द्विसप्ततितमः सर्गः ७२
श्रीवसिष्ठ उवाच ।
अथाकृष्टवति प्राणान्स्वयम्भुवि नभोभवः [नभोभुवः इति
मुद्रितपुस्तके पाठः ।] ।
विराडात्मनि तत्याज वातस्कन्धस्थितः स्थितिम् ॥ १ ॥
धातुः प्राणनिरोधेन वातस्कन्धस्थितिक्षयः ।
तत्प्रसङ्गात्पुनः पृष्टा वर्ण्यतेऽग्रे विराट्स्थितिः ॥
विराडात्मनि स्वयम्भुवि प्राणानाकृष्टवति स्वहृत्प्रदेशे
उपसंहर्तुमारब्धवति सति वातस्कन्धस्थितो नभोभवो वायुः स्थितिं
ग्रहनक्षत्रविमानादिविधारणमर्यादां तत्याज ॥ १ ॥
ते हि तस्य किल प्राणास्तेन क्रान्तेषु तेष्वपि ।
ऋक्षचक्रे स्थितिं कोऽन्यो धत्ते भूतैकधारिणीम् ॥ २ ॥
ते वतस्कन्धास्तस्य स्वयम्भुवः प्राणाः । क्रान्तेषु उपसंहृतेषु ॥ २ ॥
वातस्कन्धे समाक्रान्ते ब्रह्मणा प्राणमारुते ।
समं गन्तुं परित्यज्य संस्थितिं क्षोभमागते ॥ ३ ॥
स्थितिं प्रागुक्तां त्यक्त्वा समुपसंहारेण साम्यावस्थां गन्तुं क्षोभमागते सति ॥
३ ॥
निराधाराः सवाताग्निदाहोल्मुकवदापतन् ।
व्योम्नस्तारास्तरोः पुष्पनिकरा इव भूतले ॥ ४ ॥
सवाते अग्निदाहे उड्डीनैरुल्मुकैस्तुल्यं ताराः भूतले आसमन्तादपतन् ॥ ४ ॥
कालपाकचलन्मूला जगत्खण्डफलालयाः ।
प्रशान्तपवनाधारा विमानावलयोऽपतन् ॥ ५ ॥
जगत्खण्डे अर्जितस्य सुकृतफलस्य आलयाः भोगस्थानभूता विमानावलयः
कालविपाकेन चलद्विच्छिन्नं भोगमूलं कर्म येषां तथाविधाः सन्तः अपतन् ॥ ५ ॥
प्रलयोन्मुखतां याते ब्राह्मे सङ्कल्पनेन्धने ।
सिद्धानां गतयः शेमुरिद्धानामर्चिषामिव ॥ ६ ॥
इद्धानां दीप्तानाम् ॥ ६ ॥
प्रभ्रमन्त्योऽम्बरे कपमारुतैस्तनुतूलवत् ।
स्वशक्त्यपचये मूकाः सिद्धसन्ततयोऽपतन् ॥ ७ ॥
खेचरादिसिद्धीनां क्षयिष्णुतां तुच्छतां च सूचयन्नाह - प्रभ्रमन्त्य इति ।
मूका वाग्व्यापारेऽप्यसमर्थाः ॥ ७ ॥
सङ्कल्पद्रुमजालानि सेन्द्रादिनगराणि च ।
पेतुर्भूकम्पलोलस्य शिरांस्यमरभूभृतः ॥ ८ ॥
इन्द्रादिनगरैः सहितानि सेन्द्रादिनगराणि अमस्भूभृतो मेरोः शिरांसि शिखराणि च
पेतुः ॥ ८ ॥
श्रीराम उवाच ।
चिति सङ्कल्पमात्रात्मा विराड् ब्रह्मा जगद्वपुः ।
किमङ्गं तस्य भूलोकः किं स्वर्गः किं रसातलम् ॥ ९ ॥
ननु ब्रह्मणः स्थूलदेहो ब्रह्माण्डरूपो विराट् तदन्तर्गतः सत्यलोकनिवासी
चतुर्मुखदेहस्तु तन्मनःकल्पितः प्रातिभासिक एव । न च सोऽपि तस्य स्थूलदेह एवेति
