त्रिसप्ततितमः सर्गः ७३
श्रीराम उवाच ।
बन्धमोक्षजगद्बुद्धिर्न शून्या नापि सन्मयी ।
नास्तमेति न चोदेति किमप्याद्यमसौ किल ॥ १ ॥
इहारोपक्रमो भूयो बोधदार्ढ्याय वर्ण्यते ।
कथमेतस्य चाङ्गानीत्यादिप्रश्नोत्तरं ततः ॥
किमङ्ग तस्य भूर्लोकः कथमेतानि चाङ्गानि कथं वासोन्तरे तस्य इति
प्रस्तुतप्रश्नत्रयोत्तरोपोद्घातत्वेन वर्णितं शुद्धे ब्रह्मणि
जगदध्यारोपप्रकारं पुनः क्रमशस्तात्पर्यतश्च सम्यग्जिज्ञासमानो रामस्तत्र
तात्पर्यतः स्वज्ञातांशं दर्शयितुं सिंहावलोकनन्यायेन व्यवहितोक्तनिष्कर्षं
स्मारयति - बन्धेत्यादिन । सन्मयी सत्यार्थविषया । सर्वसाक्षित्वादेव स्वयं
नास्तमेति नोदेति च । अतः असौ सर्वसाक्षिणी बुद्धिरेव विषयमार्जने किमपि
वाङ्मनसागम्यमाद्यं ब्रह्मेति त्वया तात्पर्य्गत्या उपदिष्टम् । किलेति
गुरुबुद्धिविसंवादशङ्कापरिहाराय । इदं मया बुद्धमिति परेणान्वयः ॥ १ ॥
उपदिष्टमिदं ब्रह्मंस्त्वया बुधमलं मया ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ २ ॥
तर्हि किमुपदेशोपरमोऽस्तु नेत्याह - भूय इति ॥ २ ॥
सर्गादिसम्भ्रमदृशः शून्यतादिदृशस्तथा ।
न काश्चन विभो सत्या असत्याश्च न काश्चन ॥ ३ ॥
सत्या अबाधितार्थाः असत्या बाधितार्था अपि न । तत्तद्व्यवहर्तृदृशा ब्रह्मण एव
तथास्थितेरर्थक्रियाऽविसंवादादसत्कार्यपक्षानभ्युपगमात्सर्वशक्तिमति ब्रह्मणि
सर्वशून्यतापादनशक्तेरपि सम्भवान्मायया सर्वविरोधपरिहाराच्चेति भावः ॥ ३
॥
एवंस्थिते तु यत्सत्यन्न् तत्सर्वं बुद्धवानहम् ।
तथापि भूयोबोधाय सर्गानुभव उच्यताम् ॥ ४ ॥
मायाशबलब्रह्ममाहात्म्यमिव
तदधिष्ठाननिर्विशेषनित्यमुक्तब्रह्मतत्त्वमप्यहं बुद्धवानित्याह - एवमिति ।
सर्गानुभवः प्रपञ्चाध्यासक्रमो भूय उच्यताम् । भूयसां शृतॄणां
बोधाय बोधबाहुल्यायेति वा ॥ ४ ॥
श्रीवसिष्ठ उवाच ।
यदिदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् ।
सर्वं सर्वप्रकाराढ्यं देशकालक्रियादिमत् ॥ ५ ॥
तस्य नाशे महानाशे महाप्रलयनामनि ।
ब्रह्मोपेन्द्रमरुद्रुद्रमहेन्द्रपरिणामिनि ॥ ६ ॥
स्थूलस्य भूतभौतिकस्य सूक्ष्मभूतेषु नाशे भूतसूक्ष्मैः सह
अव्याकृतानुप्रवेशे । महानाशे प्राकृते प्रलये इति यावत् । ब्रह्मोपेन्द्रादिदेहानां
परिणामश्चरमो भावविकारस्तद्वति तच्छीले वा ॥ ६ ॥
