०७४

चतुःसप्ततितमः सर्गः ७४

श्रीवसिष्ठ उवाच ।

तस्मिन्कल्पे तु सङ्कल्पे तस्य यद्वपुरास्थितम् ।
शृणु तत्र व्यवस्थेयन्न् विचित्राचारहारिणी ॥ १ ॥

यान्यङ्गान्यस्य येलोका ये चास्यावयवाः पृथक् ।
यथा चान्तःस्थितोऽस्यैव तत्सर्वमिह वर्ण्यते ॥

इदानीं किमङ्गं तस्य भूर्लोकः किं स्वर्गः किं रसातलम् इति विभागप्रश्नस्य
कथं वा सोऽन्तरे तस्य इति प्रश्नस्य कथं वा तन्मनोमात्रं निराकृतिरिदं स्थितम्
इति प्रश्नस्य च विस्तरेणोत्तरं वक्तुं श्रोतारमवधापयति - तस्मिन्निति ।
तस्मिञ्शिलोदरदृष्टे ब्रह्मकल्पात्मके तस्य विराजः सङ्कल्पे यद्ब्रह्माण्डात्मकं
वपुः स्थितं तस्य इयं वक्ष्यमाणा जन्मकर्मावयवादिविभागव्यवस्था तां
शृण्वित्यर्थः ॥ १ ॥

परमं यच्चिदाकाशं तद्विराडात्मनो वपुः ।
आद्यन्तमध्यरहितं लघु त्वस्य वपुर्जगत् ॥ २ ॥

तत्रास्य ब्रह्मैव वास्तवं स्वरूपं प्राथमिकमकल्पितं वपुर्विराट्शरीरं तु
काल्पनिकं तद्दृष्ट्या अतिलघुतरमित्याह - परममिति ॥ २ ॥

सङ्कल्परहितो ब्रह्मा स्वाण्डं सङ्कल्पनात्मकम् ।
वपुषः परितो भास्वत्पश्यत्याकाशमेव तत् ॥ ३ ॥

चिदाकाशमाद्यन्तमध्यरहितं तस्य स्वरूपमिति कथं ज्ञायते तत्राह -
सङ्कल्परहित इति । यतः स ब्रह्मा स्वसङ्कल्पवपुषो ब्रह्माण्डाद्बहिः सङ्कल्परहितो
निःसङ्कल्पसाक्षिचिदाकाशमात्रः सन् सङ्कल्पनात्मकं स्वाण्डं पश्यति तच्च
परमार्थदृशा आकाशमेवेत्यर्थः ॥ ३ ॥

ब्रह्मात्मैव स्वसङ्कल्पं स्वमण्डमकरोद्द्विधा ।
तैजसं तैजसाकारः पुष्टः पुष्टं विहङ्गवत् ॥ ४ ॥

तत्रादौ तस्य शिरः पादौ नितम्बं च वक्तुं
ब्रह्माण्डस्योर्ध्वाधःकपालद्वयविभागमाह - ब्रह्मेति । तैजसं हिरण्मयम् ।
तैजसाकारो लिङ्गसमष्ट्यभिमानिचिदाकारः ॥ ४ ॥

अण्डस्यैकं नभो दूरं गतं सम्बुद्धवानसौ ।
भुवोधःसंस्थितं भागं व्यतिरिक्तं च नात्मना ॥ ५ ॥

दूरमूर्ध्वं गतमिति सम्बुद्धवान् सङ्कल्पितवान् एवमात्मना न
व्यतिरिक्तमभिन्नं च सङ्कल्पितवान् । मध्यमात्रखं आन्तराकाशमध्यमिति यावत् ॥
५ ॥

ब्रह्माण्डभाग ऊर्ध्वस्थो विराजः शिर उच्यते ।
अधोभागोऽस्य पादाख्यो नितम्बो मध्यमात्रखम् ॥ ६ ॥

दूरं विमुक्तयोः सन्धिः खण्डयोरिति विस्तृता ।
अनन्ता व्योमलेखा सा श्यामा शून्येति दृश्यते ॥ ७ ॥

