०६४

चतुःषष्टितमः सर्गः ६४

श्रीवसिष्ठ उवाच ।

ततस्तत्कुवलोल्लासिमालतीमाल्यलोचना [ततः कुवलयोल्लासि इति पाठः सुवचः
कुवलयपर्यायः कुवलशब्दोऽप्यस्तीति यथावस्थितोऽपि सङ्गच्छत एव ।] ।
ललना ललितालोक्य लीलयाऽऽलपिता मया ॥ १ ॥

पृष्टयेह वसिष्ठेन विद्याधर्या हि विस्तरात् ।
स्वगेहजन्मकर्माद्या निवेदान्ता निरूपिताः ॥

प्रासङ्गिकं प्रश्नं समाधाय श्रीवसिष्ठः प्रस्तुतकथाशेषमाह - तत
इत्यादिना । कुवलयान्युत्पलानीवोल्लासिनी कटाक्षमालाभिर्मालतीमाल्यानीव प्रसरती
लोचने यस्याः सा ललना मया आलोक्य लीलया कौतुकेन आलपिता सम्भाषिता । पृष्टेति
यावत् ॥ १ ॥

क त्वं कमलगर्भाभे किमर्थं मामुपागता ।
कस्यासि किं प्रार्थयसे क्व गतासि किमास्पदा ॥ २ ॥

कस्यासि दुहिता भार्या वेति शेषः । किमास्पदमावासस्थलं यस्याः ॥ २ ॥

विद्याधर्युवाच ।

मुने शृणु यथावत्त्वमात्मोदन्तं वदाम्यहम् ।
प्रष्टुमर्हसि विस्रब्धमार्तां करुणयार्थिनीम् ॥ ३ ॥

आत्मनः स्वस्या उदन्तं वृत्तान्तम् । एकान्ते विस्रब्धं
परदारसम्भाषणमयुक्तमिति शङ्कां वारयति - प्रष्टुमिति । आर्तां
आर्तिप्रशमनोपायार्थिनीं मां करुणया विस्रब्धं प्रष्टुमर्हसीत्यन्वयः । तथा च
सतामार्ताश्वासनमुचितमेवेति भावः ॥ ३ ॥

परमाकाशकोशस्य कस्मिंश्चित्कोणकोटरे ।
युष्माकं संस्थितं किञ्चिदिदं तावज्जगद्गृहम् ॥ ४ ॥

तत्र प्रथमं स्वास्पदं वक्तुमुपक्रमते - परमाकाशेत्यादिना । कस्मिंश्चिदिति
। पादोऽस्य सर्वा भूतानि इत्यादिश्रुतेरिति भावः ॥ ४ ॥

पातालभूतलस्वर्गा इहापवरकास्त्रयः ।
कल्पनैका कुमार्यत्र कृता धातृत्वमायया ॥ ५ ॥

इहास्मिन्युष्मज्जगद्गृहे अपवरका अन्तर्गृहप्रकोष्ठाः । अत्र एष्वपवरकेषु
धातृत्वं हिरण्यगर्भता तदाकारया मायया सर्गवैचित्र्यकल्पनाख्या एकैव
कुमारी गृहस्वामिनी क्रीडार्थ कृतेत्यर्थः ॥ ५ ॥

तत्र द्वीपैः समुद्रैश्च वलितं वलयैरिव ।
पाटलोत्थं जगल्लक्ष्म्याः प्रकोष्ठमिव भूतलम् ॥ ६ ॥

यतो द्वीपैः समुद्रैश्च वलयैरिव बलितमत एव तद्वर्णैः पाटलं सदुत्थमुन्नतं
जगल्लक्ष्म्याः प्रकोष्ठं करमूलमिव स्थितमित्यर्थः ॥ ६ ॥

