०७०

सप्ततितमः सर्गः ७०

अन्यजगद्ब्रह्मोवाच ।

अथाहं चिन्मयाकाशस्त्वन्याकाशमयीं स्थितिम् ।
परां ग्रहीतुमिच्छामि तेनेहोपस्थितः क्षयः ॥ १ ॥

वर्ण्यते वासनादेव्या इह निर्वेदकारणम् ।
प्रलयो जगतश्चाथ मिथ्याविभ्रममात्रता ॥

कथमेषा त्वया ब्रह्मन् जायार्थं जनिता सति । नेह जायापदं नीता इति
प्रश्नोत्तरमुक्तम् इदानीं नीता विरसतां कथम् इति प्रश्नस्योत्तरं वक्तुमारभते ##-
चिद्विवर्तरूपो यश्चित्ताकाशस्तद्रूपोऽहं परां
निरतिशयानन्दरूपामन्याकाशमयीं ब्रह्माकाशात्मिकां कैवल्यस्थितिम् । तेन
हेतुना इह मद्वासनाकल्पिते जगति क्षयो नित्यो नैमित्तिको दैनन्दिन आत्यन्तिकश्चेति
पुराणप्रसिद्धश्चतुर्विधोऽपि प्रलय उपस्थितः ॥ १ ॥

महाप्रलयकालेऽस्मिंस्त्यक्तुमेषा मयाधुना ।
मुनीन्द्र नूनमारब्धा तेन वैरस्यमागता ॥ २ ॥

त्यक्तुं मूलोच्छेदात्स्वसत्तातः प्रच्यावयितुम् । तेन हेतुना वैरस्यं क्षयोन्मुखताम्
॥ २ ॥

आकाशत्वाद्यदाद्योऽयं पराकाशो भवाम्यहम् ।
तदा महाप्रलयता वासनायाश्च सङ्क्षयः ॥ ३ ॥

तत्रोपपत्तिमाह - आकाशत्वादिति । ल्यब्लोपे पञ्चमी । अयमहं यदा चित्ताकाशतां
विहाय आद्यो ब्रह्माकाशो भवामि तदेत्यर्थः ॥ ३ ॥

तेनैषा विरसीभूता मन्मार्गं परिधावति ।
नानुगच्छति को नाम निर्मातारमुदारधीः ॥ ४ ॥

इहाद्यायं कलेरन्तश्चतुर्युगविपर्ययः ।
प्रजामन्विन्द्रदेवानामद्यैवान्तोऽयमागतः ॥ ५ ॥

कलेश्चरमकल्पचरममन्वन्तरचरमकलियुगस्यान्तः परिसमाप्तिकालः । प्रजाश्च
मनुश्चेन्द्रश्च देवाश्च तेषाम् ॥ ५ ॥

अद्यैव चायं कल्पान्तो महाकल्पान्त एव च ।
ममायं वासनान्तोऽद्य देहव्योमान्त एव च ॥ ६ ॥

चतुर्विधप्रलयानामद्य युगपत्प्राप्तिरित्याह - अद्यैवेति । वासनान्तः
इत्यात्यन्तिकवैज्ञानिकप्रलयोक्तिः । देहव्योमान्त इति प्राकृतप्रलयोक्तिः ॥ ६ ॥

तेनेयं वासना ब्रह्मन्क्षयं गन्तुं समुद्यता ।
क्वेव पद्माकराशोषे गन्धलेखावतिष्ठताम् ॥ ७ ॥

तेन आत्मावलोकनेच्छादिकारणकलापेन ॥ ७ ॥

यथा जडाब्धिलेखाया जायते लहरी चला ।
वासनायास्तथैवेच्छा मुधोदेत्यपकारणम् ॥ ८ ॥

स्वनाशहेतौ स्वात्मावलोकनेऽस्याः कथमिच्छा जायते इति चेत्स्वभावादेवेति
सोपपत्तिकमाह - यथेत्यादिना । अपकारणं कारणान्तरं विना
स्वभावादेवेत्यर्थः ॥ ८ ॥

आभिमानिकदेहाया वासनायाः स्वभावतः ।
अस्या आत्मावलोकेच्छा स्वयमेवोपजायते ॥ ९ ॥

आत्मतत्त्वं नु पश्यन्त्या धारणाभ्यासयोगतः ।
दृष्टोऽनया भवत्सर्गो वर्गव्यग्रनिरर्गलः ॥ १० ॥

तर्ह्यस्या अस्मदीयब्रह्माण्डदर्शने को हेतुस्तमाह - आत्मेति । आत्मज्ञानार्थं
प्रवृत्तस्य धारणाभ्यासस्य ब्रह्माण्डान्तरगमनादिसिद्धयो नान्तरीयकं
फलमिति तत्परीक्षेच्छैव तद्धेतुरिति भावः । वर्गेषु धर्मार्थादिचतुर्वर्गेषु व्यग्रा
निरर्गलाः प्रजा यस्मिन् ॥ १० ॥