खण्डयोः कपालयोः सन्धिरन्तरालं शून्या श्यामा व्योमलेखेति दृश्यते जनैः
॥ ७ ॥

द्यौस्तालु विपुलं तस्य तारारुधिरबिन्दवः ।
संविद्वातलवा देहे सुरासुरनरादयः ॥ ८ ॥

तालु काकुदम् । संविद्वातयोर्बुद्धिप्राणयोर्लवा वृत्तिभेदाः ॥ ८ ॥

देहान्तः कृमयस्तस्य भूतप्रेतपिशाचकाः ।
लोकान्तराणि रन्ध्राणि सुषिराण्यस्य देहके ॥ ९ ॥

भूतप्रेतपिशाचका रक्तमांसाद्यशुचिलोलुपत्वात्कृमयः । लोकान्तराणि
सूर्यचन्द्रादिलोकाश्चक्षुरादिरन्ध्राणि । याम्यादिनारकलोकान्तराण्यधःसुषिराणि ॥ ९

ब्रह्माण्डखण्डमस्याधो विस्तृतं पादयोस्तलम् ।
जानुमण्डलरन्ध्राणि पातालकुहराण्यधः ॥ १० ॥

जलैश्चलचलायन्ती सुषिरानेकरन्ध्रिका ।
भूरन्तर्मण्डली लोला समुद्रद्वीपवेष्टना ॥ ११ ॥

चलचलायन्ती चञ्चलायमाना । अन्तर्मण्डली मध्यस्थवस्तिजघननितम्बमण्डली ।
लोला कामरोगजरामरणादिव्याकुला । समुद्रा द्वीपाश्च
वेष्टनान्यन्तरीयकाञ्चीकटिसूत्रप्रायाणि यस्याः ॥ ११ ॥

जलैर्गुडगुडायन्त्यो नद्यो नाड्यः सरिद्रसः ।
जम्बूद्वीपं हृदम्भोजमस्य हेमाद्रिकर्णिकम् ॥ १२ ॥

नाड्यः शिराः । सरित्पदेन तज्जलं लक्ष्यते । तच्छिरान्तर्गतो रसः ॥ १२ ॥

कुक्षयः ककुभः शून्या यकृत्प्लीहादयोऽचलाः ।
मृद्व्यः स्निग्धाः पटाकारा मेदसो जालिका घनाः ॥ १३ ॥

कुक्षयः कुक्षिभागाः । ककुभो दिशः । यकृत्प्लीहादयो मांसभेदाः । मेदसो
धातुविशेषस्य जालिकाः पटल्यः । घना मेघाः ॥ १३ ॥

चन्द्रार्कौ लोचने तस्य ब्रह्मलोको मुखं स्मृतम् ।
तेजः सोमोऽस्य कथितः श्लेष्मा प्रालेयपर्वतः ॥ १४ ॥

तेजो रेतः ॥ १४ ॥

अग्निलोकस्तथैर्वाग्निः पित्तमस्यातिदुःसहम् ।
वातस्कन्धमहावाताः प्राणापाना हृदि स्थिताः ॥ १५ ॥

वातस्कन्धेषु प्रसिद्धा आवहनिवहप्रवहादयो महावाताः ॥ १५ ॥

कल्पद्रुमवनान्यस्य सर्पवृन्दानि च क्वचित् ।
लोमजालान्यनन्तानि वनान्युपवनानि च ॥ १६ ॥

कल्पद्रुमवनान्यन्यानि वनान्युपवनानि च क्वचित्पातालादौ प्रसिद्धानि
सर्पवृन्दानि चास्य लोमजालानि ॥ १६ ॥

ऊर्ध्वं ब्रह्माण्डखण्डं तु समस्तमुरुमस्तकम् ।
ब्रह्माण्डप्रान्तरन्ध्रार्चिरस्य दीप्ता शिखोत्थिता ॥ १७ ॥