अन्ते द्वीपसमुद्राणां सर्वदिक्कमवस्थिता ।
योजनानां सहस्राणि दश हेममयी मही ॥ ७ ॥

सप्तानां द्वीपानां समुद्राणां चान्ते सर्वदिक्कं परित इति यावत् । योजनानां दश
सहस्राणि परिणाहतो दैर्घ्येण ॥ ७ ॥

स्वयम्प्रकाशसङ्कल्पफलदाम्बरनिर्मला ।
चिन्तामणिमयी स्वच्छा स्वच्छायाजितविष्टपा ॥ ८ ॥

तां महीं वर्णयति - स्वयमित्यादिना । स्वयमेव रात्रावपि प्रकाशते इति
स्वयम्प्रकाशा । सङ्कल्पानां सर्वकामानां फलदा । अम्बरमिव निर्मला ।
चिन्तामणिप्रचुरा । स्वच्छा नीरजस्का । स्वकान्त्या जिता विष्टपाः स्वर्गादिलोका यया ॥ ८ ॥

साप्सरोमरसिद्धानां लीलाविहरणावनिः ।
सङ्कल्पमात्रसम्पन्नसर्वसम्भोगसुन्दरी ॥ ९ ॥

साप्सरसाममराणां सिद्धानां च लीलाविहरणोचिता अवनिः । सेति पृथक्पदं वा ॥ ९

अन्ते तस्या भुवः शैलो लोकालोकोऽस्ति विश्रुतः ।
भूपीठस्य प्रकोष्ठस्य वलयावलनां दधत् ॥ १० ॥

अन्ते बहिः प्रान्ते भूपीठलक्षणस्य जगल्लक्ष्मीप्रकोष्ठस्य वलयवदावलनां
परितः स्थितिम् ॥ १० ॥

क्वचिन्नित्यं तमोव्याप्तो मूढबुद्धेरिवाशयः ।
क्वचिन्नित्यं प्रकाशात्मा मनः सत्त्ववतामिव ॥ ११ ॥

तं शैलं वर्णयति - क्वचिदित्यादिना ॥ ११ ॥

क्वचिदाह्लादजनकः साधूनामिव सङ्गमः ।
क्वचिदुद्वेगजनको मूर्खैरिव समागमः ॥ १२ ॥

क्वचित्प्रकटसर्वार्थो मनो मतिमतामिव ।
क्वचिदत्यन्तगहनो मूर्खश्रोत्रियचित्तवत् ॥ १३ ॥

क्वचिदप्राप्तसोमांशुः क्वचिदप्राप्तसूर्यभाः ।
क्वचिल्लोकमयस्तेन क्वचिदाशून्यदिक्तटः ॥ १४ ॥

लोकमयो जनप्रचुरः । क्वचित्तु बहिर्भागे तेन लोकेनाशून्यानि दिक्तटानि यस्य ॥ १४ ॥

क्वचिद्देवपुरव्याप्तः क्वचिद्दैत्यपुरान्वितः ।
क्वचित्पातालगहनः क्वचिच्छृङ्गोर्ध्वकन्धरः ॥ १५ ॥

पातालमिव गहनो दुष्प्रवेशः ॥ १५ ॥

क्वचिच्छ्वभ्रभ्रमद्गृध्रः क्वचित्सानुमनोहरः ।
क्वचिच्छृङ्गशिखाक्रान्तवैरिञ्चनगरान्तरः ॥ १६ ॥

शृङ्गशिखाक्रान्तवैरिञ्चनगरान्तर इत्यौन्नत्यातिशयोक्तिः ॥ १६ ॥

क्वचिच्छून्यमहारण्यवहत्कल्पान्तमारुतः ।
क्वचित्पुष्पवनोद्यानगायद्विद्याधरीगणः ॥ १७ ॥

क्वचित्पातालगम्भीरगुहाकुम्भाण्डभीषणः ।
क्वचिन्नन्दनसोदर्यमुन्याश्रममनोरमः ॥ १८ ॥

पातालगम्भीरासु गुहासु कुम्भाण्डैः पिशाचभेदैर्भीषणः ॥ १८ ॥

क्वचिदक्षयमत्ताभ्रः क्वचिद्दुर्लभवारिदः ।
क्वचिद्गर्भगुहाश्वभ्रगहनोपान्तमण्डलः ॥ १९ ॥

