सप्तसप्ततितमः सर्गः ७७
श्रीवसिष्ठ उवाच ।
अथावनिपयस्तेजःपवनानां युगक्षये ।
जाते परमसङ्क्षोभे बभूवास्मिञ्जगत्त्रयम् ॥ १ ॥
पुष्करावर्तकोत्सृष्टवृष्टिधाराविसंष्ठुलम् ।
सप्ताब्धिक्षोभनिर्धूतं जगद्भूयोऽत्र वर्ण्यते ॥
अवनिश्च पयश्च तेजश्च पवनश्चेत्येतेषां चतुर्णां महाभूतानां
परमसङ्क्षोभे जाते सति जगत्त्रयं यादृशं बभूव तद्वर्णयामि
शृण्वित्यर्थः ॥ १ ॥
तापिच्छविपिनोड्डीतिनिभभस्माभ्रभासुरम् ।
महार्णवमहावर्तवृत्ति धूमविवर्तनम् ॥ २ ॥
तापिच्छविपिनः तमालवनम् ॥ २ ॥
नीलज्वालालवोल्लासहेलाटिमिटिमारटि ।
कृतभस्माभ्रसम्भारपूर्णलोकान्तरान्तरम् ॥ ३ ॥
सार्द्रेषु दाह्येषु धूमनीलज्वालालवोल्लासलक्षणाभिर्हेलाभिष्टिमिटिमेत्यारटनशीलम्
॥ ३ ॥
उच्छलद्दीर्घरुत्कारैश्छमच्छममयात्मकैः ।
तूर्यमुन्नभदासारविसारिजयघोषणम् ॥ ४ ॥
दीर्घा रुत् ध्वनिस्तत्कारैः सार्द्रेन्धनैः । आसाराणां विसरिजयघोषणन्न्
तूर्यमुन्नमदुद्यच्छदित्युत्प्रेक्षा ॥ ४ ॥
भ्रमद्भस्माभ्रधूम्राभ्रं बृहत्कल्पाभ्रसम्भ्रमम् ।
बाष्पाभ्रविभ्रमोद्भ्रान्तसीकरोग्राभ्रवृन्दवत् ॥ ५ ॥
पञ्चविधाभ्रवृन्दवदित्यर्थः ॥ ५ ॥
ब्रह्माण्डभित्तिभाङ्कारभीषणैर्मातरिश्वनः ।
प्रसरैरम्बरोड्डीनदग्धेन्द्रादिपुरोत्करम् ॥ ६ ॥
जलानलानिलोल्लासस्फुटत्कोटिगताश्मनाम् ।
प्रविघट्टनटङ्कारैर्जडीभूताक्षकश्रुति ॥ ७ ॥
प्रविघट्टनैर्जडीभूतत्वगाद्यक्षकम् । टङ्कारैर्जडीभूतश्रुति
बधिरीकृतश्रोत्रम् ॥ ७ ॥
नभःस्तम्भनिभाबन्धधारानीरन्ध्रवर्षणैः ।
कर्षणैः कल्पवह्नीनां छमच्छमघनध्वनि ॥ ८ ॥
कल्पवह्नीनां कर्षणैर्विलेखनैर्विदारणैरिति यावत् ॥ ८ ॥
गङ्गा तरङ्गिका येषां तादृशैः सरितां गणैः ।
अभ्रैरिव नभोभीमैः पूर्यमाणाखिलार्णवम् ॥ ९ ॥
तरङ्गिका एकैकतरङ्गप्राया ॥ ९ ॥
तापिच्छपत्रवृन्दस्थपुष्पगुच्छसमोपमैः ।
तपद्भिरर्कैरालीढपीठकल्पाभ्रमण्डलम् ॥ १० ॥
तमालपत्राधस्थानां पुष्पगुच्छानां या उपमा सैवार्काणामिति तत्समोपमैः ।
आलीढपीठं आस्वादिताधारप्रायं कल्पाभ्रमण्डलं यत्र ।
अबिन्धनानामर्काणां तदास्वादकत्वादिति ॥ १० ॥
वहद्गिरिसरिद्व्यूहशिखरिद्वीपपत्तनम् ।
कल्पानिलघनक्षोभकृतपर्वतकुट्टनम् ॥ ११ ॥
ग्रहतारागणैरुग्रैर्व्यग्रैर्विग्रहदुर्ग्रहैः ।
पतद्भिर्द्विगुणालातलतामावर्तपातिभिः ॥ १२ ॥
विग्रहेण परस्परप्रहारेण दुर्ग्रहैर्दुर्निरोधैः अत एव आवर्तपातिभिरन्ते
पतद्भिश्च द्विगुणां भूमिष्ठालातेभ्यो द्विगुणामलातलतां नभस्यापि कुर्वदिति
शेषः ॥ १२ ॥
आवहोत्थजलाद्रीन्द्रसङ्घट्टास्फोटघट्टितम् ।
