पञ्चसप्ततितमः सर्गः ७५
श्रीवसिष्ठ उवाच ।
अथाग्रस्थब्रह्मलोको ब्रह्मणि ध्यानशालिनि ।
निक्षिप्ताक्षः शनैर्दिक्षु दृष्टवानहमग्रतः ॥ १ ॥
विधातरि ध्यानपरे द्वादशादित्यसम्भवः ।
दहन्नत्र जगत्सर्वं वर्ण्यते प्रलयानलः ॥
प्रश्नप्रासङ्गिकं समाप्य प्रस्तुताख्यायिकामेवानुसन्धत्ते - अथेत्यादिना ।
अथ सेन्द्रादिनगरमेरुशिखरपत्तनदर्शनानन्तरं शनैर्दिक्षु निक्षिप्ताक्षोऽहं
द्वितीयमर्कं दृष्टवानिति परेणान्वयः ॥ १ ॥
द्वितीयमर्कं मध्याह्ने पश्चादभ्युदितं स्फुटम् ।
दिग्दाहमिव दिग्वक्त्रे वनदाहमिवाचले ॥ २ ॥
मध्याह्न इत्यनेन मध्यदिश्यर्के सतीति गम्यते । दिक्षु दिशां मध्ये । अग्रतः
पुरोगते पश्चाद्दिग्वक्त्रे पश्चिमदिङ्मुखे मध्यस्थादर्काद्द्वितीयमर्कमहं
दृष्टवानिति सम्बन्धः ॥ २ …
वह्निलोकमिव व्योम्नि वडवाग्निमिवार्णवे ।
ततोऽपश्यमहं दीप्तं सूर्यन्न् नैरृतदिङ्मुखे ॥ ३ ॥
दिग्दाहमिवेत्यादीनि सर्वेषामर्काणामुपमानानि प्रत्येकं योज्यानि ॥ ३ ॥
सूर्यं याम्ये ककुब्भागे सूर्यमग्निककुब्मुखे ।
सूर्यमैन्द्रककुब्भागे सूर्यमीशानदिङ्मुखे ॥ ४ ॥
कुबेरककुभि सूर्यं सूर्यन्न् वायव्यदिक्तटे ।
सूर्यं वरुणदिग्भागे तेन विस्मयवानहम् ॥ ५ ॥
वरुणदिग्भागे इति प्रागुपक्रान्तानुवादः ॥ ५ ॥
यावद्विचारयाम्याशु विधिवैधुर्यमाकुलम् ।
उदभूद्भूतलात्तावदर्क और्व इवार्णवात् ॥ ६ ॥
विधिवैधुर्यं दैवप्रातिकूल्यम् ॥ ६ ॥
एकादशेऽखिलार्काणां प्रतिबिम्बमिवोत्थितम् ।
उदभूत्त्रयमर्काणामन्तरे दिग्गणाम्बरे ॥ ७ ॥
दिग्गणानामन्तरे आन्तरालिके मध्यमाम्बरे । असमर्थसमासश्छाब्दसः ।
मध्यमस्यैकादशत्वोक्तेरूर्ध्वमप्यन्योऽर्क उदित इति गम्यते । तेषु मध्यमे
एकादशेऽर्के दर्पणोदरे प्रतिबिम्बमिवान्यदर्काणां त्रयमुदभूत् । तद्धि
मध्यतनादित्यान्तरुदितमर्कत्रयात्मकमेकं ब्रह्मविष्णुशिवात्मकस्यैकस्य
रुद्रस्येदं रौद्रं वपुः । तदेव तत्सवितुर्वरेण्यं भर्गः इति गायत्र्या प्रकाश्यते ।
अत एव हि तच्चतुर्विंशत्यक्षरप्रसूतचतुर्विंशतिसहस्रश्लोकात्मकस्य
पूर्वरामायणस्य सारसङ्ग्रहात्मके आदित्यहृदये ब्रह्मेशानाच्युतेशाय रौद्राय
वपुषे नमः इति त्रिमूर्तिमूलपरशिवत्वेन नमस्कृतमिति तदेव
सर्वोत्कृष्टमुपास्यमित्याहुः ॥ ७ ॥
