एकाशीतितमः सर्गः ८१
श्रीवसिष्ठ उवाच ।
अथ राघव रुद्रं तं तदा तस्मिन्महाम्बरे ।
प्रवृत्तं नर्तितुं मत्तमपश्यं वितताकृतिम् ॥ १ ॥
रुद्रः स नृत्यन्प्रलये भैरवोऽत्रोपवर्ण्यते ।
तच्छायाकालरात्रिश्च नृत्यन्ती जगदङ्गिका ॥
किमकरोत् इति प्रश्नोत्तरशेषं प्रलयाकाशे रुद्रनृत्यं छायासीद्वद का मुने इति
प्रश्नोत्तरं नृत्यत्कालरात्रिस्वरूपं च वर्णयितुमुपक्रमते - अथेति ॥ १ ॥
व्योमेवाकृतिमापन्नमजहद्व्यापितां निजाम् ।
महाकारं घनश्यामं दशाशापरिपूरकम् ॥ २ ॥
नृत्यन्न् तावद्वर्णयति - व्योमेवेत्यादिना ॥ २ ॥
अर्केन्दुवह्निनयनं चलद्दशदिगम्बरम् ।
घनदीर्घप्रभाजालमालानं श्यामलार्चिषाम् ॥ ३ ॥
श्यामलार्।चिषां नीलप्रभाज्वालानामालानं बन्धनस्तम्भमिव ॥ ३ ॥
वडवाग्निदृशं लोलभुजोर्मिभरभासुरम् ।
एकार्णवार्णो द्राग्देहबन्धेनेव समुत्थितम् ॥ ४ ॥
बडवाग्नय इव दृशो यस्य । देहबन्धेन शरीरग्रहणेन समुत्थितमिवेत्युत्प्रेक्षा ॥
४ ॥
पश्याम्यनन्तरमहं यावत्तस्य शरीरतः ।
छायेव परिनिर्याति नर्तनानुविधायिनी ॥ ५ ॥
नर्तनानुविधायिनी रुद्रनर्तनमनुकुर्वाणा ॥ ५ ॥
सूर्येष्वविद्यमानेषु महातमसि चाम्बरे ।
स्थिता कथमियं छाया भवेदिति मतिर्मम ॥ ६ ॥
इति मम मतिराशङ्का आसीदिति शेषः ॥ ६ ॥
यावद्विचारयाम्याशु तावत्तस्य तदा पुरः ।
सा स्थिता परिनृत्यन्ती विस्तीर्णा श्रीत्रिलोचना ॥ ७ ॥
श्रीमन्ति त्रीणि लोचनानि यस्याः ॥ ७ ॥
कृष्णा कृशा शिरालाङ्गी जर्जरा वितताकृतिः ।
ज्वालाकुलानलालोलवनसम्भारशेखरा [ज्वालाकुलानना इति पाठो युक्तः ।
] ॥ ८ ॥
तां वर्णयति - कृष्णेत्यादिना । जर्जरा शिथिलाङ्गी । लोलो वनसम्भारो
वनसमृद्धिरिव पुष्पपल्लवादिभूषितः श्यामलः शेखरो यस्याः ॥ ८ ॥
भिन्नाञ्जनतमःश्यामा यामिनीवाकृतिं गता ।
तमःश्रीर्देहयुक्तेव साकारेवाम्बरद्युतिः ॥ ९ ॥
तिस्र उत्प्रेक्षाः ॥ ९ ॥
अतिदीर्घा करालास्या नभो मातुमिवोद्यता ।
दीर्घजानुभुजभ्रान्त्या मातुकामेव दिङ्मुखम् ॥ १० ॥
मातुं स्वदैर्ध्यसाम्येन परिमातुमुपमातुं च ॥ १० ॥
कृशा बहूपवासेव परिनिम्नमहातनुः ।
कज्जलश्यामला मेघमालेव पवनाकुला ॥ ११ ॥
परितो निम्ना सगर्ता महती तनुर्यस्याः ॥ ११ ॥
कृशाशक्ता यदा स्थातुं सुदीर्घा विधिना तदा ।
ग्रथितेव शिरारूपैर्दामभिर्दैर्घ्यशालिभिः ॥ १२ ॥
सुदीर्घा कृशा च सा यदा स्थातुमशक्ता विधात्रा लक्षिता तदा
शिरारूपैर्दामभिर्दार्ढ्याय ग्रथितेवेत्युत्प्रेक्षा ॥ १२ ॥
तथा नाम सुदीर्घा सा यथा तस्याः शिरःखुरम् ।
मया दृष्टं प्रयत्नेन चिरोर्ध्वाधोगमागमैः ॥ १३ ॥
सा तथा मुदीर्घा यथा मया प्रयत्नेन योगबलान्मनोवेगेन
चिरमनेकसहस्रवर्षकालमूर्ध्वमधश्च गमागमैर्धावनैस्तस्याः शिरःखुराः
पादनखाश्च तेषां समाहारः शिरःखुरम् । द्वन्द्वश्च प्राणितूर्य
इत्येकवद्भावः । दृष्टं नान्येन द्रष्टुं शक्यमिति भावः ॥ १३ ॥
अन्त्रान्त्रतन्त्रीग्रथितशिरःकरखुरोत्करा ।
आमूलात्सूत्रवलिता कण्टकानामिव स्थली ॥ १४ ॥
अन्त्रैः शिराजालैरान्त्रतन्त्रीभिश्च ग्रथिताः शिरः प्रभृतिकरपादनखान्ता
अङ्गोत्करा यस्याः । आमूलान्मूलमारभ्य शाखाग्रपर्यन्तं सूत्रैर्वलिता
कण्टकानां स्थली निवासभूमिः खदिरादिलतवे स्थिता ॥ १४ ॥
विश्वरूपमयार्कादिशिरःकमलजालकैः ।
कृतमालामलालोकवातवह्निमयाञ्चला ॥ १५ ॥
विश्वरूपमयैर्नानावर्णैरर्कादिदेवदानवशिरःकमलजालकैः कण्ठे कृतमाला
भूषिता । अमल आलोको यस्य तथाविधो वातप्रदीप्तो यो वह्निस्तन्मयान्यञ्चलानि
पटच्चराणि यस्याः ॥ १५ ॥
प्रलम्बकर्णालुलुतनागा नृशवकुण्डला ।
शुष्कतुम्बीलताष्ठीलादीर्घालोलासितस्तनी ॥ १६ ॥
प्रलम्बयोः कर्णयोरालुलिता नागा यस्याः तथा नृशवे कुण्डले यस्याः । शुष्का
