अशीतितमः सर्गः ८०
श्रीवसिष्ठ उवाच ।
इति ते सर्व आयाता ब्रह्मलोकनिवासिनः ।
अदृश्यतामेव गता दीपाः क्षीणदशा इव ॥ १ ॥
वैज्ञानिकस्तत्त्वदृशा वर्णितः प्रलयक्रमः ।
प्राकृतो योगिगम्योऽन्यो वर्ण्यते प्रलयक्रमः ॥
धातुर्वासनाकल्पितस्य तल्लोकदेवभुवनादिसर्वप्रपञ्चस्य
तत्प्रारब्धक्षयक्षणोत्पन्नेन साक्षात्कारेण यो बाधस्तल्लक्षणो वैज्ञानिकः
प्रलयः नापश्यन्न् स्वप्ननगरं बुध्यमान इवाग्रगम् इत्यादिना
स्वप्नबाधसदृशः सोपपत्तिकं मुक्तदृशा उपवर्णितः । बद्धदृशा तु
धातुर्देहस्य तदारम्भकोपाधीनां तदिन्द्रियादीनां च स्वस्वकारणे लयद्वारा
मायाशबले ब्रह्मणि लयलक्षणं प्रलयमुपवर्णयितुमुपक्रमते - इतीति ॥ १ ॥
अथ ते द्वादशादित्या ब्रह्मणि ब्रह्मतां गते ।
जगद्वद्ब्रह्मलोकं तमदहन्भास्वरार्चिषः ॥ २ ॥
ब्रह्मणि विधातृदेहे । मायाशबलब्रह्मताम् । जगद्वद्भूम्यादिवत् ॥ २ ॥
वैरिञ्चनगरं दग्ध्वा ध्यानं कृत्वा विरञ्चिवत् ।
तेऽपि निर्वाणमाजग्मुर्निःस्नेहदशदीपवत् ॥ ३ ॥
आदित्याद्यधिकारिजीवानामप्यधिकारप्रारब्धसमाप्तेश्चरमसाक्षात्कारेण
समस्तस्वस्वप्रपञ्चबाधात्तद्वदेव विदेहकैवल्यमासीदित्याह - वैरिञ्चेति ॥ ३ ॥
तत एकार्णवापूरो विरिञ्चनगरान्तरम् ।
रात्रौ भुवमिव ध्वान्तं पूरयामास सूर्मिमान् ॥ ४ ॥
तदुत्तरं किमासीत्तदाह - तत इति । प्राक्प्रक्रान्त एवैकार्णवापूरः । मूर्तिमान् इति
पाठे पञ्चीकृतजलात्मा ॥ ४ ॥
आब्रह्मलोकमभवज्जगदापूर्णमर्णसा ।
तुल्यं रसैकपूर्णेन पक्वद्राक्षाफलेन तत् ॥ ५ ॥
अर्णसा जलेन । तद्ब्रह्माण्डम् ॥ ५ ॥
तत्तदूर्मिगिरिव्रातखगैरावलिताः खिलाः ।
विच्छिन्नाः कपजलदा जल एव निलिल्यिरे ॥ ६ ॥
तैस्तैरूर्मिभिः प्लवमानैर्गिरिव्रातैः खगैर्देवशरीरैश्चावलिता विघट्टिता अत एव
खिला विशीर्णा विच्छिन्नाश्च कल्पजलदाः प्रागुक्ताः पुष्करावर्तकादयः ॥ ६ ॥
एतस्मिन्नन्तरे तत्र दृष्टवानहमम्बरात् ।
यावदभ्युदितं भीमं भीतः किञ्चिन्नभोन्तरात् ॥ ७ ॥
अतस्मिन्नन्तरे अहमम्बरादभ्युदितं भीमं भयानकं किञ्चिद्रूपं दृष्टवान्
न तु विशिष्य रुद्रोऽयमिति परिचितवान् । तावद्भीत इत्यर्थः ॥ ७ ॥
कल्पान्तजगदाकारं कृष्णमापूरिताम्बरम् ।
आकल्पं सम्भृतं नैशं देहेनेवोत्थितं तमः ॥ ८ ॥
तदेव रूपं भीतिहेतुभिरद्भुतैर्विशेषणैर्वर्णयति - कल्पान्तेत्याद्यष्टभिः ।