अक्षयाणि सदा स्थितानि मत्तानीव गर्जनपराण्यभ्राणि यस्मिन् ॥ १९ ॥

क्वचित्क्षुब्धजनाक्षेपसमुत्सादितभूतभूः ।
क्वचिद्वास्तव्यजनतासौजन्यजितविष्टपः ॥ २० ॥

जनपदक्षोभेण क्षुब्धानां सञ्चलितानां जनानामाक्षेपैः
खड्गकुठारादिप्रहारैः समुत्सादिता भूतभुवो रक्षःपिशाचादिनिवासा यस्मिन् ।
वास्तव्यजनसमूहानां सौजन्येन जितत्रिविष्टपः ॥ २० ॥

क्वचिन्नित्यन्न् वहद्ग्राताजातस्थावरजङ्गमः ।
क्वचित्सर्वक्षयोन्मुक्तस्थिरस्थावरजङ्गमः ॥ २१ ॥

नित्यमभीक्ष्णं वहद्भिर्वातैरेव आजाता उद्भूता अजाता वा स्थावरजङ्गमा यत्र ।
विषशस्त्राग्निरोगादिनिमित्तभेदजैः सर्वैः क्षयैरुन्मुक्ता अत एव चिरं स्थिराः
स्थावरजङ्गमा यत्र ॥ २१ ॥

क्वचिन्महामरुमरुन्मुक्तभाङ्कारभीषणः ।
क्वचित्कणत्कमलिनीमत्तसारसभूषणः ॥ २२ ॥

क्वचित्सलिलकल्लोलजलदोल्लासघर्घरः ।
क्वचिन्मत्ताप्सरोदोलाविलासजनितस्मरः ॥ २३ ॥

क्वचित्पिशाचकुम्भाण्डवेष्टिताचेष्टदिक्तटः ।
क्वचिद्विद्याधरीसिद्धनृत्यगीतसरित्तटः ॥ २४ ॥

पिशाचैः कुम्भाण्डैश्च वेष्टितानि अत एव आचेष्टानीव दिक्तटानि यस्य ॥ २४ ॥

क्वचिदुद्वर्षदम्भोदसरिद्बाहुलुठत्तटः ।
क्वचित्सततगानीतनीतनानाभ्रसत्पटः ॥ २५ ॥

उद्वर्षतामम्भोदानां सरिल्लक्षणैर्बाहुभिर्लुठत्तटो विशीर्यमाणवप्रः ॥ २५ ॥

क्वचित्कमलिनीकोशवक्त्रस्थाध्यानमण्डलः ।
क्वचित्स्वर्गाङ्गनासिद्धसुन्दरीदन्तमण्डनः ॥ २६ ॥

कमलिन्याः कोशलक्षणवक्रस्थैर्भ्रमरनेत्रैरारब्धध्यानं
अर्थात्सरोजिनीमण्डलं यत्र । स्वर्गाङ्गनानामप्सरसां सिद्धसुन्दरीणां च
दन्तास्ताम्बूलैर्मण्डयतीति तथोक्तः । नागवल्लीवनभूषित इति यावत् ॥ २६ ॥

क्वचित्तपद्दिनकरजनताचारसुन्दरः ।
क्वचिन्नैशतमोगेहनृत्यन्मत्तनिशाचरः ॥ २७ ॥

क्वचिदुत्पतदुत्पाततय नश्यज्जनावनिः ।
क्वचित्सौराज्यसम्पत्त्या प्रोद्भवत्पुरमण्डलः ॥ २८ ॥

क्वचिदत्यन्तनिःशून्यः क्वचिज्जनपदावृतः ।
क्वचिच्छ्वभ्रान्तगम्भीरः क्वचित्पातालभीषणः ॥ २९ ॥

