षट्सप्ततितमः सर्गः ७६
श्रीवसिष्ठ उवाच ।
अथ कल्पान्तमरुति वहत्यवधुताचले ।
बलेनाम्भोधिकल्लोलैर्नभस्यावर्तकारिणि ॥ १ ॥
ऊर्ध्ववारुणदिग्भागे पुष्करावर्तकोदयः ।
वर्ण्यतेऽत्रोपसंहारोऽप्यग्नेराग्नेयदिङ्मुखे ॥
अवधूताचले कम्पितशैले ॥ १ ॥
समुद्रेषु विमुद्रेषु मर्यादोल्लङ्घने घने ।
अधनेषु धनिष्वम्बुदारिद्र्योपद्रवद्रुते ॥ २ ॥
विमुद्रेषु विगतचिह्नेषु धनिष्वधनेषु सत्सु । अम्बुदारिद्र्योपद्रवेण
जलाभावदुःखेन द्रुते पलायिते इति घनेन भूतलेन वा सम्बन्धः ॥ २ ॥
भूतले भूतलेशांशवर्जिते वह्निभर्जिते ।
पातालमपि पाताले गते किमपि कालतः ॥ ३ ॥
किमपि प्रसिद्धविलक्षणं पातालं विनाशमिति यावत् ॥ ३ ॥
दिवि वा विद्यमानायां विशीर्णे सर्गवर्गके ।
लोके व्योमगतालोके शोकौकसि ककुब्गणे ॥ ४ ॥
दिविद्युलोके व्योमगत आलोकः सौरोऽग्निस्तद्भावापन्ने ॥ ४ ॥
कुतोऽप्याकाशकुहराद्दृप्तदैत्यगणा इव ।
पुष्करावर्तका मेघाश्चक्रुर्गुलुगुलारवम् ॥ ५ ॥
गुलुगुलेति आरवानुकरणं प्रथमं दूरादतारश्रवणाभिप्रायम् ॥ ५ ॥
ब्रह्मविस्फोटितस्वाण्डकुड्यविस्फोटनोद्भटम् ।
अन्योन्यास्फालनोत्फालमत्तार्णवरवाविलम् ॥ ६ ॥
सामीप्यक्रमेण तस्यैव तारतां दर्शयति - ब्रह्मेति । ब्रह्मणा विस्फोटिते स्वाण्डे
कुड्यस्य ब्रह्माण्डभित्तेर्विस्फोटन इव उद्भटं तारतमम् ।
अन्योन्याअस्फालनैरुत्फाला उच्छलन्तो ये मत्ता अर्णवास्तदीयरववदाविलम् ।
शब्दसमकालप्रसृतस्य दिग्जलमालिन्यस्योपमेयोपमानयोः
शब्देऽप्यारोपादाविलत्वोक्तिः ॥ ६ ॥
लोकार्णवपुरोद्गीर्णघनकोलाहलोल्बणम् ।
एतत्कुलाचलस्कन्धबद्धोग्ररवघर्घरम् ॥ ७ ॥
लोकेष्वर्णवेषु पुरेषु च प्रतिध्वन्यात्मना उद्गीर्णैर्घनैः कोलहलैरतितारैरुल्बणं
दुःसहम् । एतैः प्राग्वर्णितैः
कुलाचलस्कन्धसम्बद्धैर्दाहोग्ररवैर्मिश्रणाद्धर्घरम् ॥ ७ ॥
ब्रह्माण्डशङ्खजठरपूरणावर्तमन्थरम् ।
स्वर्लोकरोदःपातालतलतोऽतिसगुल्मकम् ॥ ८ ॥
ब्रह्माण्डशङ्खजठरपूरणे सति तद्भित्तिप्रतिरोधप्रयुक्तैः
परावर्तनैर्मन्थरं निबिडतरमत एव स्वर्लोकात् रोदोभ्यां पातालतलतश्च
अतिशयेन सगुल्मकं शाखाप्रकरसहितमिव ॥ ८ ॥
समस्तदूरदिग्भित्तिहेलाहेलनघर्षुलम् ।
महाप्रलयसम्पन्नापानकापानतर्षुलम् ॥ ९ ॥
समस्तदूराणामपाराणां दिग्भित्तीनां हेलया हेलनेन विलेखनेन घर्षुलं
कषणशीलमिव । महाप्रलये सप्ताब्धीनां मिश्रणेन क्वथनात्सम्पन्नस्य
पानकस्य आपाने आस्वादने तर्षुलं पिपासितमिव ॥ ९ ॥
प्रसृतप्रलयाख्येन्द्रमत्तैरावतबृंहितम् ।
आकल्पक्षुब्धमेघाब्धिनिर्ह्रादमिव सम्भृतम् ॥ १० ॥