अनयाम्बरसञ्चारपरयाद्रिशिरःशिला ।
दृष्टा स्वजगदाधारभूतास्माकं तु खात्मिका ॥ ११ ॥

प्रागुक्तशिलादर्शनमप्यस्यास्तद्बलादेवेत्याह - अनयेति ॥ ११ ॥

एतद्यस्मिञ्जगद्यत्र तद्दृषत्त्वं जगद्गिरौ ।
अस्मज्जगत्पदार्थेषु सन्त्यन्यानि जगन्त्यपि ॥ १२ ॥

वयं तानि न पश्यामो भेददृष्टौ स्थिता इमे ।
बोधैकतां गतास्त्वाशु पश्यामस्तानि वीक्षणात् ॥ १३ ॥

भेददृष्टौ व्युत्थानदशायां स्थिता वयं न पश्यामः । समाधिना
बोधैकतां गतास्तु योगदृशा वीक्षणात्पश्याम एव ॥ १३ ॥

घटे पटे वटे कुड्ये खेऽनलेऽम्भसि तेजसि ।
जगन्ति सन्ति सर्वत्र शिलायामिव सर्वदा ॥ १४ ॥

जगन्नाम मुधा भ्रान्तिः किल स्वप्नपुरोपमा ।
मिथ्यैवेयं क्व नामासौ चिद्रूपास्त्यथ नास्ति च ॥ १५ ॥

इयं जगन्माया मिथ्यैव । असौ मिथ्याभ्रान्तिः क्व नामास्ति । यद्यस्ति च
तर्ह्यधिष्ठानचिद्रूपा अन्यथैवास्ति न प्रतीयमानजडरूपेत्यर्थः ॥ १५ ॥

परिज्ञाता सती येषामेषा चिन्नभसैकताम् ।
गता ते न विमुह्यन्ति शिष्टास्तु भ्रमभाजनम् ॥ १६ ॥

अथान्यधारणाभ्यासात्स्वविरागवशोदितम् ।
साधयन्त्याऽर्थमात्मीयं दृष्टस्त्वमनया मुने ॥ १७ ॥

किमिदं भूतभव्येश यदियं मामुपागता इति
यत्स्वसमीपागमनसामर्थ्यकारणं पृष्टं तस्योत्तरमाह - अथेति । अथ
प्रागुक्तनिर्वेदपाप्त्यनन्तरं स्वविरागवशादुदितमात्मीयं
स्वाभिलषितमात्मज्ञानानुकूलं च गुरूपसदनश्रवणमननाद्यर्थन्न्
त्वदुपदेशात्साधयन्त्या साधयितुमिच्छन्त्या अनया अन्यासां
प्रागुक्तजगत्सर्गदर्शनहेतुधारणाव्यतिरिक्तानां
खेचरसिद्धिब्रह्माण्डान्तरसञ्चारपरमनःकल्पितसूक्ष्मार्थानुप्रवेशसिद्ध##-
चूडालोपाख्यानोपवर्णितधारणाविशेषाणामभ्यासात्त्वत्सङ्कल्पकल्पितं
त्वत्समाधिस्थानं परिज्ञाय तत्र गतया अनया अन्तर्हितोऽपि त्वं दृष्ट इत्यर्थः ॥ १७

इति मायेव दुष्पारा चिच्छक्तिः परिजृम्भते ।
इत्थमाद्यन्तरहिता ब्राह्मी शक्तिरनामया ॥ १८ ॥

इति वर्णितप्रकारेण जीवचिच्छक्तिरविद्या ऐन्द्रजालिकमायेव परिजृम्भते । ब्राह्मी च
मायाशक्तिरित्थमेव परिजृम्भते । सा तु विद्या निरस्तावरणशक्तित्वादनामयेति
विशेष इत्यर्थः । अथवा पूर्वार्धेन मायेव मायिकोपाधीननुसरन्ती
जीवचिच्छक्तिर्विजृम्भत इत्यज्ञकथा उत्तरार्धे तु ब्राह्मीशक्तिराविर्भूता
ब्रह्मचिदेव सर्वतो विजृम्भत इति तत्त्वज्ञकथेति योज्यम् ॥ १८ ॥

प्रवर्तन्ते निवर्तन्ते नेह कार्याणि कानिचित् ।
द्रव्यकालक्रियाद्योता चितिस्तपति केवलम् ॥ १९ ॥

प्रवर्तन्ते उत्पद्यन्ते । निवर्तन्ते नश्यन्ति । किन्तु केवलं चितिरेव द्रव्यमिव काल इव
क्रियेव द्योतमाना तपति स्फुरति ॥ १९ ॥

देशकालक्रियाद्रव्यमनोबुद्ध्यादिकं त्विदम् ।
चिच्छिलाङ्गकमेवैकं विद्ध्यनस्तमयोदयम् ॥ २० ॥