निःशून्यः शून्य एव । जलपूर्णैः श्वभ्रान्तैर्गम्भीरः शुष्कैस्तु पातालभीषणः
॥ २९ ॥

क्वचिद्बृहत्कल्पतरुः क्वचिन्निर्जलजङ्गमः ।
क्वचिन्महाकरिकुलः क्वचिन्मत्तहरिव्रजः ॥ ३० ॥

मत्ता हरिव्रजाः सिंहवानरादिसमूहा यस्मिन् ॥ ३० ॥

क्वचिन्निर्भूतमुद्यातः क्वचिदुन्मत्तराक्षसः ।
क्वचित्करञ्जगहनः क्वचित्तालमहावनः ॥ ३१ ॥

निर्भूतं प्राणिनिकायशून्यं यथा स्यात्तथा उद्यातः । वृथोन्नत इति यावत् ॥ ३१ ॥

क्वचिद्व्योमोपमसराः क्वचिद्दीर्घमरुस्थलः ।
क्वचिन्नित्यभ्रमत्पांशुः क्वचित्सर्वर्तुकाननः ॥ ३२ ॥

नैर्मल्यविस्तारादिभिर्व्योमोपमानि सरांसि यस्मिन् । सर्वे ऋतवो यत्र तथाविधानि
काननानि यस्मिन् ॥ ३२ ॥

शिखरेषु शिलास्तस्य सामान्याचलसन्निभाः ।
सन्ति सुस्थितकल्पाभ्रा रत्नमय्योऽम्बरामलाः ॥ ३३ ॥

तस्य वर्णितरूपस्य लोकालोकशैलस्य शिखरेषु सामान्याचलाः
सह्यमलयादयस्तत्सन्निभा रत्नमय्यः शिलाः सन्ति ॥ ३३ ॥

क्षीरोदकार्कगौरीणां वनस्कन्धौकसामिव ।
विश्राम्यन्त्यनिशं यासु हरयो हरियोनयः ॥ ३४ ॥

क्षीरमिवोदकमिवार्क इव च गौरीणामवदातानां यासां शिलानां पृष्ठेषु वने
स्कन्धौकसां महातरूणां स्कन्धेष्विव अन्येषां हरीणां योनयः कारणभूताः
सपुत्रपौत्रा इति यावत् । हरयः सिंहवानरादयो विश्राम्यन्ति ॥ ३४ ॥

तासामुत्तरदिग्भागे पूर्वशृङ्गशिलोदरे ।
निवसाम्यहमक्षीणवज्रसारसमत्वचि ॥ ३५ ॥

तासां शिलानां मध्ये तस्य गिरेरुत्तरदिग्भागे पूर्वदिक्स्थस्य शृङ्गस्य या शिला
तदुदरे अहं निवसामीति किमास्पदा इति प्रश्नस्योत्तरम् ॥ ३५ ॥

विधिना तत्र बद्धास्मि वसाम्युपलयन्त्रके ।
अत्रासङ्ख्या मुने याता मन्ये युगगणा मम ॥ ३६ ॥

न केवलमहं बद्धा यावद्भर्तापि तत्र मे ।
बद्धः सायन्तने पद्मकुड्मले षट्पदो यथा ॥ ३७ ॥

कस्यासीत्यादिप्रश्नानामुत्तरं वक्तुमारभते - न केवलमित्यादिना ॥ ३७ ॥

तेन सार्धं मया भर्त्रा शिलाकोटरसङ्कटे ।
अनुभूताश्चिरं कालमत्र वर्षगणा गताः ॥ ३८ ॥

अद्याप्यात्मैकदोषेण न हि मोक्षं लभावहे ।
चिरं तत्रैव तिष्ठावस्तथैवाबद्धभावनौ ॥ ३९ ॥

