०६७

सप्तषष्टितमः सर्गः ६७

विद्याधर्युवाच ।

यावत्तं सर्गमागच्छ प्रसादः क्रियतां मुने ।
आश्चर्येषूपपन्नेषु महान्तो ह्यतिकौतुकाः ॥ १ ॥

कौतुकात्तां शिलां गत्वाप्यदृष्ट्वा मुनिना जगत् ।
पृष्टयाभ्यासमाहात्म्यं विद्याधर्यात्र वर्ण्यते ॥

हे मुने त्वं यदि मदुक्तार्थजातमसम्भावितं मन्यसे तर्हि स्वयमेव साक्षात्तं
सर्गं यावत्साकल्येन द्रष्टुमागच्छ ॥ १ ॥

तथेत्युक्ते [श्रीवसिष्ठ उवाचेत्यपेक्षितनत्र ।] मया सार्धं
गन्तुमारब्धमम्बरे ।
वात्यया सौरभेणेव शून्ये शून्येन शून्यया ॥ २ ॥

इति तया उक्ते सति मया तथास्त्वित्यभ्युपगम्य तया सहाम्बरे
गन्तुमारब्धमित्यन्वयः । वात्यया सह सौरभेण चम्पकादिगन्धेनेव ॥ २ ॥

अथाहं दूरमध्वानं शून्यमुल्लङ्घ्य नाभसम् ।
नभःस्थं भूतसङ्घातं तया सार्धमवाप्तवान् ॥ ३ ॥

भूतसङ्घातं देवादिप्राणिनिकायम् ॥ ३ ॥

तमुल्लङ्घ्य चिरेणात्र भूतसञ्चारमम्बरे ।
लोकालोकशिरोव्योम प्राप्तोऽस्मि धवलाम्बुदम् ॥ ४ ॥

उत्तरांशेन्दुशुभ्राभ्रपीठान्निर्गत्य तां शिलाम् ।
आनीतोस्मि तयोत्तुङ्गां तप्तकाञ्चनकल्पिताम् ॥ ५ ॥

उत्तराया दिशः अंशे पूर्वभागे स्थितादिन्दुवच्छुभ्रादभ्रपीठादधो निर्गत्य ॥ ५ ॥

यावत्पश्याम्वहं शुभ्रां शिलां तां न च तज्जगत् ।
कलधौतमयीमुच्चैरग्निलोकतटीमिव ॥ ६ ॥

अहं अग्निनावलोक्यते इत्यग्निलोकां मेरुतटीमिव स्थितां तां शिलां
यावत्साकल्येनान्विष्य पश्यन्नपि तत्तयोक्तं जगत्तत्र न पश्यामीत्यर्थः ॥ ६ ॥

तदा मयोक्ता सा कान्ता क्व भवत्सर्गभूरिति ।
क्व रुद्रार्काग्नितारादि क्व लोकान्तरसप्तकम् ॥ ७ ॥

भवत्सर्गभूः क्व तत्र त्वया वर्णिता रुद्रार्कादयश्च क्वेति सा मयोक्तेति सर्वत्राग्रे
सम्बन्धः ॥ ७ ॥

क्वार्णवाकाशककुभः क्वोन्मज्जननिमज्जने ।
क्व महाम्भोदसम्भारः क्व ताराम्बरडम्बरम् ॥ ८ ॥

ककुभो दिशः । उन्मज्जननिमज्जने प्राणिनां जन्मनाशौ ॥ ८ ॥

क्व शैलशिखरश्रेण्यः क्व महार्णवलेखिकाः ।
क्व द्वीपवलयाः सप्त क्व तप्तकनकावनिः ॥ ९ ॥

क्व कार्यकालकलनाः क्व भूतभुवनभ्रमः ।
क्व विद्याधरगन्धर्वाः क्व नरामरदानवाः ॥ १० ॥

क्वर्षिभूपालमुनयः क्व नयापनयक्रमः ।
क्व पञ्चयामयामिन्यः क्व स्वर्गनरकभ्रमः ॥ ११ ॥