अङ्गानां प्रतिकृतिरङ्गकम् । इवे प्रतिकृतौ इति कन् ॥ २० ॥

चिदेवेयं शिलाकारमवतिष्ठति बिभ्रती ।
अङ्गमस्या जगज्जालं मरुतः स्पन्दनं यथा ॥ २१ ॥

अवतिष्ठत्यवतिष्ठते । छान्दसः पदव्यत्ययः ॥ २१ ॥

विज्ञानघनमात्मानं जगदित्यवबुध्यते ।
अनाद्यन्तापि साद्यन्ता चित्त्वादिति गतापि चित् ॥ २२ ॥

चित एवेदं विपरीतदर्शनं भ्रान्तचित्स्वभावादेवेत्याह - विज्ञानेति । साद्यन्ता
देशकालकृतपरिच्छिन्ना इति एवंविधवस्तुकृतपरिच्छेदमपि गता ॥ २२ ॥

चिच्छिलेयमनाद्यन्ता साद्यन्तास्तीति बोधतः ।
साकारापि निराकारा जगदङ्गेति संस्थिता ॥ २३ ॥

निराकारापि साकारा सती जगन्ति अङ्गानि यस्यास्तथाविधेति वैपरीत्येन संस्थिता ॥ २३ ॥

यद्वत्स्वप्ने चिदेव स्वं रूपं व्योमैव पत्तनम् ।
वेत्ति तद्वदिदं वेत्ति पाषाणं जगदङ्गकम् ॥ २४ ॥

यद्वत् य्था स्वप्ने चिद्व्योमैव स्वरूपं पत्तनं वेत्ति तद्वज्जागरेऽपि जगच्चिद्व्योमैव
जगदङ्गकं गिरिपाषाणमपि वेत्ति पश्यति ॥ २४ ॥

न सरन्तीह सरितो न चक्रं परिवर्तते ।
नार्थाः परिणमन्त्यन्तः कचत्येतच्चिदम्बरम् ॥ २५ ॥

स्वप्नवदेव प्रबोधे बाधसाम्यं दर्शयति - न सरन्तीति ॥ २५ ॥

न महाकल्पकल्पान्तसंविदः संविदम्बरे ।
सम्भवन्ति पृथग्रूपाः पयसीव पयोन्तरम् ॥ २६ ॥

पयसि समुद्रे तरङ्गादि पयोन्तरमिव पृथग्रूपाः ॥ २६ ॥

जगन्ति सन्त्येव न सन्ति शान्ते चिदम्बरे सर्वगतैकमूर्तौ ।
नभोन्तराणीव महानभोन्तश्चित्सन्ति सत्तानि पराम्बराणि ॥ २७ ॥

एवं सति अध्यारोपदृष्ट्या दर्शने जगन्त्यनन्तानि सदैव सर्वत्रैव चित्सत्तया
सन्त्येव नाणुमात्रमपि क्वापि किञ्चिदप्यपलपितुं शक्यम् । अपवाददृष्ट्या
दर्शनेन क्वापि किञ्चिदपि चित्स्वरूपव्यतिरिक्तं समर्थयितुं शक्यमिति फलितमित्याह

  • जगन्तीति । यथा महानभोन्तर्घटाकाशादिनभोन्तराणि महानभःसत्तया सन्ति
    पृथङ् न सन्ति तथा तानि जगन्त्यपि पराम्बराणि शून्यान्यपि चित्सन्ति
    सद्भवन्तीत्यर्थः ॥ २७ ॥

वसिष्ठ तद्गच्छ मुने जगत्स्वं त्वं चासने सम्प्रति शान्तिमेहि ।
बुद्ध्यादिरूपाणि परं व्रजन्तु वयं बृहद्ब्रह्मपदं प्रयामः ॥ २८ ॥

हे वसिष्ठमुने त्वं सम्प्रति तत्स्वं जगद्गच्छ तत्र चैकान्तकल्पिते प्राक्तने निजासने
समाधिना शन्तिं निर्विक्षेपसुखमेहि । इमानि मत्कल्पितानि बुद्ध्यादिजगद्रूपाणि
प्रलयेन परमव्यक्तं व्रजन्तु । वयं तु
हैरण्यगर्भोपाधिसहितमूलाज्ञानबाधेन परं पदं कैवल्याख्यं प्रयाम
इत्यर्थः ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे उ० पा०
शिलान्तर्जगत्पितामहवाक्यानि नाम सप्ततितमः सर्गः ॥ ७० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
शिलान्तर्जगत्पितामहवाक्यानि नाम सप्ततितमः सर्गः ॥ ७० ॥

एकसप्ततितमः सर्गः

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा भगवान्ब्रह्मा ब्रह्मलोकजनैः सह ।
बद्धपद्मासनोऽनन्तसमाधानगतोऽभवत् ॥ १ ॥

कल्पनाहेतुवैधात्रसङ्कल्पोपशमक्रमात् ।
तत्कल्पितानां भूतानां वर्ण्यते प्रलयक्रमः ॥

न विद्यते अन्तः अवसानं पुनर्व्युत्थानं यस्मात्तथाविधं यत्समाधानं
समाधिस्तत्परः ॥ १ ॥

