०६९

एकोनसप्ततितमः सर्गः ६९

श्रीवसिष्ठ उवाच ।

जगदङ्गमनाभासमदृश्यं दृश्यवत्स्थितम् ।
परया दृश्यते दृष्ट्या तद्ब्रह्मैव निरामयम् ॥ १ ॥

शिलासर्गप्रवेशोऽत्र तत्रत्यविधिदर्शनम् ।
स्वासितस्य मुनेस्तेन सम्भाषा चात्र चर्ण्यते ॥

शिलोदरे जगत्सद्भावसम्भावनाय तत्सत्तास्फूर्तिप्रदं तदधिष्ठानं ब्रह्म
दर्शयति - जगदङ्गमिति । जगन्ति अङ्गानीव यस्य । अनाभासं
सूर्यादिज्योतिषामविषयः । अदृश्यं चक्षुराद्यविषयः ॥ १ ॥

तत्र शैलसरित्स्रोतोलोकालोकान्तरभ्रमाः ।
भान्ति ते परमादर्शे महाव्योमनि बिम्बिताः ॥ २ ॥

सा प्रविष्टा ततः सर्गं तमनर्गलचेष्टिता ।
अहमप्यविशं तत्र सङ्कल्पात्मा तया सह ॥ ३ ॥

सा विद्याधरी । तत्र शिलोदरे । तं प्रागुक्तं सर्गं प्रविष्टा ॥ ३ ॥

यावत्सा तत्र वैरिञ्चं लोकमासाद्य सोद्यमा ।
उपविष्टा विरिञ्चस्य पुरः परमशोभना ॥ ४ ॥

सोद्यमा तदानयनोद्यमवती [तस्यां शिलायामानयनं तद्वती ।] सा
तत्रत्यं वैरिञ्चं लोकमासाद्य विरिञ्चस्य पुरः उपविष्टा सती अयं मे
पतिरित्यादिवाक्यं यावद्वक्ति तावदरिमञ्जगति महाप्रलय आसन्न इति पञ्चमेऽन्वयः
॥ ४ ॥

वक्त्ययं मुनिशार्दूल पतिर्मे पाति मामिमाम् ।
विवाहार्थमनेनाहं जनिता मनसा पुरा ॥ ५ ॥

पुराणः पुरुषोऽप्येष मामप्यद्य जरागताम् ।
न विवाहितवांस्तेन विरागमहमागता ॥ ६ ॥

विरागमेषोऽप्यायातो गन्तुमिच्छति तत्पदम् ।
यत्र न द्रष्ट्टता नैव दृश्यता न तु शून्यता ॥ ७ ॥

महाप्रलय आसन्नो जगत्यस्मिंश्च सम्प्रति ।
ध्यानान्न च चलत्येषु शैलमौनादिवाचलः ॥ ८ ॥

पुनः सैवाह - सम्प्रतीत्यादिना ॥ ८ ॥

तस्मान्मामेनमपि च बोधयित्वा मुनीश्वर ।
आमहाकल्पसर्गादौ परमे पथि योजय ॥ ९ ॥

तत्त्वोपदेशेन बोधयित्वा आमहाकल्पं वैज्ञानिकप्रलयपर्यन्तं ये ये प्रसिद्धाः
सर्गास्तेषामादौ मूलभूते ब्रह्माख्ये पथि योजय ॥ ९ ॥

इत्युक्त्वा मामसौ तस्य बोधायेदमुवाच ह ।
नाथायं मुनिनाथोऽद्य सद्म सम्प्राप्तवानिदम् ॥ १० ॥

तस्य चतुर्मुखस्य बोधाय समाधिव्युत्थानाय उचितार्थावगमाय च ॥ १० ॥

एषोऽन्यस्मिञ्जगद्गेहे ब्रह्मणस्तनयो मुनिः ।
पूजयैनं गृहायातं गृहस्थगृहपूजया ॥ ११ ॥

गृहस्थानां गृहेषूचितया पूज्या पूजय प्रीणय ॥ ११ ॥

बुध्यतामर्घ्यपाद्येन पूज्यतां मुनिपुङ्गवः ।
महन्महत्सपर्याभिर्महात्मभ्यो हि रोचते ॥ १२ ॥

त्वया अयं मुनिपुङ्गवः पूज्यत्वेन बुध्यताम् । अत एवार्घ्यपाद्येन पूज्यताम् । यतो
महात्मभ्यस्त्वादृशेभ्यो महत्सपर्याभिः प्राप्यं यन्महत्फलं तदेव रोचते
न क्षुद्रम् । रुच्यर्थानां प्रीयमाणः इति चतुर्थी ॥ १२ ॥

तयेत्युक्ते महाबुद्धिर्बुबुधे स समाधितः ।
स्वसंवित्तिद्रवात्मत्वादावर्त इव वारिधौ ॥ १३ ॥