आकल्पं द्विपरार्धावसानकालपर्यन्तं प्रतिनिशं जातं तम एकत्र
सम्भृतमुपचितं सद्देहेनोत्थितमिवेति संहारमूर्तेरघोररुद्रस्य
कृष्णवर्णोत्कर्षादुत्प्रेक्षा ॥ ८ ॥
तरुणादित्यलक्षाणां तेज आभास्वरं दधत् ।
आदित्यत्रयसङ्काशैः स्थिरविद्युच्चयोल्बणैः ॥ ९ ॥
वर्णेन कृष्णत्वेऽपि तेजसा भास्वरत्वमपीत्याह - तरुणेति ।
दधदित्येतदुत्तरश्लोकेऽप्याभास्वरं मुखं दधदिति सम्बध्यते ॥ ९ ॥
नेत्रैराभास्वरमुखं ज्वालापुञ्न्जसमुद्गिरम् ।
पञ्चाननं दशभुजं त्रिनेत्रं शूलपाणिकम् ॥ १० ॥
ज्वालापुञ्जन्न् समुद्गिरतीति जवालापुञ्जसमुद्गिरम् ॥ १० ॥
आयान्तमन्तमुक्तेऽपि व्योम्नीव वितताकृतिम् ।
खमिवासि घनश्यामं देहमासाद्य संस्थितम् ॥ ११ ॥
स्थितमेकार्णवापूर्णाद्ब्रह्माण्डाद्बहिरम्बरे ।
व्योमेव हस्तपादादिसन्निवेशेन लक्षितम् ॥ १२ ॥
घोणानिलपरावृत्तिविधूतैकमहार्णवम् ।
गोविन्दमिव दोर्दण्डक्षोभितक्षीरसागरम् ॥ १३ ॥
घोणा नासा तदनिलस्य श्वासवायोः परावृत्तिभिर्भ्रमणैः ॥ १३ ॥
कल्पार्णवजलापूरं पुंस्त्वेनेव समुत्थितम् ।
मूर्तियुक्तमहङ्कारमस्तकारणमागतम् ॥ १४ ॥
पुंस्त्वेन पुरुषाकारेण समुत्थितमिव । सर्वाहङ्कारसमष्टिरूपं मूर्तियुक्तं
भूत्वा आगतमिव । सर्वकारणत्वात्स्वयमस्तकारणम् ॥ १४ ॥
कुलाचलबृहद्वृन्दमिवोड्डयनडम्बरैः ।
पक्षौघैरुत्थितं व्योम समस्तमभिपूरयत् ॥ १५ ॥
ततस्त्रिशूलनयनैर्मया रुद्रोऽयमित्यसौ ।
दूरादेव परिज्ञाय परमेशो नमस्कृतः ॥ १६ ॥
ततस्तादृशरूपदर्शनानन्तरं मया त्रिशूलेन त्रिभिर्नयनैश्च
प्रसिद्धैर्लक्षणैरसौ रुद्रः परमेशो जगदीश्वर इति परिज्ञाय नमस्कृतः ॥ १६ ॥
श्रीराम उवाच ।
किं स तादृग्विधो रुद्रः किं कृष्णः किं महाकृतिः ।
किं पञ्चवदनः कस्माद्दशबाहुः स तिष्ठति ॥ १७ ॥
ननु परमेश्वरः मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इत्यादिश्रुतिषु
मायाशबलं ब्रह्मैवामूर्तं महेश्वर इति प्रसिद्धं तत्किमर्थं
कैश्चोपाधिभिः पञ्चवदनादिविशिष्टां मूर्तिं धत्ते सर्वात्मनो वा कथं
परिच्छिन्नमूर्तिभाव इति विशिष्य जिज्ञासमानो रामः पृच्छति - किं स इति । स
सर्वश्रुतिप्रसिद्धः परमेशस्तादृग्विधस्त्वद्वर्णितरीत्या भयानकस्वरूपः
किन्निमित्तं केनोपाधिना स्थित इति प्रश्नस्य प्रपञ्चभूता दशप्रश्नास्त्रयः
स्वतन्त्राः । स तिष्ठतीत्यत्रापि क्वेत्यध्याहृत्याधारप्रश्नो बोध्यः । एवं किमुग्रः
