०७८

अष्टसप्ततितमः सर्गः ७८

श्रीवसिष्ठ उवाच ।

वातवर्षहिमोत्पातपातभग्ने धरातले ।
जडवेगोऽगमद्वृद्धिं कलाविव महीपतिः ॥ १ ॥

नदीप्रमाणैरासारैरभितः पूरयन्नभः ।
एकार्णवः प्रवृद्धोऽत्र विस्तरेणोपवर्ण्यते ॥

जडवेगो जलवेगः ॥ १ ॥

गङ्गाप्रवाहपतितधारापातविवर्धितः ।
सरित्सहस्रैः सहसा मेरुमन्दरभासुरैः ॥ २ ॥

व्योमगङ्गाप्रवाहेषु पतिता या मेघधारास्तत्पातेन विवर्धितः । विवर्जितैः इति पाठे
विवर्जित्तैर्विसर्जितैः सरित्सहस्रैः समुच्छूनः । सहसोत्थितैर्मेरुवन्मन्दरवच्च
भासुरैस्तरङ्गैः आदित्यपथसम्प्राप्ता प्रवाह्यमाणगिरिकन्दरा यस्य तथाविध
एकार्णव आसीदिति द्वयोरन्वयः ॥ २ ॥

आदित्यपथसम्प्राप्तकन्द्रो जडमन्थरः ।
एकार्णवः समुच्छून आसीन्मूर्ख इवेश्वरः ॥ ३ ॥

विपुलावर्तवृत्त्यात्तविवृत्ताद्रिजरत्तृणः ।
स्फुरत्तुङ्गतरङ्गाग्रनिगीर्णादित्यमण्डलः ॥ ४ ॥

तमेवैकार्णवमासर्गसमाप्तेर्विशिनष्टि - विपुलेत्यादिना । विपुलानामावर्तानां
वृत्त्या आत्तानि अत एव विवृत्तानि भ्राम्यमाणानि अद्रिजरत्तृणानि यस्मिन् ॥ ४ ॥

मेरुमन्दरकैलासविन्ध्यसह्यजलेचरः ।
गलितावनिपङ्कान्तर्लीनव्यालमृणालकः ॥ ५ ॥

सह्यान्ताः जलेचरा इव यस्य । तमेवार्णवं पद्माकरत्वेन सम्भावयति -
गलितेत्यादिना । गलिता या अवनिस्तत्पङ्कान्तर्विलीनाः शेषादिव्यालमृणालका यस्य ॥ ५ ॥

अर्धदग्धद्रुमवनव्यूहशैवलसङ्कटः ।
त्रैलोक्यभस्मसंसृष्ट आसीत्कर्दमकुत्सितः ॥ ६ ॥

नभःस्तम्भबृहद्धानोत्तालभास्करपुष्करः [स्तम्ब इत्यपि पाठः ।
] ।
धाराजालमहाम्भोदविलीननलिनीदलः ॥ ७ ॥

नभोलक्षणेषु स्तम्भेषु नालेषु बृहतीषु कर्णिकासु धानाभिर्बीजभूतैः
किरणैरुत्ताला भास्करा द्वादशादित्या एव पुष्कराणि पद्मानि यस्मिन् । धाराजाला
महाम्भोदा एव जलोपरि संलग्नत्वाद्विलीनप्रायाणि नलिनीदलानि यस्मिन् ॥ ७ ॥

डिण्डीरपर्वतप्रान्तनददुन्मत्तवारिदः।
भ्रमदिन्द्रानिलार्केन्दुपुरपत्तनपूरणैः ॥ ८ ॥

काष्ठवत्प्रोह्यमाणोग्रसुरासुरजनोत्करः ।
शनैः क्रमोच्छूनतया लिहन्नादित्यमण्डलम् ॥ ९ ॥

तरत्तारतरारावधाराधरसमुद्भवैः ।
बुद्बुदैः परिसन्दिग्धप्रोह्यमाणमहाचलः ॥ १० ॥

किमेते बुद्बुदा उत महाचला इति परितः सन्दिग्धाः प्रोह्यमाणा महाचला यस्मिन् ॥ १०

भ्रमद्बुद्बुदविश्रान्तभ्रान्तकल्पान्तवारिदः ।
उत्तालैस्तैरनाधारैः पश्यन्नपरवारिदम् ॥ ११ ॥

उत्तालैः रलयोरभेदादुद्रतास्ताराः कनीनिका येषां तथाविधैस्तैः
समेघबुद्बुदैरनाधारैः स्वाधारमुखमात्ररहितैर्नेत्रैः अपरं सन्निहितं
वारिदं पश्यन्नित्युत्प्रेक्षा ॥ ११ ॥

महाप्रवाहवार्योघघोषघुङ्घुमिताम्बरः ।
एकप्रवाहमहितसव्योमकुलपर्वतः ॥ १२ ॥

घोषैर्घुङ्घुमितं मुखरीकृतमम्बरं येन । एकस्मिन्प्रवाहे महिता मग्नाः
सव्योमकुलपर्वता यस्य ॥ १२ ॥

चण्डवातकृतापूर्वजलौघकुलपर्वतैः ।
महाघुरघुरारावघर्घरोग्रमहारयः ॥ १३ ॥

ब्रह्माण्डखण्डसङ्घट्टपरावृत्तिभिरुद्धतः ।
कुर्वन्योजनलक्षाणि विततान्युन्नतानि च ॥ १४ ॥

