०६८

अष्टषष्टितमः सर्गः ६८

विद्याधर्युवाच ।

ततः प्राचीनमभ्यासं बोधधारणयामले ।
कुर्वः प्रकटतां तेन जगदेष्यति शैलगम् ॥ १ ॥

इहाधिभौतिकभ्रान्तिनिरासेन समाधिना ।
आतिवाहिकभावस्य स्थितिः सत्या समर्थ्यते ॥

यतो दृढाभ्यासाख्यसमाधियत्नमन्तरेण देहादावाधिभौतिकताभ्रान्तिर्न
निवर्तते आतिवाहिकभावश्च नाविर्भवति तं विना च सर्गान्तरस्थितिः साक्षिप्रत्यक्षेण
द्रष्टुमशक्या ततो हेतोरमले परमात्मनि सर्वबोधानुकूलया
समाधिरूपधारणया प्राचीनमातिवाहिकभावाभ्यासमावां कुर्वस्तेनोपायेन
शैलगं शिलान्तर्गतं मदुक्तं जगत्प्रकटतामेष्यति ॥ १ ॥

श्रीवसिष्ठ उवाच ।

युक्तियुक्ते तयेत्युक्ते विद्याधर्या धरोरसि ।
बद्धपद्मासनोऽथाहं समाधाबुदितोऽभवम् ॥ २ ॥

तया विद्याधर्या युक्तियुक्ते इति एवंरूपे वचस्युक्ते सति । धरस्य शैलस्योरपि
अधित्यकायाम् । उदित उद्युक्तोऽभवम् ॥ २ ॥

सर्वार्थभावनात्यागे चिन्मात्रैकान्तभावितः ।
अत्यजं तमहं पूर्वकथार्थकलनामलम् ॥ ३ ॥

तत्र समाधौ सर्वबाह्यार्थकलनात्यागे सति पूर्वकथार्थ
आधिभौतिकदेहादिभावना तत्संस्कारमलमप्यत्यजं त्यक्तवानित्यर्थः ॥ ३ ॥

अथ चिद्व्योमतां प्राप्तः परां दृष्टिमहं गतः ।
शरत्समयसम्प्राप्तौ व्योम निर्मलतामिव ॥ ४ ॥

इदमेव स्पष्टमाह - अथेत्यादिना ॥ ४ ॥

ततः सत्यावधानैकघनाभ्यासेन देहके ।
ममाधिभौतिकभ्रान्तिर्नूनमस्तमुपागता ॥ ५ ॥

उदयास्तमयोन्मुक्ता सततोदयमय्यपि ।
महाचिद्व्योमतास्वच्छा प्रोदितेव तदाभवत् ॥ ६ ॥

सततोदयमयी नित्यानावृतस्वप्रकाशा ॥ ६ ॥

अथ पश्याम्यहं यावत्स्वस्यैवामलतेजसा ।
वस्तुतस्तु न चाकाशं नोपलः परमेव तत् ॥ ७ ॥

स्वस्य साक्षिण एव वृत्तीद्धेन अमलतेजसा । वृत्तेर्जडायाः स्वतो
दृक्शक्त्यभावादिति भावः ॥ ७ ॥

परमार्थघनं स्वच्छं तत्तथा भाति तादृशम् ।
तथाभावनया ह्यात्मा मदीयो दृष्टवांस्तथा ॥ ८ ॥

तत्परमार्थघनं परं तत्त्वमेव मदीय आत्मा तथा उपलभावनया उपलं
दृष्टवानित्यर्थः ॥ ८ ॥

यथा स्वप्ने सुमहती दृष्टा गेहगता शिला ।
व्योमैव केवलं तद्वत्सुशुद्धं चिन्नभःशिला ॥ ९ ॥

स्वयं स्वप्नान्वितोऽन्यस्य स्वप्नपुंस्त्वं गतो नरः ।
स्वप्नेऽज्ञानप्रबुद्धस्य यादृक्तादृक्स्वरूपतः ॥ १० ॥