ऋषयो भूपालास्तेषु मुनयश्च क्व । भूपातालमुनयः इति पाठे तु स्पष्टम् ।
पञ्चयामा हेमन्तयामिन्यः ॥ ११ ॥

क्व पुण्यपापकलना क्व कलाकालकेलयः ।
क्व सुरासुरवैराणि क्व द्वेषस्नेहरीतयः ॥ १२ ॥

वदत्येवं मयि वचः सोवाच वरवर्णिनी ।
विस्मयाकुलमालोक्य शिलामलिविलोचना ॥ १३ ॥

मयि एवं वदति सति सा मामुवाच ॥ १३ ॥

विद्याधर्युवाच ।

पश्याम्यखिल [अखिल इति सम्बोधनम् ।] नात्मीयमहं सर्वमिहोपले ।
मुकुरप्रतिबिम्बस्थपुरान्यपुरवज्जनम् ॥ १४ ॥

अहमपि न पूर्ववत्पश्यामि किन्तु प्रागुक्तं सर्वं देवमनुष्यासुरादिजनन्न् मुकुरे
प्रतिबिम्बभावेनास्थितं यत्प्रसिद्धपुरादन्यत्पुरं तद्वत्पश्यामीत्यर्थः ॥ १४ ॥

नित्यानुभव एवात्र दर्शने कारणं मम ।
तदभावो मुने मन्ये ते कारणमदर्शने ॥ १५ ॥

तदभावस्तत्तिरोधानम् । पादादौ ते इति छान्दसम् ॥ १५ ॥

अन्यच्च चिरकालैकद्वैतसङ्कथयानया ।
शुद्धातिवाहिकैकात्मदेहता विस्मृतावयोः ॥ १६ ॥

सर्वसूक्ष्मार्थग्रहणक्षमविशुद्धमनोमात्रदेहताविस्मृतिवशादपि तव
तददर्शनन्न् मत तदस्फुटदर्शनन्न् चेत्याह - अन्यच्चेति ॥ १६ ॥

ममातिसुचिराभ्यस्तमपि व्योम लतामिव ।
गतं निजं जगदिदं यतः पश्यामि न स्फुटम् ॥ १७ ॥

ममापीदं निजं जगद्गतं नष्टप्रायम् । यतश्चिराभ्यस्तां व्योमलतामिवेदं न
स्फुटं पश्यामीत्यन्वयः ॥ १७ ॥

अभूद्यत्स्वजगत्पूर्वमतिप्रकटमेव मे ।
तत्पश्यामीदमादर्श इव बिम्बितमस्फुटम् ॥ १८ ॥

चिरव्यर्थोत्थया नाथ सङ्कथाव्यथया मिथः ।
स्वास्थ्यं विस्मृतमात्मीयमवदाततमं ततम् ॥ १९ ॥

स्वास्थ्यन्न् प्रागुक्तधारणाभ्याससिद्धशुद्धातिवाहिकैकात्मदेहत्वं न तु
स्वरूपावस्थितिः पूर्वग्रन्थविरोधात् ॥ १९ ॥

योऽभ्यासः प्रकचत्यन्तः शुद्धचिन्नभसो रसात् ।
भवेत्तन्मयमेवान्तराबालमिव लक्ष्यते ॥ २० ॥

अभ्यासपदेन तज्जन्यदृढसंस्कारो लक्ष्यते । प्रकचति उद्बुद्धः प्रकाशते ।
इवकारो भिन्नक्रमः । अन्तः आन्तरं चित्तं तन्मयमेव भवेदिवेति ॥ २० ॥

न सच्छास्त्रेण सा विद्धि न सन्न्यायेन सा कला ।
अस्ति नास्त्यमितोद्योगाद्यदभ्यासान्न सिद्ध्यति ॥ २१ ॥

अत एवाभ्यासहीनस्य श्रवणमनने निष्फले इत्याह - नेति । सा कला अस्तीति
पूर्वत्रान्वयः । अभ्यासस्य त्वसाध्यं न किञ्चिदस्तीत्याह - नास्तीति ॥ २१ ॥