युक्तम् । चिराड्देहान्तःस्थित्ययोगात् । न हि कस्यचिदपि स्थूलदेहान्तः स्थूलदेहान्तरं
दृष्टं श्रुतं वा सम्भावयितुं वा शक्यम् । एवं सति मानसे चतुर्मुखदेहे
प्रातिभासिके स्वाप्नदेहप्राये प्राणोपसंहारसङ्कल्पेन कथं
विराड्देहविष्टम्भकप्राणस्थानीयवातस्कन्धादिक्षयः । न हि स्वप्नदेहे
प्राणाद्युपसंहारेण मरणदर्शने जाग्रत्प्रसिद्धस्थूलदेहक्षयो दृश्यत
इत्याशयेन रामः शङ्कते - चिति सङ्कल्पमात्रात्मेत्यादिना । ब्रह्मा
चतुर्मुखश्चिति सङ्कल्पमात्रं मनस्तदात्मा जगद्वपुर्ब्रह्माण्डशरीरकः
प्रसिद्धः । तस्य सङ्कल्पमात्रात्मनश्चतुर्मुखस्य भूर्लोकादयो लोका अङ्गं
अवयवाः किम् । न ह्यमूर्तस्य मनसो मूर्तान्यङ्गानि सम्भवन्ति । यदापि सम्भवति
तदा भूर्लोकः किमङ्गं पादा अन्यो वा स्वर्गश्च किमङ्गं रसातलं च
किमङ्गं कोऽवयव इति विभागप्रश्नः ॥ ९ ॥
कथमेतानि चाङ्गानि ब्रह्मंस्तस्य स्थितानि च ।
कथं वा सोऽन्तरे तस्य स्वस्यैव वपुषः स्थितः ॥ १० ॥
अस्तु वा चतुर्मुखदेहोऽपि मूर्तस्तथाप्यल्पपरिमाणस्यैतस्यैतान्यतिविस्तृतानि
भूरादीन्यङ्गानि कथं स्थितानि । तस्यापि विस्तृतत्वकपनेन ब्रह्माण्डात्मता
यद्युच्येत तर्हि स स्वस्यैव वपुष एतस्य ब्रह्माण्डस्यान्तः सत्यलोके कथं स्थितः ॥
१० ॥
ब्रह्मा सङ्कल्पमात्रात्मा निराकृतिरिदं स्थितम् ।
जगदित्येव जातो मे निश्चयः कथयेतरत् ॥ ११ ॥
किं च ब्रह्मा सङ्कल्पमात्रात्मा निराकृतिरमूर्त एव इदं तु जगत्साकारं स्थितमिति
मे निश्चयो जातः । अत इतरत्प्रकारान्तमस्ति चेत्कथय ॥ ११ ॥
श्रीवसिष्ठ उवाच ।
आदौ तावदिदं नासन्न सदास्ते निरामयम् ।
चिन्मात्रपरमाकाशमाशाकोशैकपूरकम् ॥ १२ ॥
तत्र प्रथमं पृष्टं स्थूलदेहस्य मनोमयदेहानन्यत्वं तदवयवानां
तदवयवत्वं चानुभावयितुं भूमिकां मूलोद्घाटनेन रचयति -
आदावित्यादिना । आशानां सर्वाभिलाषाणां दिशां च कोशानां
भूमानन्दात्मकत्वादेकमेव पूरकम् ॥ १२ ॥
तत्स्वामाकशतां चैतच्चेत्यमित्यवबुध्यते [चैतत्परमित्यबबुध्यते इति
टीकानुगुणः पाठः ।] ।
स्वरूपमत्यजन्नित्यं चित्त्वाद्भवति चेतनम् ॥ १३ ॥
तदेतत्परमाकाशं स्वरूपमत्यजद्विकारमनापद्यमानमेव स्वामाकाशतां
चन्द्रो द्वितीयचन्द्रमिव कल्पयत् परं स्वातिरिक्तं वस्त्विति अवबुध्यते ॥ १३ ॥
विद्धि तच्चेतनं जीवं सघनत्वान्मनः स्थितम् ।
एतावति स्थितिजाले न किञ्चित्साकृति स्थितम् ॥ १४ ॥
