते संस्कारात्मना सर्वेषां सद्भावेनात्यन्तभ्रान्तैः केवलजगद्रूपेण
सर्वजगद्घटितैकमूर्त्यात्मना रुद्रदेव्याद्युपासकैस्तादृशरूपेण च
योगसिद्धिबलाद्द्रष्टुं शक्यत्वादित्याशयेन वसिष्ठ उत्तरमाह -
नासावित्यादिना ॥ ३ ॥
अनादिचिन्मात्रनभो यत्तत्कारणकारणम् ।
अनन्तं शान्तमाभासमात्रमव्ययमाततम् ॥ ४ ॥
शिवं तत्सच्छिवं साक्षाल्लक्ष्यते भैरवाकृति ।
तथास्थितो जगच्छान्तौ परमाकाश एव सः … ५ ॥
शिवं निरतिशयानन्दैकरसं तत्सद्ब्रह्मैव शिवं
नीलकण्ठत्रिनेत्रत्वादिशिवरूपं सत्प्रलयकाले भैरवाकृति लक्ष्यते उपासकैरिति
शेषः । यतस्तद्वासनानुसारेण स परमाकाश एव तथा तया आकृत्या स्थित इत्यर्थः
॥ ५ ॥
चेतनत्वात्तथाभूतस्वभावविभवादृते ।
स्थातुं न युज्यते तस्य यथा हेम्नो निराकृति ॥ ६ ॥
किं च चेतने ब्रह्मणि जगदुपसंहारः श्रुतिषु प्रसिद्धः । न च निराकारश्चेतनो लोके
केनचिद्दृश्यत इति श्रौतो हि संहर्तेश्वर उमासहायं परमेश्वरं प्रभुं
त्रिलोचनं नीलकण्ठं प्रशान्तमित्यादिश्रुतिप्रसिद्धरूपेण सम्भावनीय
इत्याशयेनाह - चेतनत्वादिति । तृतीयार्थे षष्ठ्यौ । यथा हेम्ना निराकृति यथा
स्यात्तथा स्थातुं न युज्यते तथा तेनापीत्यर्थः ॥ ६ ॥
कथमास्तां वद प्राज्ञ चिन्मात्रं चेतनं विना ।
कथमास्तां वद प्राज्ञ मरिचं तिक्ततां विना ॥ ७ ॥
यथा हेम्नो हेमादिद्रव्यस्य
पिण्डकुण्डलाद्यन्यतमाकारावश्यम्भावनियमस्तथा चेतोऽप्यवश्यं
चेत्याकारावलम्बननियमो लोके प्रसिद्ध इति निराकारपरिशेषपक्ष एव
प्रत्युतासम्भावित इति प्रौढिवादेनाह - कथमिति ॥ ७ ॥
कटकादि विना हेम कथमास्तां विलोच्यताम् ।
कथं स्वभावेन विना पदार्थस्य भवेत्स्थितिः ॥ ८ ॥
अज्ञातचितः सविषयतास्वभावत्वादप्याकारो दुस्त्यज इत्याशयेनाह - कथं
स्वभावेनेत्यादिना ॥ ८ ॥
विना तिष्ठति माधुर्यं कथयेक्षुरसः कथम् ।
निर्माधुर्यश्च यस्त्विक्षुरसो न हि स तद्रसः ॥ ९ ॥
अचेतनं यच्चिन्मात्रं न तच्चिन्मात्रमुच्यते ।
न च चिन्मात्रनभसो नष्टं क्वचन युज्यते ॥ १० ॥
अपि च नष्टानामपि स्मृतौ भानदर्शनाच्चिद्दृष्ट्या कस्यापि निरन्वयनाश
एवाप्रसिद्ध इत्याह - न चेति ॥ १० ॥
स्वसत्तामात्रकादन्यत्किञ्चित्तस्य न युज्यते ।
अन्यत्वमुररीकर्तुं व्योमानन्यमसौ किल ॥ ११ ॥
किं च ब्रह्मानन्यस्य जगतो ब्रह्मसत्तामात्रकातिरिक्तरूपाप्रसिद्धेर्न कस्यचिन्नाशः
प्रसिद्ध्यतीत्याह - स्वेति । ननु निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च
विज्ञानं चाविज्ञानं च सत्यन्न् चानृतं च सत्यमभवत् इति ब्रह्मसत्तातिरिक्तं