लम्बफला तुम्बीलतेव आष्ठीलं ऊरुपर्वग्रन्थिपर्यन्तमादीर्घावालोलावसितौ स्तनौ
यस्याः ॥ १६ ॥
कुमारबर्हिपिच्छौघैर्ब्राह्ममूर्धजमण्डलैः- ।
लाञ्छितोच्चसुराधीशशिरःखट्वाङ्गमण्डला ॥ १७ ॥
कुमारबर्हिणां पिच्छौघैर्ब्राह्मैर्मूर्धजानां केशानां मण्डलैश्च
लाञ्छितान्युच्चानि सुराधीशानामिन्द्रादीनां शिरांसि यस्मिंस्तथाविधं
खट्वाङ्गमण्डलं यस्याः ॥ १७ ॥
तन्देन्दुमालाविमला विमलोद्द्योतपाततः ।
तमोर्णवोर्द्ध्वलेखेव वृत्तावर्तविवर्तिनी ॥ १८ ॥
दन्तलक्षणया इन्दुमालया विमला । अत एव तदीयविमलोद्द्योतपातवशादभिवृद्धा ।
वृत्तैरावर्तैर्विवर्तिनी व्यालोला तमोलक्षणस्यार्णवस्य ऊर्ध्वलेखा उपरिभाग इव
स्थिता ॥ १८ ॥
शुष्कतुम्बीलतेवोच्चैराकाशतरुसंस्थिता ।
विलोलावयवाष्ठीला वातैः पटपटारवा ॥ १९ ॥
आकाशलक्षणमाकाशप्रसूतं च तरुं संस्थिता । एवमग्रेऽपि विशेषणे उभयत्र
योज्ये ॥ १९ ॥
बृहत्तरङ्गोर्ध्वभुजा श्यामलोल्लासशालिनी ।
एकार्णवोर्मिमालेव नृत्तावृत्तिविवर्तिनी ॥ २० ॥
क्षणमेकभुजाकारा क्षणं बहुभुजाकुला ।
अनन्तोग्रभुजाक्षिप्तजगन्नर्तनमण्डपा ॥ २१ ॥
अनन्तैरुग्रभुजैराक्षिप्तो व्याकुलितो जगन्नृत्यमण्डपो यया ॥ २१ ॥
क्षिप्रमेकमुखाकारा क्षिप्रं बहुमुखाकृतिः ।
अनन्तोग्रमुखी क्षिप्रं निर्मुखी चापि च क्षणम् ॥ २२ ॥
एकपादान्विता क्षिप्रं क्षिप्रं पादशतान्विता ।
क्षणं चानन्तपादाढ्या निष्पादाकारिणी क्षणम् ॥ २३ ॥
कालरात्रिरियं सेति मयानुमितदेहिका ।
काली भगवती सेयमितिनिर्णीतसज्जना ॥ २४ ॥
इति निर्णीताः सज्जनाः याम् । निपूर्वस्य नयतेरवगत्यर्थत्वात् गत्यर्थाकर्मक- इति
कर्तरि क्तः ॥ २४ ॥
ज्वालापूर्णारघट्टोग्रखाताभनयनत्रया ।
ज्वलद्धरेन्द्रनीलाद्रिसानूपमललाटभूः ॥ २५ ॥
पुनस्तां मुखादिपादान्तं वर्णयितुमारभते - ज्वालेत्यादिना ।
आरघट्टयन्त्रस्य शिरःकाष्ठे प्रसिद्धं खातत्रयन्न् ज्वालाभिः पूर्ण स्यात्तदा
नेत्रत्रयोपमा बोध्या । ज्वलन्ती धर यस्मिंस्तथाविधो य इन्द्रनीलाद्रिप्रस्थस्तदुपमा
ललाटभूर्यस्याः ॥ २५ ॥
लोकालोकेन्द्रनीलोग्रश्वभ्रभीमहनुद्वया ।
वातस्कन्धगुणप्रोततारामुक्ताकलापिनी ॥ २६ ॥
लोकालोकाचलस्य
प्रसिद्धमिन्द्रनीलश्वभ्रमिवाधोनिम्नत्वात्कुण्डलकान्तिप्रकाशाप्रकाशमत एव
भीमं हनुद्वयन्न् यस्याः ॥ २६ ॥
इन्द्रनीलाद्रितुल्योच्चतोरणोच्चैःप्रभाम्बरे ।
विश्रान्तकाचशैलाभभगभीषणवायसी ॥ २७ ॥
इन्द्रनीलाद्रौ तुल्ये तुलनार्हे उपमायोग्ये उच्चे तोरणे नगरबहिर्द्वारे
पद्मरागादिप्रभारञ्जिते अम्बरे द्वारान्तश्छिद्रे विश्रान्तः प्रतिष्ठितः अधोमुखः
कृत्रिमः काचशैल इव भगवायसो भगनामा काको यस्याः ॥ २७ ॥
नृत्यद्भुजलतापुष्पैर्नखशुभ्राभ्रमण्डलैः ।
पूर्णचन्द्रशतानीव भ्रमयन्ती नभस्तले ॥ २८ ॥
भ्रमद्भिर्व्याप्तदिक्चक्रा भुजैः कल्पाम्बुदैरिव ।
वर्षद्भिः प्राणिजप्रान्ततारालेखाबृहत्प्रभाः ॥ २९ ॥
कल्पाम्बुदपक्षे स्फुरत्प्रभाः प्राणिजा गजप्रभवा दन्ता इव प्रान्तेषु ताराः
बृहत्प्रभालेखाधाराश्रेणीर्वर्षद्भिः । भुजपक्षे प्राणिजा गजादिप्रभवा मुक्ता
इव प्रान्ते प्रलये निपतन्त्यस्ताराश्रेणीव च भास्यमाना नखपङ्क्तिबृहत्प्रभाः
वर्षद्भिः ॥ २९ ॥
नखपुष्पाङ्गुलीवल्लीजालैर्भ्रान्तभुजद्रुमैः ।
कृष्णैः काननिताशेषगगनाग्रोग्रमूर्तिभिः ॥ ३० ॥
कृष्णैरत एवोग्रमूर्तिभिः । नखा एव पुष्पाणि येषु तथाविधान्यङ्गुलीवल्लीजालानि
येषां तथाविधैर्भ्रान्तभुजद्रुमैः काननितं वनमिव कृतमशेषं
गानाग्रमाकाशप्रान्तो यया ॥ ३० ॥
तमालतालतः स्थूलां भुवं दग्धमहावनैः ।
विडम्बयन्ती वलितां जङ्घासङ्घेन लोलता ॥ ३१ ॥
लोलता सर्वतश्चलितेन जङ्घासङ्घेन दग्धैः खर्जूरादिमहावनैर्वलितां
दग्धशिष्टतमालतालवृक्षमात्रतः स्थूलां प्रोन्नतां भुवं विडम्बयन्ती