प्रसृतस्य विजयार्थं निर्गतस्य प्रलयाख्यस्य इन्द्रस्य मत्तैरावतगर्जितमिव स्थितम् ।
आकल्पं प्रलयपर्यन्तं चिरनिरोधेन क्षुब्धानां मेघलक्षणानामब्धीनां
सम्भृतं चिरसञ्चितं युगपन्निःसृतं निर्ह्रादमिव स्थितम् ॥ १० ॥
महाप्रलयसङ्क्षुब्धक्षीरोदमथनारवम् ।
ब्रह्माण्डोग्रारघट्टेऽस्मिन्वार्यन्त्रमिव सारवम् ॥ ११ ॥
आरघट्टे घटीयन्त्रस्थाने प्रसिद्धं वार्यन्त्रं जलधारायन्त्रमिव ॥ ११ ॥
अथास्मिन्सति कल्पाग्नौ स्थितिमेति कथं घनः ।
इति विस्मितवानस्मि दृशं दिग्नवकेऽत्यजम् ॥ १२ ॥
अथ वर्णितमेघध्वनिश्रवणानन्तरं विस्मितमाश्चर्यबुद्धिस्तद्वानहं
सञ्जातोऽस्मि तत अधोदिगतिरिक्ते दिङ्नवके दृशं दृष्टिं मेघान्वेषणाय
अत्यजन्न् विमुक्तवान् । व्यापारितवानस्मीति यावत् ॥ १२ ॥
यावन्न क्वचिदेवात्र पश्याम्याशासु केवलम् ।
तरन्ति तरलास्फालमुल्मुकाशनिवृष्टयः ॥ १३ ॥
न पश्यामि । मेघानिति शेषः । किं तर्हि दृष्टवानसि तत्राह - केवलमिति । तरन्ति
आकाशे प्लवन्ते ॥ १३ ॥
तेन ज्वलनतापेन बहुयोजनकोटिषु ।
पदार्था भस्मतां यान्ति दूरे दिक्षु दशस्वपि ॥ १४ ॥
अनन्तरं क्षणाद्व्योम्नि दूरेऽहमनुभूतवान् ।
ऊर्ध्वतः शीतलं वातमधस्तादनलोपमम् ॥ १५ ॥
अनुभूतवान् त्वगिन्द्रियेण ॥ १५ ॥
एतावति नभोमार्गे दूरे कल्पाम्बुदाः स्थिताः ।
यस्तेषामग्नितापानां विषयो न च सद्दृशाम् ॥ १६ ॥
एतावति दूरे यो यावान् दूरप्रदेशस्तेषामधःप्रवृत्तानामग्नितापानां सतां तत्र
जीवतां प्राणिनां दृशां च विषयो न ॥ १६ ॥
अथ वारुणदिग्भागादाययौ कल्पमारुतः ।
यस्मिंस्तृणवदुह्यन्ते विन्ध्यमेरुहिमालयाः ॥ १७ ॥
तेन ज्वालाचलाः प्रान्तोड्डीनाङ्गारविहङ्गमाः ।
लोलोल्मुकवनाक्रान्ता जग्मुरग्निदिशं द्रुतम् ॥ १८ ॥
ज्वालालक्षणा अचलाः पर्वताः । पर्वतत्वोपपादके द्वे विशेषणे ॥ १८ ॥
सन्ध्याभ्रसदृशाकारास्तेरुरङ्गारवारिदाः ।
भ्रेमुर्भस्मभराभ्राणि पूताङ्गाररजांसि खे ॥ १९ ॥
भस्मभरलक्षणान्यब्धारणादभ्राणि पूतानां वायुशोधितानामङ्गाराणां
रजांसि ॥ १९ ॥
स ज्वालविलसद्वातो दुष्टोऽनलदृशं व्रजन् ।
हेमाद्रीणां सपक्षाणामनीकं द्रवतामिव ॥ २० ॥
धराद्रिमण्डलाभोगे सौम्याङ्गारभरात्मनि ।
ज्वालावलिगणे जाते भाते तेजसि भास्वताम् ॥ २१ ॥
सौम्या निर्ज्वाला येऽङ्गारास्तद्भरात्मके जाते सतीति शेषः । भास्वतां
द्वादशादित्यानां तेजसि रजोपगमाद्भाते स्फुटे सति ॥ २१ ॥
अर्णवेष्वनलार्णस्स्सु क्वथनोत्फालवारिषु ।
वनेष्वस्मृतपर्णेषु दीप्ताग्नितरुधारिषु ॥ २२ ॥