स्वजगत्सन्तताभ्यासवशतो मां कथाभ्रमः ।
नूनमाक्रान्तवानेष द्वयोर्हि बलवाञ्जयी ॥ २२ ॥

अयं त्वत्संवादकथाभ्रमः स्वीयजगत्सन्तताभ्यासवशतो मां
पूर्वजगद्भ्रमवतीमाक्रान्तवान् वशीकृतवान् । तेन तत्संस्कारस्तिरोहित
इवाभूदित्यर्थः । अतीतभ्रमापेक्षया वर्तमानस्य बलीयस्त्वादित्याशयेनाह -
द्वयोर्हीति ॥ २२ ॥

इष्टवस्त्वर्थिनां तज्ज्ञसूपदिष्टेन कर्मणा ।
पौनःपुन्येन करणान्नेतरच्छरणं मुने ॥ २३ ॥

अत एव लौकिकं वैदिकं वा शिल्पविद्यादिफलमिच्छताम् । तत्तद्गुरूपदिष्टक्रमेण
पुनःपुनस्तदभ्यास एव शरणं नान्यदित्याह - इष्टेति । तज्ज्ञैर्गुरुभिः
सूपदिष्टेन कर्मणा तत्करणप्रकारेण ॥ २३ ॥

अयमित्थमिहाज्ञानभ्रमः प्रौढोऽहमात्मकः ।
शाम्यति ज्ञानचर्चाभिः पश्याभ्यासविजृम्भितम् ॥ २४ ॥

अनाद्यनन्तः संसारानर्थोऽपि ज्ञानाभ्यासान्नश्यति चेत्किमन्यदनिष्टमवशिष्यते ।
यदभ्यासेन न चिकित्स्येतेत्याह - अयमिति । ज्ञानस्य चर्चाभिः श्रवणाद्यभ्यासैः
॥ २४ ॥

अहं शिष्याबला बाला पश्यामि त्वं न पश्यसि ।
सर्वज्ञोऽपि शिलासर्गं पश्याभ्यासविजृम्भितम् ॥ २५ ॥

अभ्यासपाटवे बालानामपि प्रौढता दृष्टा तद्विस्मरणे तु महतामपि व्यामोहः
सम्भावित इत्यर्थे आवामेव निदर्शनमित्याह - अहमिति । अहं शिष्यभूतापि
शिलासर्गं पश्यामि त्वं सर्वज्ञो गुरुरपि न पश्यसि
आश्चर्यमेतदभ्यासविजृम्भितमित्यर्थः ॥ २५ ॥

अज्ञोऽपि तज्ज्ञतामेति शनैः शैलोपि चूर्ण्यते ।
बाणोप्येति महालक्ष्यं पश्याभ्यासविजृम्भितम् ॥ २६ ॥

बाणः अचेतनोऽपि महदलक्ष्यं सूक्ष्मतममपि लक्ष्यं
शरसन्धानाभ्यासपाटवादेति प्राप्नोति ॥ २६ ॥

इत्थं नाम परिप्रौढा मिथ्याज्ञानविषूचिका ।
शाम्यत्येव विचारेण पश्याभ्यासविजृम्भितम् ॥ २७ ॥

अभ्यासेन कटुद्रव्यं भवत्यभिमतं मुने ।
अन्यस्मै रोचते निम्बस्त्वन्यस्मै मधु रोचते ॥ २८ ॥

निम्बभक्षणाभ्यासवते द्रविडाय निम्बोऽपि रोचते ॥ २८ ॥

अबन्धुर्बन्धुतामेति नैकट्याभ्यासयोगतः ।
यात्यनभ्यासतो दूरात्स्नेहो बन्धुषु तानवम् ॥ २९ ॥