यद्ययं व्यवहारः स्वप्न एव तर्हि कथं स्वपरजाग्रत्ताप्रतिभासस्तत्राह -
स्वयमिति । स्वप्ने अज्ञानवशादेव प्रबुद्धोऽहमिति मन्यमानस्यान्यस्य
स्वप्नदृश्यपुरुषत्वं गतः स्वप्नान्वितः स्वयं स्वरूपतो यादृक्
प्रतिबुद्धोऽस्मीति प्रतिभाति तादृगित्यर्थः ॥ १० ॥

स्वप्नस्थानां शिरश्छिन्नं येषां ते संसृतौ स्थिताः ।
कालेन ज्ञानलाभेन विना कुर्वन्तु किं किल ॥ ११ ॥

अत एव सौप्तिके सुप्तहतानां जागरणोपायदेहाभावादगत्या स्वप्न एव तेषां
जागरता परिशिष्यत इति प्रागुक्तं मयेति स्मारयति - स्वप्नस्थानामिति ॥ ११ ॥

बोधः कालेन भवति महामोहवतामपि ।
यस्मान्न किञ्चनाप्यस्ति ब्रह्मतत्त्वादृतेऽक्षयम् ॥ १२ ॥

तस्मान्मूलाज्ञाननिद्रोच्छेदेन स्वरूपप्रतिबोध एवास्य मुख्यः प्रतिबोधोऽन्यदा तु
स्वप्न एव वृथा जागराभिमान इत्याह - बोध इति ॥ १२ ॥

अतस्तच्चिद्घनं स्वच्छं ब्रह्माकाशं शिलाकृति ।
दृष्टं मया तथा तत्र न तु पृथ्व्यादि सत्क्वचित् ॥ १३ ॥

अत एव मयापि स्वरूपजागरात्तत्प्रागदृष्टशिलाकृति स्वच्छं चिद्घनं दृष्टं
न पृथ्व्यादिविकारं सदित्यर्थः ॥ १३ ॥

भूतानामादिसर्गे यच्छुद्धं यत्पारमार्थिकम् ।
वपुस्तदेव ह्येतेषां ध्यानलभ्यमवस्थितम् ॥ १४ ॥

सर्गस्यादिरादिसर्गो महाप्रलयस्तदेत्यर्थः । एतेषां तत्त्वविदां
ध्यानलभ्यमैकाग्र्यप्राप्यम् ॥ १४ ॥

भूतानामादिसर्गे यच्छुद्धं यत्पुरातनम् ।
तदेवाद्य मनोराज्यं सङ्कल्प इति कथ्यते ॥ १५ ॥

ब्राह्मं रूपमेव सर्वभूतानां वपुः पारमार्थिकरूपं इति एवं जगदाकारेण
कथ्यते । मूढैरिति शेषः ॥ १५ ॥

सत्तातिवाहिको देहस्तत्परं परमार्थतः ।
प्रत्यक्षं परमं यत्तत्तदाद्यं कचनं चितः ॥ १६ ॥

अस्त्वेवं तथप्यातिवाहिको देहः कः यद्भावे सर्वजगद्दर्शनं चित्स्वभावकचनं
च प्रागुक्तं तमाह - सत्तेति । मायाशबलं ब्रह्म सदित्युच्यते । तत्र चितो
जगत्संस्कारसंवलितांशसत्ता स एवातिवाहिको देहः । नित्यापरोक्षशुद्धचिदंशस्तु
स्वरूपकचनमित्यर्थः ॥ १६ ॥

उद्यत्प्रथममध्यक्षं जीवस्य प्रथमं वपुः ।
मनः प्रत्यक्षमित्युक्तं तत्तेनाद्यैव दुर्धिया ॥ १७ ॥

तर्हि कथं मनो जीवस्यातिवाहिको देह इति प्रागुक्तं तत्राह - उद्यदिति । तत्सत्तारूपं
सर्गोदयेन तदाकारमिवोद्य्त् सर्गगोचरमध्यक्षं जीवस्य चिदाभासात्मनः
प्रथमं हिरण्यगर्भाख्यं समष्टिरूपमातिवाहिकवपुर्भवति । तत्पुनः
समष्टिभावस्यापि दुर्धिया विस्मरणे अद्यैव व्यष्टितां गतं तत्सर्वजनप्रत्यक्षं
मन इति प्रागुक्तमित्यर्थः ॥ १७ ॥

