०७९

एकोनाशीतितमः सर्गः ७९

श्रीवसिष्ठ उवाच ।

एतस्मिन्नन्तरे चक्षुर्व्योमस्थोऽहमथात्यजम् ।
ब्रह्मलोके महालोके प्रभातेऽर्कप्रभामिव ॥ १ ॥

सर्षिदेवगणस्यात्र धातुर्निर्वाणमीर्यते ।
स्वप्नस्येव प्रबोधेन बाधस्तच्च समर्थ्यते ॥

अथ एतस्मिन्नन्तरे तपोलोकपर्यन्तमेकार्णववारिपूरणोत्तरकालं
सत्यलोकसन्निहितव्योमस्थोऽहं महालोके प्रकाशबहुले ब्रह्मलोके चक्षुः अत्यजम् ।
दर्शनाय प्रेरितवानिति यावत् ॥ १ ॥

यावद्दृष्टो मया तत्र शैलादिव विनिर्मितः ।
परमेष्ठी समाधिस्थः प्रधानपरिवारवान् ॥ २ ॥

प्रधानः परिवारः प्राणाद्युपासनाभिः सालोक्यादिमुक्तिं प्राप्तो ब्रह्मणा सह
विदेहकैवल्यं विविक्षुर्जीवन्मुक्तपरिवारस्तद्वान् । तथा चोक्तम् ब्रह्मणा सह ते सर्वे
सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् इति ॥ २ ॥

समूहश्चैव देवानां मुनीनां भावितात्मनाम् ।
शुक्रो बृहस्पतिश्चैव शक्रो वैश्रवणो यमः ॥ ३ ॥

देवानां शक्रादीनामाधिकारिकदेवानां तादृशशुक्रादिमुनीनां च समूहस्तत्र
मया दृष्ट इत्यन्वयः । तानेव कांश्चिदवयुत्याह - शुक्र इत्यादिना ॥ ३ ॥

सोमोऽथ वरुणोऽग्निश्च तथान्येऽपि सुरर्षयः ।
देवगन्धर्वसिद्धानां साध्यानां च विनायकाः ॥ ४ ॥

विनायका नियन्तारः । स्वामिन इति यावत् ॥ ४ ॥

लिपिकर्मार्पिताकाराः सर्वे ध्यानपरायणाः ।
बद्धपद्मासनास्तत्र निर्जीवा इव संस्थिताः ॥ ५ ॥

सर्वे निर्जीवा इव् संस्थिता मया दृष्टा इति विपरिणामेनानुषङ्गः ॥ ५ ॥

अथ ते द्वादशादित्यास्तमेवोद्देशमागताः ।
बद्धपद्मासनास्तस्थुस्तथैवाशु यथैव ते ॥ ६ ॥

तदनन्तरं यद्वृत्तं तदाह - अथेत्यादिना ॥ ६ ॥

ततो मुहूर्तमात्रेण दृष्टवानहमब्जजम् ।
पुरो विनिद्रतां यातः स्वप्नदृष्टमिवाग्रगम् ॥ ७ ॥

तस्य धातुर्द्वितीयपरार्धान्त्यमुहूर्तो मीयते येन चरमक्षणेन स मुहूर्तमात्रस्तेन
तदीयचरमसाक्षात्कारबोधेद्धब्रह्मचैतन्येन
तदविद्याकल्पिततद्देहसहिततदीयसर्वप्रपञ्चबाधाद्विनिद्रतां प्रबोधं प्राप्तः
पुरुषः स्वप्नदृष्टं स्वाग्रगं स्वाप्नपदार्थजातमिव
बाधितमात्ममात्रपरिशेषमपश्यं तदेवास्य विदेहकैवल्यमित्यर्थः ॥ ७ ॥

ब्रह्मलोकजनं सर्वं महतामिव वासनाम् ।
नापश्यं स्वप्ननगरं बुध्यमान इवाग्रगम् ॥ ८ ॥

प्रागुक्ततत्परिवारजनेष्वप्येवमेव कैवल्यं वृत्तमित्याह - ब्रह्मलोकजनमिति ।
महतां तत्त्वज्ञानां ज्ञानबाधितां पूर्ववासनामिवेत्यपरो दृष्टान्तः ।
शिष्टं प्राग्वत् ॥ ८ ॥

अरण्यशून्यमेवासीत्तद्ब्रह्ममननं [ब्रह्मसङ्कल्पसिद्धम् ।] तदा ।
कठिनाकाण्डविध्वस्तं पृथिव्यामिव पत्तनम् ॥ ९ ॥