ॐकारार्धोऽर्धमात्रान्तः शान्तनिःशेषमानसः ।
लिपिकर्मार्पिताकार आसीदाशान्तवेदनः [आशान्तवासनः इति पाठः सुवचः ।
] ॥ २ ॥

ॐकारस्य उत्तरार्ध य अर्धमात्रा तदन्तर्नादबिन्दुशक्तिशान्ताख्यतद्भागेषु
क्रमाच्चित्तविलापनेनान्ते शान्तनिःशेषवासन इति सङ्ग्रहोक्तिः ॥ २ ॥

तमेवानुसरन्ती सा तथैव ध्यानगा सती ।
वासनासीदशेषांशा शान्ता चाकाशरूपिणी ॥ ३ ॥

न शिष्यन्ते अंशाः स्मृतिबीजभेदा यस्यां तथाविधा भूत्वा शान्ता सती
आकाशरूपिणी शून्यस्वभावा आसीत् ॥ ३ ॥

परमेष्ठिन्यसङ्कल्पे तस्मिंस्तानवमेयुषि ।
सर्वगानन्तचिद्व्योमरूपोऽपश्यमहं यदा ॥ ४ ॥

इदं तदीयमान्तरं रहस्यं त्वं कथमद्राक्षीस्तत्राह - परमेष्ठिनीति ।
स्थूलसूक्ष्मकारणलक्षणार्थसहितप्रणवमात्राप्रविलयक्रमेण
स्ववासनाक्षयात्तानवमुत्तरोत्तरसूक्ष्मभावं आ ईयुषि एयुषि सति अहमपि समाधिना
सर्वगानन्तचिद्व्योमरूपः संस्तत्सर्वमपश्यम् । ननु ईयुषीति परोक्षे लिटः
क्वसुरपश्यमित्यपरोक्षोक्तिश्च विरुध्यते । नैष दोषः । वसिष्ठस्य
समाध्यारम्भात्प्राग्दशामालम्ब्य पारोक्ष्यम्
समाध्यारूढदशामालम्ब्यापारोक्ष्यमित्युभयोपपत्तेः । न चैवं
तुल्यकालताबोधकभावलक्षणसप्तमीविरोधः । सामीप्यातिशयेनापि भावस्य
भावान्तरलक्षकत्वदर्शनात्तुल्यकालत्वोपचारेणापि तदुपपत्तेरिति ॥ ४ ॥

यावत्सङ्कल्पनं तस्य विरसीभवति क्षणात् ।
तथैवाशु तथैवोर्व्याः साद्रिद्वीपपयोनिधेः ॥ ५ ॥

तस्य विधेः सङ्कल्पनं शनैःशनैस्तत्क्षणादारभ्य यथा यथा
यावद्विरसीभवति तावत्तथैव तथैव
साद्रिद्वीपपयोनिधेरुर्व्यास्तृणगुल्मादिसमुद्भवनशक्तता तथा समस्तैव
जलादीनामपि शक्तिरस्तं गन्तुमारब्धेति परेणान्वयः ॥ ५ ॥

तृणगुल्मलताशालिसमुद्भवनशक्तता ।
समस्तैवास्तमागन्तुमारब्धा च शनैः शनैः ॥ ६ ॥

किल तस्य विराडात्मरूपस्याङ्गैकदेशताम् ।
सा बिभर्ति मही तेन तदसंवेदनोदयात् ॥ ७ ॥

मुमूर्षोर्विदुषः सर्वदेहव्यापिसंवेदनस्य तत्संहारे तदङ्गवैरस्यवद्वा तत्र
विराड्देहावयवपृथ्व्यादीनां वैरस्यं बोध्यमित्याशयेनाह - किलेति ।
तदसंवेदनस्य तत्संवेदनोपसंहारस्य उदयात्सा विचेतना सती विरसा परिजर्जरा
बभूवेति परेणान्वयः ॥ ७ ॥

विचेतना सा विरसा बभूव परिजर्जरा ।
मार्गशीर्षान्तवल्लीव जराविधुरतां गता ॥ ८ ॥

यथास्माकमसंवित्तेरङ्गाली विरसा भवेत् ।
तथा विरिञ्चिसंवित्तेर्धरा वैधुर्यमागता ॥ ९ ॥

आशयस्थं दृष्टान्तं प्रकाशयति - यथेति ॥ ९ ॥

सम्पन्ना संहतानेकमहोत्पातभरावृता ।
दुष्कृताङ्गारनिर्दग्धनरकोन्मुखमानवा ॥ १० ॥

कथं कथं विजर्जरा बभूवेत्येतत्प्रपञ्चयति -
सम्पन्नेत्यादिसार्धपञ्चदशभिः । तत्र मनुष्याणां नाशादौ
कलिकल्मषमपिनिमित्तमित्याशयेन तत्प्रपञ्चयन्नाह - दुष्कृतेत्यादि ॥ १० ॥

दुर्भिक्षाकाण्डदौस्थित्यदैन्यदारिद्र्यदुर्भगा ।
दुःशीलाशेषवनिता निर्मर्यादनरावृता ॥ ११ ॥

