षट्षष्टितमः सर्गः ६६
श्रीवसिष्ठ उवाच ।
अथेत्युक्तवती पृष्टा सा मया कल्पितासना ।
सङ्कल्पितासनस्थेन स्थितेन नभसि स्थिता ॥ १ ॥
कथं स्थितिरनाकाशे गृहं वाते शिलोदरे ।
पृष्टयेति तया तत्र जगद्विस्तार ईर्यते ॥
प्राग्वर्णिते ब्रह्माण्डोर्ध्वनभसि स्थितेन तत्रापि सङ्कल्पितासनस्थेन मया
तस्मिन्नेव नभसि कल्पितासनस्थिता इति प्राग्वर्णितप्रकारेण स्ववृत्तान्तमुक्तवती सा
अथानन्तरं पृष्टा ॥ १ ॥
कथं शिलोदरे बाले त्वद्विधानां भवेत्स्थितिः ।
कथं सञ्चलनं तत्र किमर्थं तत्र चास्पदम् ॥ २ ॥
किं पृष्टा तदाह - कथमिति । निरवकाशे शिलोदरे शरीरादिमतीनां
त्वद्विधानां स्थितिः कथं भवेत् । सञ्चलनं च कथं भवेत् । तत्र आस्पदं
गृहं च ते किमर्थं किम्प्रयोजनकम् । यत्र प्रवेश एवासम्भावितस्तत्रेदं
सर्वमत्यन्तासम्भावितमित्यर्थः ॥ २ ॥
विद्याधर्युवाच ।
मुने यथेदं भवतां जगत्स्फारं विराजते ।
तथास्माकं जगत्तत्र सर्गसंसारयुक् स्थितम् ॥ ३ ॥
नैतावदेव त्वया असम्भावितं तत्रास्तीति सम्भावनीयं किन्त्वीदृशं
जगदन्तरमपीति विद्याधरीप्रश्नस्योत्तरमाह - मुने इति ॥ ३ ॥
स्फुरन्ति नागाः पाताले तिष्ठन्ति भुवि पर्वता ।
आपश्छलछलायन्ते वहन्ति व्योम्नि वायवः ॥ ४ ॥
तदेव प्रपञ्चयति - स्फुरन्तीत्यादिना । छलछलायन्ते इत्यव्यक्तध्वन्यनुकरणम्
॥ ४ ॥
अर्णवा अर्णसा भान्ति यान्त्यन्तः शनकैः प्रजाः ।
भूतान्यजस्रं जायन्ते म्रियन्तेऽविरतं यथा ॥ ५ ॥
अर्णसा उदकेन । यान्ति गमनादिना व्यवहरन्ति । यथा अत्रेति शेषः ॥ ५ ॥
वान्ति वाता वहन्त्यापो भान्ति चाभान्ति खे सुराः ।
तिष्ठन्त्यगाः समुद्यन्ति ग्रहा यान्ति महीं नृपाः ॥ ६ ॥
देवासुरमनुष्याणां व्यवहारपरम्पराः ।
लोलाः प्रवृत्ता आकल्पमासमुद्रमिवापगाः ॥ ७ ॥
नक्षत्रादिरूपेण भान्ति । स्वस्वशरीराकारेण आभान्ति ॥ ६ ॥ ७ ॥
दिनपद्मानि भूलोकसरस्याकल्पमानभः ।
लोलाभ्रालीनि फुल्लानि मीलितोन्मीलितान्यलम् ॥ ८ ॥
आकल्पं कालतः । आनभो देशतः । अभिविधावाङौ । लोलान्यभ्राण्येवालयो भ्रमरा
येषु तथाविधानि दिनपद्मानि भूलोकसरसि फुल्लानि अलं मीलितान्युन्मीलितानीति
तदन्तःपातिपदार्थकेसराद्यभिप्रायम् ॥ ८ ॥
चन्द्रचर्चाश्चतुर्दिक्कं चन्दनेनात्मतेजसा ।
रचयन्रात्रिरोहिण्योस्तमो हन्त्यपि हृद्गतम् ॥ ९ ॥
चन्द्र आत्मतेजसा चन्द्रिकालक्षणेन चन्दनेन चतुर्दिक्कं चर्चाः लेपनानि रचयन्सन्
रात्रेः रोहिण्याश्च हृद्गतं बहिर्गतमपि तमः हन्ति ॥ ९ ॥