तदा तदीयचरमसाक्षात्कारक्षणे तद्ब्रह्मनगरं ब्रह्माण्डं वा अरण्यमिव
शून्यन्न् गृहजनादिरहितमेवासीत् । कठिनेनाकाण्डेनाकस्मिकेन नाशहेतुना
विष्वस्तम् ॥ ९ ॥

सर्व एव न च क्वापि ते तथा तादृशास्तदा ।
ऋषयो मुनयो देवा वेदा [सिद्धा इति पाठः ।] विद्याधरादयः ॥ १० ॥

ते मुनिदेवादयोऽपि सर्वे तथा तादृशाः शून्यमेवासन्निति विपरिणामेनान्वयः ।
यतस्ते न क्वापि गता इति शेषः ॥ १० ॥

ज्ञातं ततोऽवधानेन मया नभसि तिष्ठता ।
यावन्निर्वाणमापन्ना ब्रह्मवत्सर्व एव ते ॥ ११ ॥

नामरूपात्मना शून्यभावेऽपि स्वरूपेण तु न्निर्वाणात्मतया स्थिता
एवेत्यात्मानुभवेन दर्शयति - ज्ञातमिति । अवधानेन प्रणिधानेन ॥ ११ ॥

वासनायां विलीनायामदर्शनमुपागताः ।
स्वप्नलोकाः प्रबुद्धानामिव स्वं रूपमागताः ॥ १२ ॥

सैव तेषां वासनाकल्पितरूपापगमेन वास्तवस्वरूपावाप्तिरित्याशयेनाह -
वासनायामिति ॥ १२ ॥

आकाशात्मैव देहोऽयं भाति वासनया स्फुटः ।
तदभावात्तु नो भाति स्वप्नो बोधवतो यथा ॥ १३ ॥

तदेवोपपादयति - आकाशात्मैवेत्यादिना । बोधवतः प्रबोधशालिनः ॥ १३ ॥

अन्तरिक्षगतो देहो यथा स्वप्ने विलोक्यते ।
बोधे तद्वासनाशान्तौ न किञ्चिदपि लक्ष्यते ॥ १४ ॥

अन्तरिक्षगतः आकाशगमनवान् ॥ १४ ॥

जाग्रत्यपि तथैवायं वासनायाः परिक्षये ।
नैवातिवाहिको नैव लक्ष्यतेऽत्राधिभौतिकः ॥ १५ ॥

स्वप्नाज्जागरे स्वाप्नाधिभौतिकमात्रबाधः तत्त्वबोधे
त्वाधिभौतिकादिदेहत्रयस्यापि बाध इति विशेष इत्याशयेनाह - जाग्रत्यपीति ।
वासनाक्षयहेतुतत्त्वप्रबोधस्य प्रमाणजस्य जाग्रत्येव सम्भवाज्जाग्रत्यपीत्युक्तिः ॥
१५ ॥

स्वप्नानुभव एषोऽत्र दृष्टान्तत्वेन लक्ष्यते ।
आबालमेतत्संसिद्धमनुभूतं श्रुतं स्मृतम् ॥ १६ ॥

तथा च स्वप्नबाधानुभव
एकांशमात्रसदृशोऽप्याबालप्रसिद्धत्वाद्दृष्टान्तत्वेनोदाह्रियत इत्याह -
स्वप्नेति । तस्य तत्र आवसथास्त्रयः स्वप्नाः इति श्रुतं पुराणादिषु च स्मृतम् ॥ १६ ॥

अपह्नुते च वा योऽपि स्वमेवानुभवं शठः ।
स त्याज्यः को ह्यलीकेन सुप्तमुद्बोधयेत्किल ॥ १७ ॥

एवं स्वपरानुभवसिद्धमपि स्वप्नबाधं योऽपह्नुते
स्वप्नादिसर्वदृश्यसत्यतावादी स न प्रबोधनीय एवेत्याह - अपह्नुते इति । अलीकेन
मिषेण सुप्तं स्वापं विडम्बयन्तम् ॥ १७ ॥

देहकारणकः स्वप्नो देहाभावान्न दृश्यते ।
इति चेत्तददेहानां परलोकोऽपि नास्ति च ॥ १८ ॥