शिष्यते शान्तमत्यच्छं किमप्यजमनादि सत् ।
यतो वाचो निवर्तन्ते किमन्यदवगम्यते ॥ ७ ॥
तदा यच्छिष्यते तद्वर्णयति - शिष्यत इत्यादिना ॥ ७ ॥
सर्षपापेक्षया मेरुर्यथातिवितताकृतिः ।
तथाकाशमपि स्थूलं शून्यं सद्यदपेक्षया ॥ ८ ॥
अन्यापेक्षया शून्यं परमसूक्ष्मं सदप्याकाशं यदपेक्षया स्थूलम् ॥ ८ ॥
शैलेन्द्रापेक्षया सूक्ष्मा यथेमे त्रसरेणवः ।
तथा सूक्ष्मतरं स्थूलं ब्रह्माण्डं यदपेक्षया ॥ ९ ॥
तथा अन्यापेक्षया स्थूलं विशालतममपि ब्रह्माण्डं यदपेक्षया
सूक्ष्मतरमणुतरम् ॥ ९ ॥
अमानकलिते सौम्ये काले परिणते चिरम् ।
शान्ते तस्मिन्परे व्योमन्याद्ये ह्यनुभवात्मनि ॥ १० ॥
मानहेतुसूर्यस्पन्दाद्युपाधिप्रलयादमानकलिते तादृशप्रलयकाले चिरं
द्विपरार्धपरिमितब्रह्मायुःकालतुल्यप्रमाणपरिणते अतिवाहिते सति ॥ १० ॥
असङ्कल्पो महाशान्तो दिक्कालैरभिताकृतिः ।
अन्तर्महांश्चिदाकाशो वेत्तीव परमाणुताम् ॥ ११ ॥
मायावरणान्तःसुषुप्तप्रायश्चिदाकाशः स्वप्नोन्मुख इव
स्वान्तर्लीनजगत्संस्काररूपां परमाणुतां वेत्ति पर्यालोचयतीव ॥ ११ ॥
असत्यामेव तामन्तर्भावयन्स्वप्नवत्स्वतः ।
ततः स ब्रह्मशब्दार्थं वेत्ति चिद्रूपतां तताम् ॥ १२ ॥
भावयन्पर्यालोचयन् । तत्पर्यालोचनेनेषदुचितभावप्राप्तेर्बृंहणाद्ब्रह्मेति
प्रसिद्धं ब्रह्मशब्दार्थम् । तथा च श्रुतिः तपसा चीयते ब्रह्म इति ॥ १२ ॥
चिद्भावोऽनुभवत्यन्तश्चित्त्वाच्चिदणुतां निजाम् ।
तामेव पश्यतीवाथ [पश्यतीवान्तरिति पाठः ।] ततो द्रष्टेव तिष्ठति ॥
१३ ॥
तद्गोचरतालक्षणे तद्वेदने चित्स्वभावातिरिक्तो हेतुर्दुर्निरूप इत्याह - चिद्भाव इति ।
तेनैव द्रष्ट्टतासम्पत्तिं दर्शयति - तामेवेति ॥ १३ ॥
यथा स्वप्ने मृतं पश्यत्येक एवात्मनात्मनि ।
मृत एव मृतेर्द्रष्टा तथा चिदणुरात्मनि ॥ १४ ॥
नन्वेकत्र दृश्यद्रष्ट्टभावो विरुद्धः कथं सम्पद्यते इति
चेत्स्वप्नवद्विरोधापर्यालोचनादित्याह - यथेति ॥ १४ ॥
तत्श्चिद्भाव एषोऽन्तरेक एव द्वितामिव ।
पश्यन्स्वरूप एवास्ते द्रष्ट्टदृश्यमिव स्थितः ॥ १५ ॥
तथा कल्पनेऽपि न वास्तवैक्यक्षतिरित्याह - तत इति ॥ १५ ॥
चिद्भावशून्य एवातिनिराकारोऽप्यणुं तनुम् ।
पश्यन्दृश्यमिवोदेति द्रष्टेव च तदा द्विताम् ॥ १६ ॥