रूपं श्रूयते अनुभवन्ति च पामरास्तत्राह - अन्यत्वमिति । असौ ब्रह्मात्मा बहु
स्यां प्रजायेय इति जगदाकारेण अन्यत्वमुररीकर्तुं तस्माद्वा एतस्मादात्मन
आकाशः सम्भूतः इति श्रुतेः प्रथमं व्योमानन्यमाकाशाभिन्नं स्वात्मानं
करोति किल । यदि स्वानन्यन्न् व्योम करोति तर्हि अन्यत्वं कथमुररीकृतं स्यात् ।
सद्रूपानन्यत्वासम्पादने वा कथं व्योम कृतं स्यात् । सदात्मतालाभ एव हि
व्योमादेरुत्पत्तिरिति न निरुक्तं चानिरुक्तं च इत्यादिश्रुत्युक्तस्य मूर्तामूर्तरूपस्य
सद्रूपान्यतासिद्धिरित्यर्थः ॥ ११ ॥
तस्मात्तस्य यदक्षुब्धं सत्तामात्रं स्वभासनम् ।
अनादिमध्यपर्यन्तं सर्वशक्तिमयात्मकम् ॥ १२ ॥
किं तर्हि जगद्रूपमिति चेद्ब्रह्मसत्तैव । सा हि तत्त्वावबोधकमानं विना
लौकिकदृशा जगत्तत्प्रलयाद्याकारेण सर्पात्मनेव रज्जुर्भासते ।
तत्त्वावबोधकमानेन तु यथार्थरूपेणेति निष्कर्ष इत्युपसंहरति - तस्मादिति ॥ १२
॥
तदेतत्त्रिजगत्सर्गकल्पान्तौ व्योम भूर्दिशः ।
नाश उत्पादनं नाम विनानाभासनं नभः ॥ १३ ॥
विनानाभासनं तत्त्वावेदकमानं विनैवाविद्यादूषितदृशा भासनं
तैमिरिकदृशा चन्द्रव्योमादिभासनमिव नभः
शुद्धसत्तातिरिक्तार्थशून्यमेवेत्यर्थः ॥ १३ ॥
जननं मरणं मायामोहं मान्द्यमवस्तुता ।
वस्तुता च विवेकश्च बन्धो मोक्षः शुभाशुभे ॥ १४ ॥
परमार्थतस्तु जननादि एतत्सर्वं शुद्धचिदाकाशो निरामय इति पञ्चमे सम्बन्धः
। माया विक्षेपः मोह आवरणं तयोः समाहारः ॥ १४ ॥
विद्याऽविद्या विदेहत्वं सदेहत्वं क्षणश्चिरम् ।
चञ्चलत्वं स्थिरत्वं वा त्वं चाहं चेतरश्च तत् ॥ १५ ॥
सदसच्चाथ सदसन्मौर्ख्यं पाण्डित्यमेव च ।
देशकालक्रियाद्रव्यकलनाकेलिकल्पनम् ॥ १६ ॥
रूपालोकमनस्कारकर्मबुद्धीन्द्रियात्मकम् ।
तेजोवार्यनिलाकाशपृथ्व्यादिकमिदं ततम् ॥ १७ ॥
एतत्सर्वमसौ शुद्धचिदाकाशो निरामयः ।
अजहद्व्योमतामेव सर्वात्मैवैवमास्थितः ॥ १८ ॥
एतत्सर्वं च विमलं खमेवात्र न संशयः ।
अस्मादनन्यत्स्वप्नादिर्दृष्टान्तोऽत्राविखण्डितः ॥ १९ ॥
सदनन्यत्वमिव चिदनन्यत्वमप्यस्य स्वप्नदृष्टान्तेन
सम्भावनीयमित्याशयेनाह - एतत्सर्वमिति ॥ १९ ॥
चिन्मयः परमाकाशो य एव कथितो मया ।
एषोऽसौ शिव इत्युक्तो भवत्येष सनातनः ॥ २० ॥
स सच्चिदेकस्वभावः परमात्मा । शिव एको ध्येयः शिवङ्करः सर्वमन्यत्परित्यज्य
इत्यादिश्रुतिषु शिव इत्युक्त एष सनातनः शिवो भवत्येवेति मया रुद्रमूर्तिरुपन्यस्त
इत्यर्थः ॥ २० ॥
स एष हरिरित्यास्ते भवत्येष पितामहः ।