ननु तथापि न स्वप्नदृष्टान्तो युज्यते पित्रादिदेहकारणको ह्ययं देहः
स्वप्नदेहस्तु न तथेति स्वप्नदेहस्यात्यन्तासत्त्वेन वैषम्यादिति चेत्तर्हि यज्ञादिना
जायमानस्वर्गिदेहस्यापि
देहकारणकत्वाभावेनात्यन्तासत्त्वप्रसङ्गान्नास्तिकत्वमेव प्रतिवादिनां
प्रसज्येतेत्याह - देहेति ॥ १८ ॥

इत्येतदभविष्यच्चेत्तच्छरीरकसङ्क्षये ।
नाभविष्यदयं सर्गः स चास्त्येव च सर्वदा ॥ १९ ॥

किं च देहकारणकस्य देहस्यात्यन्तासत्त्वे आतिवाहिकदेहसमष्ठ्यात्मनो
हिरण्यगर्भस्याप्यत्यन्तसत्त्वप्रसङ्गः तथा सति सर्गाद्यर्थक्रियाप्यलीकैव
स्यादित्याह - इत्येतदिति । इति एवंरीत्या त्वदुक्तमेतदसत्त्वमभविष्यच्चेत् तत्तर्हि
पूर्वसर्गप्रलयान्ते सर्वशरीरसङ्क्षये एतत्सर्गादिकाले
शरीरहेतुकशरीराभावादयं सर्गोऽपि नाभविष्यत् । स चायं परिदृश्यमानोऽस्त्येव
। एवं पूर्वपूर्वसर्गेऽप्येवमापादयितुं शक्यमित्याशयेनाह - सर्वदेति ॥ १९ ॥

अवयवविभागात्मन्यवश्यम्भाविनि क्षये ।
न कदाचिदनित्थं तज्जगदित्यप्यसंस्थितम् ॥ २० ॥

ननु तर्हि मास्ति कदापि प्रलयः अनादौ संसारे अविच्छिन्नप्रवाहाः सर्वे
देहकारणका एव देहा अर्थक्रियासमर्था भविष्यन्ति । हिरण्यगर्भदेहस्य वा
पूर्वपूर्वनारायणादिदेहादुत्पत्तिः कल्पयिष्यते । तथा च न कदाचिदनीदृशं
जगदिति जैमिनीयमतं दूषयति - अवयवेति । क्षित्यादिभूतानां हि सावयवत्वादेव
संयोगस्य विभागावसानत्वाद्विनाशो दुर्वारः । तथा च न कदाचिदनीदृशं
जगदिति मतमसंस्थितमप्रतिष्ठितमेव । भूम्यादिनाशे
चतुर्विधभूतग्रामशरीराणामाधाराभावेनावस्थानायोगान्नारायण##-
देहाकारणकत्वेनात्यन्तासत्त्वप्रसङ्गाच्चेति भावः ॥ २० ॥

न कदाचिज्जगन्नाशो देहोद्भूतगुणादिकम् ।
मदशक्तिरिव ज्ञप्तिरुदेतीति च वक्षि चेत् ॥ २१ ॥

अत्र प्रसङ्गाच्चार्वाकमतमपि न्निरसितुमनुवदति - न कदाचिदिति ।
पृथिव्यादिभूतचतुष्टयमेव हि चतुर्विधदेहाकारेण घटपटाद्याकारेण च
सम्मिलज्जगत् । तस्य च पृथिव्यादिभूतात्मना कदाचिदपि नाशो नास्स्ति । देहस्तु
भूतानां मेलने उद्भूतज्ञानेच्छादिगुणा
हस्तपादाद्यवयवसंस्थानतत्तदभिव्यङ्ग्या जातिरित्येवमादिकमेव तदीयो
धर्मसङ्घातः । तत्र यद्यपि ज्ञप्तिर्नैकैकत्र भूते दृश्यते तथापि
सुरारम्भकेषु पिष्टतोयक्षारकिण्वादिद्रव्येषु मिलितेषु कालपाकादिना मदशक्तिरिव
देहाकारपरिणतेषु चतुर्षु भूतेषु ज्ञप्तिगुण उदेति तेन तद्गुणको देह एवात्मेति हे
चार्वाक त्वं वक्षि चेत् शृणु । तस्योत्तरमिति शेषः ॥ २१ ॥

तत्पुराणेतिहासानां सर्वसङ्क्षयवादिनाम् ।
स्मृत्यादीनां सवेदानां वैयर्थ्यमुपजायते ॥ २२ ॥

तत्तर्हि सर्ववस्तूनां सङ्क्षयो नित्यनैमित्तिकप्राकृतवैज्ञानिकाख्याश्चतुर्विधाः
प्रलयास्तद्वादिनामष्टादशपुराणानां भारतादीतिहासानां
पारलौकिकात्महिताहितधर्माधर्मबोधकमन्वादिस्मृतीनां सदाचाराणां च
वैयर्थ्यं प्रसज्येतेत्यर्थः ॥ २२ ॥