शून्य एवेत्यस्य व्याख्या - अतिनिराकार इति । दृश्यमिव द्रष्टेव च द्वितां तदा
उदेति उद्वहति ॥ १६ ॥
प्रकाशमणुमात्मानं पश्यंस्तदनुभावतः ।
उच्छूनतां चेतयते बीजमङ्कुरतामिव ॥ १७ ॥
स च द्रष्टा मायाबलेन प्रकाशस्वभावमणुं परिच्छिन्नमात्मानं
पश्यन्संस्तदनुभावत उच्छूनतामुपचयं चेतयते कल्पयति ॥ १७ ॥
देशकालक्रियाद्रव्यद्रष्ट्टदर्शनदृग्दृशः ।
अर्थान्तरस्वभावेन तिष्ठन्त्यनुदिताभिधाः ॥ १८ ॥
तदैव तस्य तन्नान्तरीयकतया देशकालादिविभगकल्पना अपि भवन्ति परन्तु ता
वागाद्यभिव्यक्त्यभावादनुदिताभिधा इत्याह - देशेति ॥ १८ ॥
चिदणुर्यत्र भातोऽसौ देशो मितिमुपागतः ।
यदा भातस्तदा कालो यद्भानं तत्क्रिया स्मृता ॥ १९ ॥
तद्विभागकल्पनाप्रकारं विशदयति - चिदणुरिति । परिच्छिन्नस्य
देशकालानवगाह्यप्रतीत्यप्रसिद्धेरिति भावः ॥ १९ ॥
उपलब्धं विदुर्द्रव्यं द्रष्ट्टताप्युपलब्धता ।
आलोकनं दर्शनता दृगालोकनकारणम् ॥ २० ॥
तदैव त्रिपुटीविभाजकोपाधिभेदानां साक्षिणस्तदालोकननिमित्तभावस्य च कल्पना
भवतीत्याह - उपलब्धमिति । द्रव्यगुणक्रियादिकल्पनाधारत्वाद्द्रष्टव्यम् ॥ २० ॥
एवमुच्छूनता भाति मितानन्ताथ वा क्रमात् ।
असत्यैव नभस्येव नभोरूपैव निष्क्रमा ॥ २१ ॥
एवमेव कर्ता कार्यं कारणं भोक्ता भोग्यं भोग इत्यादित्रिपुटीभेदानां
तत्साक्षिणस्तन्निमित्ततायाश्च कल्पनं सर्वत्र बोध्यमित्याशयेनाह - एवमिति ।
देशकालवस्तुपरिच्छेदैर्मिता सङ्ख्येयत्तादिना अनन्ता वा ॥ २१ ॥
चिदणोर्भासनं भातं तत्प्रदेशेन देहगम् ।
येन पश्यति तच्चक्षुः सङ्ग्रहोऽक्षदृशामिति ॥ २२ ॥
तत्र रूपादित्रिपुटीसिद्धौ चक्षुरादिकरणविभागकल्पनादि नन्तरीयकी भवतीति
सङ्क्षेपेण दर्शयति - चिदणोरिति । चिदणोर्जीवस्य भातं भासनं सौराद्यालोकं
येन गोलकप्रदेशेन च्छिद्रेण येन चातीन्द्रियेण करणेन पश्यति तदुभयं चक्षुः ।
सर्वासां श्रोत्राद्यक्षदृष्टीनामप्ययं न्यायः सम इति सङ्ग्रहः सङ्क्षेपः ॥ २२
॥
चिदणुप्रतिभासेऽन्तः प्रथमं नामवर्जितम् ।
तन्मात्रशब्दमेतेषामेतदाकाशरूपि तत् ॥ २३ ॥
श्रोत्रादीन्द्रियपञ्चकविषयेष्वेव नामरूपभेदकल्पनात्प्रागवस्था
तन्मात्रशब्देनोच्यत इत्याह - चिदण्विति । एतेषां श्रोत्रादिपञ्चकविषयाणां
प्रथमं प्राक्तनं यन्नामवर्जितं स्वरूपं तत्तन्मात्रमिति शब्दो यस्य