अनुकुर्वाणा ॥ ३१ ॥
अप्यनन्ते महाव्योम्नि पारं प्राप्तैः शिरोरुहैः ।
कुर्वाणेवाततं वासं चरत्तिमिरदन्तिनः ॥ ३२ ॥
शिरोरुहैः चरत्तिमिरलक्षणस्य दन्तिनो व्योम्नि वासं कुर्वाणा सम्पादयन्तीव ॥ ३२ ॥
उह्यन्ते मेरवो येन तेन निश्वासवायुना ।
घनघुङ्घुमदिक्चक्रगगनग्रामघोषिणा ॥ ३३ ॥
प्रतिध्वनिभिर्घनघुङ्घुमं दिक्चक्रं यस्य तथाविधे गगनग्रामे
उद्घोषणशीलेन निःश्वासवायुना नियतानुनयेन अत एव सानुवृत्तिना नटेन सह
सलितेवासीदित्युत्तरेणान्वयः ॥ ३३ ॥
घनमारुतफूत्कारक्ष्वेडगेयं प्रगायता ।
नियतानुनयेनेव चलिता सानुवृत्तिना ॥ ३४ ॥
ततो नृत्तवशावेशाद्वर्धमानशरीरिणी ।
मया दृष्टावधानेन गगनाभोगभूरिणा ॥ ३५ ॥
यावत्तयाऽऽवृता देहे हेलावलनसारया ।
माला मलयकैलाससह्यमन्दरमेरुभिः ॥ ३६ ॥
कथं दृष्टा तदाह - यावदिति । हेलया विलासेन वलनं नृत्यमेव
सारोऽभिप्रेतार्थो यस्यास्तथाविधया तया मलयकैलाससह्यादिगिरिभिर्यावत्साकल्येन
रचिता माला देहे आवृता भूषणत्वेन सन्निवेशिता । धृता इति वा पाठः ॥ ३६ ॥
आसीत्तस्या युगान्ताभ्रमालिका पट्टपट्टिका ।
आदर्शमण्डलान्यङ्गे त्रीणि लोकान्तराणि च ॥ ३७ ॥
किं च जगत्सर्वं तस्या भूषणादिनित्यसामग्री बभूवेत्याशयेनाह -
आसीदित्यादिना । युगान्ते प्रसिद्धा पुष्करावर्ताद्यभ्रमालिका वक्षसि
इन्द्रनीलपट्टपट्टिका आसीत् । त्रीणि लोकान्तराणि अङ्गे जघनोदरादौ
मणिमयादर्शमण्डलान्यासन्नित्यादिः सर्वत्र यथायोगं विपरिणामेनानुषङ्गः
कार्यः ॥ ३७ ॥
कर्णयोर्हिमवन्मेरू रूप्यकाञ्चनमुद्रिके ।
ब्रह्माण्डघुङ्घुमैर्माला महती कटिमेखला ॥ ३८ ॥
स्रजः कुलाचलाः शृङ्गवनपत्तनगुच्छकाः ।
जरत्पुरवनद्वीपग्रामपेलवपल्लवाः ॥ ३९ ॥
तस्या अङ्गेषु दृष्टानि पुराणि नगराणि च ।
ऋतवश्च त्रयो लोका मासाहोरात्रमालिकाः ॥ ४० ॥
दृष्टानीति नपुंसकमनपुंसकेन - इति नपुंसकशेषः ॥ ४० ॥
मुक्तालतादिकं नद्यः कालिन्दीत्रिपथादिकाः ।
धर्माधर्मावुभौ कर्णभूषणे चान्यकर्णयोः ॥ ४१ ॥
अन्यकर्णयोः हिमवन्मेरुकुण्डलप्रागुक्तकर्णातिरिक्तकर्णयोः ॥ ४१ ॥
स्तनास्तस्यास्तु चत्वारः स्रवद्धर्मपयोलवाः ।
वेदाः सकलशास्त्रार्थचतुःसंस्थानचूचुकाः ॥ ४२ ॥
सकलशास्त्रार्थक्षीराणि ऋग्यजुःसामाथर्वाख्यचतुःसंस्थानानि चूचुकानि
कुचाग्राणि येषाम् ॥ ४२ ॥
त्रिशूलैः पट्टिशैः प्रासैः शरशक्त्यृष्टिमुद्गरैः ।
निर्यदायुधजालानि स्रग्दामानि विभर्ति सा ॥ ४३ ॥
चतुर्दशविधा भूतजातयो याः सुरादिकाः ।
तस्याः शरीरशालिन्यास्ता लोमावलयः स्थिताः ॥ ४४ ॥
ताःप्रसिद्धा लोमावलयो रोमावलयः ॥ ४४ ॥
तस्याश्च नगरग्रामगिरयो देहशायिनः ।
नृत्यन्त्या सह नृत्यन्ति पुनर्जन्म मुदेव ते ॥ ४५ ॥
जङ्गमात्मैकमेवैतज्जगदस्थावरं तदा ।
नृत्यतीति मया ज्ञातं परलोके सुखं स्थितम् ॥ ४६ ॥
सर्वस्यापि नृत्ये चलनादस्थावरात्मकम् । पूर्वं मृतत्वात्तद्देहलक्षणे परलोके
सुखं स्थितम् ॥ ४६ ॥
निगीर्णं जगदङ्गस्थं कृत्वा तृप्तिमुपागता ।
परिनृत्यति सा मत्ता जगज्जीर्णाहिचातकी ॥ ४७ ॥
जगल्लक्षणो जीर्णः अहिः सर्पो यया तथाविधा चातकी पक्षिणी । अत्र चातकीशब्देन
मयूरी लक्ष्यते मेघप्रियत्वसाम्यात् । अहिजरणनृत्ययोस्तस्यां प्रसिद्धेश्च ॥ ४७ ॥
आदर्शप्रतिबिम्बस्थमिवाभात्यखिलं जगत् ।
तस्या वपुषि विस्तीर्णे स्वरूपिणि सरूपधृक् ॥ ४८ ॥
सरूपधृक् प्राक्तनजगत्सदृशरूपधृक् ॥ ४८ ॥
सा न नृत्यति तत्सर्वं सशैलवनकाननम् ।
जगन्नृत्यति नानात्म मृत्वा पुनरुपागतम् ॥ ४९ ॥
कदाचिदनृत्यन्त्यामपि तस्यां तदन्तर्गतं जगन्नृत्यतीति मया दृष्टमित्याह ##-
तज्जगन्नर्तनं चारु तद्देहादर्शसंस्थितम् ।
चिरं मया तदा दृष्टमविनष्टं पुनः स्थितम् ॥ ५० ॥
विचलत्तारकाजालं भ्रमत्पर्वतमण्डलम् ।