ब्रह्माण्डस्योर्ध्वप्रान्ते रन्ध्रे प्रसिद्धं दीप्तार्चिः अथ यदतः परो
दिवोज्योतिर्दीप्यते विश्वतःपृष्ठेषु सर्वतःपृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु इति
शुर्तिप्रसिद्धमर्चिर्ज्योतिरस्य दीप्ता शिखा चूडा ॥ १७ ॥

स्वयमेष मनस्तेन मनो नास्योपयुज्यते ।
आत्मैव भोक्तृतामेति किल कस्य कथं कुतः ॥ १८ ॥

एवंविधविराड्देहकल्पनाकर्तुस्तस्य किं मनः कानीन्द्रियाणि तत्राह - स्वयमिति ।
यतः सर्वमनःसमष्ट्यात्मा एष विधाता स्वयं मन एव । अतोऽस्य सर्वकल्पनासु
अन्यन्मनो नोपयुज्यते अनवस्थाप्रसङ्गात् । यदि तु आत्मैव स्वभोगाय भोग्यवर्ग
कल्पयतीति मन्येथास्तन्न । तस्य कूटस्थाद्वयस्वभावत्वादित्याह - आत्मैवेति ।
किंवृत्तानि प्राग्वत् ॥ १८ ॥

स्वयमेवेन्द्रियाण्येष तेनान्यत्रास्तिता कृता ।
यतस्तत्कल्पनामात्रमेवेन्द्रियगणः किल ॥ १९ ॥

एवमिन्द्रियाण्यप्यस्य नोपयुज्यन्ते । यतस्तेनान्यत्र अस्मदादिषु इन्द्रियाणामस्तिता
कृता कल्पिता । न चेन्द्रियकल्पनायामिन्द्रियाणां निमित्तत्वमनवस्थप्रसङ्गादिति
भावः ॥ १९ ॥

अवयवावयविनोरिवेहेन्द्रियचित्तयोः ।
न मनागपि भेदोऽस्ति चैक्यमेकशरीरयोः ॥ २० ॥

कथं तर्हि इन्द्रियमनसोर्भेदव्यवहारस्तत्राह - अवयवेति । अस्ति चैक्यं
मनःप्रवृत्त्यन्वयव्यतिरेकदर्शनादिन्द्रियप्रवृत्तेः स्वप्ने मनसैव
सर्वेन्द्रियकार्यनिर्वाहदर्शनाच्चेति भावः ॥ २० ॥

तस्य तान्येव कार्याणि जगतां यानि कानिचित् ।
सङ्कल्पा एव पुंवृत्त्या चलन्त्यारूपितद्विताः ॥ २१ ॥

अत एव च सर्वजगत्क्रियास्तत्क्रिया एवेति न क्रियापि पृथक् प्रष्टव्येत्याह - तस्येति ।
यतस्तदीयसङ्कल्प एव पुंवृत्त्या व्यष्टिसर्वपुरुषवेषेण आरूपितद्विता
आरोपितभेदाः सर्वव्यवहारात्मना चलन्ति ॥ २१ ॥

जागते तस्य विज्ञेये नान्येऽस्य मृतिजन्मनी ।
स एवेदं जगत्यस्मत्सङ्कल्पात्मास्य नेतरत् ॥ २२ ॥