दौस्थित्यैः राजचोराद्युपप्लवैः ॥ ११ ॥

पांसुप्रमन्दनीहारधूलिधूसरसूर्यका ।
द्वन्द्विमूर्खमहादुःखिव्यसनिव्याधिताकुला ॥ १२ ॥

पांसुवत्प्रमन्दैर्नीहारैर्धूलिभिश्च धूसरो भास्करो यस्याम् ।
शीतोष्णादिद्वन्द्विभिस्तन्निरासोपाये मूर्खैरत एव
महादुःखिभिर्दुर्व्यसनिभिर्व्याधितैश्च आकुला ॥ १२ ॥

अग्निदाहजलापूरयुद्धप्रोच्छिन्नमण्डला ।
अवृष्ट्यवग्रहोन्नष्टकष्टचेष्टितपामरा ॥ १३ ॥

अशङ्कितमहोत्पातपतत्पर्वतपत्तना ।
शिशुश्रोत्रियमुन्यार्यगुणिनाशरुदज्जना ॥ १४ ॥

अशङ्कितस्थलीमध्यसञ्जातागाधकूपका ।
वर्णसङ्करनारीणामासक्तजनभूमिपा ॥ १५ ॥

जलदौर्लभ्यादशङ्कितं स्थलीमध्ये यत्र क्वचन जलाशयाखननात् सर्वतः
सञ्जाता अगाधकूपका यस्याम् । वर्णसङ्कराय नारीणां मध्ये
गोत्रसापिण्ड्यागम्यादिविचारं विनैव विवाहाद्यासक्ता जना भूमिपाश्च यस्याम् ॥ १५

अट्टशूलाखिलजना शिवशूलचतुष्पथा ।
केशैकशूलवनिता पात्रशूलजनेश्वरा ॥ १६ ॥

अद्यत इत्यट्टमोदनादि शूलं विक्रयापहारादिना उपजीव्यं येषां तथाविधा
अखिलजना यस्याम् । शिवः शुल्कं तदेव शूलमुपजीव्यं येषु तथाविधानि
चतुष्पथानि यस्याम् । केशो भगः स एवैकं शूलमुपजीव्यं यासां तथाविधा
वनिता यस्याम् । पात्रं शिरः करस्तदेव शूलमुपजीव्यं येषां तथाविधा नरेश्वरा
राजानो यस्यामिति सम्प्रदायव्याख्या । अथवा अट्ट अतिक्रमे इति धातोः अट्टः
स्वस्ववर्णाश्रमोचितवृत्त्यतिक्रमः । शिवाः सृगालाः । केशाः प्रसिद्धा एव ।
पात्रं वेश्यानर्तक्यादयश्च शूलरोग इव व्यसनक्रन्दनहेतवो येषामिति
यथायोगं योज्यम् । शेषं प्राग्वत् ॥ १६ ॥

दुःखशूलसमाचारा द्वन्द्वशूलाखिलप्रजा ।
अधर्मशूलवनिता पानशूलजनेश्वरा ॥ १७ ॥

एवं दुःखान्येव शूलानीव प्राणिक्रन्दनहेतवो येषां तथाविधा जनसमाचारा
यस्याम् । एवमग्रेऽपि ॥ १७ ॥

अधर्मशूलवलिता कुशास्त्रशतशूलिनी ।
दुर्जनाखिलवित्ताढ्या विपद्विहतसज्जना ॥ १८ ॥

अधर्मशूलैरधर्माक्रोशपरैर्जनैः सर्वतो वलिता । कुशास्त्रशतैर्वेदबाह्यैः
शूलिनी रोगार्तेव साक्रन्दा । दुर्जनाश्चोरपिशुनादयोऽखिलजना वित्ताढ्या यत्र ॥ १८ ॥

अनार्यवसुधापाला तदनादृतपण्डिता ।
लोभमोहभयद्वेषरागरोगरजोरता ॥ १९ ॥

अप्यन्यगामिपुरुषा रुषाभिहतसद्विजा ।
अनारतपराक्रन्दपरापर्यन्तपामरा ॥ २० ॥

अन्यगामिनः स्वधर्मत्यागेन परधर्मप्रवृत्ताः पुरुषा यत्र । रुषा क्रोधेन
अभिहताः सन्तो द्विजाः स्वधर्मोपदेष्टारो यत्र । अनारतं परेषामाक्रन्दे रोदने
तत्परा अपर्यन्ताः पामरा यत्र ॥ २० ॥

दस्यूत्सन्नपुरग्रामदेवद्विजसमाश्रया ।
आपातमधुरारम्भदुःखदोदरभङ्गुरा ॥ २१ ॥

अन्यायार्जितवित्तैर्भरणकाले आपातमधुरारम्भं परिणामे परलोके च दुःख्दं
उदरं येषां तथाविधा भङ्गुरा अल्पायुषो यत्र ॥ २१ ॥

