०६५

पञ्चषष्टितमः सर्गः ६५

विद्याधर्युवाच ।

अथ कालेन महता सोऽनुरागो विरागताम् ।
प्रप्तो मम शरच्छान्तौ विरसः पल्लवो यथा ॥ १ ॥

इह कालेन सम्प्राप्ते स्वानुरागे विरागताम् ।
संसिद्धा धारणाभ्यासैर्जितासुः सा न्यवेदयत् ॥

शरच्छान्तौ हेमन्तारम्भे पल्लवो यथा विरसः सन् विरागतां प्राप्नोति तद्वत् ॥ १ ॥

वृद्ध एकान्तरसिको नीरसः स्नेहवर्जितः ।
भर्ताऽजिह्ममतिर्मौनी किं मन्ये जीवितेन मे ॥ २ ॥

कीदृशविचारक्रमेण विरागतां प्राप्तस्तमाह - वृद्ध इत्यादिना । अजिह्ममतिः
ऋजुचित्तः । किं फलमिति शेषः ॥ २ ॥

वरं वैधव्यमाबाल्याद्वरं मरणमेव च ।
वरं व्याधिरथापद्वा नाहृद्यप्रकृतिः पतिः ॥ ३ ॥

एतावज्जन्मसाफल्यं सौभाग्यमविखण्डितम् ।
रसिकः पेशलाचारो यन्नार्यास्तरुणः पतिः ॥ ४ ॥

हता नीरसनाथा स्त्री हताऽसंस्कारिणी च धीः ।
हता दुर्जनभुक्ता श्रीर्हता वेश्याहृता च ह्रीः ॥ ५ ॥

असंस्कारिणी शास्त्रीयसंस्कारहीना । तथा ह्रीः सत्कुलाचाराद्युचिता पुंसां लज्जा च
वेश्याभिः पुंश्चलीभिर्हृता चेत् हता ॥ ५ ॥

सा स्त्री यानुगता भर्त्रा सा श्रीर्यानुगता सता ।
सा धिर्या मधुरोदारा साधुता समदृष्टिता ॥ ६ ॥

शमदमादिसम्पत्त्या मधुरा या सैव धीः सा बुद्धिः । एवं सैव साधुता या
समदृष्टितेत्यनुषज्यते ॥ ६ ॥

नाधयो व्याधयो नैव नापदो न दुरीतयः ।
कुर्वन्ति मनसो बाधां दम्पत्योरनुरक्तयोः ॥ ७ ॥

दुष्टा ईतयः अतिवृष्टिरनावृष्टिः शलभा मूषकाः खगाः । अत्यासन्नाश्च
राजान। षडेता ईतयः स्मृताः ॥ ७ ॥

उत्फुल्लाः कुसुमस्थल्योनन्दनोद्यानभूमयः ।
धन्वायन्ते कुनाथानां विनाथानां च योषिताम् ॥ ८ ॥

धन्वायन्ते मरुभूमिवदाचरन्ति । सन्तापयन्तीति यावत् ॥ ८ ॥

सर्व एव जगद्भावा यथेच्छं गुणलेशतः ।
सन्त्यज्यन्ते प्रमादात्तु वर्जयित्वा पतिं स्त्रिया ॥ ९ ॥

अत एव सर्वं सुत्यजं पतिरेको दुस्त्यज इत्याह - सर्व एवेति । जगति प्रसिद्धा भावा
गृहक्षेत्रबन्धुधनादयः । गुणलेशतः गुणाल्पतावशात्
प्रमादादनवधानाद्वा । तुशब्दो भिन्नक्रमः । पतिमेकं तु वर्जयित्वेति ॥ ९ ॥

स्थिरयौवनया दुःखान्येतानि मुनिनायक ।
भुक्तानि वर्षवृन्दानि पश्य दौर्भाग्यजृम्भितम् ॥ १० ॥

भुक्तानि मयेति शेषः । वर्षवृन्दानीति कालाध्वनोरत्यन्तसंयोगे द्वितीया ।
दौर्भाग्यजृम्भितं ममेति शेषः ॥ १० ॥