तद्धि रौद्रं वपुस्तत्र तन्मध्ये लोचनत्रयम् ।
तद्द्वादशपरीमाणं दीप्तं वृन्दं विवस्वताम् ॥ ८ ॥
तत्र तस्मिन्नर्के तन्मध्ये रौद्रवपुर्मध्ये लोचनत्रयं तद्रौद्रं वपुरेव
द्वादशादित्याकारपरिमाणं विवस्वतां वृन्दं भूत्वा ददाहेति परेणान्वयः ॥ ८
॥
सर्वदिक्कं ददाहोच्चैः शुष्कं वनमिवानलः ।
अथोदभूज्जगत्खण्डशोषणग्रीष्मवासरः ॥ ९ ॥
अनग्न्रग्निदाहो द्रागदृश्योल्मुकगुल्मकः ।
अनग्निनाग्निदाहेन तेन तामरसेक्षण ॥ १० ॥
अदृश्योल्मुकगुल्मकत्वादेव प्रसिद्धाग्निरहितः सौराग्निदाह उदभूत् ॥ १० ॥
अङ्गानि दावदग्धानि खिन्नानीव ममाभवन् ।
प्रदेशं तमथ त्यक्त्वा दूरमारूढवानहम् ॥ ११ ॥
दूरमूर्ध्वं नभ आरूढवान् ॥ ११ ॥
दृढहस्ततलाघातहतकन्दुकवन्नभः ।
अपश्यं गगनस्थोऽहमुदितं चण्डतेजसम् ॥ १२ ॥
तपन्तं द्वादशादित्यगणं दिक्षु दशस्वपि ।
बृहत्तत्र सतारावज्वालेव भगणं चलम् ॥ १३ ॥
तत्र तासु दिक्षु सतारं नभः अवति व्याप्नोतीति सतारावा ज्वालेवावर्ताकारेण चलं
भगणं नक्षत्रचक्रमपश्यमित्यर्थः ॥ १३ ॥
महाकुहकुहाशब्दं क्वथत्सप्ताब्धिडम्बरम् ।
सज्वालोल्मुकनीरन्ध्रलोकान्तरपुरान्तरम् ॥ १४ ॥
इत ऊर्ध्व सार्धद्वादशश्लोकेषु स्थितानि सर्वाणि द्वितीयान्तपदानि
प्रस्तुतद्वादशादित्यगणविशेषणत्वेन योज्यानि । कुहकुहेति क्वथनशब्दानुकरणम् ॥
१४ ॥
ज्वालाघनपटाटोपसिन्दुरीकृतपर्वतम् ।
दीप्यमानमहागारस्थिरविद्युत्ककुत्पटम् ॥ १५ ॥
ज्वालालक्षणैर्घनैः पटाटोपैः रक्तवस्त्राडम्बरैः सिन्दूरवर्णाः कृताः
पर्वता येन । दीप्यमानेषु महतां लोकपालानामगारेषु स्थिरविद्युत इव ककुत्पटा
येन ॥ १५ ॥
स्फुरत्कटकटाटोपचटत्पत्तनमण्डलम् ।
विदधद्भूतलोद्भूतधूमदण्डैः शिलाघनैः ॥ १६ ॥
धूमदण्डैर्दन्डाकारैर्धूमैः । काचस्तम्भसहस्राढ्यं भुवनस्थानलक्षणं
मण्डपं विदधत् कुर्वाणमिवेति सम्बन्धः ॥ १६ ॥
काचस्तम्भसहस्राढ्यं भुवनस्थानमण्डपम् ।
क्वथद्भूतमहाभूतताराक्रन्दातिघर्घरम् ॥ १७ ॥
भूतानां प्राणिनां महाभूतानां पृथिव्यादीनां च तारैः आक्रन्दै
रोदनैरतिघर्घरम् ॥ १७ ॥
भूतलोकपुरापातस्फुटच्चटचटोद्भटम् ।
ताराविशरणोद्घातघृष्टरत्नधरातलम् ॥ १८ ॥
भूतानां प्राणिनां लोकानां भुवनानां तदन्तर्गतपुराणां च आसमन्तात्पातैः