बन्धुतां बन्धुवत्स्निग्धताम् ॥ २९ ॥

आतिवाहिकदेहोऽयं शुद्धचिद्व्योम केवलम् ।
आधिभौतिकतामेति भावनाभ्यासयोगतः ॥ ३० ॥

देहे भौतिकताभ्रान्तिरपि स्वाभाविकात्तदभ्यासादेवेत्याह - आतिवाहिकेति ॥ ३० ॥

आधिभौतिकदेहोऽसौ धारणाभ्यासभावनात् ।
विहङ्गवत्खमभ्येति पश्याभ्यासविजृम्भितम् ॥ ३१ ॥

खमभ्येति खेचरसिद्धिं लभते ॥ ३१ ॥

पुण्यानि यान्ति वैफल्यं वैफल्यं यान्ति मातरः ।
भाग्यानि यान्ति वैफल्यं नाभ्यासस्तु कदाचन ॥ ३२ ॥

कीर्तनाद्यल्पापराधेनापि महान्त्यपि पुण्यानि वैफल्यं यान्ति । भाग्यानि धनानि ॥ ३२

दुःसाध्याः सिद्धिमायान्ति रिपवो यान्ति मित्रताम् ।
विषाण्यमृततां यान्ति सन्तताभ्यासयोगतः ॥ ३३ ॥

औषधार्थमभ्यासेन सेवितानि विषाणि अमृतवदारोग्यादिहेतुतां यान्ति ॥ ३३ ॥

येनाभ्यासः परित्यक्त इष्टे वस्तुनि सोऽधमः ।
कदाचिन्न तदाप्नोति वन्ध्या स्वतनयं यथा ॥ ३४ ॥

अत एव शास्त्रीयशुभाभ्यासः कदापि न परित्याज्य इत्याह - येनेति ॥ ३४ ॥

यदप्यभिमतं वस्तु स्वभ्यासेन तदर्जनात् ।
तद्युक्तिपूर्वकं त्याज्यमामृत्योर्जीवितं यथा ॥ ३५ ॥

तर्हि शास्त्रीयत्वादभिमतं दारपुत्रधनसत्कर्मानुष्ठानादिवस्तु तत्कदापि न
त्याज्यं नेत्याह - यदपीति । स्वभ्यासेन प्रयत्नसहस्रेण
तदर्जनादत्यन्ताभिमतं दारादि यद्वस्तु तदपि न सहसा त्याज्यन्न् किन्तु
वैराग्याभ्यासेन वृत्त्यादिपरिकल्पनादियुक्तिपूर्वकं त्याज्यम् । यथा
आमृत्योरत्यन्ताभिमतमपि जीवितं योगिभिर्युक्तिपूर्वकं त्यज्यते तद्वदित्यर्थः ॥ ३५ ॥

इष्टे वस्तुनि नाभ्यासं यः करोति नराधमः ।
सोऽनिष्टेऽनिष्टमाप्नोति नरकान्नरकान्तरम् ॥ ३६ ॥

तत्त्वज्ञानाभ्यासस्तु सर्वथा न त्याज्यः । तत्त्यागे देहाहम्भावाद्यभ्यासस्य
नान्तरीयकस्य वारयितुमशक्यत्वादनिर्मोक्ष एवेत्याशयेनाह - इष्टे इति । अनिष्टे
देहाद्यहम्भावे अनिष्टमेवाभ्यासस्वभावादेवाप्नोति । ततश्च नरकान्नरकान्तरम्
॥ ३६ ॥

तरन्ति सरितं स्फीतां संसारासारसेविनः ।
त एवात्मविचाराख्यमभ्यासं न त्यजन्ति ये ॥ ३७ ॥

संसारः असारो येन तादृशविवेकसेविनो ये पुरुषा आत्मविचाराख्यमभ्यासं न
त्यजन्ति त एव स्फीतां मायासरितं तरन्तीत्यन्वयः ॥ ३७ ॥

अभ्यासभासोऽभिमतं वस्तु प्रकटयन्त्यलम् ।
प्रापयन्ति च निर्विघ्नं घटं दीपप्रभा यथा ॥ ३८ ॥