तर्ह्यस्मदादिमरणजन्मनी तस्यैव मरणं जन्म च स्याताम् । तथा च
द्विपरार्धकालजीवनप्रसिद्धिविरोधस्तत्राह - जागते इति । समष्टिजगन्मृतिजन्मनी
एव तस्य मरणजन्मनी विज्ञेये । अन्ये अस्मदादिव्यष्टिमात्रप्रसिद्धे तु अस्य न । यत
इदं जगति समष्टिरूपं स एव अस्मत्सङ्कल्पात्मापि स एव नेतरन्नेतर इत्यर्थः ।
अथवा तस्य विधातुः सह सिद्धं चतुष्टयमिति पुराणदर्शितन्यायेन तत्त्वज्ञतया
जीवन्मुक्तस्य द्विपरार्धान्तादिकालप्रसिद्धे अस्मदादिव्यष्टिषु प्रसिद्धे च
मृतिजन्मनी जागते जगदन्तर्गतास्मद्दृष्टिकल्पिते एव नान्ये । स्वदृष्टिसिद्धे
इत्यर्थः । यतः स एवेदं जगति प्रसिद्धः । अस्मत्सङ्कल्पात्मा व्यवहारोऽप्यस्यैव
रूपं नेतरदित्यर्थः । अथवा इन्द्रियमनांसीव तस्य मृतिजन्मनी अपि जागते
अस्मदादिप्रसिद्धे विज्ञेये नान्ये । पृथक्कल्पे तस्य सङ्कल्पात्मापि जगति प्रसिद्धः
अस्मत्सङ्कल्पात्मैव । यतः स एवेदं सर्वं नेतरत्किञ्चिदस्तीत्यर्थः ॥ २२ ॥

तत्सत्तया जगत्सत्ता तन्मृत्यैव जगन्मृतम् ।
यादृशी स्पन्दमरुतोः सत्तिका तादृशी तयोः ॥ २३ ॥

कुतः स एवेदं तत्राह - तत्सत्तयेति । तस्य च जगतश्च तयोः ॥ २३ ॥

जगद्विराजोः सत्तिका पवनस्पन्दयोरिव ।
जगद्यत्स विराडेव यो विराट् तज्जगत्स्मृतम् ॥ २४ ॥

जगद्ब्रह्मा विराट् चेति शब्दाः पर्यायवाचकाः ।
सङ्कल्पमात्रमेवैते शुद्धचिद्व्योमरूपिणः ॥ २५ ॥

एते विराड्जगती शुद्धचिन्मात्ररूपिणः परमात्मनो बहु स्यां प्रजायेय
इत्यादिश्रुतिप्रसिद्धं सङ्कल्पमात्रं तच्च निःस्वरूपमिति ब्रह्मैव परिशिष्टमिति
निष्कर्षः ॥ २५ ॥

श्रीराम उवाच ।

सङ्कल्पात्स विराडेव खमेवाकृतिमागतम् ।
अस्तु नाम स्वदेहान्तः कथं ब्रह्मैव तिष्ठति ॥ २६ ॥

अस्तु नामेत्यन्तेन उक्तमभ्युपगम्य श्रीरामः शिष्टं प्रश्नं स्मारयति -
स्वदेहान्तरिति । कथं वा सोऽन्तरे तस्य स्वस्यैव वपुषः स्थितः इति प्रश्नस्योत्तरं
वदेत्यर्थः ॥ २६ ॥

श्रीवसिष्ठ उवाच ।

यथा ध्यानेन देहान्तस्तिष्ठसि त्वं यथा स्थितम् ।
तथास्ते निजदेहेऽन्तः सङ्कल्पात्मा पितामहः ॥ २७ ॥

ध्यानेनेति । मानसपूजायां हि हृदि कल्पिते रत्नमण्डपे देवमुपवेश्य स्वं
तत्समीपस्थं छत्रचामरव्यजनदर्पणताम्बूलादिभिर्देवं परिचरन्तं
यथानुभवसि तद्वदित्यर्थः ॥ २७ ॥

नृणां तथा च मुख्यानां जीवो ब्रह्मपुरोदरे ।
उत्पत्तिपुत्रिकादेहः प्रतिबिम्बोपमोऽस्ति सः ॥ २८ ॥

किं च स्थूलदेहात्मकस्य स्वस्यान्तर्हृदयपुण्डरीके लिङ्गदेहात्मकस्य
स्वस्यावस्थानं सर्वेषां विवेकिनामनुभवसिद्धमित्याह - नृणामिति ।
मुख्यानां विवेकिनाम् । ब्रह्मपुरे शरीरे । उत्पत्तिपुत्रिका
औत्पत्तिकतत्तद्देहप्रतिमाकारः । अत एव दर्पणान्तर्गतप्रतिबिम्बोपमः ॥ २८ ॥