स्फुटतां पदार्थानां चटचटाशब्दैरुद्भटम् । ताराणामश्विन्यादीनां
विशरणैः पतनैर्ये उद्घाता अभिघातास्तैर्घृष्टरत्नं धरातलं येन ॥ १८ ॥
सर्वस्थलालयचलद्दह्यमानजनव्रजम् ।
क्षीणाक्रन्दक्वथद्भूतगणदुर्वासदिक्तटम् ॥ १९ ॥
सर्वेषु स्थलेषु आलयेषु स्वस्वगृहेषु चलन्तो धावन्तो दह्यमाना जनव्रजा येन ।
क्षीणैर्मृतैराक्रन्दपूर्वकं क्वथद्भिः पच्यमानैश्च भूतगणैः
प्राणिनिकायैर्दुर्वासानि दुर्गन्धीनि वासायोग्यानि च दिक्तटानि येन ॥ १९ ॥
उत्तप्ताम्बूदराखिन्नजलेचरमहार्णवम् ।
सर्वविक्कानलप्लोषक्षीणाक्रन्दपुरान्तरम् ॥ २० ॥
सर्वदिग्व्यापिना अनलेन प्लोषो दाहस्तेन क्षीणाक्रन्दं शान्तरोदनं
पुरान्तरमन्यन्नगरं येन ॥ २० ॥
विदलद्दग्धदिग्दन्तिदन्तोत्तम्भितभूधरम् ।
धराधरदीरन्ध्रधूममण्डलकुण्डलम् ॥ २१ ॥
विदलतां विशीर्यमाणानां दग्धानां च दिग्दन्तिनां दन्तैरेव
स्तम्भप्रायैरुत्तम्भिता अधोभागे धारिता दिगन्तभूधरा येन ॥ २१ ॥
पतत्पर्वतनिष्पिष्टप्लुष्टपत्तनमण्डलम् ।
पचत्पचपचाशब्दशब्दिताद्रीन्द्रकुञ्जरम् ॥ २२ ॥
तापतप्तोन्नमद्भूतज्वरितार्णवपर्वतम् ।
हृदयस्फोटनिःसारपतद्विद्याधराङ्गनम् ॥ २३ ॥
तापतप्तैरुन्नमद्भिरुच्छलद्भिश्च भूतैर्ज्वरिताः सञ्जातज्वरा इवार्णवाः
पर्वताश्च येन ॥ २३ ॥
आक्रन्दरोदनश्रान्तमूर्धनिःसरणामरम् ।
नागलोकज्वलज्ज्वालापातालोत्तप्तभूतलम् ॥ २४ ॥
केचिदाक्रान्दै रोदनैश्च श्रान्ताः केचिद्योगबलेन ब्रह्मरन्ध्रं विदार्य
मूर्धनिःसरणा अत एवामराश्च योगिनो यत्र ॥ २४ ॥
शुष्कार्णवसदापक्वविवर्तोग्रजलेचरम् ।
और्वेणाबिन्धनाभावात्प्रोड्डीयेव सहस्रधा ॥ २५ ॥
शुष्केष्वर्णवेषु सदा पक्वाश्चिरक्वथिता विवर्तैः परिवर्तनैरुग्रा भीषणाश्च
नक्रादिजलेचरा येन ॥ २५ ॥
गतेन नृत्यतोत्थाय गृहीतगगनाङ्गनम् ।
अथोदभूज्ज्वलज्ज्वालाकिंशुकांशुकशोभितः ॥ २६ ॥
गृहीत गगनाङ्गना अप्सरसो येन । एवं द्वादशादित्यगणमुपवर्ण्य
तदुद्भवन्न् प्रलयाग्निं नटत्वेन वर्णयति - अथेत्यादिना नट इत्यन्तेन ।
ज्वलज्ज्वालारूपैः किंशुकपुष्पवर्णैरंशुकैर्वस्त्रैः शोभितः ॥ २६ ॥
ताण्डवायेव कल्पाग्निस्तरलोल्मुकमाल्यवान् ।
तारं पटपटाटोपी रटद्भट इवोद्भटः ॥ २७ ॥
तरलैरुल्मुकैर्माल्यवान् । तारं विस्फुटद्भिर्वेण्वादिभिः पटपटाटोपी