अप्रमाणतयैतस्मिन्नर्थे तेषां महामते ।
अन्यत्रापि प्रमाणत्वं वन्ध्यादावपि किं भवेत् ॥ २३ ॥

नन्वस्तु वेदपुराणादीनामप्रामाण्यमभिमतमेव चार्वाकाणामिदं त्वया
आपादितमिति चेत्तत्राह - अप्रमाणतयेति । निर्दोषाणामेतेषां
वेदपुरणादीनामेतस्मिन्प्रलयधर्माधर्मात्मतत्त्वलक्षणे अर्थे अप्रामाण्ये सति
भोगलाम्पट्यलोभद्वेषादिदोषसहस्रदुष्टे अन्यत्र त्वद्वाक्येऽपि इयं वन्ध्या शतं
पुत्रानसूतेत्यादिवाक्यतुल्ये किं प्रामाण्यं भवेत् । सम्भावनायां लिङ्ग ।
तत्सम्भावनापि दुर्लभेत्यर्थः ॥ २३ ॥

न चैतदिष्यते लोके जगदुच्छेदकारणात् ।
अन्यच्चास्तामेतदङ्ग ममेदमपरं शृणु ॥ २४ ॥

न चैतत्त्वदुक्तं वेदपुराणादीनामप्रामाण्यं लोके प्रेक्षावद्भिरिष्यते अङ्गीक्रियते ।
कृतहानाकृताभ्यागमादिदोषेण निर्बीजप्रयोजनसर्गाद्यसम्भवेन च
जगदुच्छेदप्रसङ्गात् । किं च देहात्मवादे किमवयवाः सर्वेऽप्यात्मान
उतावयव्येव । आद्ये बहूनां चेतनानां सदैकमत्यनियमाभावेन वैमत्ये
देहोन्मथनप्रसङ्गः । द्वितीये वृक्णे हस्ताद्येकावयवे
अवयविनाशाज्जीवनाभावप्रसङ्ग इत्याद्यन्यच्च दूषणसहस्रमस्त्येवेत्यास्तामेतत् ।
एतेन हे अङ्ग त्वया किण्वपिष्टजलादिसङ्घाते मदिरायां मदशक्तिरिव
कायाकारपरिणतभूतसङ्घाते ज्ञप्तिगुण उत्पद्यत इति यदुक्तं तदपि दत्तोत्तरमेव ।
तत्र इदमपरं दूषणं वक्ष्यमाणं शृण्वित्यर्थः ॥ २४ ॥

मदशक्त्यात्मनि ज्ञाने दृष्टा देशान्तरेषु या ।
प्रमृतानां पिशाचादिदेहता सा न सिध्यति ॥ २५ ॥

ज्ञाने ज्ञानगुणे मदशक्त्यात्मनि मदशक्तिरिव आत्मा स्वभावो यस्य तथाविधे
अभ्युपगम्यमाने गुणिनो देहस्य नाशे गुणस्याप्यवश्यनाशाद्देशान्तरेषु
प्रभृतानां जीवानां देहस्योच्छेदात्पिशाचादिदेहान्तरेण स्वदेशागमनं
परशरीरावेशेन प्राक्तनस्वजनादिप्रत्यभिज्ञासम्भाषणाद्यर्थक्रिया च या लोके
प्रसिद्धा सा न सिध्यति ॥ २५ ॥

अथ सापि मुधा भ्रान्तिर्यावद्देहं प्रदृश्यते ।
इति चेत्तन्मुधा नाम सत्यमित्येव वो भवेत् ॥ २६ ॥