आलस्योल्लासविलसत्कार्यवैधुर्यधर्मिणी ।
सर्वापदुपतापान्ता क्रमेणोत्सन्नदिग्गणा ॥ २२ ॥

आलस्योल्लासेन विलसत्सन्ध्यावन्दनादिकार्यवैधुर्यं येषां तथाविधा धर्मिणो
धार्मिकजना यत्र । सर्वेषामापद उपतापा रोगाश्चान्ते यस्याम् ॥ २२ ॥

भस्मशेषपुरग्रामा निर्जनाखिलमण्डला ।
रोरूयमाणभस्माभ्रकुण्डलोड्।आमराम्बरा ॥ २३ ॥

रोरूयमाणैर्ध्वनद्भिर्भस्माभ्रोभयकुण्डलैश्चक्रवातैरुड्डामरमिवाम्बरं
यस्याम् ॥ २३ ॥

दुर्भगाडम्बरारम्भरोदनोरुरवोदरी ।
मुष्टिप्रमाणजनता जनतापानुषङ्गिणी ॥ २४ ॥

दुर्भगानां प्रजानामाडम्बरारम्भै रोदनैश्च उरुरवं ध्वनिबहुलमुदरं
यस्याः । नासिकोदरौष्ठ - इति ङीप् । मोषणं मुष्टिश्चौर्यं तत्प्रमाणा जनता
जनसमूहो यस्याम् ॥ २४ ॥

नीरसाशेषदेशान्ता सर्वर्तुगुणवर्जिता ।
इत्यस्य पार्थिवे धातौ ब्रह्मणो गतवेदने ॥ २५ ॥

सर्वैः ऋतुगुणैर्वर्जिता । इति वर्णितप्रकारेण अस्य ब्रह्मणो
विधातुर्विराड्देहारम्भके पार्थिवे धातौ गतवेदने उपसंहृतचैतन्ये सति
पृथिवी पृथुवैधुर्या सम्पन्नेति परेणान्वयः ॥ २५ ॥

पृथिवी पृथुवैधुर्या सम्पन्नासन्ननाशतः ।
अथ तत्संविदुन्मुक्तो जलधातुः क्षयोन्मुखः ॥ २६ ॥

आसन्ननाशतः प्रलयात् । एवं जलभागादपि चैतन्योपसंहारारम्भे सप्ताब्धीनां
क्षोभेण निर्मर्यादत्वमासीदित्याह - अथेत्यादिना ॥ २६ ॥

यदा विक्षुभितात्मासीत्तदा नियतिलङ्घनात् ।
समुत्सार्यार्यमर्यादामर्णवा विवृतार्णसः ॥ २७ ॥

विवृतार्णसो विस्तृतजलाः ॥ २७ ॥

प्रवृत्ता विकृतिं गन्तुमुन्मत्ता इव राविणः ।
वीचिविक्षोभविन्यासैर्वेलाविपिनलावकाः ॥ २८ ॥

वेलाविपिनानान्न् लावकाश्छेदकाः ॥ २८ ॥

कल्लोलवलनावर्तविवर्तोद्वर्तिताश्रयाः ।
महाभ्रभ्रमदुत्तुङ्गतरङ्गात्तनभोदिशः ॥ २९ ॥

महाभ्रैर्भ्रमद्भिरुत्तुङ्गतरङ्गैश्चात्ता नभो दिशश्च यैः ॥ २९ ॥

बृहद्गुलुगुलावर्तगर्जनोद्द्रवकन्दराः ।
सीकरौघमहारम्भघनसंवलिताचलाः ॥ ३० ॥

बृहद्भिर्गुलुगुलायमानैरावर्तैर्गर्जनेन उद्द्रवाः कूजन्तः पर्वतकन्दरा येषाम्
॥ ३० ॥

चलच्चलचलद्वीरमकराघूर्णितान्तराः ।
उल्लसन्मकराक्रान्तद्रुमकाननितोदराः ॥ ३१ ॥

स्वस्ववेगोत्कर्षख्यापनेनेतरजयार्थं चलद्भ्यस्तरङ्गेभ्योऽग्रे
चलद्भिस्तेभ्योऽप्यग्रे चलद्भिर्वीरमकरैराघूर्णितान्तराः ॥ ३१ ॥

दरीविदारणभ्रष्टसिंहाहतजलेचराः ।
ऊर्म्युदस्तमहारत्नभरतारकिताम्बराः ॥ ३२ ॥

उत्फालमकरच्छन्ननभश्चरबृहद्घनाः ।
परस्परोर्मिसङ्घट्टभाङ्कारकटुटाङ्कृताः ॥ ३३ ॥

उत्फालैरुच्छलद्भिर्मकरैश्छन्ना नभश्चरा बृहन्तो घनाश्च येषाम् ॥ ३३ ॥

तरत्तरलमातङ्गफूत्कारा धौतभास्कराः ।
अन्योन्यवेल्लनव्यग्रप्रविदीर्णाद्रिभित्तयः ॥ ३४ ॥