नानावाद्याडम्बरवान् ॥ २७ ॥
ज्वालोद्भुजो धूमकचो जगज्जीर्णकुटीनटः ।
जज्वलुर्वनजालानि पुराणि नगराणि च ॥ २८ ॥
मण्डलद्वीपदुर्गाणि जङ्गलानि स्थलानि च ।
सर्वखानि महाकाशमाशा दश दिवः शिरः ॥ २९ ॥
सर्वाणि खानि पातालादिभूच्छिद्राणि । भूमेरूर्ध्वं महाकाशम् । दिवो द्युलोकस्य
शिर ऊर्ध्वभागः ॥ २९ ॥
श्वभ्ररूपारघट्टाट्टपट्टनोदारदिक्तटः ।
शृङ्गाणि सिद्धवृन्दानि गिरयः सागरार्णवाः ॥ ३० ॥
तथा क्वचित् श्वभ्ररूपः क्वचिदारघट्टयन्त्रैरट्टैः सौधैश्च युक्तैः
पट्टनैश्चोदारो रम्यो दिक्तटः । तथा पर्वतशृङ्गाणि तत्रत्यसिद्धवृन्दानि
तद्युक्ता गिरयः सागरार्णवाः ॥ ३० ॥
सरः सरस्यः सरितो देवासुरनरोरगाः ।
आशाः शनशनाशब्दैः पुरुषैश्च शिवार्चिषाम् ॥ ३१ ॥
आशा दिशश्च तदन्तर्गतपुरुषैः सह शिवार्चिषां रुद्रनेत्रज्वालानां
शनशनाशब्दैर्जज्वलुरिति पूर्वत्रान्वयः ॥ ३१ ॥
आसन्क्ष्वेडाकुराक्षस्यो ज्वालाजालोज्ज्वलोर्ध्वजाः ।
भमद्भमिति भाङ्कारैर्भीषणैर्भूरिभस्मभिः ॥ ३२ ॥
किञ्चैता आशाः ज्वालाजालैरुज्ज्वला ऊर्ध्वजाः केशा यासां तथाविधाः सत्यो
भमद्भमिति प्रसिद्धैर्भीषणैर्भाङ्कारध्वनिभिर्भूरिभस्मभिश्च परस्परं
विक्षिपन्त्यः । क्ष्वेडा परस्परधूलिजलादिप्रक्षेपैः क्रीडातत्पराः कुराक्षस्य इव आसन्
॥ ३२ ॥
ज्वालाः श्वभ्राद्रिभूमीनां गुहाभ्यः परिनिर्ययुः ।
ज्वालोदरस्था अरुणाः समस्ता भूतजातयः ॥ ३३ ॥
स्थलपद्मोदरालीनामाजह्रुः श्रियमश्रियः ।
सद्यो निःसृतरक्ताभैः सिन्दूराम्भोदसुन्दरैः ॥ ३४ ॥
किञ्चाश्रियः सम्पद्रहितास्ता दिशः सद्यो निःसृतरक्ताभैर्ज्वालाजालैः
स्थलपद्मोदरालीनां श्रियमाजह्नुर्जगृहुः ॥ ३४ ॥
धगद्धगिति गायद्भिर्ज्वालाजालैर्जगद्गतैः ।
आसीद्रक्तांशुकैः कीर्णं सन्ध्याभ्रैरिव वा नभः ॥ ३५ ॥
वेत्युत्प्रेक्षयोर्विकल्पः ॥ ३५ ॥
उत्फुल्लकिंशुकवनैरुड्डीनैरिव वाऽऽवृतम् ।
और्वेण चावृता आसन्फुल्लाशोकवना इव ॥ ३६ ॥
आवृतं नभ इत्यनुषज्जते । वाशब्दः प्राग्वत् । एवमौर्वेणाग्निना संवृता
अर्णवाश्च फुल्लान्यशोकवनानि येषु तथाविधा इव स्थलाब्जैर्वलिता इव राविराः
बालरविनिकरव्याप्ता इव वा आसन्निति परेण सहान्वयः । रवीन् रान्ति स्वीकुर्वन्तीति रविराः