किमात्मेति किमः प्रत्येकं सम्बन्धाद्द्वौ प्रश्नौ ॥ १७ ॥
किं त्रिनेत्रः किमुग्रात्मा किमेकः किम्प्रयोजनः ।
केनेरितः किमकरोच्छायासीद्वद का मुने ॥ १८ ॥
स किं स्वतन्त्र उत परतन्त्रः । यदि स्वतन्त्रस्तर्हि पूर्णकामस्यास्य किमर्थं संहारे
प्रवृत्तिः । यदि परतन्त्रस्तर्हि केनेरितः । तस्मिन्नीश्वरे रुद्ररूपे सति
तदीयच्छायारूपा मायापि का आसीत्तद्वदेत्यर्थः ॥ १८ ॥
श्रीवसिष्ठ उवाच ।
काकुत्स्थ रुद्रनामासावहङ्कारतयोत्थितः ।
विषमैकाभिमानात्मा मूर्तिरस्यामलं नभः ॥ १९ ॥
हे काकुत्स्थ असौ परमेश्वरः
सर्वसर्गस्थितिसंहारादिगोचरसङ्कल्पाध्यवसायादिबीजभूत##-
सर्वजगदध्यासमूलस्तम्भभूतया सर्वप्राणिरोदने सर्वशरणागतरुग्द्रावणे च
निमित्तभूतया रुद्रनामा सन्नुत्थितः । तत्र रोदने विषमाभिमानात्मा रुग्द्रावणे तु
एकाभिमानात्मा सम्पद्यते । अस्य सा मया दृष्टा मूर्तिस्त्वमलं नभः
आकाशमेव ॥ १९ ॥
व्योमाकृतिः स भगवान्व्योमवर्णो महाद्युतिः ।
चिद्व्योममात्रसारत्वादाकाशात्मा स उच्यते ॥ २० ॥
अनेन किं स तादृग्विधः किं कृष्णः किं महाकृतिरिति प्रश्नत्रयं
समाहितमित्याह - व्योमेति ॥ २० ॥
सर्वभूतात्मभूतत्वात्सर्वगत्वान्महाकृतिः ।
यानि तस्यानुषक्तानि पञ्च खानीन्द्रियाण्यलम् ॥ २१ ॥
किं पञ्चवदन इति प्रश्नस्योत्तरमाह - यानीति । तस्याहङ्कारस्य
प्रतिशरीरमनुषक्तानि यानि पञ्चज्ञानेन्द्रियाणि तानि तस्य रुद्रस्य
मुखान्याहुस्तत्त्वविदः ॥ २१ ॥
तानि तस्य मुखान्याहुस्तपद्रूपाणि सर्वतः ।
कर्मेन्द्रियाणि विषयास्ते हि तस्य भुजा दश ॥ २२ ॥
अत एव हि ज्ञनेन्द्रियाणि सर्वतस्तपद्रूपाणि प्रकाशस्वभावानि ॥ २२ ॥
सर्वभूतनरैः सार्धं ब्रह्मणा परमेयुषा ।
यदासौ सम्परित्यक्तस्तदा स्वां मूर्तिमागतः ॥ २३ ॥
कस्माद्दशबाहुः स इति प्रश्नं समाधत्ते - मर्मेन्द्रियाणीति ।
वाक्पाणिपादपायूपस्थाख्यानि पञ्चकर्मेन्द्रियाणि दक्षिणतः
वचनादानविहरणोत्सर्गानन्दाख्याः पञ्च तद्विषयाश्च वामत इति क्रमात्तस्य
दशभुजा इत्यर्थः । तर्ह्यसौ प्रागपि तादृशमूर्त्या कुतो न दृष्ट इति
चेच्चराचरनामरूपकार्याकाराध्यारोपव्यामूढदृष्टिभिस्तदन्तर्गतकारण##-
सर्वैर्भूतैश्चतुर्विधशरीरैर्नरैस्तत्तज्जीवैश्च सार्धं परं कारणं
मायाशबलं ब्रह्म आ ईयुषा प्रलयेन प्राप्तवता ब्रह्मणा चतुर्मुखेन