अथ यदि ब्रूयाः सा पिशाचादिकल्पनापि मुधा भ्रान्तिरेव
पिशाचानामप्रत्यक्षत्वाच्चार्वाकमते प्रत्यक्षातिरिक्तप्रमाणाभावात् । न हि
प्रत्यक्षातिरिक्तं प्रमाणं सम्भवति । शतशो दृष्टसहचारेष्वपि
पार्थिवत्वलोहलेख्यत्वादिषु वज्रमण्यादौ व्यभिचारदर्शनात् । उत्पातादिकालान्तरे
गवादौ खरादिप्रसूतिदर्शनाद्देवताप्रतिमादिभ्यश्च विनापि वह्निं
धूमोद्गमदर्शनात्सर्वत्र लिङ्गेषु देशान्तरे कालान्तरे च व्यभिचारशङ्काया
वारयितुमशक्यत्वेनानुमानप्रामाण्यायोगात् । कृत्स्नैकदेशसादृश्यविकल्पने
उपमानप्रामाण्यासिद्धेर्मानान्तरामूलकशब्देषु लोके
अर्थसिद्धिनियमादर्शनादन्यशब्दानामनुवादित्वाच्च
शब्दप्रामाण्यायोगादर्थापत्त्यनुपलब्ध्योश्च
व्यतिरेकव्याप्त्युपजीविन्योरनुमानसमानयोगक्षेमत्वात्सम्भवैतिह्ययोः
सम्भावनामात्रत्वादनुमानादौ च सम्भावनास्वेव
प्रामाण्याभिमानात्प्रवृत्तिसिद्धेः । सन्दिग्धेऽपि फले अर्थातुराणां
प्रवृत्तिनियमदर्शनेनार्थनिश्चयस्य प्रवृत्त्यनङ्गत्वाच्च
सर्वव्यवहारोपपत्तेः । किं च पिशाचग्रस्तस्य पिशाचवाग्व्यवहारोऽपि यावद्देहमेव
दृश्यते न तु तन्मरणे । अतस्तद्देहस्यैव सान्निपातिकभ्रान्तिरिव पिशाचग्रस्तोऽहमिति
वृथा भ्रान्तिरिति चेत् तत्त्वदुक्तं सर्वं नाम शब्दजातं मुधा व्यर्थमेव ।
स्वोक्त्यैव व्याहतत्वात् । न हि प्रत्यक्षातिरिक्तस्य सर्वस्याप्रमाणत्वे चार्वाकानां
वाक्यं प्रमाणं भवेत् । तस्यापि प्रत्यक्षातिरिक्तत्वात् । न चानुमानादीनामप्रामाण्ये
त्वया स्वोक्तोऽर्थो युक्तिभिः समर्थयितुं शक्यः । युक्तीनामनुमानतया
तत्प्रामाण्यापत्तेः । न च ते दृष्टान्तोऽस्ति
सादृश्यस्योपमानगम्यत्वात्तदप्रामाण्ये तदसिद्धेः । नापि स्वपक्षे अनुकूलः
परपक्षे प्रतिकूलो वा तर्कस्त्वयोद्भावयितुं शक्यः ।
तर्कस्यान्वयव्यतिरेकव्याप्तिघटितत्वेन तदपलापिनस्ते तदप्रसिद्धेः ।
आपत्तिव्यतिरेकयोरनुपपत्त्यनुपलब्ध्यधीनत्वेन तदभ्युपगमे
अर्थापत्त्यनुपलब्धिप्रामाण्याभ्युपगमापत्तेः । प्रमाणषट्कमपि सत्यमित्येव
वश्चार्वाकाणामभ्युपगन्तव्यं भवेदित्यर्थः ॥ २६ ॥

एवं चेत्तत्परो लोकः सत्स्वर्गनरकादिकम् ।
इत्येषापि न संवित्किं सत्यतामुपगच्छति ॥ २७ ॥

अस्त्वेवं तेन कस्ते लाभस्तमाह - एवं चेदिति । एवं शब्दादीनां
प्रामाण्यमभ्युपगतं चेत्तत्तस्मान्निर्दोषशब्दरूपायाः श्रुतेः
प्रामाण्यावश्यम्भावाद्धेतोः श्रुतिजन्यापरो लोकः स्वर्गनरकादिकं च सत्
इत्येषापि संवित् सत्यतां प्रामाण्यं किं नोपगच्छति । ज्ञानानां हि स्वत एव
प्रामाण्यं कारणदोषबाधकज्ञानाभ्यां क्वचिदपोद्यते । न चात्र कारणे दोषोऽस्ति
नापि स्वर्गनरकादयो न सन्तीति बाधकं प्रमाणजं ज्ञानमस्तीति भावः ॥ २७ ॥

न पिशाचप्रमा सत्या मदशक्तिमतोऽपि हि ।
प्रतिभास्य न सत्या स्यात्परलोकात्मिका कथम् ॥ २८ ॥