त एव राविरा इति स्वार्थिकोऽण् कल्प्यः ॥ ३६ ॥
इव स्थलाब्जवलिता राविरा इव चार्णवाः ।
नानावर्णज्वलज्ज्वालाधूमविन्यासबन्धवान् ॥ ३७ ॥
तथा वनेषु यौवनं युवभावो यस्य तथाविधः पावको दवाग्निश्चित्रलिखितं
सौधतलाश्रयं मिथ्यावह्निं प्रौढं यथार्थभूतमाधातुं सम्पादयितुमिव
नानावर्णानां ज्वलज्ज्वालानां धूमविन्यासानां च बन्धः प्रबन्धः श्रेणिरिति
यावत् तद्वान्सन् फणासहस्रप्रबन्धवाननन्तः सर्पराडिव विनिआस विस्तृतो
नितरामासीदित्युत्तरेण सहान्वयः ॥ ३७ ॥
रूढं वह्निमिवाधातुं चित्रसौधलताश्रयम् ।
अनन्त इव विन्यास वनयौवनपावकः ॥ ३८॥
उदयास्तमयादिभ्यो विन्ध्यो विधुरतामगात् ।
अङ्गारकल्पविटपैर्ज्वालावनविवल्गनैः ॥ ३९ ॥
किं च सूर्योदयास्तमयादिवैधुर्याकाङ्क्षिणो विन्ध्यस्य मनोरथस्तदा फलित
इत्याशयेनाह - उदयास्तमयादिभ्य इत्यर्धेन । अङ्गारेत्याद्युत्तरान्वयि ॥ ३९ ॥
शनैरीषदिव क्षुब्धैः सह्योऽसह्यत्वमाययौ ।
मध्यमध्यकचत्कार्ष्ण्यभ्रमद्धूमालिमालितम् ॥ ४० ॥
सह्यो दक्षिणदेशे प्रसिद्धो गिरिः । मध्ये मध्ये कचत्प्रकाशमानं कार्ष्ण्यं
येषां तथाविधैर्धूमलक्षणैरलिभिर्मालितम् ।
वलद्भिर्धूमसंवलितैर्ज्वालालक्षणैरब्जैर्मलिनं चेति नभसः सरःसाम्योपपत्तिः
॥ ४० ॥
वलज्ज्वालाब्जमलिनं दृष्टं सर इवाम्बरम् ।
खेऽद्रीणां शिखरे व्योम्नि शिखाशिखरशेखराः ॥ ४१ ॥
शिखाशिखरशेखराः ज्वालाग्रोत्तंसाः । केतुर्धूमावर्तो धूमकेत्वाख्य
उत्पातविशेषश्च कुन्तलस्थानीयो यासां तथाविधा नाशा मृत्यवस्तल्लक्षणा
नर्तक्यः अद्रीणां खे विवराकाशे शिखरे शृङ्गदेशे व्योम्नि
अद्र्यादिशून्यशुद्धाकाशप्रदेशे च नीरसाः करुणादिरसशून्याः सत्यो ननृतुः ॥
४१ ॥
ननृतुर्नीरसा नशनर्तक्यः केतुकुन्तलाः ।
तलाहितानलज्वाला ब्रह्माण्डोर्ध्वकपाटभूः ॥ ४२ ॥
ब्रह्माण्डस्य ऊर्ध्वभाग एव कपाटं पिधानं यस्यास्तथाविधा भूः
पृथिवीतले अधोभागे आहिता अनलज्वाला यस्यास्तथाविधा सती तर्जनैर्व्यथनैः
प्रोत्पतन्ति भूतानि प्राणिनिकाया एव धानौघा भर्ज्यमानबीजस्थानीया यस्यां
तथाविधा भ्राष्ट्रभूमिका अम्बरीषखर्परमभूदिति शेषः ॥ ४२ ॥
तर्जनप्रोत्पतद्भूतधानौघा भ्राष्ट्रभूमिका ।
क्वणच्छ्रेणी मृज्जलाग्निर्नानावर्णाननारुणा ॥ ४३ ॥