तटपर्वतलुण्टाकतरङ्गकरमण्डलाः ।
गर्जद्गिरिदरीगेहविशदुन्मत्तवारयः ॥ ३५ ॥

भूपाः परपुराक्रान्ता लग्ना इव हतारयः ।
तारारवरणद्गेहविद्रावितनभश्चराः ॥ ३६ ॥

हता अरयः स्वविरोधिदवाग्नयो यैः । तारारवं उच्चैःस्वरं यथा स्यात्तथा
रणद्भिस्तरङ्गैर्गेहेभ्यो विद्राविता नभश्चरा देवादयो यैः ॥ ३६ ॥

प्रलुण्ठितवनव्यूहलूनकाननिताम्बराः ।
सपक्षपर्वताकारतरङ्गापूरिताम्बराः ॥ ३७ ॥

प्रलुण्ठितैरुत्खायोन्नीतैर्वनव्यूहैर्लूनकाननमिव कृतमम्बरमाकाशं यैः ॥
३७ ॥

महारवमरुच्छिन्नकल्लोलाचलचालिताः ।
चञ्चत्तीरगिरिव्रातपतत्तटरटज्जलाः ॥ ३८ ॥

मरुद्भिश्छिन्नैर्विभक्तैः कल्लोलैरचला इव चालिताः ।
रत्नधात्वादिप्रभाभिश्चञ्चत्तीरेभ्यो गिरिव्रातेभ्यः पतद्भिर्वप्रै रटज्जलाः ॥ ३८ ॥

उल्लसद्विपुलावर्तप्रोक्षिप्तमकरोत्कराः ।
विमज्जन्निस्तलावर्तनिगीर्णगिरिकन्दराः ॥ ३९ ॥

निस्तलैरगाधैरावर्तैर्निगीर्णा गिरयस्तत्कन्दराश्च येषाम् ॥ ३९ ॥

दरीदलनसम्प्राप्तदृषद्दशनदन्तुराः ।
शृङ्गलम्बिदरीप्रान्तमग्नवीचिजलेभकाः ॥ ४० ॥

दरीदलनवशात्सम्प्राप्तैः स्फटिकादिदृषद्दशनैर्दन्तुरा हसन्त इवेति यावत् ।
शृङ्गेषु लम्बिषु दीर्घेषु दरीप्रान्तेषु मग्नाः प्रविष्टा वीचयो जलेभका
यादोगजभेदा येषाम् ॥ ४० ॥

व्यालोलवलनाक्रान्तविटपिप्रोतकच्छपाः ।
यमेन्द्रवसुधावाहैरुत्कर्णैर्भयविह्वलैः ॥ ४१ ॥

यमस्य इन्द्रस्य वसुधायाश्च वाहैर्वाहनैर्महिषैरावतदिग्गजादिभिः
उत्कर्णैरूर्ध्वीकृतकर्णैः ॥ ४१ ॥

श्रूयमाणपतच्छैलतटीकटकटारवाः ।
मत्स्यपुच्छच्छटाच्छिन्नमग्नोन्मग्नद्रुताद्रयः ॥ ४२ ॥

लीलालूनवनव्यूहशीतलासारवारयः ।
प्रज्वलद्वडवावह्निज्वालावलिमिलज्जलाः ॥ ४३ ॥

लीलालूनेषु वनव्यूहेषु विश्रान्तानीव शीतलान्यासारवारीणि येषाम् ॥ ४३ ॥

सरसेन विभोर्नाशैर्विशङ्कितमहानलाः ।
मिलच्छिखरिमालाग्रजलमातङ्गयोधिनः ॥ ४४ ॥

स्वीयेन रसेन जलेन विभोराश्रयस्येन्धनस्य नाशैर्विशङ्किता भीता इव तिरोभूता
महानला येभ्यः । अर्थात्स्थलमातङ्गैः सह मिलन्तः शिखरिमालाग्रेषु
जलमातङ्गा योधिनो युद्धशीला येषाम् ॥ ४४ ॥

नृत्यन्तीव तरङ्गौघैर्जलावलनवेधिनः ।
जलाचलाचलान्योन्यसङ्घट्टस्फोटपण्डिताः ॥ ४५ ॥

जलैरचलानामचलैरन्योन्यसङ्घट्टे स्फोटने च पण्डिताः ॥ ४५ ॥

बृहद्गिरिवनव्रातप्राणिमण्डलमण्डिताः ।
उड्डामरवनेभेन्द्रभेरीवादनभासुरैः ॥ ४६ ॥

उड्डामराः उत्प्लवन्त्यो या मृतवनगजोत्फुल्लशरीरलक्षणा भेर्यस्तासां
तरङ्गाग्रताडनैर्यद्वादनं तेन भासुरैः कल्लोलैर्बृहत्तरङ्गैरसुरैः
पातालमिव अलमत्यन्तमाकुला इति परेणान्वयः ॥ ४६ ॥