चन्द्रोऽर्क इन्द्रो वरुणो यमो वैश्रवणोऽनलः ॥ २१ ॥
स एव विष्ण्वाद्याकारेणोपासितवतां हरिरिति वेषेणास्ते । एवं पितामहोऽप्यन्येषां
भवति । किं बहुना । चन्द्रार्कादिवासनावासितधियां तत्तद्रूपोऽपि भवतीत्याह -
चन्द्र इति । तथा च श्रुतिः इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो
गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः इति ॥ २१ ॥
अनिलो जलदोम्भोधिर्ह्यो यद्वस्त्वसि नास्ति च ।
इत्येते चिन्मयाकाशकोशलेशाः स्फुरन्त्यलम् ॥ २२ ॥
स एवानिलो वायुः । ह्यः अतीतं दिनम् । कालमात्रोपलक्षणमेतत् । तत्र यद्वस्त्वस्ति नास्ति
चेति विकल्प्यते तत्सर्वमेष एवेत्यथः । तथा च श्रुतिः स ब्रह्मा स हरिः सेन्द्रः
सोऽक्षरः परमः स्वराट् । स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः । स एव
सर्वं यद्भूतं यच्च भव्यं सनातनम् । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था
विमुक्तये इति । इति वर्णिता एते हरिपितामहादयो भावाश्चिन्मयस्य ब्रह्माकाशकोशस्य
गुणाद्युपाधिप्रयुक्ता लेशा अंशाः ॥ २२ ॥
एवंविधाभिः सञ्ज्ञाभिर्मुधाभावनयेदृशाः ।
स्वभावमात्रबोधेन भवन्त्येते तु तादृशाः ॥ २३ ॥
मुधाभावनया अन्यथाग्रहणकारिण्या अविद्यया परमार्थस्वभावमात्रबोधेन तु
एते तादृशाश्चिन्मात्रस्वभावा भ्वन्ति ॥ २३ ॥
अबोधो बोध इत्येवं चिद्व्योमैवात्मनि स्थितम् ।
तस्माद्भेदो द्वैतमैक्यं नास्त्येवेति प्रशाम्यताम् ॥ २४ ॥
तथा च ब्रह्मैव कञ्चित्कालमज्ञदृशा अबोध इति जीवजगद्वेषेण स्थितम् । ततो
विद्वद्दृष्ट्या बोधे इति वेषेण स्वरूपे स्थितमिति फलितम् । न
तदन्यत्किञ्चित्कदाअचिदपीत्याह - अबोध इति ॥ २४ ॥
तावत्तरङ्गत्वमयं करोति जीवः स्वसंसारमहासमुद्रे ।
जीवः जानाति परं स्वभावं निरामयं तन्मयतामुपेतः ॥ २५ ॥
तथा च जीवः अज्ञातस्वात्मस्वरूपे संसारमहासमुद्रे तावत्कालं
जन्ममरणभ्रमणादिनानातरङ्गत्वं करोति यावत्परब्रह्मात्मकं
स्वस्वभावं न जानाति । यदा तु जानाति तदा तन्मयतामुपेतः सन् निरामयं तदेवास्ते
इत्यर्थः ॥ २५ ॥
ज्ञाने तु शान्तिं स तथोपयाति यथा न सोऽब्धिर्न तरङ्गकोऽसौ ।
यथास्थितं सर्वमिदं च शान्तं भवत्यनन्तं परमेव तस्य ॥ २६ ॥
तदेवाह - ज्ञाते त्विति ॥ २६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० पाषा०
शिवस्वरूपवर्णनन्न् नाम द्व्यशीतितमः सर्गः ॥ ८२ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
शिवस्वरूपवर्णनं नाम द्व्यशीतितमः सर्गः ॥ ८२ ॥