किञ्चेयं पृथिवी तदा प्रलयकाले सोरस्ताडनं रुदन्त्या जगल्लक्ष्म्या हृदि प्रसक्ते
द्वीपभेदभिन्नाभिर्मृद्भिः सप्तसमुद्रादिलक्षणैर्जलैस्तद्व्याप्तैरग्निभिश्च
काचतत्कान्तिकाञ्चनस्थानीयैर्नानावर्णैराननैर्मुखैर्मणिभिश्च अरुणा सौवर्णी
क्वणत्कङ्कणश्रेणीवाभवत् ॥ ४३ ॥
हृत्प्रकोष्ठे जगल्लक्ष्म्याः सौवर्णीवाभवत्तदा ।
शैलाश्चटचटास्फोटैर्वृक्षाः कटकटारवैः ॥ ४४ ॥
विदलनं विशीर्णताम् ॥ ४४ ॥
देशा हलहलोल्लासैरलं विदलनं ययुः ।
अब्धयः क्वथिताकारः फेनिलोल्लासमांसलाः ॥ ४५ ॥
एवमब्धयोऽपि परस्परं मुखमाहृत्य रुरुदुरिवेत्युत्प्रेक्षते - अब्धय इति ।
अर्कमुखे सूर्यप्रतिबिम्बतिलके स्वमुखे ॥ ४५ ॥
वीचीकरतलाघातांश्चक्रुरर्कमुखे मुखे ।
अन्योन्यवेल्लितोल्लोलभूतलाकारपर्वतम् ॥ ४६ ॥
किं च तेऽब्धयः अन्योन्यं वेल्लितं सम्बद्धं तरङ्गास्फालनैरुल्लोलमत एव
क्रमेण मृत्पाषाणादीनां समीकरणाद्भूतलाकारतां प्राप्तं पर्वतं जह्रुः
आजह्रुः । आहारतां निन्युरग्रसन्निति यावत् । प्रकुपिता जडा मूर्खा मृत्तिकाशिलादि
ग्रसन्तीति प्रसिद्धम् ॥ ४६ ॥
जह्रुर्वीचीकरैर्देहे जडाः [प्राप्तमिति शेषः । देहे प्राप्तं
पर्वतमित्यन्वयः ।] प्रकुपिता इव ।
आशाकाशाशिनामेषां गुहागुहगुहारवान् ॥ ४७ ॥
क्वचिच्च एषामब्धीनां गुहामुखनिर्गतान् गुहागुहेत्येवंरूपानारवान् प्रदेशान्तरे
ज्वालातटस्य गिरितटस्य सङ्घट्टनादुद्भूत आग्नेयः शब्दः पपाठ । गुरूक्तान्
शब्दान् शिष्यध्वनिरिव अनुचकारेत्यर्थः ॥ ४७ ॥
पपाठ शब्द आग्नेयो ज्वालातटतटोद्भवः ।
लोकपालपुरापाततप्ताङ्गाराद्रिभित्तयः ॥ ४८ ॥
किं च तदा प्रलयाम्बुदानां निवृत्तेरुन्मुक्तवृष्टयो दशापि दिशो
लोकपालपुराणां दशानामप्यापातैर्दाहे प्रतप्ताङ्गारभरिताद्रिभित्तयः सत्य
उन्मत्तवृत्तयो भूत्वा वैवश्यं व्याकुलतां ययुः ॥ ४८ ॥
दिशो दशापि वैवश्यं ययुरुन्मत्तवृत्तयः ।
काञ्चनद्रवसाद्रीन्द्रद्रुमागारगुहागृहः ॥ ४९ ॥
काञ्चनद्रवभूतः अद्रिभिः प्रत्यन्तपर्वतैरिन्द्रेण द्रुमैरागारैर्गुहागृहैश्च
सहितश्चार्वाकृतिर्मेरुपर्वतः शनैः आतपे हिम इव विलीन आसीत् ॥ ४९ ॥
शनैश्चार्वाकृतिर्मेरुरासीद्धिम इवातपे ।
क्षणेनैवानलात्तस्माद्धिमवाञ्जतुवद्द्रुतः ॥ ५० ॥
जतुवल्लाक्षावद्द्रुतो विलीनः ॥ ५० ॥