यथा घटार्थिने दीपप्रभा घटं प्रकटयन्ति निर्विघ्नं प्रापयन्ति च तथा
आत्मवस्त्वर्थिने अभ्यासलक्षणाभासः प्रकाशा अभिमतमात्मवस्तु प्रकटयन्ति
निर्विघ्नन्न् प्रापयन्ति च । तत्र श्रवणमननाभ्यासोऽसम्भावनातिमिरनिरासेन
प्रकटयति । निदिध्यासनाभ्यासस्तु विपरीतभावनारूपविघ्ननिरासेन
प्रापयतीत्याशयः ॥ ३८ ॥

यथा कल्पद्रुमलताः सच्चिन्तामणयो यथा ।
फलन्ति शरदश्चैतास्तथैवाभ्यासभूमयः ॥ ३९ ॥

इष्टवस्तु चिराभ्यासभास्वान्भासयति प्रजाः ।
तथेन्द्रियाख्यां देहोर्व्यां रात्रिं पश्यन्ति नो यथा ॥ ४० ॥

देहलक्षणायामुर्व्यामिष्टं वस्तु परमप्रेमविषय आत्मैव
तद्विचाराभ्यासलक्षणो भास्वान् सूर्यस्तथा भासयति यथा प्रजाः
प्रकृष्टजन्मानोऽधिकारिजना इन्द्रियाख्यां
रागद्वेषजन्ममरणाद्यनर्थसहस्रदुःखस्वप्नमोहनिदाप्रदां रात्रिं न
पश्यन्तीत्यर्थः ॥ ४० ॥

सर्वस्य जन्तुजातस्य सर्ववस्त्ववभासने ।
सर्वदैवैक एवोच्चैर्जयत्यभ्यासभास्करः ॥ ४१ ॥

चतुर्दशविधायास्तु भूतजातेर्न कस्यचित् ।
सिध्यत्यभिमतं वस्तु विनाभ्यासमकृत्रिमम् ॥ ४२ ॥

अप्यर्थे तुशब्दः । चतुर्दशभुवनस्थाया अपि भूतजातेर्मध्ये कस्यचिदपि प्राणिनः
किञ्चिदप्यभिमतं वस्तु अभ्यासं विना न सिद्ध्यतीत्यर्थः ॥ ४२ ॥

पौनःपुन्येन करणमभ्यास इति कथ्यते ।
पुरुषार्थः स एवेह तेनास्ति न विना गतिः ॥ ४३ ॥

अभ्यासस्वरूपं दर्शयति - पौनःपुन्येनेति । स एव इह शास्त्रे पुरुषार्थः
प्राग्बहुशो वर्णितः पुरुषप्रयत्नः परमपुरुषार्थफलस्तेन विना गतिर्निस्तारो नास्ति
॥ ४३ ॥

दृढाभ्यासाभिधानेन यत्ननाम्ना स्वकर्मणा ।
निजवेदनजेनैव सिद्धिर्भवति नान्यथा ॥ ४४ ॥

निजवेदनं स्वविवेकस्तज्जेनैव ॥ ४४ ॥

अभ्यासभास्वति तपत्यवनौ वने च वीरस्य सिध्यति न यन्न तदस्ति किञ्चित् ।
अभ्यासतो भुवि भयान्यभयीभवन्ति सर्वासु पर्वतगुहास्वपि निर्जनासु ॥ ४५ ॥

वीरस्येन्द्रियजयादिशूरस्य पुंसः अभ्यासभास्वति तपति प्रकाशमाने सत्यवनौ
भूमौ वने जले चादन्तरिक्षे च यदभिलषितं वस्तु न सिध्यति तन्नास्ति किञ्चित् । भयानि
भयहेतुव्याघ्रसर्पादीनि ॥ ४५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्र० उ० पाषा०
अभ्यासप्रशंसा नाम सप्तषष्टितमः सर्गः ॥ ६७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
अभ्यासप्रशंसा नाम सप्तषष्टितमः सर्गः ॥ ६७ ॥