योगिप्रत्यक्षमित्युक्तं मनःप्रत्यक्षमित्यपि ।
तत्स्वमेव चितो रूपं गतमेवान्यतां मुधा ॥ १८ ॥

तदित्थं स्वयमेव चितो रूपं समष्टिरूपेण योगिप्रत्यक्षं सर्वजनसाधारण्येन तु
मनःप्रत्यक्षमित्यप्युक्तम् ॥ १८ ॥

इदमद्यतनं नाम प्रत्यक्षमसदुत्थितम् ।
असत्प्रत्यक्षमेवेति विद्धि प्रत्यक्षमङ्ग तत् ॥ १९ ॥

तत्र इदमद्यतनं मनःप्रत्यक्षमाधिभौतिकदेहादिकल्पनया
अत्यन्तासद्रूपेणैवोत्थितमित्यसत्प्रत्यक्षमेव विद्धि । तद्योगिप्रत्यक्षमेव हे अङ्ग
सद्याथात्म्यस्फूर्तेर्मुख्यं प्रत्यक्षम् ॥ १९ ॥

अहो नु चित्रा मायेयं प्राक्प्रत्यक्षे परोक्षता ।
निर्णीतास्मिंस्त्वनध्यक्षे प्रत्यक्षकलनागता ॥ २० ॥

कथं तर्हि सर्वजनानां तस्मिन्प्रत्यक्षे परोक्षतानुभवः इतरत्र च
प्रत्यक्षतानुभवस्तत्राह - अहो इति ॥ २० ॥

आतिवाहिकदेहत्वं प्रत्यक्षं प्रथमोदितम् ।
सत्यं सर्वगतं विद्धि मायैव त्वाधिभौतिकम् ॥ २१ ॥

प्रथमोदितमिति सूक्ष्मपूर्वकत्वात्स्थौल्याध्यासस्येत्यर्थः । यदग्ने रोहितं रूपं
तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णन्न् तदन्नस्यापागादग्नेरग्नित्वं त्रीणि
रूपाणीत्येव सत्यम् इति श्रुतेः । सत्यं समष्टिभावात्सर्वगतं मायैवानृतमेव ॥
२१ ॥

अनुभूतापि नास्त्येव हेम्नः कटकता यथा ।
तथातिवाहिकस्याधिभौतिकत्वं न विद्यते ॥ २२ ॥

भ्रममभ्रमतां यातमभ्रमं भ्रमतां गतम् ।
वेत्ति जीवो विचारेण विनाहो नु विमूढता ॥ २३ ॥

आधिभौतिकदेहोऽयं विचारेण न लभ्यते ।
आतिवाहिकदेहस्तु किल लोकद्वयेऽक्षयः ॥ २४ ॥

स्थूलस्य सूक्ष्मात्पृथक्त्वे अपृथक्त्वे वा किदृशं स्वरूपं
स्यादित्यादिप्राक्प्रपञ्चितविचारेण । इहामुत्र च
सर्वव्यवहारनिर्वाहकत्वादामोक्षमक्षयः ॥ २४ ॥

आधिभौतिकचिद्रूढा ह्यातिवाहिकदेहके ।
मरौ मरीचिकास्वेव यथा मिथ्यैव वारिधीः ॥ २५ ॥

आधिभौतिकचिदाधिभौतिकताप्रथा रूढा प्रादुर्भूता ॥ २५ ॥

जाताधिभौतिकी संविदातिवाहिकचित्क्रमे ।
देहदृष्टिवशात्प्रौढा स्थाणौ पुरुषधीरिव ॥ २६ ॥

शुक्तौ रजतता तापे जलतेन्दौ यथा द्विता ।
आधिभौतिकता तद्वन्माययैवातिवाहिके ॥ २७ ॥

यदसत्तत्कृतं सत्यं यत्सत्यं तदसत्कृतम् ।
अहो नु मोहमाहात्म्यं जीवस्यास्याविचारजम् ॥ २८ ॥