सर्वान्तःशीतलः शुद्धो दुर्जनादिव सज्जनः ।
तस्यामपि दशायां तु मलयोऽमलसौरभः ॥ ५१ ॥
अमलसौरभः सुगन्धिरिति यावत् ॥ ५१ ॥
आसीत्त्यजत्युदारात्मा न नाशेऽप्युत्तमं गुणम् ।
नश्यन्नपि महान् ह्लादं न खेदं सम्प्रयच्छति ॥ ५२ ॥
महानुत्तमपुरुषः ॥ ५२ ॥
चन्दनं दग्धमप्यासीदानन्दायैव जीवताम् ।
न कदाचन संयाति वस्तूत्तममवस्तुताम् ॥ ५३ ॥
प्रलयानलनिर्दग्धमपि हेम न नष्टवत् ।
द्वे हेमनभसी तस्मिन्न नष्टे प्रलयानले ॥ ५४ ॥
दग्धं दह्यमानमपि । न नष्टवत् न ननाश ॥ ५४ ॥
तयोरेव वपुः श्लाघ्यं सर्वनाशेऽप्यनाशयोः ।
नभो विभुतयाऽनाशि हेमाकृष्टतयाक्षयम् ॥ ५५ ॥
अविनाशिवस्त्वेव सार इति श्लाघ्यमित्याशयेनाह - तयोरेवेति । आकृष्टतया
दोषेभ्यो निष्कृष्य शोधिततया ॥ ५५ ॥
सत्त्वमेकं सुखं मन्ये न रजो न च वा तमः ।
चलदुच्चवनानीव विकीर्नाङ्गारवर्षणः ॥ ५६ ॥
अत एव रजस्तमोनिष्कृष्टं शुद्धं सत्त्वमेव ब्रह्मसुखाभिव्यक्त्या सुखसारं
मन्ये । दग्ध अब्दा अम्बुदलक्षणा अद्रयो येन तथाविधो महाधूमज्वालः
प्रलयवह्निलक्षणो वारिदः । चलन्ति उच्चानि वनानीव नभसि स्फुरन्
विकीर्णाङ्गास्वर्षणोऽभूदित्यन्वयः ॥ ५६ ॥
दग्धाब्दाद्रिर्महाधूमज्वालोऽभूद्वह्निवारिदः ।
रसविस्मरणार्तानां शून्यानां स्फारदेहिनाम् ॥ ५७ ॥
रसानां जलानामात्यन्तिकशोषे संस्कारमात्रस्याप्यनवशेषाद्विस्मरणेनार्तानां
शून्यानां स्फारदेहिनां अण्डजादिचतुर्विधभूतानाम् ॥ ५७ ॥
शुष्काणां व्योमविटपिपत्राणां पात्ररूपिणाम् ।
वारिदानां सवारीणां दग्धानां प्रलयार्चिषा ॥ ५८ ॥
तथा शुष्काणां दग्धानामत एव व्योमविटपिपत्रपात्रप्रायाणां शून्यतां
गतानामिति यावत् । अथवा सवारीणामार्द्राणामेव प्रलयार्चिषा बलाद्दग्धानां
वारिदानां हे अङ्ग ज्ञानाग्निदग्धानां ज्ञस्य तत्त्वविदो दोषाणामिव भस्मापि
क्वचिन्न दृष्टमित्यन्वयः ॥ ५८ ॥
ज्ञस्येवाङ्ग न दोषाणां दृष्टं भस्मापि न क्वचित् ।
न लङ्घयति कैलासं यावदुल्लसितोऽनलः ॥ ५९ ॥
न लङ्घयति नाभिभवति । कैलासं रजतगिरिम् ॥ ५९ ॥
तावत्तं कल्पकुपितो रुद्रो नेत्राग्निनादहत् ।
दाहस्फुटद्द्रुमस्थूलशिलाचटचटारवाः ॥ ६० ॥
तं कैलासम् । कल्पार्थं कुपितः । तद्दाहमपि वर्णयति - दाहेत्यादिना ॥ ६० ॥
लकुटोपललोष्टौघैरयुध्यन्तेव भूभृतः ।