स्वाध्यारोपितकार्येण पटेन तन्तुरिव यदासौ परित्यक्तस्तदा स्वां
प्रागुक्ताकाशमात्रपरिशेषरूपां वर्णितां मूर्तिमागतः । कारणरूपेण
स्फुटीभूत इति यावत् ॥ २३ ॥
स चैकांशैकरूपात्मा नास्ति तस्य हि साकृतिः ।
तथा दृश्यत एवासौ भ्रान्तिमात्रेण मूर्तिमान् ॥ २४ ॥
यद्यसावाकाशमात्रात्मा तर्ह्यमूर्तस्य तस्य प्राग्वर्णिता देहाकृतिः कथं
दृष्टा तत्राह - स चेति । स च रुद्रः सर्वकार्यविशेषप्रविलयावशिष्टो यः
कारणैकांशस्तदेकरूपात्मा तस्य सा मया वर्णिता देहाकृतिर्नास्ति । तथा उपासकैः
स्ववासनया असौ दृश्यत इत्यर्थः ॥ २४ ॥
चिदाकाशगते स्फारे भूताकाशे स तिष्ठति ।
देहे च सर्वभूतानां नित्यं वायुरिवेश्वरः ॥ २५ ॥
प्रश्नेषु स तिष्ठतीत्यत्र क्वेत्यध्याहृत्य आधारप्रश्नो यो वर्णितस्तस्योत्तरमाह ##-
२५ ॥
सर्वभूतपरित्यक्तस्तस्मिन्काले खमूर्तिमान् ।
क्षोभयन्स क्षणं क्षीणः परमां शान्तिमेष्यति ॥ २६ ॥
ये गुणाकृतयः कालाश्चित्ताहङ्कारबुद्धयः ।
प्रणवस्य च ये वर्णा ये च वेदास्तथा त्रयः ॥ २७ ॥
किं त्रिनेत्र इति प्रश्नस्योत्तरमाह - ये इति ॥ २७ ॥
रुद्रस्य तस्य ते नेत्रसन्निवेशेन संस्थिताः ।
त्रिशूलं तेन त्रैलोक्यं गृहीतं करकोटरे ॥ २८ ॥
ते गुणादिपञ्चत्रिका रुद्रस्य पञ्चसु वक्त्रेषु क्रमान्त्रिनेत्रपञ्चकसन्निवेशेन
संस्थिता इत्यर्थः । किमुग्रात्मेत्यत्र किंशब्दस्य प्रत्येकमन्वयात् किमुग्रः
किमात्मेति द्वौ प्रश्नौ वर्णितौ । तत्राद्यस्य केन त्रिशूलायुधेनोग्र इति गूढार्थस्य
रामाभिप्रेतस्य सर्वज्ञतां ख्यापयन्मुनिरुत्तरमाह - त्रिशूलमिति । करकोटरे
मुष्टिच्छिद्रे ॥ २८ ॥
यस्मात्तद्व्यतिरेकेण सर्वभूतगणेष्वपि ।
अन्यन्न विद्यते किञ्चिद्देहात्मैव ततः स्थितः ॥ २९ ॥
किमात्मेति द्वितीयस्योत्तरमाह - यस्मादिति । सर्वभूतगणदेहात्मेत्यर्थः । अत एव
हि सर्वभूतानामहङ्कारात्मकरुद्राभिध्यानादेव देहात्मत्वाभिमानः । तथा च
भगवतो बादरायणस्य सूत्रम् पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ
इति ॥ २९ ॥
सर्वसत्त्वोपलम्भात्मा स्वभावोऽस्य प्रयोजनम् ।
ईरितः शिवरूपेण चिन्मात्राकाशरूपिणा ॥ ३० ॥
किम्प्रयोजन इत्यस्योत्तरमाह - सर्वेति । स्वसृष्टानां सर्वेषां सत्त्वानां
स्वस्वकर्मानुरूपविषयभोगात्मको य उपलम्भः क्रमाज्ज्ञानसाधनप्राप्तावन्ते