तत्र बोध्यबोधबोद्धृभावलक्षणत्रिपुटीमननेन
सघनत्वाद्घनीभावान्मनोवेषेण स्थितं तथाभूतं चेतनं जीवं विद्धि ।
स्वरूपमत्यजदिति यदुक्तं तदुपपादयति - एतावतीति । एतावति
त्रिपुटीजीवभावपर्यन्ते स्थितिजाले अध्यासेन सम्पन्नेऽपि तेषु न किञ्चिदपि साकृति
परस्परव्यावृत्ताकारसहितं रूपं परमार्थतः स्थितं किन्तु शुद्धं व्योमैव
शून्यमेवेति परेण सम्बन्धः ॥ १४ ॥
शुद्धं व्योमैव चिद्व्योम स्थितमात्मनि पूर्ववत् ।
यदेतत्प्रतिभातं तु तदन्यन्न शिवात्ततः ॥ १५ ॥
किं तर्हि स्थितं तदाह - चिद्व्योमेति ॥ १५ ॥
अथ तन्मन आभोगि भाविताहङ्कृति स्फुरत् ।
सङ्कल्पात्मकमाकाशमास्ते स्तिमितमक्षयम् ॥ १६ ॥
एवमभिमानाकारभावनादसतैव तद्भावेनापि स्फुरतीत्याह - अथेति ॥ १६ ॥
तत्सङ्कल्पचिदाभासनभोऽहमिति भावितम् ।
असत्तमेवानुभवत्सन्निवेशं खमेव खे ॥ १७ ॥
अहङ्करकल्पनोत्तरं स्थूलदेहकल्पनापि तस्यावस्तुभूतैवेत्याह - तदित्यादिना ॥
१७ ॥
वेत्ति भावितमाकारं पश्यत्यनुभवत्यपि ।
सङ्कल्पकात्मकं शून्यमेव देह इति स्थितम् ॥ १८ ॥
शून्यमेव यथाकारि सङ्कल्पनगरं भवान् ।
पश्यत्येवमजो देहं खे खमेवानुभूतवान् ॥ १९ ॥
यदि देहं शून्यमेव तर्हि कथं साकारमनुभूयते तत्राह - शून्यमेवेति ॥ १९ ॥
संविदो निर्मलत्वात्स यावदित्थं तहाविधम् ।
अनुभूयानुभवनं स्वेच्छयैवोपशाम्यति ॥ २० ॥
प्रलयमोक्षादिकल्पनाप्येवमेवेत्याह - संविद इति ॥ २० ॥
यदा तत्त्वपरिज्ञानमस्मदादेस्तदाऽऽततम् ।
इदं संसंरणं विद्धि शून्यं सत्यमिव स्थितम् ॥ २१ ॥
कदोपशाम्यति तदाह - यदेति । तदा आततमिति च्छेदः ॥ २१ ॥
यथाभूतपरिज्ञानादत्र शाम्यति वासना ।
अद्वैतान्निरहङ्कारात्ततो मोक्षोऽवशिष्यते ॥ २२ ॥
यथाभूतं परमार्थसत्यं ब्रह्म तत्परिज्ञानान्मिथ्यावासना अत्रास्मिन्नेव
जन्मनि शाम्यति ॥ २२ ॥
एवमेष स यो ब्रह्मा स एवेदं जगत्स्थितम् ।
विरजो ब्रह्मणो राम देहो यस्तदिदं जगत् ॥ २३ ॥
अस्त्वेवं तथाप्येतदुक्त्या यत्पृष्टं किं समाहितं तत्राह - एवमिति ॥ २३ ॥
सङ्कल्पाकाशरूपस्य तस्य या भ्रान्तिरुत्थिता ।
तदिदं जगदाभाति तद्ब्रह्माण्डमुदाहृतम् ॥ २४ ॥
तथा च ब्रह्माण्डस्यापि भ्रान्त्यैव स्थूलदेहत्वम् विचारतस्तु तदीयमनोमात्रत्वमिति
तदङ्गोपसंहारेणोपसंहारः सिद्ध इति भावः ॥ २४ ॥
सर्वमाकाशमेवेदं सङ्कल्पकलनात्मकम् ।