महाप्रलयपर्यस्तपर्वतप्रान्तकुट्टिमम् ॥ १३ ॥
आसमन्ताद्वहतीत्यावहः प्रचण्डपवनस्तदुत्थानां जलाद्रीन्द्रप्रायाणां
बृहत्तरङ्गाणां सङ्घट्टैः स्फुटन्तीति स्फोटाः पर्वता यत्र ॥ १३ ॥
घनसीकृतबाष्पाभ्रैः कल्पाभ्रैरपि मेदुरैः ।
अन्धीकृतार्कजालांशुतमोनिबिडमन्थरम् ॥ १४ ॥
घनानि सीकृतानि सीकरा येषु तथाविधैर्बाष्पाभ्रैः ॥ १४ ॥
विशीर्णवसुधापीठखण्डखण्डैर्गलत्तटैः ।
उह्यमानैर्लुठच्छैलपतनैः सङ्कटार्णवम् ॥ १५ ॥
ऊर्म्युद्यदुपलच्छिन्नघनैर्घस्मरमारुतैः ।
समुद्रघोषैर्निर्घातगम्भीरैर्भग्नदिक्तटम् ॥ १६ ॥
ऊर्मिभ्य उद्यद्भिरूर्मिभिरूर्ध्वप्रक्षिप्तैरुपलैश्छिन्ना घना मेघा
यैस्तथाविधैर्घस्मरमारुतैः प्रलयवायुभिर्भग्नदिक्तटम् ॥ १६ ॥
ब्रह्माण्डकुड्यक्रोडाग्रकुट्टकैः कटुटाङ्कृतैः ।
कल्पाभ्रविटपास्फोटैर्घट्टितैकार्णवारटि ॥ १७ ॥
ब्रह्माण्डकुड्यलक्षणस्य क्रोडाग्रस्य उरोदेशस्य कुट्टकैरास्फालकैः अत एव
कटुटाङ्कृतैः कल्पाभ्रकल्पविटपलक्षणकरबाह्वास्फोटैः
परस्परघट्टितैकार्णवं आरटि सोरस्ताडं रुददिति यावत् ॥ १७ ॥
स्वर्गपातालभूर्लोकखण्डखण्डैर्विमिश्रितैः ।
यथास्वभावं तिष्ठद्भिर्मरुबुध्नैर्वृताम्बरम् ॥ १८ ॥
किञ्चोड्डीनैः स्वरादिलोकत्रयखण्डखण्डैर्गुरुतारतम्यक्रमेण
यथास्वभावमन्तरिक्षे तिष्ठद्भिः अधोभागे
वृष्टिजलासंस्पर्शात्सम्भावितजलभागस्य वायुना शोषणाच्च मरुवन्निर्जलं
बुध्नं मूलमधोभागो येषां तैः ॥ १८ ॥
मृतार्धमृतदग्धार्धदग्धाङ्गैर्देवदानवैः ।
अन्योन्यदर्शनाद्वातवेल्लितैर्भ्रामितायुधम् ॥ १९ ॥
समानविपत्कत्वेऽपि परस्परवैरिदृष्ट्यैवान्योन्यं दर्शनात्परस्परवधाय
भ्रामितायुधम् । तथा च विनाज्ञाम्अ विपत्सहस्रैरपि न वैरदृष्टिरज्ञानां
शाम्यतीति सैव विपद्भ्योऽपि महाविपदिति ध्वनितम् ॥ १९ ॥
कपान्तपवनोद्भ्रान्तैर्लोकान्तरजरत्तृणैः ।
आरब्धार्जुनवाताख्यास्तम्भमुद्भूतभस्मभिः ॥ २० ॥
अर्जुनवात इति वातरोगविशेषस्य नाम । तेन हि रोगेण रोगिणो नभस्युड्डीय भ्राम्यन्ते
न तु तस्य रोगस्यार्जुनवर्णतास्तीति तन्नाम निरालम्बनं मा भूदिति
लोकान्तरजरत्तृणैः स्वोद्भूतभस्मभिर्वातं धवलीकृत्य आरब्धः
अर्जुनवाताख्यायाः स्तम्भः प्रतिष्ठा सालम्बनता यस्मिन्नित्युत्प्रेक्षा ॥ २० ॥
उह्यमानशिलाजालप्रहारविलुठत्तटैः ।
पतल्लोकान्तरैः स्फारदुष्कालकटुटाङ्कृतम् ॥ २१ ॥
स्फारं दुष्कालप्रयुक्तं कटुटाङ्कृतं यस्मिन् ॥ २१ ॥
वातोद्व्यूहगिरिव्रातगुहाभाङ्कारभासुरम् ।
पतद्भिर्विहितावर्तलोकपालपुरीपुरैः ॥ २२ ॥
वातस्योद्व्यूहेन सङ्घट्टेन गिरिव्रातगुहानां भाङ्कारैर्भासुरम् ॥ २२ ॥