अथ क्रमेण तेनैव सरागो मे विरागताम् ।
आययौ हिमदग्धाया नलिन्या इव नीरसः ॥ ११ ॥

अथवा ममायं भाग्योदय एवेत्याशयेनाह - अथेत्यादिना । क्रमेण नीरसः सन्
विरागतामाययौ ॥ ११ ॥

विरागवासनास्तेन सर्वभावानुरञ्जना ।
तवोपदेशेनेच्छामि मुने निर्वाणमात्मनः ॥ १२ ॥

तेनोक्तेन क्रमेण विरागवासनाः प्राप्य सर्वभावेषु तदनुरञ्जना यस्यास्तथाविधा
अहं सम्प्रति तवोपदेशेन आत्मनो निर्वाणमिच्छामि ॥ १२ ॥

अप्राप्ताभिमतार्थानामविश्रान्तधियां परे ।
मरणैरुह्यमानानां जीवितान्मरणं वरम् ॥ १३ ॥

ईदृशेऽपि समये त्वादृशोपदेष्ट्टलाभेऽपि विश्रान्तिमनिच्छन्त्या मम जीवनं
व्यर्थमपि तु मरणमेव वरमित्याशयेनाह - अप्राप्तेति ।
मरणैर्मरणतुल्यदुःखप्रवाहैरुह्यमानानाम् ॥ १३ ॥

स मद्भर्ताद्य निर्वाणमीहमानो दिवानिशम् ।
राजा राज्ञेव मनसा मनो जेतुन्न् प्रबुध्यते ॥ १४ ॥

सहधर्मचारिणीनां स्त्रीणां भर्तृसमानशीलौचित्याच्च भर्त्रा सह
त्वयाहमुपदेश्येत्याह - स इति द्वाभ्याम् । यथा राजा राज्ञैव सहायेन राजानं
जेतुं प्रबुध्यते नीतिशास्त्रोक्तोपायैर्जागरूको भवति तद्वत्स मम भर्तापि मनसैव
मनो जेतुं प्रबुध्यते । विवेकोपायजागरूको वर्तत इत्यर्थः ॥ १४ ॥

ब्रह्मंस्तस्य च मद्भर्तुर्मम चाज्ञानशान्तये ।
न्यायोपपन्नया वाचा कुरु स्मरणमात्मनः ॥ १५ ॥

आत्मनः स्मरणं विस्मृतकण्ठचामीकरवत्प्रबोधनम् ॥ १५ ॥

यदा मामनपेक्ष्यैव स मद्भर्तात्मनि स्थितः ।
तदा विरागो वैरस्यमनयन्मे जगत्स्थितिम् ॥ १६ ॥

मां अनपेक्ष्य मदपेक्षां विहायैवेत्यर्थः । विरागो जगत्स्थितिं वैरस्यं
नीरसतामनयत् । नयतेर्द्विकर्मता प्रसिद्धा ॥ १६ ॥

संसारवासनावेशवर्जितास्मि ततोऽवसम् ।
निबध्याभिमतां तीव्रां व्योमसञ्चारधारणाम् ॥ १७ ॥

इदानीं स्वस्याः
धारणाभ्यासस्थिरचित्तत्वेनाप्युपदेशाधिकारसम्पत्तिरस्तीत्याशयेनाह -
संसारेति । व्योमसञ्चारसिद्धिदां प्राग्वर्णितां खेचरीमुद्राख्यां धारणाम् ॥ १७ ॥

अर्जयित्वा तहा व्योम्नि गतिं धारणया मया ।
अभ्यस्ता धारणा भूयः सिद्धसङ्गफलप्रदा ॥ १८ ॥

सिद्धसङ्गः सिद्धैः सह संवादादिव्यवहारस्तत्फलप्रदा । अत
एवान्यैरगम्यमपीदं रहःस्थानमागत्य त्वया सह संवदामीति भावः ॥ १८ ॥

ततः स्वजगदाधारपूर्वापरनिरीक्षया ।
स्थिताहं धारणां बद्ध्वा सापि सिद्धिं समागता ॥ १९ ॥