क्वचिदनला एवार्णांसि येषां तथाविधेषु क्वचित्क्वथनोत्फालवारिषु । सर्वेषां
सप्तम्यन्तानां कल्पाम्बुदगण आययावित्यग्रेणान्वयः ॥ २२ ॥
ब्रह्मलोकस्थनाथेषु ब्रह्मलोकपुरेषु च ।
साङ्गनाबालवृद्धेषु दग्धेषु निपतत्सु खम् ॥ २३ ॥
कल्पान्तानलपद्मिन्या ब्रह्माग्रावसरोवरे ।
ज्वालापल्लवशालिन्याः सबीजायाः सटोल्मुकैः ॥ २४ ॥
सटाः केसरसदृशाः स्फुलिङ्गास्तद्घटितैरुल्मुकैः सबीजायाः
ज्वालापल्लवशालिन्याः ब्रह्मलक्षणे अग्रावे निरुपले सरोवरे प्ररूढायाः
कल्पान्तानलरूपायाः पद्मिन्याः अनिलात्मसु विष्टम्भकवायुप्रधानेषु नागेषु
नगेषु च सर्पपर्वतरूपेषु मूलेषु आपातालमङ्गारकर्दमे निमग्नेषु सत्सु इति
द्वयोरन्वयः ॥ २४ ॥
अनिलात्मसु मूलेषु नागेषु च नगेषु च ।
आपातालं निमग्नेषु महत्यङ्गारकर्दमे ॥ २५ ॥
उष्ट्रसैन्यमिवालक्ष्य गतिमन्निकटं नभः ।
आययावञ्जनश्यामः कल्पाम्बुदगणः क्वणन् ॥ २६ ॥
चर्मभस्त्राभिरुष्ट्राणां पश्चिमदेशे जलवाहकत्वप्रसिद्धेस्तत्सैन्यमिव ॥ २६ ॥
स्थिरकल्पानलज्वालातुल्यविद्युन्मयाचलः ।
एककोणकविश्रान्तसप्तार्णवपयोभरः ॥ २७ ॥
तमेव वर्णयति - स्थिरेत्यादिना ॥ २७ ॥
भित्तिभासुरनीहारभारनिर्वारदिक्तटः ।
ब्रह्माण्डकुड्यनिबिडमण्डलास्फोटपण्डितः ॥ २८ ॥
भित्तिवत् भासुरैर्नीहारभारैर्निर्वाराणि निरवकाशानि दिक्तटानि यस्य ।
ब्रह्माण्डकुड्यपर्यन्तं निबिडस्य भूमण्डलस्यास्फोटे विदलने पण्डितः ।
ब्रह्माण्डकुड्यपर्यन्तं स्वयं निबिडः सन् नभोमण्डलास्फोटनप्राये ध्वनौ
पण्डित इति वा ॥ २८ ॥
कल्पान्तक्षुभिताम्भोधिर्वर्तुलावर्तवृत्तिमान् ।
तडिज्जलचरः सारनिर्ह्नादः खमिवागतः ॥ २९ ॥
कल्पान्तक्षुभिताम्भोधिरेव खमायातोऽधिरूढ इवेत्युत्प्रेक्षा ।
वर्तुलावर्तस्थानीयद्वादशाअदित्यपरिवेषवृत्तिमानित्यादिविशेषणान्युत्##-
मृतो दग्धो निशानाथस्ततो द्विगुणशीतलः ।
अन्यमाकारमाश्रित्य परं लोकमिवागतः ॥ ३० ॥
उत्प्रेक्षान्तरं दर्शयति - मृत इति । परमत्यूर्ध्वदेशरूपं
परलोकमाश्रित्यान्यमाकारमम्बुदगणलक्षणं शरीरान्तरमागत इव ॥ ३० ॥
हेमसम्भाररूपेण हिमालयमिवाखिलम् ।
जाड्यस्तम्भितनिःशेषजलकाष्ठाचलं दधत् ॥ ३१ ॥
हेमसम्भारसदृशविद्युद्गणरूपेण जाड्येन स्तम्भितानि निःशेषाणि समस्तानि
जलानि काष्ठमिवाचलानि येन तथाविधं हिमालयं दधत् धारयन्निव ॥ ३१ ॥
अथ ब्रह्माण्डविस्फोटकठिनं घटिताम्बरम् ।
प्राग्द्रुतोद्भटतौषारकाष्ठा वृष्टिः पपात ह ॥ ३२ ॥
अथ मेघागमनानन्तरं वृष्टिः पपात । कथम् । ब्रह्माण्डस्य