कृतकर्कशनिर्ह्रादैरसुरैरिव मारुतैः ।
उह्यमानवनव्यूहप्रोतवातायनैर्वृतम् ॥ २३ ॥
पुरमण्डलदैत्याग्निसुरनागविवस्वताम् ।
निकुरम्बं दधद्व्योम्नि मशकानामिवोच्चयम् ॥ २४ ॥
नश्यन्नगवराभोगैर्भागैर्भग्नसुरालयैः ।
आवर्तघर्घरारावैर्जलमूर्ध्वमधोनलम् ॥ २५ ॥
आवर्तः परावर्तनं उत्पाट्य द्रोणवद्वैपरीत्येन धारणं तेन
घर्घरारावैरूर्ध्वं वृष्टिजलमधो निराबाधं दवानलं दधदिति शेषः ॥ २५ ॥
कुर्वज्जलाद्रिनिष्पेषैर्दिक्पालपुरकुट्टनम् ।
निपतद्देवदैत्येन्द्रसिद्धगन्धर्वपत्तनम् ॥ २६ ॥
कुट्टनं पर्वतादीनां प्रशान्ताङ्गाररूपिणाम् ।
वातैः कुर्वत्पदार्थानामसारं रजसामिव ॥ २७ ॥
पर्वतादीनां पदार्थानां रजसामिव कुट्टनं कुर्वत् ॥ २७ ॥
पुराण्यमरदैत्यानां भ्रमद्भित्तीनि शातयत् ।
रत्नैः खणखणायन्ति पयांसीव पयस्वताम् ॥ २८ ॥
पयस्वताम्मेघानां पयांसीव रत्नैः खणखणायन्ति अमरदैत्यानां पुराणि
शातयत् ॥ २८ ॥
पूर्णाम्बरं पतल्लोकलोकसप्तकमन्दिरैः ।
चक्रावृत्त्या भ्रमद्रूपैरमरैः सागरैरिव ॥ २९ ॥
पतन्तो लोका जना येभ्यस्तथाविधैर्लोकसप्तकमन्दिरैः पूर्णाम्बरम् ॥ २९ ॥
डीनोड्डीनैः परिवृतं विचलद्वात्वेल्लितैः ।
दग्धादग्धैः पदार्थैः खे शीर्णपर्णगणैरिव ॥ ३० ॥
हेमस्फटिकवैदूर्यसुसारमणिमन्दिरैः ।
दिवः पतद्भिराकीर्णमुद्यज्झणझणस्वनैः ॥ ३१ ॥
आकीर्णमित्यन्तानां सर्वेषां पदानां सर्गाद्यश्लोकस्थे बभूवास्मिञ्जगत्त्रयम्
इत्यत्रान्वयः ॥ ३१ ॥
उत्पेतुर्धूमभस्माब्धाः पेतुर्वारा पुरोत्कराः ।
उन्ममज्जुस्तरङ्घौघा ममज्जुर्भूतलाद्रयः ॥ ३२ ॥
वारावृष्टिजलेन ॥ ३२ ॥
आवर्तघर्घरारावा मिथो विदलनोद्यताः ।
जुघूर्णरर्णवाकीर्णपर्णवत्प्रौढपर्वताः ॥ ३३ ॥
क्रन्दच्छिष्टामरगणं चलत्सज्जीवभूतकम् ।
भ्रमत्केतुशतोत्पातं दुष्प्रेक्ष्यमभवज्जगत् ॥ ३४ ॥
चलन्तः सज्जीवा ईषज्जीवनयुक्ता भूतकाः प्राणिनो यत्र । अनुकम्पायां कन् ॥ ३४ ॥
मृतार्धमृतया भूतसन्तत्यानिललोलया ।
अभून्नीरन्ध्रमाकाशं जीर्णपर्णसवर्णया ॥ ३५ ॥
जगदासीत्पतच्छृङ्गस्थूलधारौघनिर्भरम् ।
वहद्वहद्गिरिपुरवातपूर्णसरिच्छतम् ॥ ३६ ॥
पतन्तः गिरिशृङ्गाणीव स्थूलानां धारौघाणां निर्भरा यस्मिन् ॥ ३६ ॥
शाम्यच्छमशमाशब्दशतशाखहुताशनम् ।
चलाब्धिवलनान्दोललोलशैललसत्तटम् ॥ ३७ ॥
तृणराशिसरिन्न्यायमिश्रद्वीपार्णवोत्कटम् ।
अत्यन्तदूरचिद्व्योमक्षणज्वालासहावनम् ॥ ३८ ॥
तत्त्वज्ञानेद्धचिद्व्योमक्षणदाह्यस्यास्य जगतः प्रलये चिरेण नाशो
नाश्चर्यपदमित्याशयेनाह - अत्यन्तेति ।