तथाविधं यतस्तदेतदाकाशरूपि सूक्ष्मतममित्यर्थः ॥ २३ ॥
चिदणुप्रतिभकाशपिण्ड एव घनस्थितिः ।
अनुसन्धानविवशश्चेततीन्द्रियपञ्चकम् ॥ २४ ॥
एवं क्रमेण चिदणोः प्रतिभलक्षण आकाश एव घनस्थितिः सन् पिण्डः स्थूलदेहो
भवति तत्र रूपाद्यनुसन्धानवशादिन्द्रियपञ्चकं चेततीत्युपसंहारः ॥ २४ ॥
एवं चिदणुसन्धानं दृश्यपोषमुपैत्यलम् ।
तदेव ज्ञानमित्युक्तं बुद्धिरित्यभिधीयते ॥ २५ ॥
अन्तःकरणचतुष्टयकल्पनाप्रकारमाह - एवमिति । दृश्येषु शब्दादिषु
पुनःपुनरनुभवात्पोषमुपचयमुपैति तत्रेन्द्रियगृहीतविषयाणां
स्मृतिदशायां ज्ञानं चित्तमिति अध्यवसायदशायां बुद्धिरिति चाभिधीयते ॥ २५ ॥
ततो मनस्तदारूढमहङ्कारपदं गतम् ।
देशकालपरिच्छेद इत्यङ्गीकृत आत्मना ॥ २६ ॥
ततः सङ्कल्पविकल्पदशायां मनोऽभिमानेनाहम्ममतया तदारूढं
तदभिनिविष्टं सत् अहङ्कारपदं गतम् । देशकालविभागकल्पनां वर्णयितुं
प्रस्तौति - देशेति । इति वक्ष्यमाणरीत्या ॥ २६ ॥
चिदणोरस्य भावस्य प्रत्यग्रं यत्र वेदनम् ।
स तत्रोत्तरकालेन पूर्वाभिख्यां करिष्यति ॥ २७ ॥
तत्र काले देशे च पूर्ववत्कल्पना उत्तरकालकल्पनामपेक्ष्यैव प्रवर्तत इत्याह -
चिदणोरिति । अस्य प्रसिद्धस्य भावस्य शब्दादिविषयस्य प्रत्यग्रं नवम् । आद्यमिति
यावत् । यत्र देशरूपे कालरूपे वा आधारे वेदनं यस्य चिदणोर्जीवस्य भवति स
चिदणुस्तस्य देशकालस्य चोत्तरकालेन व्यावर्त्येन निमित्तेन पूर्वं इत्यभिख्यां नाम
करिष्यति कल्पयिष्यतीति प्रतिजीवं प्रतिवस्तु चेदमनियतमेवेति भावः ॥ २७ ॥
अन्यस्मिन्नेकदेशे सा ऊर्ध्वाभिख्यां करिष्यति ।
एवं दिगभिधनादि कल्पयिष्यति स क्रमात् ॥ २८ ॥
तां कल्पनामपेक्ष्य ऊर्ध्वाभिख्यां ततोऽन्यस्मिन्काले एकामेव करिष्यति । दिशि
तूर्ध्वदक्षिणपश्चिमाद्यभिधानानि बहूनीति विशेष इति भावः ॥ २८ ॥
देशकालक्रियाद्रव्यशब्दानामर्थवेदनम् ।
भविष्यति स्वयमसावाकाशविशदोऽपि सन् ॥ २९ ॥
एवं देशकालवस्तुभेदांस्तन्नामानि च कल्पयित्वा गृहीतसङ्केतानां पुरुषाणां
शब्दश्रवणे तत्तदर्थवेदनात्मनापि स्वयमेव सम्पत्स्यत इत्याह - देशेति ॥ २९ ॥
इत्थं स्वानुभवेनैष व्योम्नैव व्योमरूपभृत् ।
आतिवाहिकनामान्तर्देहः सम्पद्यते चितेः ॥ ३० ॥
एवं स्वयमेव प्रथममातिवाहिकदेहस्ततो
देशकालक्रियावस्तुविभागस्ततस्तत्तन्नामभेद इति क्रमेण नामान्तं