विस्फोटवत्कठिनवज्रनिर्घातेन घटितमम्बरं यस्मिन्कर्मणि तथाविधा प्राक्
प्रथमं द्रुता उद्भटनीहाराः [मूलस्थतौषारपदस्यैवायमर्थः । अथवा
एतदनुरोधेन मूले उद्भटनीहारेति पाठो वा कल्प्यः ।] काष्ठा दिशो यस्याम् ॥ ३२
॥
अग्निदाहवनाकाशविद्युदुन्मेषभीषणा ।
चटद्गडगडास्फोटस्फुटद्ब्रह्माण्डमण्डला ॥ ३३ ॥
तां वृष्टिमेव वर्णयति - अग्निदाहेत्यादिना । अग्निदाहसदृशेन
वनाकाशयोर्विद्युदुन्मेषेण भीषणा । चटद्भिर्गडगडास्फोटैः
स्फुटद्ब्रह्माण्डमण्डला ॥ ३३ ॥
प्रथितोत्थितसीत्कारशतक्ष्वेडाक्षयारवा ।
शीतसीकरनीहारभित्तिबन्धमयाम्बरा ॥ ३४ ॥
रोदोमण्डपवैदूर्यस्तम्भसम्भारभासुरैः ।
धारासारैर्धराधुर्यशैलशातकशालिनी ॥ ३५ ॥
रोदसी द्यावाभूमी तल्लक्षणमण्डपस्य वैदूर्यस्तम्भानां सम्भार इव भासुरैः
स्थूलतरैर्धाराणामासारैः सम्पातैर्धराधूर्वहाणां शैलानां शातका ये
टङ्कप्रहारास्तच्छालिनी ॥ ३५ ॥
धराचटचटास्फोटस्फुटदङ्गारपत्तना ।
गर्जितोर्जितसम्पातपतल्लोकान्तराकुला ॥ ३६ ॥
स्फुटन्ति अङ्गारपत्तनान्यङ्गारसमूहा यया ॥ ३६ ॥
सा बभूवाथ साङ्गारजगद्गेहविलासिनी ।
कृतप्रत्युद्गमा बाष्पश्रियाऽज्वलनया भुवः ॥ ३७ ॥
साङ्गारजगद्गेहविलासिनी सा वृष्टिः । अथ अज्वलनया भुवो वाष्पश्रिया सखीव
कृतप्रत्युद्गमा बभूव ॥ ३७ ॥
ज्वालालवोल्ललनडम्बरमम्बरं तद्व्यूढस्थलाब्जदलजालमिवालमासीत् ।
ज्वालाभ्रमद्भ्रमरपङ्क्तिनिभास्तदासंस्तत्र
स्फुरच्छिशिरसीकरपक्षपुञ्जाः ॥ ३८ ॥
तदा तत्तादृशमम्बरमाकाशं ज्वालालवानामुल्ललनं विलासस्तदाडम्बरं
यस्मिंस्तथाविधं सद्व्यूढानि प्ररूढानि स्थलाब्जदलजालानि
यस्मिंस्तथाविधमिव आसीत् । तत्र तस्मिन्नम्बरे स्फुरन्तः शिशिराः शीकरपक्षपुञ्जा
जलधरास्तु ज्वालासु भ्रमन्ती या भ्रमरपङ्क्तिस्तन्निभा आसन् ॥ ३८ ॥
उद्यद्बृहच्चटचटारवपूरिताशो भीमोऽभवत्सलिलदानलसन्निपातः ।
दुर्वारवैरिविषमो महतां बलानां सङ्ग्राम उग्र इव हेतिहतोग्रहेतिः ॥ ३९ ॥
किं च तदा सलिलदानां मेघानामनलानां च सन्निपातः समागमः
उद्यद्बृहच्चटचटारवैः पूरिता आशा दिशो येन तथाविधः सन् दुर्वारवैरिविषमः
अत एवोग्रो महतां बलानां सेनानां हेतिभिर्हताः उग्रा हेतयो यत्र तथाविधः
सङ्ग्राम इव भीमो भयानकः अभवत् ॥ ३९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रक० उत्तरार्धे पाषा०
पुष्करावर्तडम्बरवर्णनन्न् नाम षट्सप्ततितमः सर्गः ॥ ७६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
पुष्करावर्तडम्बरवर्णनं नाम षट्सप्ततितमः सर्गः ॥ ७६ ॥