तिर्यग्विततानि ऊर्ध्वमुन्नतानि च योजनलक्षाणि स्वस्मिन् कुर्वन् ॥ १४ ॥

तृणैरिव तरङ्गेषु दोलान्दोलनमद्रिभिः ।
कुर्वद्भिरुपलाघातभग्नभास्करमण्डलः ॥ १५ ॥

तृणवद्दोलान्दोलनं कुर्वद्भिरद्रिभिरुपलाघातैर्भग्नानि भास्करमण्डलानि येन
॥ १५ ॥

शून्यब्रह्माण्डविपुलजलघातकुलायके ।
नीलानचलकाकोलाञ्जह्रन्सलिलजालकैः ॥ १६ ॥

किं च शून्यब्रह्माण्डलक्षणे विपुले जलसङ्घातस्य कुलायके नीडे स्थितान्नीलान्
अचलाः पर्वतास्तल्लक्षणान् काकोलान्द्रोणकाकान् । बृहन्मद्गूनिति यावत् ।
सलिललक्षणैर्जालकैरानायैर्जह्रन् बद्ध्वा हरन्निव । हरतेः शतुश्छान्दसो
लिङ्वद्भावः ॥ १६ ॥

मृतामृतमहद्भूतमज्जनोन्मज्जनाकुलान् ।
तरङ्गमकरावर्तप्रतिबिम्बान्वितानिव ॥ १७ ॥

अचलकाकोलानेव द्वाभ्यां विशेषणाभ्यां विशिनष्टि - मृतेति । इवेति
पूर्वश्लोकान्वयि ॥ १७ ॥

मृतशिष्टान्पुरभ्रष्टान्फेनाद्रितटिकोटिषु ।
दधज्जलबलश्रान्तांस्त्रिदशान्मशकानिव ॥ १८ ॥

फेनलक्षणानामद्रीणां तटिषु [अस्य ह्रस्वान्तत्वं विचारणीयम् ।] कोटिषु
शिखरेषु च । दधत् वहन् ॥ १८ ॥

विपुलाद्यतनाकाशविपुलानम्बुबुद्बुदान् ।
सहस्रसङ्ख्यान्कलयंल्लोचनानीव वासवः ॥ १९ ॥

विपुलो योद्यतनः प्रसिद्धः आकाशः
अधोमुखीकृतरजतकटाहवद्दृश्यमानस्तद्वद्विपुलानिति
बुद्बुदान्तर्निविष्टप्राणिदृष्ट्योक्तिः । लोचनानीव वासव इति बहिष्टदृष्ट्या उपमा ॥
१९ ॥

शरद्व्योमसमाभोगैर्वलद्भिर्बुद्बुदेक्षणैः ।
पश्यन्निव नदीधारान्मेघानाताम्रपूरकान् ॥ २० ॥

नद्य इव धारा येषां तान् ॥ २० ॥

पुष्करावर्तकाभ्राणां बहुभिर्वीचिमण्डलैः ।
कुर्वन्नालिङ्गनानीव सपक्षाद्रिवदुत्थितैः ॥ २१ ॥

त्रिजगद्ग्राससन्तृप्तः प्रगायन्निव घर्घरैः ।
स्वैर्नृत्यन्न्निव चोग्राद्रिकटकैर्वीचिदोर्द्रुमैः ॥ २२ ॥

अद्रय एव कटकानि वलया येषाम् । अद्रिकटककटकैरिति वार्थः । श्वमुखः
खरमुख इतिवद्वृत्तिविषयेऽद्रिपदस्य तत्कटकपरत्वात् ॥ २२ ॥

नदीधाराधरैरूर्ध्वे मध्ये दग्धैर्धराधरैः ।
अधो धराधरैर्नागैरधरः पङ्कगैर्वृतः ॥ २३ ॥

न विद्यते धरा यस्य ॥ २३ ॥

धारात्रिपथगापूरैर्निपतद्भिर्निरन्तरम् ।
मग्नोन्मग्नो ह्यमानाद्रिशृङ्गडिण्डीरबुद्बुदः ॥ २४ ॥

उह्यमानदलत्स्वर्गखण्डक्रन्दन्नभश्चरः ।
वहद्विद्याधरीवृन्दपद्मिनीसुन्दरान्तरः ॥ २५ ॥

दलति विशरणशीले स्वर्गखण्डे क्रन्दन्तो नभश्चरा देवतालक्षणा हंसादयो यस्य
अत एव पद्मिनीसुन्दरान्तरः ॥ २५ ॥

एकार्णवपयःपूरैर्घर्घरारावरंहसि ।
त्रैलोक्यखण्डसंहारे प्रोह्यमाणे महाम्भसि ॥ २६ ॥

नासीत्कश्चित्परित्राता हन्ताऽवीचिवशोऽपि च ।
शक्नोति कः परित्रातुं कालेन कवलीकृतम् ॥ २७ ॥

वीचीनां वशो न भवतीत्यवीचिवशोऽपि कश्चिन्नासीत् । हन्तेति खेदे ॥ २७ ॥

नाकाशमासीन्न दिगन्त आसीदधोऽपि नासीन्न तदूर्ध्वमासीत् ।
भूतं न आसीन्न च सर्ग आसीदासीत्परं केवलमेव वारि ॥ २८ ॥

स्पष्टम् ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ०
पा० एकार्णववर्णनं नामाष्टसप्ततितमः सर्गः ॥ ७८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
एकार्णववर्णनं नामाष्टसप्ततितमः सर्गः ॥ ७८ ॥