सर्वजगच्छरीरं सम्पद्यत इत्यर्थः ॥ ३० ॥
एष एव चिरं कालं तत्र भावनया तया ।
गृह्णाति निश्चयं पूर्णमाधिभौतिकमात्मनः ॥ ३१ ॥
एवं सर्वजगतो मनःकल्पनामात्रत्वेनातिवाहिकदेहावयवत्वे
कथमाधिभौतिकताप्रत्ययस्तत्राह - एष एवेति ॥ ३१ ॥
व्योम्ना व्योम्न्येव रचितो निर्मलेनेति विभ्रमः ।
असता सत्समास्तीर्णस्तापनद्या जलं यथा ॥ ३२ ॥
सङ्कल्पनामुपादत्ते स्वदेहे गगनाकृतिः ।
शिरःशब्दार्थदां काञ्चित्पादशब्दार्थदां क्वचित् ॥ ३३ ॥
स गगनाकृतिश्चिदणुः स्वदेहेऽपि कल्पनीये वक्ष्यमाणप्रपञ्चां
सङ्कल्पनामुपादत्ते ॥ ३३ ॥
उरःपार्श्वादिशब्दार्थमयीं क्वचिदनाविलाम् ।
भावाभावग्रहोत्सर्गशब्दाद्यर्थमयीमपि ॥ ३४ ॥
एवं बाह्यार्थहानोपादानादिव्यवहारकल्पनापि बोध्येत्याह - भावेति ॥ ३४ ॥
नियताकारकलनां देशकालादियन्त्रिताम् ।
विषयोन्मुखतां यातामिन्द्रियव्रातवेधिताम् ॥ ३५ ॥
इत्थमाकारो गौः इत्थमश्व इत्यादिनियताकारकलनाम् ॥ ३५ ॥
सोणुः पश्यत्यथाकारमात्मनः स्वात्मकल्पितम् ।
हस्तपादादिकलितं चित्तादिकलनान्वितम् ॥ ३६ ॥
एवं सम्पद्यते ब्रह्मा तथा सम्पद्यते हरिः ।
एवं सम्पद्यते रुद्र एवं सम्पद्यते कृमिः ॥ ३७ ॥
ईश्वराणामपि देहादिकल्पना सङ्कल्पवशादेव किं पुनरन्येषामित्याह - एवमिति
॥ ३७ ॥
न च किञ्चन सम्पन्नं यथास्थितमवस्थितम् ।
शून्यं शून्ये विलसितं ज्ञप्तिर्ज्ञप्तौ विजृम्भिता ॥ ३८ ॥
सर्वापीयं कल्पना अमृतैवेत्याह - न चेति ॥ ३८ ॥
प्रतिकन्दः शरीराणां बीजं त्रैलोक्यवीरुधाम् ।
सर्गार्गलप्रदो मुक्तेः संसारासारवारिदः ॥ ३९ ॥
व्यष्टिवत्समष्ट्यात्मा विराडप्येवमेव कल्पनयोत्थित इत्याह - प्रतिकन्द इति ।
व्यष्टिशरीराणां प्रतिनियतः कन्दः प्रतिकन्दः । तदाधारत्रैलोक्यवल्लीनामपि स एव
बीजम् । मुक्तेर्द्वारेषु प्रतिबन्धकविषयसर्गार्गलप्रदः ॥ ३९ ॥
कारणं सर्वकार्याणां नेता कालक्रियादिषु ।
सर्वाद्यः पुरुषः स्वैरमित्यनुत्थित उत्थितः ॥ ४० ॥
नास्य भूतमयो देहो नास्यास्थीनि शरीरके ।
अवष्टब्धुमसौ मुष्ट्या शक्यते न तु केनचित् ॥ ४१ ॥
भूतमयदेहाद्यभावादेव मुष्ट्या अवष्टब्धुं न शक्यते ॥ ४१ ॥
तेनाब्धिमेघसङ्ग्रामसिंहगर्जोर्जितात्मना ।
अपि सुप्तनरेणेव नूनं मौनवता स्थितम् ॥ ४२ ॥
यथा स्वप्ने अब्धीनां मेघानां सङ्ग्रामाणां सिंहानां च