मशकव्यूहवद्वातव्याधूतामरदानवम् ॥ ५१ ॥
तदेव जगन्नर्तनं वर्णयति - विचलदित्यादिना ॥ ५१ ॥
सङ्ग्रामोन्मुक्तचक्राभद्वीपार्णववृताम्बरम् ।
हेलाविवलनावर्तप्रौढशैलधरातृणम् ॥ ५२ ॥
सङ्ग्रामे उन्मुक्तचक्राणामिव आभा भ्रमणसादृश्यश्रीर्येषां द्वीपादीनां
तथाविधैस्तैर्वृताम्बरम् । हेलया विवलनैर्भ्रमणैरावर्तवातैरिव
प्रकर्षेणोढानि शैलधरातृणानि यस्मिन् । प्रादूहोढो - इति वृद्धिः ॥ ५२ ॥
नीलमेघांशुकावृत्तिवातघुङ्घुमिताम्बरम् ।
काष्ठास्थ्यादिस्फुटास्फोटपटत्पटपटारवम् ॥ ५३ ॥
नीलमेघलक्षणानामंशुकानां वस्त्राणामावृत्तिषु परिवर्तनेषु
वातैर्घुङ्घुमितमम्बरमाकाशं यस्मिन् । अधस्तु परस्परसङ्घट्टितानां
काष्ठास्थ्यादीनां स्फुटास्फोटैः सन्धिविघट्टनैः ।
पटत्पटेत्याद्यनुकरणार्हारवविशिष्टम् ॥ ५३ ॥
जगत्पदार्थैर्व्यामिश्रैरमिश्रैर्मुकुरैर्यथा ।
व्याप्तमाभोगिभाङ्कारैरङ्गैरङ्गभ्रमैस्तथा ॥ ५४ ॥
अन्योन्यसङ्घट्टनाद्विश्लेषाच्च प्रतिक्षणं व्यामिश्रैरमिश्रैश्च
जगत्पदार्थैस्तद्वद्भिरङ्गैस्तद्भ्रमणैश्च
आभोगिभाङ्कारैर्मूर्तिमद्भिर्भयैरिव व्याप्तम् ॥ ५४ ॥
मेरुर्नृत्यति लोलोच्चकुलाचलबृहद्भुजः ।
भ्रमदभ्रपटोपेतनमत्तनुतनूरुहः ॥ ५५ ॥
तदेव जगन्नृत्यन्न् प्रत्येकं वर्णयति - मेरुरित्यादिना ।
भ्रमद्भिरभ्रपटैरुपेताश्छन्ना नमन्त्यस्तनवस्तनूरुहाः कल्पवृक्षाश्च
यस्य ॥ ५५ ॥
अत्यजन्तः समुद्राश्च मर्यादामुद्रणं द्रुमाः ।
भूमेर्नभस्तलं यान्ति नभसो यान्ति भूतलम् ॥ ५६ ॥
मर्यादामुद्रणं वेलामर्यादानियमम् ॥ ५६ ॥
पुराणि घर्घरारावैर्दृश्यन्ते लुठितान्यधः ।
सगृहाट्टालवास्तव्यं न च किञ्चिल्लुठत्यधः ॥ ५७ ॥
वास्तुषुवेश्मभूमिषु भवा वास्तव्यास्तदन्तैः सहितं यथा स्यात्तथा लुठितानि ॥ ५७
॥
तस्यां भ्रमन्त्यां चतुरं चन्द्रार्कदिनरात्रयः ।
नखाग्रलेखालोकान्तर्भ्रान्तिकाञ्चनसूत्रवत् ॥ ५८ ॥
तस्यां कालरात्र्यां भ्रमन्त्यां सत्यां चन्द्रार्कादयस्तन्नखाग्ररेखासु ये
आलोकाः प्रभाविशेषास्तदन्तर्भावेण भ्रमन्तः काञ्चनसूत्रवद्दीर्घाकारा भान्ति
। भ्रमदलातवह्निप्राया इत्यर्थः ॥ ५८ ॥
विभान्ति सृष्टयस्तस्या घर्माणि जलजालिकाः ।
इव नीहारहारिण्या नीलवारिदवाससः ॥ ५९ ॥
नीहारैर्हारिण्या हारवत्या नीलवारिदवस्त्रायास्तस्याः सृष्टयो मेघैर्विसृष्टा
जलजालिका घर्माणि स्वेदबिन्दव इव विभान्तीत्यर्थः ॥ ५९ ॥
खमेव तस्याः सम्पन्नं कबरीमण्डलं बृहत् ।
पातालं चरणौ भूमिरुदरं बाहवो दिशः ॥ ६० ॥
इदानीं जगत्सर्वं तस्या अङ्गत्वेन सम्पन्नमिति वर्णयति - खमेवेत्यादिना ॥ ६० ॥
द्वीपाब्धयोऽन्त्रवलयः पार्श्वकाः सर्वपर्वताः ।
प्राणापानावलीदोलाः पवनस्कन्धशालिकाः ॥ ६१ ॥
द्वीपा अब्धयश्च अन्त्रसहिता वलयः सम्पन्नाः । आवहोद्वहप्रवहादयः
पवनस्कन्धलक्षणा नभःसौधशालिकास्तस्याः प्राणापानावलीदोलाः सम्पन्नाः ॥
६१ ॥
तदानुभूतं नृत्यन्त्यास्तस्या वपुषि विस्तृते ।
हिमवन्मेरुसह्याद्यैर्दोलनभ्रममद्रिभिः ॥ ६२ ॥
अत एव तदङ्गत्वेन सम्पन्नैर्हिमवदाद्यद्रिभिस्तद्वपुषि दोलनप्रयुक्ता भ्रमा
यस्मिंस्तथाविधं प्रेङ्खोलिकाक्रीडनसुखमनुभूतमित्युत्प्रेक्षा ॥ ६२ ॥
तरदद्रिगुलुच्छास्ता वलयन्त्या तया स्रजः ।
पुनः कल्पान्त आरब्ध इव ताण्डवहेलया ॥ ६३ ॥
तरन्तः प्लवमाना अद्रिलक्षणा गुलुच्छा मञ्जर्यो यासु तथाविधाः प्राग्वर्णितस्रजो
वलयन्त्या परिवर्तयन्त्या तया ताण्डवलीलया पुनः प्रलय आरब्ध इवेत्युत्प्रेक्षा ॥ ६३ ॥
सुरासुरोरगानीकरोमशाङ्गः शरीरकः ।
निस्पन्दं स्थातुमशकन्नसौ भ्रमति चक्रवत् ॥ ६४ ॥
असौ तस्याः शरीरमेव शरीरको निस्पन्दं स्थातुमशकन् अशक्नुवन्सन्
भ्रमतीत्युत्प्रेक्षा शकेश्छान्दसो विकरणव्यत्ययः ॥ ६४ ॥
नानाविभवविज्ञानयज्ञयज्ञोपवीतिनी ।