असुरैरिव पातालं कल्लोलैरलमाकुलाः ।
अथोदपतदुन्नासदिङ्नागवदनध्वनिः ॥ ४७ ॥

अथ सागरक्षोभानन्तरं तत्र प्लवमानत्वादुन्नासानामूर्ध्वीकृतपुष्कराणां
दिङ्नागानां दिग्गजानां ध्वनिरुदपतत् उद्गतोऽभूत् ॥ ४७ ॥

पातालतलताल्वन्तर्विस्फोटामोटनोद्भटः ।
चञ्चलाचलकीलोर्वी चचाल क्षणचालिता ॥ ४८ ॥

कीदृशः स ध्वनिः । पातालतललक्षणस्य तालुनः अन्तर्विस्फोटेन विदारणेन
आमोटनेन पिण्डीकरणेन चोद्भटो घनतरः । गिग्गजैश्चानुह्यमाना उर्वी चञ्चलानि
मेर्वाद्यचलकीलानि यस्यास्तथाविधा भूत्वा क्षणादेव स्वस्थानाच्चालिता सती
व्यालोलैरम्भोधिभिर्लङ्घिता च सती लोला शैवालवल्लीव चचालेति परेण सहान्वयः ॥
४८ ॥

लोला शैवालवल्लीव व्यालोलाम्भोधिलङ्घिता ।
अथ दुर्वारनिर्घोषनिर्वाताडम्बरान्विता ॥ ४९ ॥

ततः किमासीत्तदाह - अथेति । दुर्वाराणां प्रलयाम्बुदानां
निर्घोषनिर्वातानामाडम्बरैरन्विता द्यौर्दिशां प्रतिध्वनिलक्षणैरारवैः पतन्ती
पुस्फोटेव ॥ ४९ ॥

पुस्फोटेव पतन्ती द्यौर्दिशां पतिरवारवैः ।
आवर्तवलनाकाराः केतवः पेतुरम्बरात् ॥ ५० ॥

केतव औत्पातिकधूमकेतवः पेतुः उत्पेतुः ॥ ५० ॥

हेमरत्नमया मुक्ताः सिन्दूरभुजगा इव ।
ककुब्भ्यो नभसो भूमेरुदगुर्दग्धदिक्तटाः ॥ ५१ ॥

वर्णतो हेमरत्नमया इव मुक्ता इव सिन्दूरवर्णभुजगा इव
चेत्यग्रिमोत्पातपङ्क्त्युपमानानि । ककुब्भ्यो दिग्भ्यो नभसो भूमेश्चोत्पातपङ्क्तय
उदगुरिति व्यवहितेनान्वयः ॥ ५१ ॥

चलज्ज्वालाजटाटोपा विविधोत्पातपङ्क्तयः ।
पृथ्व्यादीन्यसुरादीनि ब्रह्मोन्मुक्तानि सर्वतः ॥ ५२ ॥

ब्रह्मणा प्रागुक्तधात्रा उन्मुक्तानि विधारणसङ्कल्पोपसंहारादुपेक्षितानि ।
असुरादीनि पृथ्व्यादीनि चेति द्विविधान्यपि महान्ति भूतशब्दवाच्यानि
सङ्क्षोभमाययुः ॥ ५२ ॥

द्विविधानि महाभूतान्यलं सङ्क्षोभमाययुः ।
चन्द्रार्कानिलशक्राग्नियमाः कोलाहलाकुलाः ॥ ५३ ॥

परिपातपरा आसन्ब्रह्मलोकगतेश्वराः ।
कम्पैः कटकटारावपतत्पादपपङ्क्तयः ॥ ५४ ॥

ब्रह्मलोकं गत ईश्वरः स्वस्वाधिकारनिर्वाहकः प्रभावो येषां तथाविधाः
सन्तः ॥ ५४ ॥

भूमेरन्वभवन्भूरिदोलान्दोलनमद्रयः ।
भूकम्पलोलकैलासमेरुमन्दरकन्दराः ।
पेतुः कल्पतरून्मुक्ता रक्तस्तबकवृष्टयः ॥ ५५ ॥

लोकान्तराद्रिपुरवारिधिकाअनान्तमुत्पातकल्पपवनेन मिथो हतानाम् ।
कोलाहलैर्जगदभूत्प्रविकीर्णशीर्णं पूर्णार्णवे त्रिपुरपूर इवाभिपाती ॥ ५६ ॥

लोकान्तराण्यद्रयः पुराणि वारिधयः काननानि चेत्येतदन्तं सर्वं
जगदुत्पातसहितेन कल्पपवनेन मिथोऽन्योन्यन्न् हतानां हन्यमानानां जनानां
कोलाहलैः रुद्रबाणाग्निदाहेन अभिपाती अभितः पतनशीलस्त्रीणि पुराणि पूरयतीति
त्रिपुरपूरो दैत्यसङ्घ इव पूर्णार्णवे प्रविकीर्णं शीर्णमभूदित्यर्थः ॥ ५६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० पाषा०
कल्पक्षोभवर्णनं नामैकसप्ततितमः सर्गः ॥ ७१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
कल्पक्षोभवर्णनं नामैकसप्ततितमः सर्गः ॥ ७१ ॥