तत्त्वज्ञानदौर्लभ्यद्योतनायात्यन्तदूरेत्युक्तिः । चिद्व्योम्नि क्षणज्वालां न सहते
तथाविधमवनं स्थितिर्यस्य ॥ ३८ ॥
वर्षशाम्यद्धुताशोत्थभस्मामोदपतत्सुरम् ।
भूतपूर्वजगद्भूतं परिविस्मृतसर्गकम् ॥ ३९ ॥
पूर्वं भूतं भूतपूर्वं जगद्भूतं चराचरं यत्र । साम्प्रतं तु
परिविस्मृतसर्गकम् ॥ ३९ ॥
निरर्गलोल्लसन्नादं सर्गलोपशमक्रमम् ।
सर्गलोपोल्लसच्छेषं सर्गलोपविवर्जितम् ॥ ४० ॥
सर्गस्य लोपेन शमक्रमो यत्र । परमार्थतः सर्गलोपे उल्लसति शेषः परमात्मा यत्र
। सर्गलोपाभ्यां वस्तुतो विवर्जितम् ॥ ४० ॥
अनारतविपर्यासकारिमारुतनिर्वृतम् ।
बीजराशिरिवाजस्रं पूर्यमाणं पुनःपुनः ॥ ४१ ॥
सदैव वा सर्गतल्लोपविशिष्टमित्याशयेनाह - अनारतेति ॥ ४१ ॥
उल्मुकान्योन्यनिष्पेषवह्निचूर्णसुवर्णजैः ।
रजोभिर्विवृतैर्हेमकुट्टिमाकाशकोटरम् ॥ ४२ ॥
हेमकुट्टिममिव आकाशकोटरं यत्र ॥ ४२ ॥
भूमण्डलबृहत्खण्डैर्भ्रष्टैः सद्वीपसागरैः ।
पूर्णसप्तमपातालं लुठत्पातालमण्डलैः ॥ ४३ ॥
लुठन्त्यन्यपातालमण्डलानि येषु तथाविधैर्भूमण्डलबृहत्खण्डैः ॥ ४३ ॥
आसप्तमसुतालान्तमामहीतलपर्वतम् ।
आव्योमैकार्णवीभूतं पूर्णं प्रलयवायुभिः ॥ ४४ ॥
अभिव्याप्तावाडः । सप्तमं सुतलमेव सुतालं पातालम् । छान्दसो दीर्घः ॥ ४४ ॥
एकार्णवोऽथ ववृधे शनैः शीघ्रं सरिच्छतैः ।
भुवने जलकल्लोलैः कोपो मूर्खाशये यथा ॥ ४५ ॥
मुसलोपमया पूर्वं ततः स्तम्भनिभाङ्गया ।
ततस्तालद्रुमाकारधारयासारसारया ॥ ४६ ॥
आसारः सम्पातस्तत्सारया ॥ ४६ ॥
ततो नदीप्रवाहोग्रजलपातैकपातया ।
सप्तद्वीपमहीपीठसममेदुरमेघया ॥ ४७ ॥
ततस्तालपरिमाणधरापातानन्तरं नदीप्रवाहस्य ताम्रपर्ण्यादौ प्रसिद्धो
मलयाद्यग्राद्य उग्रो जलपातस्तदेकपातया । एकशब्दः सदृशपरः ।
सप्तद्वीपविशिष्टसमग्रमहीपीठसमा मेदुरा मेघा यस्या उत्स्रष्टारस्तया ॥ ४७ ॥
वह्निर्विदाहकृद्वृष्ट्या शममभ्याययौ तथा ।
शास्त्रसज्जनसङ्गत्या गाढमापत्पदं यथा ॥ ४८ ॥
गाढं दुःखकोटिनिबिडमापत्पदं सर्वविपत्स्थानमज्ञानं यथा ॥ ४८ ॥
ऊर्ध्वाधरस्थपरिवृत्तपदार्थजातमन्तःकणैः खण्खणायितशैलमज्जम्
।
ब्रह्माण्डकोटरमभूद्विधुरं कुबाललीलाविलोलमिव बिल्वफलं विशुद्धम् ॥
४९ ॥
कुत्सिताभिर्बालस्य विस्फोटनलीलाभिर्विलोलं बिल्वफलमिव विधुरं
विनष्टमभूदित्यर्थः ॥ ४९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० पाषा०
पुष्करावर्तवृष्टिविसंष्ठुलजगद्वर्णनं नाम सप्तसप्ततितमः सर्गः ॥ ७७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
पुष्करावर्तवृष्टिविसंष्ठुलजगद्वर्णनं नाम सप्तसप्ततितमः सर्गः ॥ ७७ ॥