सा सरन्ती नभस्यासीद्घनघूत्कारघोषिणी ॥ ६५ ॥
कर्मफलभूता विभवास्तदनुष्ठानहेतुविज्ञानानि तदनुष्ठानरूपा यज्ञाश्चेति
त्रिसूत्रयज्ञोपवीतिनी नभसि सरन्ती नृत्यन्ती सा देवी घनघूत्कारा
मेघध्वनयस्तैर्घोषिणी वेदघोषणवती ब्रह्मचारिणीवासीत् ॥ ६५ ॥
तत्र भूतलमाकाशमाकाशमपि भूतलम् ।
प्रतिकृति भवत्यन्तर्न च किञ्चिद्विवर्तते ॥ ६६ ॥
अथवा तत्र तन्नृत्येन च किञ्चिदपि विवर्तते चलति किन्तु भूतलमाकाशं चक्रमिषेण
परस्परस्मिन् प्रतिबिम्बनेन प्रतिकृति परस्परसदृशं सत् पर्यायेण
भूतलमाकाशं भवति आकाशं च भूतलं भवति । तत्र पश्यतां द्वे अपि सह
स्वस्वगतैः पदार्थैरूर्ध्वाधो विवर्तेते इति भ्रान्तिमात्रमित्यर्थः ॥ ६६ ॥
बृहन्नासागुहागेहनिर्गता घनघुङ्घुमाः ।
तत्रोग्रा वायवो वान्ति घोरघूत्कारकारिणः ॥ ६७ ॥
तच्छ्वासवायून्वर्णयति - बृहदिति ॥ ६७ ॥
नभःकरशतैस्तस्वाश्चतुरावृत्तिवर्तिभिः ।
भाति चण्डानिलोद्भूतैराकीर्णमिव पल्लवैः ॥ ६८ ॥
तदङ्गजजगद्वस्तुजातभ्रमणसम्भवात् ।
दृष्टिर्धीरापि मे मोहे सन्ना सेनेव सङ्गरे ॥ ६९ ॥
धीरा धैर्यवती स्थैर्यवती च मे दृष्टिः सङ्गरे सेनेव तदङ्गजजगद्वस्तुभिः सह
जातानि यानि भ्रमणानि तत्सम्भवाच्छ्रमात्सन्ना कुण्ठितशक्तिरासीदित्यर्थः ॥ ६९ ॥
प्रोह्यन्ते यन्त्रवच्छैला निपतन्ति नभश्चराः ।
लुठन्त्यमरगेहानि वलिते देहदर्पणे ॥ ७० ॥
तस्या देहदर्पणे वलिते परिवर्तिते सति ॥ ७० ॥
मेरवः पर्णवद्व्यूढा मलयाः पल्लवा इव ।
हिमाद्रयो हिमकणा इवौर्व्योऽब्जलता इव ॥ ७१ ॥
उर्व्या भवा और्व्यः अब्जलता इव व्यूढा विशकलिताः ॥ ७१ ॥
सह्या मह्यामिव खगा विन्ध्या विद्याधरा इव ।
वृक्षावर्ते भ्रमन्तोऽन्ता राजहंसा इवाम्बरे ॥ ७२ ॥
अम्बरे राजहंसा इव वृक्षावर्ते अन्तर्भ्रमन्तः । अन्ता इति ढ्रलोपेऽणो दीर्घः ॥ ७२ ॥
द्वीपान्यपि तृणानीव समुद्रा वलया इव ।
सुरलोकालयः पद्मा आसंस्तद्देहवारिणि ॥ ७३ ॥
तद्देहलक्षणे वारिणि सरसि सुरलोकानामालयः पङ्क्तयः पद्मा इवेत्यनुषज्यते ।
उत्प्रेक्षापङ्क्तिनिवेशात्ताभित्तद्देहे सरोरूपकसमर्थात् ॥ ७३ ॥
विशदाकाशसङ्काशे स्वप्नाञ्जनपुरोपमे ।
अङ्गे तस्या बृहज्जङ्गे पिण्डादित्यसमत्विषि ॥ ७४ ॥
पिण्डीभूतैरादित्यैः समत्विषि तस्या अङ्गे विन्ध्यादयः सर्वे जङ्गमतां गता इति
परेणान्वयः ॥ ७४ ॥
विन्ध्यो नृत्यति काञ्चनाचलवने सह्यश्च सह्यो गिरिः कैलासो मलयो
महेन्द्रशिखरी क्रौञ्चाचलो मन्दरः ।
गोकर्णो गगनाङ्गणे वसुमती विद्याधराणां पुरं सर्वे जङ्गमतां गता
वनभवस्तस्याः शरीरे सदा ॥ ७५ ॥
काञ्चनाचलस्य शिरोरुहे वने विन्ध्यश्चिरन्तनं वैरं निर्यातयन्निव नृत्यति
तदसह्यः सह्यो गिरिः कैलासादयश्च गगनाङ्गणे कोपादिव नृत्यन्ति ।
तत्पक्षपाताद्वसुमती विद्याधराणां पुरं च नृत्यतः । इत्थं सर्वे स्थावरा
जङ्गमतां गता इत्यर्थः ॥ ७५ ॥
अब्धिर्नृत्यति पर्वते गिरिरपि प्रोच्चैर्नभःकोटरे व्योमापीन्दुदिवाकरैः क्व
चलितं भूमेरधस्ताद्गतम् ।
सद्वीपाचलपत्तनो वनगणः प्रोत्कीर्णपुष्पो दिवि व्यालोलं जगदम्बुधाविव
तृणं दिक्चक्रके भ्राम्यति ॥ ७६ ॥
किञ्चेदमपरमाश्चर्यम् - अब्धिः पर्वते नृत्यति । स च गिरिः
प्रोच्चैर्नभःकोटरे नृत्यति । तद्व्योमापि इन्दुदिवाकरैः सह भूमेरधस्ताच्चलितं
सत् क्व गतं न ज्ञायते । प्रोत्कीर्णानि पुष्पाणि यस्मिंस्तथाविधः सद्वीपाचलपर्वतो
[पत्तनः इति पाठः समीचीनः ।] वनगणो दिवि द्युलोके सूर्यादिस्थाने नृत्यति ।
इत्थं व्यालोलं जगदम्बुधौ तृणमिव दिक्चक्रके भ्राम्यतीत्यर्थः ॥ ७६ ॥
व्योम्नि भ्रमन्ति गिरयोऽम्बुधयो दिगन्ते लोकान्तराणि पुरपत्तनमण्डलानि ।
नद्यः सरांसि मुकुरान्तरिव प्रवृद्धवातावकीर्णतृणविक्रमणक्रमेण ॥
७७ ॥