यः स्वात्मतत्त्वोपलम्भश्च तदात्मा यः
शास्त्रीयविहितनिषिद्धकर्मज्ञानफलदानस्वभावः स एवास्य सर्गादौ
प्रयोजकत्वात्प्रयोजनम् । तथा चोक्तं गौडपादैः देवस्यैष
स्वभावोऽयमाप्तकामस्य का स्पृहा इति । केनेरित इति प्रश्नं समाधत्ते - ईरित इति ।
चिन्मात्राकाशरूपिणा शिवं वाङ्मनसागोचरनिरतिशयभूमानन्दात्मकं
परमकल्याणं स्वरूपं यस्य तथाविधेन परमात्मनैव बहु स्यां प्रजायेयेति
सङ्कल्पात्मकमायावृत्त्या ईरितः सर्गाद्युन्मुखतया प्रेरितः सृजति ॥ ३० ॥
तेनैव च निगीर्णः सन्परमां शान्तिमेत्यसौ ।
निर्मलाकाशरूपात्मा कृष्ण इत्येष ईश्वरः ॥ ३१ ॥
प्रलयार्थमीरितश्च सर्गक्रमविपरीतक्रमेण जगन्निगीर्याकाशभावेन स्थितः
स्वयमपि तेनैव शिवरूपेण स्वात्मना निगीर्णः सन् आकाशभावमपि विहाय परमां
भूमानन्दस्वरूपप्रतिष्ठालक्षणां शान्तिमेतीत्यर्थः । किं कृष्ण
इत्यादिप्रश्नानां सर्वेषां सोपपत्तिकं समाधानमुक्तं स्मारयन्नुपसंहरति ##-
कृत्वा कल्पं जगत्सर्वं तत्पीत्वैकार्णवं तदा ।
स प्रयाति परां शान्तिमभूयःसन्निवृत्तये ॥ ३२ ॥
अनन्तरं मया दृष्टस्तत्रासौ यावदुद्यमात् ।
प्रवृत्तः प्राणवेगेन तमाक्रष्टुं महार्णवम् ॥ ३३ ॥
किमकरोदित्युपान्त्यप्रश्नस्य कथाशेषशुश्रूषाविषयत्वमभिप्रेतं
ज्ञात्वोत्तरमाह - अनन्तरमित्यादिना । प्राणवेगेन श्वासानिलवेगेन । आक्रष्टुम् ।
पातुमिति यावत् ॥ ३३ ॥
अथ तस्य मुखं स्फारं ज्वालामालाकुलान्तरम् [ज्वालामालासमाकुलम् इति
टीकाकृदभिमतः पाठः ।] ।
प्राणाकृष्टो महाम्भोधिर्वाडवाग्निमिवाविशत् ॥ ३४ ॥
जलस्य तेजस्युपसंहारद्योतनाय ज्वालामालासमाकुलमित्युक्तम् ॥ ३४ ॥
स एव वाडवो भूत्वा वह्निराकल्पमर्णवे ।
अहङ्कारः पिबत्यम्बु रुद्रः सर्वं तु तत्तदा ॥ ३५ ॥
इतरकालेऽपि जलशोषे तेजस्येवोपसंहारः प्रसिद्ध इत्याशयेनाह - स एवेति ॥ ३५ ॥
पातालमिव पानीयं सर्पो बिलमिव क्षणात् ।
पञ्चवायुरिवाकाशमविशत्तन्मुखं जवात् ॥ ३६ ॥
पञ्चवायुः पञ्चवृत्तिः प्राणः प्राणिनां मुखाकाशमिव । अपानस्यापि
प्राणात्मकत्वात्पञ्चवृत्तिकत्वव्यपदेशः ॥ ३६ ॥
समुपेत्यापिबद्रुद्रः स मुहूर्तेन तत्पयः ।
कृष्णाङ्गोऽर्क इव ध्वान्तं सत्सम्पर्क इवागुणम् ॥ ३७ ॥
अगुणं दोषजातम् ॥ ३७ ॥
आब्रह्मलोकपातालं शान्तं शून्यमथाभवत् ।
रजोधूमानिलाम्भोधिभूतमुक्तं समं नभः ॥ ३८ ॥
समं सर्ववैषम्यनिर्मुक्तम् ॥ ३८ ॥