एको दोषः कामस्तेन । आबद्धा भावना ममता याभ्यां तौ ॥ ३९ ॥

पाषाणसङ्कटे तस्मिन्बद्धावावां न केवलम् ।
बद्धो यावदशेषेण परिवारोऽपि तत्र नौ ॥ ४० ॥

परिवारः पुत्रपौत्रभृत्यादिः परिजनः । नौ आवयोः ॥ ४० ॥

पुराणपुरुषो बद्धो द्विजस्तत्रास्ति मे पतिः ।
एकस्थानान्न चलति जीवन्युगशतान्यसौ ॥ ४१ ॥

असौ मे पतिर्युगशतानि जीवन्नपि एकस्थानात्स्वासनान्न चलति नोत्तिष्ठति ॥ ४१ ॥

आबाल्याद्ब्रह्मचारी च श्रोत्रियः पाठकोऽलसः ।
एकान्त एकए एवास्तेऽजिह्मवृत्तिरचापलः ॥ ४२ ॥

श्रित्रियः स्वाध्यायशीलः । अत एवान्येषां पाठकोऽपि । अजिह्मवृत्तिः ऋजुः । अचापलः
इन्द्रियचापलशून्यः ॥ ४२ ॥

अहं व्यसनिनी भार्या तस्य वेदविदां वर ।
न निमेषं समर्थास्मि तं विना देहधारणे ॥ ४३ ॥

स्वयं तु न तथेत्याह - अहमिति ॥ ४३ ॥

शृणु तेन कथं ब्रह्मन्भार्याहं समुपार्जिता ।
कथं वृद्धिमयं यातः स्नेहोऽस्माकमकृत्रिमः ॥ ४४ ॥

अस्माकं आवयोः । अस्मदो द्वयोश्च इति बहुवचनम् ॥ ४४ ॥

तेन जातेन मद्भर्त्रा बालेनैव सता पुरा ।
किञ्चिज्ज्ञेन सतैकेन तिष्ठतात्मालयेऽमले ॥ ४५ ॥

स्वजन्मप्रकारमाह - तेनेति ॥ ४५ ॥

श्रोत्रियत्वानुरूपेण जाया मे जन्मशालिनी ।
कुतः सम्भवतीत्येव निर्णीय चिरचिन्तया ॥ ४६ ॥

स्वयमेवानवद्याङ्गी तेन तामरसेक्षण ।
उत्पादितास्मि नाथेन ज्योत्स्नेव शशिनाऽमला ॥ ४७ ॥

मनसा मानसीभार्या मन्दरोत्तमसुन्दरी ।
ततो वृद्धिं प्रयातास्मि वसन्त इव मञ्जरी ॥ ४८ ॥

सहजाम्बरसञ्छन्ना भूतानां चित्तहारिणी ।
पूर्णेन्दुबिम्बवदना द्यौरिवामलतारका ॥ ४९ ॥

स्वां वर्णयति - सहजेत्यादिना ॥ ४९ ॥

कोरकोच्चस्तनभरा समग्ररसशालिनी ।
लतावरवनेनेव करपल्लवशालिनी ॥ ५० ॥

रस्यन्त इति रसा गुणास्तैः शालिनी ॥ ५० ॥

सर्वस्य जन्तुजातस्य नित्यं हृदयहारिणी ।
हरिणीतारनयना मदनोन्माददायिनी ॥ ५१ ॥

हरिण्या इव तारे दीर्घे नयने यस्याः ॥ ५१ ॥

लीलाविलासैकरता हेलावलितलोचना ।
गेयवाद्यप्रिया नित्यं न च तृप्तानुरागिणी ॥ ५२ ॥

व्यसनिनीति यदुक्तं तद्विवृणोति - लीलेत्यादिना । न च तृप्ता भोगेष्वित्यर्थः ॥ ५२ ॥

सौभाग्यभोगपरमा लक्ष्म्यलक्ष्म्योः प्रिया सखी ।
अनन्या मोहजालानामखिन्ना सम्पदापदोः ॥ ५३ ॥