तथा गिरयो व्योम्नि भ्रमन्ति । अम्बुधयश्च दिगन्ते भ्रमन्ति । पुरपत्तनमण्डलानि
नद्यः सरांसि च स्वाश्रयलोकाल्लोकान्तराणि मुकुरान्तरिव प्रविश्य प्रवृद्धेन
वातेनावकीर्णानां तृणानां यानि विक्रमणानि उड्डयनानि लोके प्रसिद्धानि
तत्क्रमेण भ्रमन्तीत्यर्थः ॥ ७७ ॥
मत्स्याश्चरन्ति च मरौ वरवारिणीव व्योम्नि स्थिराणि नगराणि भुवीव भान्ति ।
खे भूधरा गगनसङ्क्षयवारिवाहमुत्पातवातपरिवृत्तगिरिस्थितं तत् ॥ ७८ ॥
किं च मत्स्या वरवारिणि समुद्र इव मरौ चरन्ति । नगराणि च भुवीव व्योम्नि स्थिराणि
भान्ति । भूधराः खे भान्ति । गगनं च सङ्क्षयवारिवाहाः प्रलयमेघाश्च
तेषां समाहारो गगनसङ्क्षयवारिवाहमुत्पातवातपरिवृत्तगिरिषु स्थितं
तत्परमाश्चर्यमित्यर्थः ॥ ७८ ॥
ऋक्षोत्करो भ्रमति दीपसहस्रयन्त्रचक्रक्रमेण मणिवर्षणवेगचारुः ।
अन्तर्बहिश्च परितः प्रणयेन मुक्तं विद्याधरामरगणैरिव पुष्पवर्षम् ॥
७९ ॥
किं च ऋक्षोत्करो नक्षत्रसमूहो मणीनां वर्षणवेग इव चारुर्मनोहरः सन्
दीपसहस्राणां भ्रमन्ति यानि यन्त्रचक्राणि तत्क्रमेण भूमेरन्तर्बहिश्च भ्रमति ।
यथा विद्याधरामरगणैः प्रणयेन त्वत्सभायां मुक्तं पुष्पवर्षमन्तर्बहिश्च
भ्रमति तद्वत् ॥ ७९ ॥
संहारसर्गनिचया दिनरात्रिभागे बिन्दूपमा रजतयोर्दिवसोत्कराश्च ।
कृष्णाः सिताश्च परितोऽमलशुक्लकृष्णस्वादर्शमण्डलवदाकुलमुल्लसन्ति ॥
८० ॥
किं च तद्देहे संहाराः प्रलयाः सर्गनिचयाश्च दिनरात्र्योर्भागे पक्षे उल्लसन्ति ।
दिनरात्रिप्राया अल्पा इति यावत् । तथा दिवसोत्करा दिनरात्रिसमूहाश्च मलिनामलिनयो
रजतयोर्बिन्दूपमा अत्यल्पा उल्लसन्ति । कृष्णाः सिताश्च पक्षाः परितः अमला ये
शुक्लाः कृष्णाश्च वज्रेन्द्रनीलादिनिर्मिताः शोभना
आदर्शास्तन्मण्डलवदुल्लसन्तीत्यर्थः ॥ ८० ॥
रत्नानि भास्करनिशाकरमण्डलानि तारोत्करास्तरलमण्डलकान्तिहाराः ।
स्वच्छाम्बराणि वलितानि महाम्बराणि कुर्वन्त्यनारतमनल्पमलातलेखाः ॥ ८१
॥
तथा तद्देहे भास्करनिशाकरमण्डलानि रत्नानि सम्पन्नानि । तारोत्करा
नक्षत्रसमूहास्तु तरला मण्डलाकारा कान्तिर्येषां तथाविधा हाराः सम्पन्नाः ।
स्वच्छान्यम्बराण्याकाशास्तु वलितानि वेष्टितानि महान्त्यम्बराणि वस्त्राणि
सम्पन्नानि । तेषु भ्रमद्वैद्युताग्न्यादयः अलातलेखा अनारतमनल्पं प्रकाशं
कुर्वन्तीत्यर्थः ॥ ८१ ॥
कल्पान्तकालविलुठत्त्रिजगन्मणीनि व्यावर्तनैर्झगिरि जातझणज्झणानि ।
तेजांसि झङ्कृततयोर्ध्वमधश्च यान्ति नानाविधानि गुणवन्ति विभूषणानि ॥
८२ ॥
तन्नृत्ये कल्पान्तकाले विलुठत् त्रिजगद्व्यावर्तनैर्झगिति झटिति जातझणज्झणानि
मणीनि सम्पन्नानि । तथा झङ्कृततया झङ्कारेण ऊर्ध्वमधश्च यान्ति
सूर्यादितेजांसि नानाविधानि गुणवन्ति नूपुरवलयादिविभूषणानि सम्पन्नानीत्यर्थः
॥ ८२ ॥
सङ्ग्राममत्तभटखड्गमरीचिवीचिश्यामायमानसकलातपवासराणाम् ।
व्यावृत्तिभिर्विलुठतामपि सुस्थिराणामाकर्ण्यते कलकलो जनमण्डलानाम् ॥ ८३
॥
किञ्चापरमत्याश्चर्यम् - सङ्ग्रामेषु मत्तानां भटानां
खड्गप्रभावीचिभिः श्यामायमानसकलातपा वासरा येषाम् । तथा देवीताण्डवे
व्यावृत्तिभिर्भ्रमणैर्विलुठतामप्यधिष्ठानब्रह्मस्थैर्यात्सुस्थिराणां
वीरजनमण्डलानां कलकलो महायुद्धकोलाहल आकर्ण्यते ॥ ८३ ॥
ब्रह्मेन्द्रविष्णुहरवह्निरवीन्दुपूर्वा देवासुराः परिविवृत्तिभिरापतन्तः ।
अन्येऽन्य एव विविधा उपयान्ति यान्ति वातावधूतमशकाशनिविभ्रमेण ॥ ८४ ॥
किञ्चिदमपरमाश्चर्यम् । अनन्तकोट्यतीतानागतसर्गप्रलयघटितशरीराया
अस्यास्ताण्डवे ब्रह्मेन्द्रादयो देवासुरा अधिकारप्रवृत्तिभिरन्येऽन्य एव आपतन्त
आपद्यमानाः सन्तो वातावधूतमशकानामशनीनां विद्युतामिव च प्रसिद्धेन
विभ्रमेण अस्थिरताविलासेन आयान्ति यान्ति च ॥ ८४ ॥