गर्जाभिर्महाध्वनिभिश्चोर्जितात्मनापि सुप्तनरेण वस्तुतो मौनवता निःशब्दमेव
स्थितं तथा तेनापि विराजा निष्प्रपञ्चे स्वरूपे स्थितमित्यर्थः ॥ ४२ ॥
जाग्रतः स्वप्नसन्दृष्टयोद्घ्रारभटिवेदनम् ।
यथा स्मृतिगतं नासन्न सत्तद्वदसौ स्थितः ॥ ४३ ॥
स्वप्नसन्दृष्टानां योद्धॄणामारभटी कोलाहलस्तद्वेदनं जाग्रतः
स्मृतिपथं गतं सद्यथा नात्यन्तासन्नापि सत्तथा प्रपञ्चोऽयं स्थितः ॥ ४३ ॥
बहुयोजनलक्षौघप्रमाणोऽपि बृहद्वपुः ।
परमाण्वन्तरे भाति लोमान्तस्थजगत्त्रयः ॥ ४४ ॥
मायामात्रत्वादेवासम्भावितसहस्रमप्यत्र सम्भवत्येवेत्याशयेनाह - बह्विति
॥ ४४ ॥
कुलशैलगुणैघात्मा जगद्वृन्दात्मकोऽपि सन् ।
कुलायं धानकामात्रमपि नो पूरयत्यजः ॥ ४५ ॥
धानका वटबीजादयस्तावन्मात्रमपि कुलायं नीडच्छिद्रं न पूरयति ॥ ४५ ॥
जगत्कोटिशताभोगविस्तीर्णोऽप्यणुमात्रकम् ।
वस्तुतो व्याप्तवानेष न देशं स्वप्नशैलवत् ॥ ४६ ॥
स्वयम्भूरेष कथितो विराडेष स उच्यते ।
ब्रह्माण्डात्मा जगद्देहो वस्तुतस्तु नभोमयः ॥ ४७ ॥
सनातन इति प्रोक्तो रुद्र इत्यपि सञ्ज्ञितः ।
इन्द्रोपेन्द्रमरुन्मेघशैलजालादिदेहकः ॥ ४८ ॥
तेजोणुमात्रं प्रथितं चेतित्वात्प्रथमं वपुः ।
क्रमेण स्फारसंवित्तिर्महानहमिति स्थितः ॥ ४९ ॥
उक्तं सर्वं सङ्क्षिप्याह - तेज इति । अणुमात्रं तेजः परमसूक्ष्मा चित् प्रथमं
चेतित्वाच्चित्तवपुः सम्पन्नम् । स एव चित्तात्मा वर्णितक्रमेण स्फारसंवित्तिः सन्
महान्ब्रह्माण्डात्मैवाहमिति स्थित इति सङ्ग्रह इत्यर्थः ॥ ४९ ॥
स्पन्दसंवेदनात्तेन स्पन्द इत्यनुभूयते ।
यः स एवानिलाभिख्यो वातस्कन्धात्मना स्थितः ॥ ५० ॥
अत एव तदीयाः प्राणा वातस्कन्धास्तदुपसंहारेण
वातस्कन्धभङ्गोऽस्माभिर्वर्णित इत्याशयेनाह - स्पन्देति ॥ ५० ॥
प्राणापानपरिस्पन्दो वेदनादनुभूयते ।
तेन यः सोऽयमाकाशे वातस्कन्ध उदाहृतः ॥ ५१ ॥
स्पन्दसंवेदनात्तेन प्राणस्पन्द इत्यनुभूयते इति यदुक्तं तत्सर्वानुभवप्रसिद्ध्या
समर्थयति - प्राणेति । सोऽयन्न् तदीयप्राणस्पन्दस्तद्ब्रह्माण्डाकाशे
वातस्कन्धोऽस्माभिरुदाहृतः प्रागित्यर्थः ॥ ५१ ॥
चित्ताद्ये कल्पितास्तेन बालेनेव पिशाचिकाः ।
तेजःकणा असन्तोऽपि त एतेधिष्ण्यतां गताः ॥ ५२ ॥
धिष्ण्यतां सूर्यचन्द्रग्रहनक्षत्रादिस्थानताम् ॥ ५२ ॥