योगिप्रत्यक्षमेवास्ति किञ्चिदस्ति तु मानसम् ।
यस्माल्लोकद्वयाचारस्ताभ्यामेव प्रसिध्यति ॥ २९ ॥

स्फूर्तिस्पन्दने द्वे व्यवहारसर्वस्वम् । ते च
लोकद्वयसाधारणत्वादातिवाहिकदेहस्यैव निष्कर्षे पर्यवस्यत इत्याह - योगीति ।
मानसं स्पन्दनमिति शेषः । तच्च प्रत्यक्षाधीनसिद्धिकत्वात्कि।चिदस्ति न
प्रत्यक्षसमसत्ता तस्यास्तीत्यनृतमेव तदपीति भावः ॥ २९ ॥

आद्यन्न् प्रत्यक्षमुत्सृज्य यः सत्येऽस्मिन्कृतस्थितिः ।
प्रत्यक्षे मृगतृष्णाम्बु पीत्वा स सुखमास्थितः ॥ ३० ॥

तथा च सर्वसाधारणप्रत्यक्षमात्रे सर्वमन्यद्विहाय योगेन स्थिरता कार्या न
पामरजनमात्रप्रसिद्धे ऐहिकमात्रे स्थूलादिप्रत्यक्षे इत्याशयेनाह - आद्यमिति ॥
३० ॥

यत्सुखं दुःखमेवाहुः क्षणनाशानुभूतिभिः ।
अकृत्रिममनाद्यन्तन्न् यत्सुखं तत्सुखं विदुः ॥ ३१ ॥

एवं सुखेऽपि सर्वलोकसाधारणे योगिनामेवानुभवसिद्धे परमपुरुषार्थता न
पामरजनप्रसिद्धे इत्याशयेनाह - यदिति । क्षणमात्रेण
नाशानुभूतिभिर्दुःखपर्यवसितं प्राक्च दुःखसहस्रनिष्पादितं यद्विषयसुखं
तद्दुःखमेवाहुर्विवेकिन इत्यर्थः ॥ ३१ ॥

प्रत्यक्षेणैवमध्यक्षं प्रत्यक्षं प्रविचार्यताम् ।
यदाद्यन्न् तत्सदध्यक्षं तत्प्रत्यक्षेण दृश्यताम् ॥ ३२ ॥

उक्तमेव दृढीचिकीर्षुः पुनराह - प्रत्यक्षेणेत्यादिना ॥ ३२ ॥

लोकत्रयानुभवदं त्यक्त्वा प्रत्यक्षमैहिकम् ।
मायात्मकं यो गृह्णाति नास्ति मूढतमस्ततः ॥ ३३ ॥

आतिवाहिकमेवैषां भूतानां विद्यते वपुः ।
अत्राधिभौतिकव्याप्तिरसत्यैव पिशाचिका ॥ ३४ ॥

अजातसङ्कल्पमयं प्रत्यक्षं सत्कथं भवेत् ।
स्वयमेव न यत्सत्यं तत्स्यात्कार्यकरं कथम् ॥ ३५ ॥

मिथ्यासङ्कल्पमयस्य जन्मैव यत्र दुर्लभं तस्य सत्ता अत्यन्तदुर्लभा
असतश्चार्थक्रियासमर्थता ततोऽपि दूरनिरस्तेत्याह - अजातेति ॥ ३५ ॥

यत्र प्रत्यक्षमेवासदन्यत्किं तत्र सद्भवेत् ।
क्व तत्सत्यं [क्व तत्सिद्धं भवेत् इति पाठः ।] भवेद्वस्तु यदसिद्धेन
साध्यते ॥ ३६ ॥

ननु चक्षुरादिप्रमाणप्रसाधितः प्रपञ्चः कथमपलप्यते तत्राह - यत्रेति ।
योगिप्रत्यक्षबाधितत्वाच्चक्षुरादेरपीति भावः ॥ ३६ ॥