संहारसर्गसुखदुःखभवाभवेहानीहानिषेधविधिजन्ममृति##-
सार्धं पृथक्च विलसन्ति सदैव सर्गे व्यामिश्रतामुपगता अपि तत्र भावाः ॥
८५ ॥
किञ्चापरमाश्चर्यम् - तत्र तस्याः शरीरे प्रतीयमाने सर्गे संहारसर्गादयः
परस्परविरुद्धा अपि सर्वभावाः परस्परासंस्पर्शेन सदा सार्धं पृथक् च
विलसन्ति । व्यामिश्रतामुपगता अपि विलसन्तीत्यर्थः ॥ ८५ ॥
भावोद्भवस्थितिविपत्करणभ्रमाणां संहारसर्गभुवनावनिविभ्रमाणाम्
।
मिथ्यैव खे प्रकचतां खशरीरकाणां संलक्ष्यतेऽत्र न मनागपि नाम
सङ्ख्या ॥ ८६ ॥
किं चात्र तच्छरीरे खे चिदाकाशे मिथ्यैव प्रकचतामत एव खशरीरकाणां
शून्यानां संहारसर्गभुवनावनिविभ्रमाणां भावादधिष्ठानादुद्भवः
स्थितिर्विपदपक्षयः करणमर्थक्रियाभ्रमाः परिवर्ताश्चेत्येतेषां सङ्ख्या इयत्ता
मनागपि न संलक्ष्यते ॥ ८६ ॥
उत्पातशान्तिमरणोत्सवयुद्धसाम्यविद्वेषरागभयविश्वसनादि तत्र ।
एकत्र कोश इव रत्नचयो विभाति नानारसाप्रतिघसर्गपरम्परं तत् ॥ ८७ ॥
किं च तत्र तद्वपुषि उत्पाततच्छान्त्यादिविरुद्धद्वन्द्वजातमेकत्र कोशे रत्नचय इव
विभाति । यतस्तद्वपुर्नानारसा अपि परस्परमप्रतिघाः सर्गपरम्परा
यस्मिंस्तथाविधमित्यर्थः ॥ ८७ ॥
तस्याश्चिदम्बरमये वपुषि स्वभावभूतास्फुटानुभवभावजगद्व्यवस्थाः ।
सर्वक्षया मलिनदृक्कलिताम्बरस्थकेशोण्ड्रकस्फुरणवत्परितः स्फुरन्ति ॥
८८ ॥
किं च तस्याः परमार्थतश्चिदम्बरमये वपुषि स्वभावभूतः
अशास्त्रीयप्रतीतिसिद्धो यो मायावरणलक्षणोऽस्फुटानुभवभावस्तत्प्रयुक्ता
जगद्व्यवस्थाः सर्वक्षयाश्च परितस्तिमिररोगमलिनदृशा कलितानि
अम्बरस्थकेशोण्ड्रकस्फुरणानीव स्फुरन्ति ॥ ८८ ॥
जगत्सङ्क्षुब्धमक्षुब्धं दृश्यते स्थितिसंस्थिति ।
सञ्चाल्यमानमुकुरप्रतिबिम्ब इवास्थितम् ॥ ८९ ॥
अचलायामधिष्ठानसन्मात्रस्थितौ संस्थितिर्यस्य तथाविधं जगदक्षुब्धमेव
मायाक्षोभदृष्ट्या सङ्क्षुब्धं दृश्यते यतस्तद्बिम्बात्मना अचल एव गिरिः
सञ्चाल्यमानमुकुरप्रतिबिम्बः संश्चल इव भवति तद्वदास्थितमित्यर्थः ॥ ८९ ॥
नृत्यस्फुरत्प्रतापान्तर्जगदर्थाः प्रतिक्षणम् ।
स्थितिं त्यजन्ति गृह्णन्ति बालसङ्कल्पसर्गवत् ॥ ९० ॥
नृत्येन स्फुरत्प्रतापाया मायाया अन्तर्निविषाः सर्वे जगदर्थाः प्रतिक्षणं
परिणामेन पूर्वस्थितिं त्यजन्ति अन्यां च स्थितिं गृह्णन्ति । तत्र बालसङ्कल्पसर्ग एव
प्रसिद्धो दृष्टान्त इत्यर्थः । तथा चाहुः साङ्ख्याः प्रतिक्षणपरिणामिनो हि सर्वे
भावाः इति ॥ ९० ॥
क्रियाशक्तिः शरीरेऽन्तः पूर्यमाणा अनारतम् ।
राशीभूय विशीर्यन्ते जगन्मुद्गकणोत्कराः ॥ ९१ ॥
सर्वपदार्थानामुत्पादनार्थमेव कारकक्रियाशक्तय उपयुज्यन्ते । उत्तरे तु
भावविकाराः स्वत एव काले प्रवर्तन्ते । यथा मुद्गानां राशीकरणे
कारकक्रियाशक्तिरुपयुज्यते विशीर्यप्रसरणे तु स्वः स्निग्धतास्वभाव एव हेतुर्न
कारकान्तरक्रियाशक्तिस्तद्वदित्याह - क्रियाशक्तीति ॥ ९१ ॥
क्षणमालक्ष्यते किञ्चिन्न किञ्चिदपि सा क्षणम् ।
क्षणमङ्गुष्ठमात्रैव क्षणमाकाशपूरिणी ॥ ९२ ॥
यस्मात्सा सकला देवी संविच्छक्तिर्जगन्मयी ।
अनन्ता परमाकाशकोशशुद्धशरीरिणी ॥ ९३ ॥
परिणामिस्वभावजडजगन्मयीत्वादेव सा देवी प्रतिक्षणमन्यथान्यथा लक्ष्यत
इत्याह - क्षणमिति ॥ ९२ ॥ ९३ ॥
कालत्रयस्थितजगत्त्रितयान्तरी हि चित्सा तथा कचति तेन यथास्थितेन ।
रूपेण चित्रकृदुदारमनःस्थचित्रसंसारजालसदृशेन कचज्जवेन ॥ ९४ ॥
सा हि देवी कालत्रयस्थितस्य सर्वतत्तत्परिणामवैचित्र्यशालिनो जगत्त्रितयस्यान्तर्भवा
आन्तरी चित् । अतः कारणाद्यथास्थितेन पर्यायवर्तिना
तत्तत्कामकर्मवासनापरिपाकानुसारेण कचज्जवेन चित्रकृतः पुरुषस्य उदारे मनसि
स्थितं यच्चित्रसंसारजालं तत्सदृशेन यथास्थितेन तेन तेन विचित्रेण रूपेण तथा
कचतीत्यर्थः ॥ ९४ ॥