केवलं तत्र दृश्यन्ते चत्वारो व्योमनिर्मलाः ।
इमे पदार्था निस्पन्दाः शृणु तान्रघुनन्दन ॥ ३९ ॥
इमे वक्ष्यमाणाः पदार्थाः ॥ ३९ ॥
एकस्तावदसौ मध्ये रुद्रः कृष्णाम्बराकृतिः ।
निराधारः स्थितो व्योम्नि निस्पन्दामोदबिम्बवत् ॥ ४० ॥
आमोदः सौरभं तद्बिम्बं तत्स्वरूपं तद्वत् ॥ ४० ॥
द्वितीयोऽवस्थितो दूरे पृथ्व्याकाशतलोपमः ।
भागो ब्रह्माण्डसदनस्याधः पातालसप्तकात् ॥ ४१ ॥
पातालभूतलदिवां सशैलेन्द्रदिवौकसाम् ।
व्याप्तः पार्थिवभागेन पङ्कमात्रात्मनात्मभक् ॥ ४२ ॥
त्रयाणां लोकानां तद्गतपदार्थानां च भस्मीभावात्पुनर्जलक्लेदनेन
पङ्कमात्रात्मना पार्थिवभागेन व्याप्तः सन्नात्मभाक् ऊर्ध्वभागापेक्षया
किञ्चिदुपचितात्मा ॥ ४२ ॥
तृतीयोऽत्र पदार्थोऽभूदूर्ध्वं ब्रह्माण्डभागभूः ।
दृष्टिक्षयात्सुदूरत्वाद्दुर्लक्ष्यगगनासितः ॥ ४३ ॥
दृष्टिक्षयान्नयनरश्मीनां तत्राप्रसरात् । तत्र हेतुः - सुदूरत्वादिति ॥ ४३ ॥
दूरविश्लिष्टयोर्मध्यं यत्तद्ब्रह्माण्डखण्डयोः ।
तदाकाशमनाद्यन्तं ब्रह्म निर्मलमाततम् ॥ ४४ ॥
चतुर्थः पदार्थस्तदुभयान्तरालाकाशमेवेत्याह - दूरेति । ब्रह्मेव निर्मलम् ॥
४४ ॥
चतुर्थोऽसौ पदार्थस्तु तदा संलक्षितो मया ।
चतुष्टयादत्र नान्यदेतस्मादेव किञ्चन ॥ ४५ ॥
असौ अन्तरालाकाशः । अत्र मत्पुरोगतपदार्थमध्ये एतस्माच्चतुष्टयादन्यत्किञ्चन
नैवासीदित्यन्वयः ॥ ४५ ॥
श्रीराम उवाच ।
बहिः किं विद्यते ब्रह्मन्ब्रह्मसद्मकटाहतः ।
कास्तत्रावरणा ब्रूहि कियत्यः संस्थिताः कथम् ॥ ४६ ॥
सावरणाभ्यां ब्रह्मसद्मकटाहौ ब्रह्माण्डखर्परे ताभ्यां बहिः किं विद्यते ।
तत्र तयोः का आवरणाः । ताश्च कियत्यः । निराधाराश्च कथं संस्थिता इति चत्वारः
प्रश्नाः ॥ ४६ ॥
श्रीवसिष्ठ उवाच ।
ब्रह्माण्डखण्डयोः पारे ततो दशगुणं जलम् ।
सन्ध्याकाशमनन्तं तद्वर्जयित्वा ततः स्थितम् ॥ ४७ ॥
तत्र मध्यमप्रश्नयोः प्रथममुत्तरमाह - ब्रह्माण्डखण्डयोरिति । तच्च
जलमनन्तमतिविस्तृतं खण्डद्वयसन्ध्याकाशमन्तर्वर्जयित्वा बहिरेवाततं
स्थितम् । यद्यपि खण्डद्वयसन्ध्याकाशो बृहदारण्यके तद्यावती क्षुरस्य धारा
यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाकाशः इति
क्षुरधारामक्षिकापक्षपरिमितोऽत्यन्तसूक्ष्मः प्रतिपादितस्तथापि प्रागत्र चतुर्मुखो
ब्रह्माण्डखण्डद्वयं बिभेद तच्च भिन्नं दूरतरं गतमिति