स्वजगत्स्वावासब्रह्माण्डस्तदाकारस्य पूर्वापरभागघटिताकारस्य शास्त्रदृशा
योगदृशा च करतलामलकवन्निरीक्षया तदाकारां भावनां बद्ध्वा स्थिता ।
साधारणापि मे तदवयवसर्वभूतजयक्रमेण सिद्धिमागता ॥ १९ ॥

अथ स्वजगतो दृष्ट्वा हृदयं तस्य बाह्यगा ।
अहं दृष्टवती स्थूलां लोकालोकगिरेः शिलाम् ॥ २० ॥

हृदयमन्तर्गतसर्ववस्तु दृष्ट्वा तस्य बाह्ये निर्गता अहं प्राग्वर्णितां
स्वजगद्गर्भामेतद्ब्रह्माण्डस्थस्य लोकालोकगिरेः शिलां दृष्टवती ॥ २० ॥

एतावतापि कालेन दम्पत्योरावयोर्मुने ।
परं द्रष्टुमभूदिच्छा न काचन कदाचन ॥ २१ ॥

प्राक् तु कदाप्ययं ब्रह्माण्डो मया मत्पतिना वा न दृष्टस्तदिच्छाभावादित्याह

  • एतावतेति ॥ २१ ॥

मद्भर्ता केवलं शुद्धवेदार्थैकान्तचिन्तया ।
न च यातं न चायातं वेत्त्यहो विगतैषणः ॥ २२ ॥

शुद्धवेदार्थो धर्मः परमात्मा च तदेकान्तचिन्तया । यातं गतं कालं अयातं
वर्तमानभविष्यत्कालं तदन्तर्गतपदार्थान्ब्रह्मतत्त्वं च न वेत्ति ॥ २२ ॥

तेनासौ मत्पतिर्विद्वानपि न प्राप्तवान्पदम् ।
अद्य सोऽहं च वाञ्छावः प्रयत्नेन परं पदम् ॥ २३ ॥

तेन तत्त्वावेदनेन । अद्य त्वदुपदेशश्रवणमननादिप्रयत्नेन परं पदं
ज्ञातुमिति शेषः ॥ २३ ॥

तदेतामर्थितां ब्रह्मन्सफलां कर्तुमर्हसि ।
महतामर्थिनो व्यर्था न कदाचन केचन ॥ २४ ॥

महतां भवादृशानां सन्निधौ । अर्थिनः पुरुषार्थलिप्सवः । अप्यर्थे
चनशब्दौ ॥ २४ ॥

भ्रमन्ती सिद्धसेनासु सदा नभसि मानद ।
त्वदृते नेह पश्यामि घनाज्ञानदवानलम् ॥ २५ ॥

अन्य एव सिद्धा इममर्थं कुतो न प्रार्थितास्तत्राह - भ्रमन्ती इति ॥ २५ ॥

ब्रह्मन्विनैव करुणाकरकारणेन सन्तो यतोऽर्थिजनवाञ्छितपूरणानि ।
कुर्वन्ति तेन शरणागततामुपेतां मामर्हसीह न तिरस्करणेन योक्तुम् ॥ २६ ॥

इत्थं स्ववृत्तान्तमखिलं जिज्ञासितं च निवेद्य शरणं प्रतिपद्य स्वस्या
अनुपेक्षणीयतां प्रार्थयते - ब्रह्मन्निति । यतः कारणात्सन्तो विनैव कारणेन
अर्थिजनवाञ्छितपूरणानि कुर्वन्ति तेन कारणेन शरणागततामुपेतां मां
तिरस्करणेनोपेक्षणेन योक्तुं नार्हसि । अर्थिनामुपेक्षाया एव तिरस्कारत्वादिति भावः ॥
२६ ॥

इत्यार्षे श्रीवासिष्ठमहारा० वा० दे० मोक्षो० निर्वाण० उ० पाषाणो०
विद्याधरीजन्मव्यवहारवर्णनं नाम पञ्चषष्टितमः सर्गः ॥ ६५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विद्याधरीजन्मव्यवहारवर्णनं नाम पञ्चषष्टितमः सर्गः ॥ ६५ ॥