अथ सापि मुधा भ्रान्तिरिति यदुक्तं तद्दूषयति - नेति । पिशाचग्रस्तस्य
पिशाचविषयिणी प्रमा पिशाचस्य परदेहे स्थितस्य तदनुभवसिद्धा
दर्शनश्रवणादिप्रमा द्रष्ट्टणामस्मदादीनां परदेहेन पिशाचव्यवहारप्रमा
च ज्ञानानां स्वतःप्रामाण्यादेव लोके सत्या प्रसिद्धा । सापि यदि न सत्या तर्हि अस्य
क्षीबस्य मदिरादेर्मदशक्तिमतो द्रव्यस्य मदशक्तिप्रतिभापि न सत्या स्यात् । न
ह्यमत्तानुभवसिद्धार्थापलापिनस्ते प्रमत्तप्रतीतिसिद्धमदशक्तिः परेणापलपनीया
। तथा च तव दृष्टान्तासिद्ध्या ज्ञानस्य भूतगुणत्वासिद्धेः परलोकात्मिका
स्वर्गनरकादिस्थितिः कथं त्वया निरसितुं शक्येति शेषः ॥ २८ ॥

पिशाचोऽस्तीति चेत्संवित्सत्यार्था तेन संविदः ।
मृतस्यास्ति परो लोक इत्यस्यां किं न सत्यता ॥ २९ ॥

तेन सर्वजनप्रसिद्धेन ज्ञानानां स्वतःप्रामाण्येन पिशाचोऽस्तीति संवित् सत्यार्था
चेदनुभवबलात्प्रसिद्धा मृतस्यापि परलोकोऽस्तीति श्रुतिजन्यायां प्रतीतौ तद्बलादेव
किं न सत्यता ॥ २९ ॥

काकतालीयवद्देहात्पैशाची ज्ञप्तिरस्ति चेत् ।
परलोकार्थसंवित्तिः कथं नास्ति सकारणा ॥ ३० ॥

किं च पिशाचग्रस्तस्य पैशाची ज्ञप्तिर्न श्रुतिसदृशदृढतरप्रमाणजा किन्तु
काकतालीयवदाकस्मिकी । तथाविधापि सा स्वानुभवापलापायोगादस्ति प्रमा
चेत्सकारणा दृढतरश्रुत्यादिकारणसहिता परलोकार्थसंवित्तिः कथं नास्ति कुतो
न प्रमेत्यर्थः ॥ ३० ॥

यान्तर्वेत्ति यथा संवित्सा तथानुभवत्यलम् ।
अस्तु सत्यमसत्यं वा सिद्धमित्यनुभूतितः ॥ ३१ ॥

ननु नानुभवबलादेवार्थसत्त्वमवधारयितुं शक्यम् शुक्तिरजतानुभवेऽपि
तदर्थसत्त्वादर्शनादित्याशङ्क्याह - येति । या संवित् अन्तर्यदर्थसत्त्वं यथा
वेत्ति तदर्थसत्त्वं तथानुभवति तत्र शुक्तिरजतसंवित्
स्वप्रतिभासकालिकमर्थसत्त्वमवगाहते । नेदं रजतमित्यौत्तरकालिकी बाधसंवित्तु
त्रैकालिकं रजतासत्त्वम् । तत्राद्यसंविद्बलात्प्रातिभासिकं रजतादेः सत्त्वमस्तु ।
द्वितीयसंविद्बलादसत्त्वं वा अनुभूतितः सिद्धम् । अर्थरूपं
नानुभवमन्तरेणापलपितुं शक्यमित्यर्थः ॥ ३१ ॥

मृतस्यास्ति परो लोको विदित्येवम्मयी भवेत् ।
सति वाऽसति देहेऽस्मिंस्तेन किं सदसच्च किम् ॥ ३२ ॥

तत्र यदि जीवतः सति देहे श्रुत्यादिप्रमाणवशाद्वा मृतस्य असति देहे स्वप्नवत्
प्रतिभामात्रबलाद्वा यदि परो लोकोऽस्तीत्येवमयी एवमनुभवरूपा सविदवश्यं
भवेदेव तर्हि तेन मरणेन किं जीवदनुभवसिद्धं
सन्मृतानुभवसिद्धमसदित्यपलप्येत किं वा वैपरीत्येन । नोभयमप्यपलपितुं
शक्यमिति सिद्धं श्रुत्यादिप्रामाण्यमित्यर्थः ॥ ३२ ॥

तस्मात्स्वभावः प्रथमं प्रस्फुरन्वेत्ति संविदम् ।
वासनाकारणं पश्चाद्बुद्ध्वा सम्पश्यति भ्रमम् ॥ ३३ ॥