वर्णितत्वात्तदनुसारेण सन्ध्याकाशस्यानन्तत्वोक्तिरिति बोध्यम् ॥ ४७ ॥
ततस्तथैव ज्वालात्म तेजो दशगुणं स्थितम् ।
ततस्तथैव पवनः पवनो निर्मलः स्थितः ॥ ४८ ॥
तथैव जलवदेव पवनस्तज्जलपवित्रीकरणः स्वयं च रजोमालिन्यरहितः पवनो
वायुः स्थितः ॥ ४८ ॥
ततस्तथैव विमलं नभो दशगुणं स्मृतम् ।
ततः परममत्यच्छं ब्रह्माकाशमनन्तकम् ॥ ४९ ॥
नभ आकाशम् । प्रथमप्रश्नस्योत्तरमाह - तत इति । अतिसूक्ष्मत्वादत्यच्छन्न्
मायाशबलब्रह्माकाशं स्थितम् ॥ ४९ ॥
अन्यत्रान्यत्र तस्याथ दृष्टयोऽन्यास्तथैव खे ।
कचन्त्यनन्ता दूरस्था मिथो दृष्टात्मसृष्टयः ॥ ५० ॥
ननु पुराणादौ आकाशात्परतो दशगुणमहङ्कारतत्त्वं ततः परं तद्दशगुणं
महत्तत्त्वं तदग्रे अनन्ता प्रकृतिश्च वर्णिता तदत्र कथं परित्यक्तं तत्राह -
अन्यत्रेति । तस्य मायाशबलब्रह्मणः खे आवृते स्वरूपाकाशे अन्यत्रान्यत्र
योगिमाहेश्वरपाञ्चरात्रकापिलादितन्त्रेषु अन्या अन्या
महदहङ्कारादितत्त्वभेदावरणकल्पनादृष्टयः अनन्ताः कचन्ति ताश्च मिथः
परस्परं संवादेन दृष्टात्मकल्पनासृष्टयः पुराणेषु कीर्त्यन्ते न श्रुतिषु ताः
प्रक्रियाः सन्तीत्यस्माभिरुपेक्षिता इत्यर्थः । ब्रह्माण्डभेददृष्टिपरतया वा श्लोको
व्याख्येयः ॥ ५० ॥
श्रीराम उवाच ।
ऊर्ध्वे ब्रह्माण्डखण्डस्य तथाधस्तान्मुनीश्वर ।
तज्जलादिमहाकारं क्व कथं केन धार्यते ॥ ५१ ॥
चतुर्थं प्रश्नं परिशिष्टं स्मारयन् रामः पृच्छति - ऊर्ध्वे इति ।
ब्रह्माण्डादप्युत्तरोत्तरं दशदशगुणविस्तारान्महाकारम् ॥ ५१ ॥
श्रीवसिष्ठ उवाच ।
स पार्थिवपदार्थानां स्थितः पुष्करपत्रवत् ।
भागस्तमेवाधावन्ति ते सुता मातरं यथा ॥ ५२ ॥
तं पार्थिवं ब्रह्माण्डखर्परभागमेव आधावन्ति आधारादिभावेनाश्रयन्ति ।
यथा सुता वानरीशिशवो मातरमुदरे दृढं गृहीत्वा प्लवनेऽपि न पतन्ति
तद्वदित्यर्थः ॥ ५२ ॥
अत्प् यदेव नेदीयो ब्रह्माण्डाख्यं महावपुः ।
तत्पदार्थाः प्रधावन्ति तृषिताः सलिलं यथा ॥ ५३ ॥
ऊर्ध्वखर्परोपरितनजलस्याप्यपतने अयमेव न्यायः सामीप्यानुगृहीतो बोध्य
इत्याशयेनाह - अत इति । नेदीयः सन्निहिततरम् । अन्तिकबाढयोर्नेदसाधौ इति ईयसुनि
नेदादेशः ॥ ५३ ॥
अवलम्ब्य तदेवान्तः संस्थितास्तैजसादयः ।
न स्थितिं प्रविमुञ्चन्ति स्वां यथावयवा इव ॥ ५४ ॥
यथा शरीरसंयुक्ता हस्तपादाद्यवयवा दृढतरसंयोगस्थितिं न प्रतिमुञ्चन्ति