स्वदशास्वादनरता वातयन्त्रसुचारिता ।
रोदःसद्मनि सूर्याख्या दीप्यते दिवि दीपिका ॥ १० ॥
स्वीयदशदिग्लक्षणाया दशाया वर्तिकाया आस्वादने द्रवस्नेहोपभोगे रता
वातलक्षणेन यन्त्रेण सुचालिता परितो भ्रमिता रोदसी द्यावाभूमी तल्लक्षणे सद्मनि
गृहे ॥ १० ॥
ब्रह्मसङ्कल्पितो रुद्धो वातसञ्चारचारिभिः ।
खेऽनिशं चक्रमृक्षाणां गुणावर्तो विवर्तते ॥ ११ ॥
इदानीं रोदस्यौ भ्रमता ज्योतिश्चक्रेण घरट्टयन्त्रतया रूपयति - ब्रह्मेति
द्वाभ्याम् । खे ऋक्षाणां चक्रं ज्योतिश्चक्ररूपो गुणैरावर्तत इति गुणावर्तो
घरट्टो विवर्तते भ्रमति । स च
विवर्तमानश्चतुर्विधभूतलक्षणतण्डुलमासृष्टेः सृष्टिकालमारभ्य पिनष्टि ।
केनासौ शिल्पिना निर्मितस्तमाह - ब्रह्मसङ्कल्पित इति । कैरयं विष्टब्धस्तानाह ।
वातसञ्चारचारिभिर्वातरश्मिभिः रुद्धः अवष्टब्धः । कस्मिन्कीले रुद्धस्तमाह ##-
ध्वनन् ॥ ११ ॥
भूततण्डुलमासृष्टेः पिनष्टि ध्रुवकीलकः ।
नियत्याचलितो रोदःकपाटाम्भोदघर्घरः ॥ १२ ॥
द्वीपाब्धिशैलैर्भूपीठं विमाननगरैर्नभः ।
दैत्यदानवनागौघैः पूर्णं पातालमण्डलम् ॥ १३ ॥
तत्राप्यत्रेव भूरादिलोका यथोचितं द्वीपपर्वतादिभिः पूर्णाः सन्तीत्याह - द्वीपेति
। विमानसन्निवेशरचितैर्नगरैर्नभः पूर्णम् ॥ १३ ॥
कुण्डलं त्रिजगल्लक्ष्म्या नीलं भूतलमण्डलम् ।
स्थितं चञ्चलमाचारचञ्चलायाः स्फुरन्मणि ॥ १४ ॥
तत्रापि नीलं भूतलमण्डलमाचारचञ्चलायास्त्रिजगल्लक्ष्म्याः
स्फुरन्मणिचञ्चलं कुण्डलमिव स्थितम् ॥ १४ ॥
बुद्ध्यादिरहितां स्पन्दसंविदं वायवीमिव ।
स्थावरं जङ्गमं चैव सूक्ष्ममादाय जायते ॥ १५ ॥
तत्रापि स्थावरं जङ्गमं चैव प्राणिजातं बुद्ध्यादिरहितां बाह्यां वायवीं
क्रियामिव आन्तरीं सूक्ष्मां प्राणाख्यां स्पन्दसंविदमादाय जायते
जन्मादिविकाराṁल्लभते ॥ १५ ॥
मुनिर्मौनैर्धरा वार्भिर्मारुतैः कपिचापलम् ।
आकाशैरवकाशित्वं तेजोभिर्भासनं श्रितम् ॥ १६ ॥
तत्रापि मुनिर्मौनैर्मुनिकर्मभिः श्रितः । धरा समुद्रादिवार्भिः श्रिता । मारुतैः
कपिवच्चापलं श्रितम् । आकाशैस्तत्तदुपाधिभिन्नैरुपाध्यनुरूपमवकाशित्वं
श्रितम् । सर्ववस्तूनां स्वभावा नियतास्तुल्या इत्यर्थः ॥ १६ ॥
वृक्षोर्व्यब्ध्यद्रिखचराः प्राणिनोन्तः स्फुरन्त्यलम् ।
मृतिजन्मोन्मुखाः कीटसुरासुरजलौकसः ॥ १७ ॥
वृक्षचरा मर्कटादयः उर्वीचरा मनुष्यादयः अब्धिचरा मत्स्यादयः अद्रिचरा