शनैरुन्मीलयामास नयने नयकोविदः ।
मधुः शिशिरसंशान्ताववनौ कुसुमे यथा ॥ १४ ॥

कुसुमे द्वे नयनयोरुपमे । मधुर्यथा उन्मीलयति तद्वत् ॥ १४ ॥

शनैः प्रकटयामासुस्तान्यङ्गान्यस्य संविदम् ।
मधुपल्लवजालानि जवानीव नवं रसम् ॥ १५ ॥

मधोः सम्बन्धीनि पल्लवजालानि नवं स्वरसमिवेत्यर्थः ॥ १५ ॥

सुरसिद्धाप्सरःसङ्घाः समाजग्मुः समन्ततः ।
यथा हंसालयो लोलाः प्रातर्विकसितं सरः ॥ १६ ॥

ददर्शासौ पुरःप्राप्तं मां च तां च विलासिनीम् ।
उवाचाथ वचो वेधाः प्रणवस्वरसुन्दरम् ॥ १७ ॥

प्रणवपूर्वकैः स्वरैः सुन्दरं यथा स्यात्तथा ॥ १७ ॥

अन्यजगद्ब्रह्मोवाच ।

करामलकवद्दृष्टसंसारासारसार हे ।
ज्ञानामृतमहाम्भोद मुने स्वागतमस्तु ते ॥ १८ ॥

करामलकवत् दृष्टः संसारलक्षणस्य असारस्य सारः आत्मा येन ॥ १८ ॥

पदवीमसि सम्प्राप्त इमामतिदवीयसीम् ।
दूराध्वसुपरिश्रान्त इदमासनमास्यताम् ॥ १९ ॥

इत्युक्ते तेन भगवन्नभिवादय इत्यहम् ।
वदन्मणिमये पीठे निविष्टो दृष्टिदर्शिते ॥ २० ॥

दृष्ट्या कटाक्षेण दर्शिते मणिमये पीठे अहं निविष्ट उपविष्टः ॥ २० ॥

अथामरर्षिगन्धर्वमुनिविद्याधरोदिताः ।
प्रस्तुताः स्तुतयः पूजा नतयः स्थितिनीतयः ॥ २१ ॥

स्थितिनीतयो युक्तव्यवहारनीतयः ॥ २१ ॥

ततो मुहूर्तमात्रेण सर्वभूतगणोदिते ।
शान्ते प्रणतिसंरम्भे तस्योक्तं ब्रह्मणो मया ॥ २२ ॥

सर्वैर्भूतगणैर्गन्धर्वादिभिरुदिते वागादिभिः कृते प्रणतिसंरम्भे शान्ते सति ॥
२२ ॥

किमिदं [अत्र मुनिरुवाच इत्यपेक्षितम् ।] भूतभव्येश यदियं
मामुपागता ।
वक्ति ज्ञानगिरास्मांस्त्वं बोधयेति प्रयत्नतः ॥ २३ ॥

इयं विद्याधरी मामुपागता सती अस्मांस्त्वं ज्ञानगिरा बोधयेति यद्वक्ति इदं
किमुचितमनुचितं वेत्यर्थः ॥ २३ ॥

भवान्भूतेश्वरो देव सकलज्ञानपारगः ।
इयं तु काममूर्खा किं ब्रूते ब्रूहि जगत्पते ॥ २४ ॥

कुतस्तेऽयन्न् संशयस्तत्राह - भवानिति । तथा च तव
कृतकृत्यत्वान्मदुपदेशापेक्षैव नास्ति अस्यास्तु साधनसम्पत्त्यभावादधिकारो
नास्तीत्युपदेशप्रार्थनानुपपत्तेः संशय इति भावः ॥ २४ ॥

कथमेषा त्वया देव जायार्थं जनिता सती ।
नेह जायापदं नीता नीता विरसतां कथम् ॥ २५ ॥

संशयान्तरं दर्शयति - कथमिति । विरसतं निर्वेदम् ॥ २५ ॥

अन्यजगद्ब्रह्मोवाच ।

मुने शृणु यथावृत्तमिदं ते कथयाम्यहम् ।
यथावृत्तमशेषेण कथनीयं यतः सताम् ॥ २६ ॥

सत्यं ममास्याश्च नोपदेशार्हतां तथापीयं स्ववासनयैव ममाप्यज्ञतां
स्वस्या अधिकारं च मन्यमाना त्वां प्रार्थितवती तथा अस्या जन्ममात्रं मया
सम्पादितं जायार्थमहं जनिता अहं चास्य भार्यास्मीत्यादिकल्पना सर्वाप्यस्याः
स्ववासनयैव सम्पन्ना । अत एवास्या मद्वासनामात्रत्वान्मिथ्याभूतायाःसाम्प्रतं
मम विदेहकैवल्यप्राप्त्यैव सह स्वकल्पितप्रपञ्चेन प्रलयस्त्वत्समक्षमेव
भविष्यतीत्युत्तरं विस्तराद्वक्तुकामः प्रतिजानीते - मुने इति ॥ २६ ॥

अस्ति तावदजं शान्तमजरं किञ्चिदेव सत् ।
ततश्चित्कचनैकान्तरूपिणः कचितोऽस्म्यहम् ॥ २७ ॥