तद्वत् ॥ ५४ ॥
श्रीराम उवाच ।
ब्रह्मन्ब्रह्माण्डखण्डे ते तिष्ठतः कथमुच्यताम् ।
किमाकृतीं धृते केन कथं वा परिनश्यतः ॥ ५५ ॥
इतरावरणाधारयोर्भ्रह्माण्डखर्परयोरतिगुरुत्वादवश्यं पिपतिषतोः
कस्तर्ह्याधार इति रामः पृच्छति - ब्रह्मन्निति । कथं केनाधारेण तिष्ठतः ॥
५५ ॥
श्रीवसिष्ठ उवाच ।
अधृतं धृतमेवोच्चैरपतच्चैव वा पतत् ।
अनाकृत्येव साकारं जगत्स्वप्नपुरं यथा ॥ ५६ ॥
सत्यतादृष्टावियमाधारादिचिन्ता । मिथ्यादृष्टौ तु न
गुरुतराणामप्याधारादिनियमोऽस्तीति स्वप्नदृष्टान्तेन वसिष्ठ उत्तरमाह -
अधृतमिति । अनाकृति अमूर्तम् ॥ ५६ ॥
किमस्य नाम पतति किं वा केनास्य धार्यते ।
यथा संवित्ति कचनं तथैतदवतिष्ठते ॥ ५७ ॥
यथा केशोण्ड्रकं व्योम्नि यथा च व्योम्नि शून्यता ।
यथा वा पवने स्पन्दो जगच्चिद्गगने तथा ॥ ५८ ॥
चितौ सङ्कल्पनगरं ब्रह्माण्डाख्यं जगद्गृहम् ।
खे खमेवाप्यनाकारं प्रत्याकारमिव स्थितम् ॥ ५९ ॥
प्रत्याकारं प्रतिनियताकारमिव ॥ ५९ ॥
पातसंवित्समुद्भूतं एतदास्ते दिवानिशम् ।
गच्छन्त्या संविदोद्भूतं गच्छदास्ते दिवानिशम् ॥ ६० ॥
सर्वपदार्थानां यथा संवेदनमेव स्वभावो नियतोऽनियतो वा सिद्ध्यतीत्याह -
पातेति । गच्छन्त्या गमनाध्यासवत्या ॥ ६० ॥
स्थितसंवित्समुद्भूतं तिष्ठदास्ते दिवानिशम् ।
उत्पतन्त्या चितोद्भूतमुत्पतच्चैव तिष्ठति ॥ ६१ ॥
तथा च किमाकृती धृते केन इति प्रश्नावपि स्वसंवित्कल्पितनियतानियताकृती
संविदैव धृते इत्यर्थाद्दत्तोत्तरौ ॥ ६१ ॥
एति नाशविदा नाशं महाकल्पादिवेदनैः ।
जायते जन्मसंवित्त्या व्योम्नि सर्वादिवेदनैः ॥ ६२ ॥
कथं वा परिनश्यत इत्यस्योत्तरमाह - एतीति ॥ ६२ ॥
आभाति मौक्तिकगणः शरदम्बरान्तर्दृष्टावसत्य उदितोऽप्यतिसत्यरूपः ।
भ्रान्त्या यथा नभसि च स्फुरतां तथैषां सङ्ख्यां विधातुमिह को जगतां
समर्थः ॥ ६३ ॥
यथा शरदम्बरान्तर्विलोकयतो दृष्टौ पतद्बदरकाकारौ मौक्तिकगण आभाति
तथा चिन्नभसि भ्रान्त्या स्फुरतामेषां जगतां
सङ्ख्यामाधारादितत्त्वपरिगणनं कर्तु कः समर्थः । न कश्चिदित्यर्थः ॥ ६३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे उ० पाषा०
भ्रान्तिमात्रत्वप्रतिपादनन्न् नामाशीतितमः सर्गः ॥ ८० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
भ्रान्तिमात्रत्वप्रतिपादनं नामाशीतितमः सर्गः ॥ ८० ॥