प्रत्यक्ष एव भावत्वे नष्टे क्वेवानुमादयः ।
उह्यन्ते वारणा यत्र तत्रोर्णायुषु का कथा ॥ ३७ ॥

यदा साक्षादर्थसाधकेषु चक्षुरादिष्वियं गतिस्तदा तन्मूला अनुमानादयोऽपि
दूरनिरस्ता इत्याह - प्रत्यक्ष एवेति । ऊर्णायोर्मेषस्य । मत्वर्थीयो युत् ॥ ३७ ॥

अतः प्रमाणसंसिद्धं दृश्यं नास्त्येव कुत्रचित् ।
अनन्यदिदमस्तीव तत्तद्ब्रह्मघनं घनम् ॥ ३८ ॥

एवं दृश्यमार्जने फलितमाह - अनन्यदिति । यदिदं सदनन्यदस्तीवेति भासते
तद्घनं सैन्धवघनतुल्यं ब्रह्मघनमेवेति फलितमित्यर्थः ॥ ३८ ॥

स्वप्ने द्रष्टुः खमेवाद्रिर्गृहे नान्यस्य वै यथा ।
तथा तद्भावनवतोरात्रयोः सा शिलैव चित् ॥ ३९ ॥

स्वप्ने अद्रिद्रष्टुः प्रसिद्धोऽद्रिस्तदानीमपि खं शून्य एव । यतस्तस्मिन्नेव काले
जाग्रतः स्वपतो वा अन्यस्य सोऽद्रिर्नास्ति । यथाऽयं दृष्टान्तस्तथा
शिलाभावनवतोरावयोर्दृश्यापि सा शिला चिदेवेत्यर्थः ॥ ३९ ॥

अयं शैल इदं व्योम जगदेतदिदं त्वहम् ।
इति चिन्मय आत्मान्तः खं चमत्कुरुते स्वयम् ॥ ४० ॥

चमत्कुरुते । भासत इति यावत् ॥ ४० ॥

पश्यत्येतत्प्रबुद्धात्मा नाप्रबुद्धः कदाचन ।
श्रोतुः कथार्थसंवित्तिर्नाश्रोतुर्भवति क्वचित् ॥ ४१ ॥

चिदेवेत्थं प्रथते नान्यदिति प्रबुद्धात्मैव पश्यति नाप्रबुद्धः । यथा
भारतादिकथार्थसंवित्तिस्तच्छ्रोतुरेव नान्यस्य तद्वदित्यर्थः ॥ ४१ ॥

अप्रबुद्धमिति भ्रान्तिरेवेयन्न् सत्यतां गता ।
क्षीवस्य सुस्थिरा एव नृत्यन्ति तरुपर्वताः ॥ ४२ ॥

सर्वत्रा प्रतिहतमेकरूपबोधं प्रत्यक्षं शिवमनुबुध्य चित्स्वरूपम् ।
प्रत्यक्षान्तरमिह पेलवं श्रयन्ते ये मूढास्तृणतनुभिः शठैरलं तैः
॥ ४३ ॥

ये तु योगिप्रत्यक्षं पूर्णानन्दैकरसं स्वरूपमनुबुध्यापि तद्बाधितं
चक्षुरादिप्रत्यक्षान्तरं पेलवं तुच्छमपि प्रमाणत्वेन सहन्ते
तृणतनुभिस्तृणप्रायैः शठैरात्मवञ्चकैस्तैः अलं न किञ्चित्प्रयोजनमस्ति ।
स्वानुभवेऽपि विश्वासशून्याः परवाक्यं कथं विश्वसीरन्नित्यनुपदेश्या एव ते
इत्यर्थः ॥ ४३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० पा० प्रमाणाप्रतिसिद्ध्या
दृश्यानुपपत्तिवर्णनं नामाष्टषष्टितमः सर्गः ॥ ६८ ॥

इति श्रीवसिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
प्रमाणाप्रतिसिद्ध्या दृश्यानुपपत्तिवर्णनं नामाष्टषष्टितमः सर्गः ॥ ६८ ॥