ज्वालाघनघटाटोपसावतंसचलान्तिमाः ॥ ६१ ॥
भूभृतस्तत्पादपर्वताः । किं च ते भूभृतो ज्वालाघनघटाटोपैः सावतंसानि
चलानि अन्तिमानि अग्रशिखराणि येषां तथाविधाः सन्तो व्योम्नि विकसन्ति स्थूलानां
पद्मानां वनानि येषां तथाविधा इव बभूवुः ॥ ६१ ॥
बभूवुर्व्योमविकसत्स्थूलपद्मवना इव ।
सर्गः कदाचिदेवासीदित्यगात्स्मरणीयताम् ॥ ६२ ॥
कल्पान्तः स्मारयन्मूर्खानगादस्मरणीयताम् ।
तापोपतापपरमाः परमारणतत्पराः ।
वह्नयोऽपह्नवं चक्रुर्जगतामसतामिव ॥ ६३ ॥
अस्मरणीयतां प्रत्यक्षतामिति यावत् । मूर्खान् स्मारयन् जगदसारतामिति शेषः ।
असतामलीकानां शशशृङ्गादीनामिवापह्नवमत्यन्तासत्त्वम् ॥ ६३ ॥
ववुरशनिनिपातपीडिताङ्गा कचदनलोल्मुकगुल्ममण्डलाभाः ।
प्रलयसमयवायवोऽनलान्ताद्दलदमरावलयो लये लिहन्तः ॥ ६४ ॥
लये तमिन्प्रलये प्रवृत्ते अशनिनिपातैः पीडितानि प्राण्यङ्गानि यैः
कचद्भिरनलोल्मुकैर्गुल्मानि क्षुद्रवृक्षास्तन्मण्डलाभाः दलन्त्यो विशीर्यमाणा
अमरावलयो यैस्तथाविधाः प्रलयसमयवायवः अनलान्ताद्वह्निमध्यान्निर्गत्य
दिशो लिहन्त इव ववुः ॥ ६४ ॥
व्यालोलस्फुटदानलद्रुमवनप्रोद्भूतभस्मोष्मणा
दत्ताभ्राभ्रमदुल्मुकाहतिवहत्साङ्गारगौरार्चिषः ।
भ्रश्यत्पावकशृङ्गमध्यविलसज्ज्वालावलीश्यामला
निःशेषाग्निनिकाशसुस्तवजवा वेगेन वाता ववुः ॥ ६५ ॥
पुनः कीदृशास्ते वाता ववुस्तदाह - व्यालोलेति । व्यालोला ज्वालापल्लवकोटिभिः
स्फुटन्तो विकसन्तश्च ये आनला वह्निमया द्रुमास्तेषां वनेषूद्भूतेन
भस्मसहितेनोष्मणा दत्ताभ्रा व्याप्ताकाशा उत्पादितमेघा वा । तथा
भ्रमतामुल्मुकानामाहतिभिरभिघातैर्वहन्त्यो निःसरन्त्यः साङ्गारा गौराः पीता
अर्चिषो येभ्यः । तथा भ्रश्यन्तीभिः कज्जलात्मना स्खलन्तीभिः
पावकशृङ्गप्रायशिखामध्ये विलसन्तीभिः सकज्जलज्वालावलीभिः श्यामलाः ।
तथा निःशेषे जगत्यग्नीनां निकाशेन प्रदीपनेन सुस्तवः स्तुतियोग्यो जवो येषां
तथाविधा वाता वेगेन ववुरित्यर्थः ॥ ६५ ॥
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० निर्वाणप्रकरणे उ० पाषा०
महाकल्पान्ताग्निवर्णनं नाम पञ्चसप्ततितमः सर्गः ॥ ७५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
महाकल्पान्ताग्निवर्णनं नाम पञ्चसप्ततितमः सर्गः ॥ ७५ ॥