प्राणापानपरावर्तदोला तदुदरोदिता ।
वातस्कन्धाभिधां धत्ते जगत्तद्धृदयं महत् ॥ ५३ ॥
हृदयं उदरान्तर्गतमांसास्थ्यादीति यावत् ॥ ५३ ॥
प्रतिच्छन्दशरीराणां प्रथमं बीजमेष सः ।
जगद्गतानां सर्वेषामकल्पव्यवहारिणाम् ॥ ५४ ॥
प्रतिच्छन्दाः प्रतिजीवभेदमिच्छास्तत्कल्पितव्यष्टिशरीराणाम् ॥ ५४ ॥
प्रतिच्छन्द्याद्यदेतस्मादुत्थिता जगदात्मना ।
देहास्तदा यथा बाह्यमन्तरेषां तथा स्थितम् ॥ ५५ ॥
परिच्छाकल्पिता देहाः कथमेतस्य व्यष्टितां गतास्तत्राह - प्रतिच्छन्द्यादिति ।
प्रतिच्छन्दं भवः प्रतिच्छन्द्यः । दिगादित्वाद्यत् ।
यद्यस्माद्धेतोस्तथाविधादस्मादुत्थिताः प्रतिपुरुषदेहं तत्तद्वासनामया
ब्रह्माण्डा एवमेव बोध्या इत्याह - देहा इति ॥ ५५ ॥
चितिस्तस्याद्यबीजस्य पूर्वमेव यथोदिता ।
तथैवाद्यपि जीवेऽन्तस्तथोदेति तदीहिता ॥ ५६ ॥
तत्रैकबीजान्तरन्तर्यथा वृक्षबीजपरम्परा क्रमेणोद्भवदर्शनादस्तीति
सम्भाव्यते तद्वदत्रापि सम्भाव्यतामित्यभिप्रेत्याह - चितिरिति । तदीहिता तेन
हिरण्यगर्भेण वाञ्छिता ॥ ५६ ॥
श्लेष्मपित्तानिलास्तस्य चन्द्रार्कपवनास्त्रयः ।
ग्रहा ऋक्षगणास्तस्य प्राणाष्ठीवनसीकराः ॥ ५७ ॥
तस्य हिरण्यगर्भस्य श्लेष्मपित्तादयः । अत एवान्येऽपि ग्रहा ऋक्षगणा
नक्षत्रसमूहाश्च प्राणेन यदा ष्ठीवनं निष्ठीवनं तत्सीकराः श्लेष्मविन्दव
इत्यर्थः ॥ ५७ ॥
तस्यास्थीन्यद्रिजालानि मेदसो जातिका घनाः ।
शिरः पादौ त्वचं देहान्पश्यामस्तस्य नो वयम् ॥ ५८ ॥
मेदसो जातय इव जातिकाः । घना मेघाः । तस्य शिरः ऊर्ध्वकपालं पादौ
अधःकपालं त्वचं ब्रह्माण्डावरणानि च वयं दूरस्थत्वान्न पश्यामः ॥ ५८ ॥
वपुर्विराजो जगदङ्ग विद्धि सङ्कल्परूपस्य हि कल्पनात्म ।
आकाशशैलावनिसागरादि सर्वं चिदाकाशमतः प्रशान्तम् ॥ ५९ ॥
हे अङ्ग इदं जगद्विराजो वपुर्विद्धि । तच्च सङ्कल्परूपस्य कल्पनात्मनः
कल्पनामात्रं न बाह्यसाधनसाध्यं न च मनःकल्पनात्मकं किञ्चिद्वास्तवं
सम्भवति । अतो हेतोराकाशशैलादि सर्वं प्रशान्तं चिदाकाशमेवेत्यर्थः ॥ ५९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
पाषाणो० विराडात्मवर्णनं नाम त्रिसप्ततितमः सर्गः ॥ ७३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विराडात्मवर्णनं नाम त्रिसप्ततितमः सर्गः ॥ ७३ ॥