स यदि ब्रूयात्कायाकारपरिणतेभ्यो भूतेभ्यः संविदुद्भवान्न मृतस्य
कायनाशे पारलौकिकी संविदुद्भविष्यतीति तर्हि स संविदः
शाश्वतत्वात्स्वतःसिद्धत्वात्प्रत्युत तत्सिद्धिबलेनैव वासनामयस्यातिवाहिकदेहस्य
तत्कल्पितस्थूलदेहस्य बाह्यप्रपञ्चस्य च पश्चात्सिद्धेस्तदन्यस्य
दृश्यसिद्धिहेतोरप्रसिद्धेर्न देहादीनं संविजन्मेति प्रतिवक्तव्य इति
सूचयंस्तत्प्रतिवचनमुपसंहृत्य वासनायां विलीनायामदर्शनमुपागता
इत्यादिना प्रागनुक्रान्तं वासनाक्षयादेव सर्वदृश्योच्छेदं समर्थयितुं
प्रस्तौति - तस्मादित्यादिना । तस्माद्वेदादिप्रमाणस्य ज्ञानानां
स्वतःप्रामाण्यस्य च सिद्धत्वाज्ज्ञानस्वभावः परमात्मा
स्वप्रकाशत्वात्सर्वव्यवहारात्प्रथमं स्वरूपां संविदं स्वत एव नित्यसिद्धां
वेत्ति न तद्वेदनफलमन्यतोऽपेक्षते स्वौष्ण्यप्रकाशात्मतामिव वह्निरित्यर्थः ।
वासनानां कारणमुद्भवोपादानं सर्वजगद्वासनामयम् आतिवाहिकदेहं तु ततः
पश्चात्सृष्टिजाग्रदारम्भक्षणे स्वरूपचित्स्वभावबलादेव बुद्ध्वा ततो
देहादिभ्रमं सम्पश्यतीति न सर्वतः पूर्वसिद्धसंवित्सिद्धिर्देहाधीनेति भावः ॥
३३ ॥

तत्क्षयाच्छममायाति द्रष्ट्टदृश्यदृगामयः ।
तत्सत्तायामुदेतीयं संसृत्याख्या पिशाचिका ॥ ३४ ॥

अत एव वासनाक्षयादेवातिवाहिकदेहक्षयद्वारा सर्वानर्थक्षयः सिद्ध इत्याह -
तत्क्षयादिति ॥ ३४ ॥

उपलम्भ उदेत्यादौ ब्रह्मणो वासना ततः ।
तच्छान्तिं विद्धि निर्वाणं तत्सत्तां संसृतिभ्रमम् ॥ ३५ ॥

तत्र सर्गादौ ब्रह्मण आदौ वासनान्तर्गतप्रपञ्चपर्यालोचनात्मा उपलम्भ उदेति
तदैक्षत बहु स्यां प्रजायेयेति इति श्रुतेः । ततस्तस्मात्प्राक्तनजगद्वासनानां
जगदात्मना उद्भवो भवति । वासनाशान्तौ तु बीजाभावादेव
जगदनुद्भवादर्थसिद्धं निर्वाणमित्याह - तदिति ॥ ३५ ॥

उत्पन्नैव च सानादौ परब्रह्मण्यसम्भवात् ।
उत्पन्ना समयाद्यासौ ब्रह्मैव परमेव सत् ॥ ३६ ॥

ननु वासना कुत उत्पन्ना । न तावद्ब्रह्मणः । तस्य
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् इत्यादिश्रुतिभिः
कारणत्वप्रतिषेधादसङ्गकूटस्थाद्वयत्वश्रुतेश्च । नापि पूर्वकल्पीयजगतः ।
तस्य प्रलये स्वयन्न् विनश्यतः अन्योत्पादनाशक्तेः । ननु न विनश्यति स्वयमेव
चरमभावविकारेण सूक्ष्मीभूय तिष्ठति तथास्थितिरेवास्य प्रलयो वासनात्मेति चेन्न ।
तथास्थितिरस्य किं प्रलये स्वसत्तया उत ब्रह्मसत्तया । आद्ये सदैव सोम्येदमग्र
आसीदेकमेवाद्वितीयम् इत्यादिश्रुतिविरोधात् । द्वितीये स्वतोऽसत्परसत्तया तिष्ठतीति
प्रलापस्यालीकेऽप्यतिप्रसक्तत्वात्पक्षद्वयेऽपि
सृष्टिप्रलययोरविशेषापत्तेरभासमानसत्ताऽप्रसिद्धेर्नष्टं तिष्ठतीति च
व्याघातादिति चेत्सत्यम् । सा वासना आदौ प्रलये पूर्वसर्गे वा उत्पन्नैव । न
असङ्गाद्वये परब्रह्मण्यसम्भवस्य त्वयैवोक्तत्वात् ।
तथाप्यद्वितीयब्रह्मबोधनोपायतया
शास्त्रकल्पितात्सर्गादिसमयान्निर्बीजजगदुत्पत्त्ययोगात्सा वासनापि प्राक्
केनचिन्निमित्तेनोत्पन्नेति यावद्बोधोदयं स्वीक्रियताम् । बोधोदये तु सर्व जगद्ब्रह्मैव
सा वासनापि परं ब्रह्मैवेति पर्यवस्यतीत्यर्थः ॥ ३६ ॥