मृगादयः खचराः पक्षिदेवादयस्तत्राप्यन्तरालं स्फुरन्ति ॥ १७ ॥
ससुरासुरगन्धर्वाः कालः कलयति प्रजाः ।
दोर्भिः कल्पयुगाब्दैश्च स्वपशूनिव पालकः ॥ १८ ॥
कालः सुरादिसहिताः प्रजाः पालकः पुरुषः स्वदोर्भिः स्वपशूनिव
कल्पयुगवर्षादिलक्षणैर्दोर्भिः कलयति पालनादिना उपभुङ्क्ते ॥ १८ ॥
अनन्तविपुलागाधगम्भीरे कालसागरे ।
उत्पत्त्योत्पत्त्य लीयन्ते ते त्वावर्तविवर्तया ॥ १९ ॥
ते सुरादयो यादोगणाः कालसागरे आवर्तविवर्तया कालगत्या उत्पत्त्योत्पत्त्य लीयन्ते ॥ १९ ॥
चतुर्दशविधा वातवेल्लिता भूतपांसवः ।
नाशाकाशे विलीयन्ते शरदम्भोदलीलया ॥ २० ॥
नश्यत्यस्मिन्निति नाशः तथाविधे अव्याकृताकाशे ॥ २० ॥
भुवनं बोधयन्ती द्यौश्चन्द्रार्ककरचामरैः ।
स्थिताकाशांशुकाकल्पतारकोत्करशेखरा ॥ २१ ॥
आकाश एवांशुकं वस्त्रं यस्याः । आकल्पभूतास्तारकोत्कराः शेखरे
यस्यास्तथाविधा द्यौश्चन्द्रार्ककरचामरैः संवीज्य सुप्तं भुवनं बोधयन्तीव
स्थिता ॥ २१ ॥
स्थिताः पवनभूकम्पमेघतापसहिष्णवः ।
स्वं प्रदेशमनुज्झन्त्यः ककुभः स्तम्भिता इव ॥ २२ ॥
तत्रापि ककुभो दिशः स्तम्भिताः स्थावरप्राणिन इव
पवनभूकम्पवृष्ट्यातपसहिष्णवो भूत्वा स्थिताः ॥ २२ ॥
उत्पातमेघनिर्ह्रादभूमिकम्पग्रहग्रहैः ।
अज्ञातैरपि विज्ञातैर्भूतानां जायते गतिः ॥ २३ ॥
ज्योतिःशास्त्रकुशलैर्विज्ञातैरन्यैरज्ञातैरपि
उत्पातादिनिमित्तैर्भूतानामिष्टानिष्टलक्षणा गतिस्तत्रापि जायते ॥ २३ ॥
सप्तानां जलमब्धीनामौर्वाग्निः पिबति ज्वलन् ।
लोकान्तराणामाकल्पं कालो भूतगणं यथा ॥ २४ ॥
लोकान्तराणां चतुर्दशभुवनभेदानां भूतगणं प्राणिनिकायं यथा कालः
पिबति तद्वत् ॥ २४ ॥
पातालमाविशति याति नभोबिलं च दिङ्मण्डलं भ्रमति भूतगणः समन्तात् ।
पर्येति पर्वतमहार्णवमण्डलनि द्वीपान्तराणि च मरुत्सरणक्रमेण ॥ २५ ॥
उक्तं सर्व सङ्क्षिप्योपसंहरति - पातालमिति । तत्रापि पातालयोग्यो भूतगणः
प्राणिनिकायः पातालमाविशति । नभोबिलवासयोग्यो नभिबिलं याति । इतरस्त्वन्तराले
दिङ्मण्डलं भ्रमति । मरुतो वायोः सरणक्रमेण
सञ्चरणवत्पर्वतमहार्णवमण्डलानि द्वीपान्तराणि च पर्येति । तथा च
सर्वोऽप्यत्रत्यव्यवहारस्तत्रापि वर्तत एवेति सम्भावयेत्यर्थः ॥ २५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे उत्तरार्धे
पाषाण० शिलान्तरवर्णनं नाम षट्षष्टितमः सर्गः ॥ ६६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
शिलान्तरवर्णनं नाम षट्षष्टितमः सर्गः ॥ ६६ ॥