तत्रादौ वक्ष्यमाणोपोद्घातेन ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्य चैव धर्मश्च सह सिद्धं चतुष्ट्यम् इति पुराणप्रसिधमौत्पत्तिकं
तत्त्वज्ञानं स्वस्यास्तीति प्रकाशयितुं स्वकारणं ततः स्वोत्पत्तिस्व्रूपं चाह -
अस्तीति । कचितोऽस्मि प्रकटीभूतोऽस्मि ॥ २७ ॥

आकाशरूप एवाहन्न् स्थित आत्मनि सर्वदा ।
भविष्यति स्थिते सर्गे स्वयम्भूरिति नाम मे ॥ २८ ॥

तादृशतत्त्वज्ञानबाधिता स्वोत्पत्तिस्तत्प्रयुक्तस्वनाम च कथं प्रसिद्धन्न् तत्राह

  • आकाशेति । व्यवहर्तृप्रजासर्गे उत्पद्य स्थिते सति तद्दृष्ट्या व्यावहारिकं
    स्वयम्भूरिति नाम भविष्यति ॥ २८ ॥

वस्तुतस्तु न जातोऽस्मि न च पश्यामि किञ्चन ।
चिदाकाशश्चिदाकाशे तिष्ठाम्यहमनावृतः ॥ २९ ॥

वस्तुतस्तत्त्वदृशा तु ॥ २९ ॥

यदयं त्वं ममाहं ते यदिदं कथनं मिथः ।
तत्तरङ्गस्तरङ्गाग्रे रणतीवेति मे मतिः ॥ ३० ॥

तर्हि तत्त्वविदोरावयोः प्रश्नोत्तरादिव्यवहारः कीदृशस्तत्राह - यदिति । यथा एक
एव समुद्रोऽखण्डस्तरङ्गभेदैः खण्डनपरस्पराघातैर्ध्वनिवैचित्र्यं
दर्शयति तद्वदिति भावः ॥ ३० ॥

एवंरूपस्य मे कालवशतोऽविशदाकृतेः ।
सा कुमार्याश्चिदाभासमात्रस्यान्तः स्वभावतः ॥ ३१ ॥

एवं समुद्रात्तरङ्गवदीषत्कल्पितस्वपरदृष्टिवेद्यभेदरूपस्य कालवशत
ईषत्स्वरूपविस्मरणादविशदाकृतेर्मेनान्तरीयकचिदाभासमात्रस्यान्तर्या
ममाहमिति वासना उदिता सा कुमार्या अन्यस्य तव अन्येव विभाति मम तु अनन्या
विभाति । सा उदिता अनुदिता चावयोर्दृशेति द्वयोरन्वयः ॥ ३१ ॥

ममानन्या तवान्यस्य चान्येवेह विभाति या ।
सोदितानुदितेवान्तर्ममाहमिति वासना ॥ ३२ ॥

अनाशसत्तानुदितस्त्वहमात्मात्मनि स्थितः ।
स्वभावादच्युताकारः स्वात्मारामः स्वयं प्रभुः ॥ ३३ ॥

त्वं तर्हि स्वदृशा कीदृक् तत्राह - अनाशेति । अहं तु अनाशसत्ता यतोऽनुदितः ॥
३३ ॥

तस्या अहमिति भ्रान्तेर्वासनाया जगत्स्थितेः ।
सम्पन्नेयमधिष्ठातृदेवता देहरूपिणी ॥ ३४ ॥

ईदृशात्त्वत्त इयं कथमुत्पन्ना का च वा तत्राह - तस्येति । आ अहमिति भ्रान्तेः ।
स्मरणे आकारः अङित् प्रगृह्यः ।
पूर्वपूर्वाहङ्कारसंस्कारप्रभवत्वात्स्मृतिकल्पाया अहमिति
भ्रान्तेर्जगत्स्थितेर्वासनायाश्चाधिष्ठात्री देवता इयन्न् मत्सङ्कल्पाद्देहरूपिणी
सम्पन्नेत्यर्थः ॥ ३४ ॥

वासनाया अधिष्ठातृदेवतैवमियं स्थिता ।
न तु मे गृहिणी नापि गृहिण्यर्थेन सत्कृता ॥ ३५ ॥

स्ववासनावेशवशेन भावं गृहिण्यहं ब्रह्मण इत्युपेत्य ।
एषा स्वयं व्यर्थमितातिदुःखं यस्मात्किलैषैव हि वासनान्तः ॥ ३६ ॥

तर्हीयन्न् त्वां कथं पतिरिति ब्रूते तत्राह - स्वेति । यस्मादेषैव अन्तः
सर्वजगद्वासना अतो गृहिण्यहमिति स्वमनीषयैवोपेत्य व्यर्थमतिदुःखमिता प्राप्ता
॥ ३६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपा० निर्वाणप्रकरणे उ०
पाषाण० सर्गप्राप्तिर्नामैकोनसप्ततिमः सर्गः ॥ ६९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सर्गप्राप्तिर्नामैकोनसप्ततितमः सर्गः ॥ ६९ ॥