समदर्शिभर्तृमनःकल्पनामयत्वाल्लक्ष्म्यलक्ष्म्योः प्रियासखीव समदर्शिनी ।
अत एव मोहजालानामभिन्नापि सम्पदापदोरखिन्ना ॥ ५३ ॥

न केवलमहं गेहं धारयामि द्विजन्मनः ।
यावत्त्रैलोक्यसदनमिदमङ्ग बिभर्म्यहम् ॥ ५४ ॥

भर्तृमनोमयत्वादेव तत्कल्पितत्रैलोक्यधारणमपि मदधीनमेवेत्याह - न
केवलमिति ॥ ५४ ॥

अहं कुलकरी भार्या कलत्रभरणक्षमा ।
त्रैलोक्यगृहसम्भारधारणैकभरोद्वहा ॥ ५५ ॥

कुलकरी पुत्रपौत्रपरम्पराप्रसवयोग्या । कलत्रं पोष्यवर्गस्तद्भरणक्षमा ॥ ५५ ॥

अथाहं तरुणी जाता समुद्भिन्नोन्नतस्तनी ।
लतोल्ललद्गुलुच्छेव विलासरसशालिनी ॥ ५६ ॥

उल्ललद्गुलुच्छा उल्लसत्फलपुष्पगुच्छा लतेव ॥ ५६ ॥

पतिर्मां दीर्घसूत्रत्वाच्छ्रोत्रियत्वात्तपोरतः ।
कयाप्यपेक्षयाद्यापि न विवाहितवानिमाम् ॥ ५७ ॥

इमामेवङ्गुणलक्षणामपि मां पतिः सः ब्राह्मणो
दीर्घसूत्रत्वादशीघ्रकारितास्वभावात् कयापि वक्ष्यमाणया मोक्षापेक्षया न
विवाहितवान् ॥ ५७ ॥

तेन यौवनसम्पन्नविलासरसशालिनी ।
तं विना व्यसनेनाहं दह्येऽग्नाविव पद्मिनी ॥ ५८ ॥

अविवाहे त्वं कथं तस्य भार्या तत्राह -म् तेनेति । तेन सह यौवनेन सम्पन्नो यो
भोगविलासविषयो रस इच्छा तच्छालिनी । अहं स्वमनोरथेनैव तं भर्तारं
वृतवतीत्यर्थः ॥ ५८ ॥

शीतानिलविलोलासु नलिनीषु निरन्तरम् ।
अङ्गदाहमवाप्नोति पूताङ्गारस्थलीष्विव ॥ ५९ ॥

पूतानां भस्ममार्जनेन सन्धुक्षितानामङ्गाराणां स्थलीष्विव ॥ ५९ ॥

उद्यानावनयः सर्वाः पूर्णाः कुसुमवर्षणैः ।
सम्पन्नास्तप्तसिकताः शून्या मे मरुभूमयः ॥ ६० ॥

तप्ताः सिकता यासु तथाविधा मरुभूमयः सम्पन्नाः ॥ ६० ॥

जलकल्लोलकह्लारकमलोत्करकोमलाः ।
सरस्यः सारसारावसरसा मम नीरसाः ॥ ६१ ॥

कह्लाराणां पद्मभेदानां कमलानां चोत्करैः कोमलाः सुखस्पर्शाः ॥ ६१ ॥

अहं पुष्करमन्दारकुमुदोत्करमालिता ।
भृशं दाहमवाप्नोमि कण्टकेष्विव दोलिता ॥ ६२ ॥

दाहशान्तये पुष्करादिकुसुमोत्करैः सखीभिर्दोलाशय्यादिरचनेन मालिता दोलिता
विलुठितेव ॥ ६२ ॥

कुमुदोत्पलकह्लारकदलीतल्पपालयः ।
मदङ्गसङ्गमाद्ग्रीष्ममर्मरा यान्ति भस्मताम् ॥ ६३ ॥