यत्र त्वमपि देहान्तः कर्तुं शक्तोऽस्यलं स्थितम् ।
सङ्कल्पात्मा विभुस्तत्र ब्रह्मा किं न करिष्यति ॥ २९ ॥

कैमुतिकन्यायेन धातुः स्वदेहान्तःस्थितिरित्याह - यत्रेति ॥ २९ ॥

बीजान्तः स्थावरं ह्यास्ते पदार्थे यत्र जङ्गमः ।
किं नास्ते तत्र देहेऽन्तर्निजचित्कल्पनात्मिका ॥ ३० ॥

यत्र स्थावराणामपि स्वबीजदेहान्तरवस्थानसामर्थ्यन्न्
तत्राविर्भूतसर्वशक्तिकचित्कल्पनात्मिकायाश्चतुर्मुखमूर्तेः किं तद्वाच्यमित्याह

  • बीजेति ॥ ३० ॥

साकारो गगनात्मास्तु निराकारं खनस्तु वा ।
आस्ते बहिरथान्तश्च भिन्ने बाह्यान्तरे बहिः ॥ ३१ ॥

तथा च ब्रह्मा ब्रह्माण्डाकरेण साकारः संश्चिद्गगनात्मा वाऽस्तु
मनःसमष्टिरूपेण निराकारं खमस्तु वा पक्षद्वयेऽपि बहिरन्तश्चास्ते
बाह्यान्तरभावकल्पने एव परं स्वरूपाद्बहिः स्थिते भिन्ने न त्वत्कल्पितमान्तरं
सद्रूपं भिद्यत इत्यर्थः ॥ ३१ ॥

आत्मारामः काष्ठमौनी न जडोऽपि दृषज्जडः ।
अहन्त्वमित्यादिमयो विराडात्मनि तिष्ठति ॥ ३२ ॥

स तर्हि बहिरन्तश्च कीदृशः कीदृशे स्वभावे परमार्थतस्तिष्ठति तदाह -
आत्माराम इति । स बहिर्विराड् ब्रह्माण्डात्मा अन्तस्तु
अहन्त्वमित्यादिव्यष्टिसमष्टिभूतभौतिकमयः । आत्मनि तु आत्मारामः सन्
काष्ठमौनी निर्वाक्यो दृषदिव जडः स्थितः सोऽपि चिदेकरसत्वान्न जडस्तिष्ठति ॥ ३२ ॥

आवेष्टितोज्झितलतातृणदारुपिंवदुच्छब्दमम्बुरयवच्च विरोपिताङ्गः ।
नानाविधेऽपि विहरन्नपि कार्यजाले तज्ज्ञः शिलाजठरशान्तमनस्क एव ॥ ३३ ॥

न केवलं विराज एवेदृशी स्थितिः किन्तु तत्वज्ञानां सर्वेषामिति दर्शयितुं तामेव
दृष्टान्तैर्विशदयति - आवेष्टितेति । तज्ज्ञस्तत्त्ववित् परापराधसहिष्णुताविषये
यथा लता तृणं कक्षः दारु पुमान्प्रतिमा वा पूर्वं रज्ज्वादिना आवेष्टिता बद्धा
पश्चादुज्झिता मुक्ता अपि न कुप्यन्ति किन्तु निःशब्दं तूष्णीमेवासते । यथा अम्बुरयो
जलप्रवाहो निरुद्धो विरोपिताङ्गः शातितावयवोऽपि प्राक्तनस्थितिं न जहाति तथा
नानाविधे कार्यजाले विहरन्नपि शिलाजठरमिव शान्तमनस्कः पूर्वस्थित्यैवास्ते न
मनागपि क्रोधहर्षविषादादिना विक्रियत इत्यर्थः ॥ ३३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्रकरणे उ० पाषा०
विराडात्मवर्णनं नाम चतुःसप्ततितमः सर्गः ॥ ७४ ॥

इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विराडात्मवर्णनं नाम चतुःसप्ततितमः सर्गः ॥ ७४ ॥