वस्तुतस्त्वस्ति न जगत्त्वत्तामत्ते न च क्वचित् ॥ २५ ॥
जाग्रदुन्मुखतायां स्वाप्नदेहाङ्गोपसंहारेण
स्वाप्नभूरादिलोकोपसंहारवद्वा तदुपसंहारः । द्वयोरपि
सङ्कल्पाकाशमात्रत्वादित्याशयेनाह - सर्वमिति ॥ २५ ॥
क्वचिन्मात्रेऽमले व्योम्नि कथं वा केन वा जगत् ।
किं जायते किमत्रास्ति कारणं सहकारि यत् ॥ २६ ॥
अवास्तवत्वं कथं ज्ञेयमिति चेदसम्भाव्यत्वादित्याशयेनाह - क्वेति ।
किंवृत्तपञ्चकं देशकालादिसर्वप्रकारैरप्यसम्भाव्यत्वस्य समर्थनार्थम् ॥
२६ ॥
अतोऽलीकमिदं जातमलीकं परिदृश्यते ।
अलीकं स्वदतेऽलोकमेवं पश्यति शून्यकम् ॥ २७ ॥
स्वदते प्रियाप्रियभावेन प्रथते । अलोकं निष्प्रप्ञ्चं ब्रह्मैव भ्रान्त्या शून्यकं
जगच्छून्यन्न् खमेव एवं जगद्भावेन पश्यति ॥ २७ ॥
जगदादिकया भासा चिन्मात्रं स्वदते स्वतः ।
आत्मनात्माम्बरे द्वैते स्पन्दनेनेव मारुतः ॥ २८ ॥
तदेव स्पष्टमाह - जगदादिकयेति । आदिपदात्तद्धर्मा उत्पत्त्यादिभावविकारा
गृह्यन्ते ॥ २८ ॥
इदं किञ्चिन्न किञ्चिद्वा द्वैताद्वैतविवर्जितम् ।
चिदाकाशं जगद्विद्धि शून्यमच्छं निरामयम् ॥ २९ ॥
द्वैतविवर्जनात्किञ्चिति । अद्वैतस्यापि वर्जनान्न किञ्चिद्वा ॥ २९ ॥
शान्ताशेषविशेषोऽहं तेन राघव संस्थितः ।
सन्नेवासन्निवातस्त्वमेवमेवास्व निर्ममः ॥ ३० ॥
तस्मादहमिव त्वमपि एवं परमार्थतः सन्नेव व्यवहारे असन् देहादिरिव आस्व किन्तु
निर्मम इत्यर्थः ॥ ३० ॥
निर्वासनः शान्तमना मौनी विगतचापलः ।
सर्वं कुरु यथाप्राप्तं कुरु मा वात्र किं ग्रहः ॥ ३१ ॥
व्युत्थितः सर्वं व्यवहारं कुरु समाहितः सन् मा वा कुरु किं न्रहः
किमर्थमेकत्राग्रह इत्यर्थः ॥ ३१ ॥
अनादिनित्यानुभवो य एकः स एव दृश्यं न तु दृश्यमन्यत् ।
सत्यानुभूतेऽननुभूतयो याः सुविस्तृता दृश्यमहादृशस्ताः ॥ ३२ ॥
तस्मात्सर्व दृश्यं ब्रह्मैव तदज्ञानान्येव भ्रान्त्याकारपरिणतानि
दृश्यानुभवा इति निष्कर्ष इत्युपसंहरति - अनादीति । सत्ये अनुभूते । भावे क्तः ।
अनुभवैकरसे ब्रह्मणि या अननुभूतयः अज्ञानानि ता एव भ्रान्तिवैचित्र्यैः
सुविस्तृता दृश्यमहादृश इत्यर्थः ॥ ३२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो निर्वाणप्रकरणे उ० पाषा०
निर्वाणवर्णनं नाम द्विसप्ततितमः सर्गः ॥ ७२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
निर्वाणवर्णनं नाम द्विसप्ततितमः सर्गः ॥ ७२ ॥