अङ्गसङ्गमान्निमित्ताद्ग्रीष्मेण तापोष्मणा शुष्काः प्रथमं मर्मरा भूत्वा
ततो भस्मतां यान्ति ॥ ६३ ॥

यत्कान्तमुचितं स्वादु विचित्रं चित्तहारि च ।
तदालोक्य भवाम्यन्तर्बाष्पपूर्णायतेक्षणा ॥ ६४ ॥

व्यसनानलसन्तप्ताः पतन्तो बाष्पबिन्दवः ।
छमच्छमिति मज्जन्ति कमलोत्पलपङ्क्तिषु ॥ ६५ ॥

छमच्छमीति प्रदीपनिपतत्सार्चिःस्नेहबिन्दुनिपातशब्दसादृश्यद्योतनार्थम##-
अव्यक्तानुकरणस्यात इतौ इति उत्तरदलाच्छब्दस्य पररूपम् । नाम्नेडितस्यान्त्यस्य तु
वा इति निषेधस्तु छान्दसत्वान्नेति बोध्यम् । मज्जन्ति अन्तःप्रविशन्ति स्वोष्मणा
कमलोत्पलानि झटिति शोषयन्तः स्वयमपि शुष्यन्तीति यावत् ॥ ६५ ॥

कदलीकन्दलीस्कन्धदोलान्दोलनलीलया ।
लालितोद्यानखण्डेषु मुखमाच्छाद्य रोदिमि ॥ ६६ ॥

उद्यानखण्डेषु सखीभिः कदलीकन्दलीस्कन्धकल्पितपल्लवदोलासु आन्दोलनलीलया लालिता
सती ताभ्यः स्वदुःखं वक्तुमशक्ता लज्जया मुखमाच्छाद्य रोदिमि ॥ ६६ ॥

तुषारनिकराकीर्णं कदलीदलमण्डपम् ।
पश्याम्यूष्माणमुज्झन्तं खदिराङ्गारभीषणम् ॥ ६७ ॥

नलिनीनालदोलासु सारसीं सारसाश्रिताम् ।
दीनानना विलोक्यान्तर्निन्दामि निजयौवनम् ॥ ६८ ॥

सारसेन भर्त्रा आश्रितां सङ्गताम् ॥ ६८ ॥

रम्ये रोदिमि मध्यस्थे पदार्थे यामि सौम्यताम् ।
हृष्याम्यशोभने दीना न जाने किमहं स्थिता ॥ ६९ ॥

अशोभने मूर्च्छाजडीभावादौ हृष्यामि यतस्तदानीमहं किं स्थितेति न जाने ।
तथा चाहन्ताविलये तद्गतदुःखस्याननुभवाद्विश्राम्यामीत्यर्थः ॥ ६९ ॥

दृष्टानि कुन्दमन्दारकुमुदानि हिमानि च ।
मया कामाग्निदग्धानां भस्मानीव दिशं प्रति ॥ ७० ॥

दिशं प्रति प्रतिदिशम् । असमासे अद्विर्वचनं छान्दसम् ॥ ७० ॥

आनीलपल्लवमृणाललतोत्पलानां कह्लारकुन्दकदलीदलमालतीनाम् ।
शय्या ममाङ्गचलनेन विशोषयन्त्या व्यर्थं गतानि नवयौवनवासराणि ॥ ७१

आनीलानां तमालादिपल्लवानां मृणाललतानां उत्पलानां च तथा कह्लारादीनां
च शय्याः अङ्गचलनेन देहसंयोगेन विशोषयन्त्या मम नवयौवनवासराणि
व्यर्थं गतानि ॥ ७१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे उ० पा०
विद्याधरीव्यसनवर्णनं नाम चतुःषष्टितमः सर्गः ॥ ६४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
विद्याधरीव्यसनवर्णनं नाम चतुःषष्टितमः सर्गः ॥ ६४ ॥