एतावद्यत्परिज्ञानं तन्निर्वाणं विदुर्बुधाः ।
यदत्रैवापरिज्ञानं तं बन्धं विद्धि राघव ॥ ३७ ॥

न च श्रुतिभ्यः असङ्गाद्वयं ब्रह्मापरिज्ञाय तत्र
वासनाद्यसम्भवस्त्वयोद्भावयितुं शक्यः । तत्परिज्ञाने तु
सर्वसंशयबीजाज्ञानोच्छेदान्निर्वाणमेव सम्पन्नमिति न
वासनोत्पत्त्याद्यनुपपत्तिशङ्काप्रसक्तिरित्याशयेनाह - एतावदिति ॥ ३७ ॥

विज्ञानघन एवायं कचनाकचनात्मकः ।
स्वयमेव कचत्यन्तर्न कचत्येव वा स्वयम् ॥ ३८ ॥

यौक्तिकदृष्ट्या निष्कर्षे तु अज्ञातं ब्रह्मैव जगत्तद्वासना तदविद्या चाज्ञातं
ब्रह्मैव तन्निवृत्तिर्विद्या तत्फलं निर्वाणं चेति पर्यवस्यतीत्याशयेनाह -
विज्ञानेति । श्रुत्यादिप्रमाणलाभात्प्राक् न कचत्येव ॥ ३८ ॥

संविदंशपरावृत्तिमात्रे पेलवरूपिणि ।
बन्धदृङ्मोक्षदृक् चेति क्लेशस्तत्साधनं कियत् ॥ ३९ ॥

बद्धास्मीति स्वभावतः स्वां मन्यमाना स्वयमेव स्वबन्धो नित्यमुक्तास्मीति
प्रमाणतः स्वां प्रबुद्धा सा स्वयमेव मोक्ष इति निष्कर्षेऽवगते न
कश्चिन्मोक्षसाधने क्लेश इत्याह - संविदंशेति ॥ ३९ ॥

संविदुद्बोधने बन्धस्तदनुद्बोधने शिवम् ।
असत्सद्वज्जगद्भाति संविदुद्बोधनोदरम् ॥ ४० ॥

तदिदं परीक्षकैर्व्युत्थानसमाधिभ्यां व्युत्थानसुषुप्तिभ्यां च स्पष्टं
द्रष्टुं शक्यमित्याशयेनाह - संविदुद्बोधने इति । संविद उद्बोधने
बहिर्मुखत्वापादने । शिवं निर्वाणम् । संविदुद्बोधनोदरमेव असज्जगत्सद्वद्भाति
॥ ४० ॥

अजडं वेदनं सुप्तं मोक्ष इत्यभिधीयते ।
प्रबुद्धं इत्याहुर्यदिच्छसि तदाहर ॥ ४१ ॥

निर्वाणवासनमनन्तमनाद्यमच्छबोधैकतानमपयन्त्रणमस्तशङ्कम् ।
अद्वैतमैक्यरहितं च निरस्तशून्यमाकाशकोशविशदाशयशान्तमास्व ॥ ४२ ॥

एवमैच्छिकयोर्बन्धमोक्षयोर्मोक्षस्वभावाहरणमेव
निर्विक्षेपपरमानन्दरूपत्वाद्युक्तमित्याशयेनोपसंहरति - निर्वाणवासनमिति ।
हे राम त्वमच्छबोधैकतानं ब्रह्मैव सन्नपयन्त्रणं निर्मुक्तबन्धमास्व ।
विशेषणान्यन्यानि ब्रह्मणि वा क्रियायां वा योज्यानि ॥ ४२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० पा०
वासनाभावप्रतिपादनं नामैकोनाशीतितमः सर्गः ॥ ७९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
वासनाभावप्रतिपादनं नामैकोनाशीतितमः सर्गः ॥ ७९ ॥