सर्वात्मकैकवपुरेकचिदात्मकत्वात्संशान्तखैकवपुरेकचिदात्मतत्त्वात् ।
एवं निमेषणसमुन्मिषितैकरूपं सा बिभ्रती वपुरनन्तमनादि भाति ॥ ९५ ॥
तर्हि किं सा सप्रपञ्चैव नेत्याह - सर्वात्मकेति । सा देवी
अविद्यावृतैकचिदात्मकत्वात्सर्वसंसारात्मकैकवपुश्चित्रभित्तिरिवास्ते । विद्यानिरस्ता
विद्यैकचिदात्मकत्वात्तु संशान्तं यत् खमाकाशं तद्वपुर्निष्प्रपञ्चैवास्ते ।
एवं बद्धदृशा मुक्तदृशा च गम्यं निमेषणेन समुन्मिषितेन
चाविद्याविद्याभ्यां पर्यायव्यञ्जितेनोपलक्षितं
परमार्थतश्चिदेकरूपमनाद्यनन्तं वपुर्बिभ्रती सा भातीत्यर्थः ॥ ९५ ॥
तस्यां विभाति तदनन्तशिलात्मकोशे लेखाब्जचक्ररचनादिवदेव दृश्यम् ।
व्योमात्मकं गगनमात्रशरीरवत्यां चित्त्वाद्द्रवज्जलधिकोश इवोर्मिलेखा ॥ ९६
॥
विवर्तदृशा परिणामदृशा च जीवन्मुक्तानां यौक्तिकानां च तस्यां जगद्भाने
दृष्टान्तद्वयमाह - तस्यामिति । शिलात्र स्फटिकशिला ।
गगनमात्रशरीरवत्यामित्यन्तमाद्यदृष्टान्तस्य विवरणं शिष्टं द्वितीयस्य ॥ ९६
॥
महती भैरवी देवी नृत्यन्त्यापूरिताम्बरा ।
तस्य कल्पान्तरुद्रस्य सा पुरो भैरवाकृतेः ॥ ९७ ॥
इत्थं तस्यास्तन्नृत्यस्य च तत्त्वमुपवर्ण्य पुनस्तन्नत्यमुत्प्रेक्षादिमिर्वर्णयति ##-
शिरोमन्दाश्रितोग्राग्निदग्धस्थाणुवनावनिः ।
कल्पान्तवातव्याधृता वनमालेव नृत्यति ॥ ९८ ॥
कल्पान्तरुद्रस्य शिरो ललाटस्थानममन्दमाश्रितेन उग्रेण तृतीयनेत्राग्निना
दग्धानि अत एव स्थाणुपरिशेषाणि वनानि यस्यां तथाविधा
अवनिर्भूमिर्यस्यास्तथाविधा कल्पान्तवातैर्व्याधूता वनमाला वनपङ्क्तिरिव सा
नृत्यतीत्युत्प्रेक्षा उपमा वा ॥ ९८ ॥
कुद्दालोलूखलबृसीफलकुम्भकरण्डकैः ।
मुसलोदञ्चनस्थालीस्तम्भैः स्रग्दामधारिणी ॥ ९९ ॥
न केवलं तस्याः प्राग्वर्णितान्येव स्रग्दामानि किन्तु खनित्रमुसलोलूखलाद्यपीत्याह
- कुद्दालेति ॥ ९९ ॥
एवंविधानां स्रग्दामजालानां कुसुमोत्करम् ।
किरन्ती संसृजन्तीव नृत्तक्षुब्धं क्षंयक्षतम् ॥ १०० ॥
नृत्ते क्षुब्धं व्याधूतं क्षयेण भङ्गेन क्षतं किरन्ती नवं नवं
संसृजन्तीव ॥ १०० ॥
वन्द्यमानस्तया सोऽपि तथैवाकाशभैरवः ।
तथैव वितताकारस्तदोच्चैः परिनृत्यति ॥ १०१ ॥
डिम्बं डिम्बं सुडिम्बं पच पच सहसाझम्य झम्यन्न् प्रझम्यं
नृत्यन्ती शब्दवाद्यैः स्रजमुरसि शिरःशेखरं तार्क्ष्यपक्षैः । पूर्णं
रक्तासवानां यममहिषमहाशृङ्गमादाय पाणौ पायाद्बो वन्द्यमानः
प्रलयमुदितया भैरवः कालरात्र्या ॥ १०२ ॥
रक्तासवानां पूर्णं यममहिषस्य महाशृङ्गं पाणावादाय डिम्बं
डिम्बमित्यादिमिस्तालव्यञ्जकैः शब्दवाद्यैर्नृत्यन्त्या उरसि शिरः शिरांस्येव
स्रजं कृत्वा विभ्रत्या तार्क्ष्यपक्षैः शेखरं भूषितवत्या प्रलये जगद्भुक्त्वा
मुदितया कालरात्र्या वन्द्यमानः स्तूयमानो भैरवो वः पायात्
ज्ञानप्रतिबन्धकदोषनिरासेन रक्षत्वित्याशीः ॥ डिम्बं डिम्बमित्यादेश्चायमर्थः
- हे भैरव त्वं सर्वप्राणिनां डिम्बमनर्थभोगोपाधिं
स्थूलशरीरादिप्रपञ्चं आझम्य । झमु अदने । भक्षयित्वा ततो डिम्बं
सूक्ष्मशरीरादिप्रपञ्चमपि झम्यं भक्ष्यं कृत्वा ततोपि सुडिम्बं
मूलोपाधिभूतं कारणशरीरमपि चरमसाक्षात्कारे तत्त्वत आविर्भूय प्रझम्यन्न्
सम्यग्भक्ष्यन्न् कृत्वा पञ्चमादियोगभूमिकारोपणेन सहसा शीघ्रमेव पच
पच सप्तमभूमिकापर्यन्तं सम्यक्परिपाच्य विदेहकैवल्येन जरयेति स्तूयमान इति ।
इति नृत्यन्त्या कालरात्र्या सह युष्माभिः स्तूयमानो भैरवो वः पायादिति वाऽन्वयः ॥
१०२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० पाषा०
कालरात्रिवर्णनं नामैकाशीतितमः सर्गः ॥ ८१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
कालरात्रिवर्णनं नामैकाशीतितमः सर्गः ॥ ८१ ॥