त्रिषष्टितमः सर्गः ६३
श्रीराम उवाच ।
तव स्त्रियाऽस्वरूपेण देहेनाभूत्तया कथम् ।
कथमुच्चारितास्तत्र वर्णाः कचटतादयः ॥ १ ॥
अज्ञपक्षेऽन्तरन्तः सन्त्यनन्ताः सर्गसम्पदः ।
ब्रह्मैव ब्रह्मवित्पक्षे चिदेकघनमीर्यते ॥
स्वप्नव्यवहारदृष्टान्तेन प्राक्समर्थितमप्यशरीरस्य संवादादिव्यवहारं
मन्दप्रज्ञानां स्फुटबोधाय पुना रामः पृच्छति - तवेति । हे मुने तव तया
पूर्वोक्तया स्त्रिया सह अस्वरूपेण मुखजिह्वाद्यवयवशून्येन वासनामात्रात्मना
देहेन कथं व्यवहारोऽभूत् । तत्र तस्यान्न् दशायां कचटतपादयो वर्णास्त्वया
विना जिह्वां कथमुच्चारिताः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
वर्णेषु स्वशरीराणां वर्णाः कचटतादयः ।
कदाचनापि नोद्यन्ति शवानामिव केन च ॥ २ ॥
वर्णोच्चारणादिव्यवहारे शरीरस्य न कारणता सत्यपि शवशरीरे तददर्शनाद्विनापि
शरीरं स्वप्ने तद्दर्शनादन्वयव्यतिरेकव्यभिचारात् सहेतुकत्वे व्यवहारस्य
सत्यतापत्तेश्च किन्तु कल्पनामात्रम् । तच्च तदापि सुलभमित्याशयेन वसिष्ठ
उत्तरमाह - वर्णेष्वित्यादिना । खमेव शरीरं येषां तत्त्वविदां तेषां मते
वर्णेषु मध्ये ये कचटतपादयस्ते कदाचनापि नोद्यन्ति ।
कल्पनामात्ररूपत्वादित्यर्थः ॥ २ ॥
वर्णोच्चारोऽभविष्यच्चेत्प्रकटार्थस्ततः क्वचित् ।
स्वप्नेष्वन्वभविष्यत्तं विनिद्रः पार्श्वगो जनः ॥ ३ ॥
उक्तेऽर्थेऽनुकूलं विपक्षे प्रतिकूलं च तर्कमाह - वर्णोच्चार इति ।
प्रकटश्चासावर्थश्च प्रकटार्थः परमार्थ इत्यर्थः । यदि स्वाप्नवर्णोच्चारः
परमार्थः स्यात्तदा पार्श्वस्थश्रवणानुभवगोचरः स्यादिति तर्कः ॥ ३ ॥
तस्मान्न किञ्चित्स्वप्नेषु तत्सत्यं भ्रान्तिरेव सा ।
चिन्मात्राकाशकचनं तत्तथा खे स्वभावजम् ॥ ४ ॥
स्वभावजन्न् निद्रास्वभावबलकल्पितम् ॥ ४ ॥
तदेन्दुकार्ष्ण्यखतनुशिलागेयादितां गताः ।
इवाभान्ति चिदाकाशास्तथा देहरवादयः ॥ ५ ॥
यदैवं तदा किं तत्राह - तदेति । तदा
तैमिरिकाध्यस्तमिन्दुकार्ष्ण्यमाकाशमूर्तताशिलाकर्तृकं
गीतमित्यादिप्रातिभासिकार्थतां गतास्तदवच्छिन्नचिदाकाशा इव
स्वाप्नदेहशब्दादयोऽपि तत्तद्बुद्धसंस्कारोपहितचिदाकाशा एव तथा भान्तीति
सिद्धमित्यर्थः ॥ ५ ॥
तच्चिदाकाशकचनं यन्नाम स्वप्नवेदने ।
आकाशमेव नभसः कचनं विद्धि नेतरत् ॥ ६ ॥
ते चिदाकाशा एव तथा भान्तु किं ततस्तत्राह - तदिति । यथा नभसो मूर्तात्मना
कचनं नभसो नेतरत् तथा तच्चिदाकाशकचनादि यत्स्वप्नवेदने जगदाकारं
प्रसिद्धं तच्चिदाकाशमेव विद्धि ॥ ६ ॥
यथा स्वप्नस्तथैवेदं जाग्रदग्रे व्यवस्थितम् ।
आकाशमप्यनाकाशं यथैवेदं तथैव तत् ॥ ७ ॥
एवं स्वप्नार्थानां चिदाकाशमात्रतां प्रसाध्य तत्साम्येनैव पुरः स्थितानां
समाधिदृष्टानान्न् चार्थानां चिदाकाशमात्रतेत्याह - यथेति । तत्
समाधिदृष्टम् ॥ ७ ॥
यथा कचति तच्चारु चेतनं चतुरं तथा ।
यथा स्थितं तदेवेदं सत्यं स्थिरमिव स्फुरत् ॥ ८ ॥
तथा चायं सर्वोऽपि चित एव कचनचमत्कारो नाणुमात्रमप्यचिद्रूपं किञ्चिदस्तीत्याह
- तथेति । इदं जगत्सत्यमिव स्थिरमिव च स्फुरद्भवति तथा चतुरं तच्चेतनं
ब्रह्म स्थितमित्यन्वयः ॥ ८ ॥
श्रीराम उवाच ।
भगवन्स्वप्न एवेदं कथं जाग्रदवस्थितम् ।
असत्यमेव सत्यत्वमिव यातं कथं भवेत् ॥ ९ ॥
प्रमाणगम्यस्य जाग्रत्प्रपञ्चस्य तदगम्यस्वप्नसाम्यमयुक्तमिति रामः
शङ्कते - भगवन्निति । असत्यमेव सत्यत्वं चक्षुरादिप्रमाणवेद्यतां कथं
यातं कथन्न् सम्भवेत् ॥ ९ ॥
श्रीवसिष्ठ उवाच ।
शृणु स्वप्नमयान्येव कथं सन्ति जगन्त्यलम् ।
नान्यानि न च सत्यानि न स्थिराणि स्थितानि च ॥ १० ॥
अस्त्वापाततश्चक्षुरादिमानगम्यता तथापि तत्त्वतो विमर्शासहत्वेनास्थिरत्वेन च
स्वप्नसाम्यमस्त्येवेत्याशयेनोत्तरमाह - शृण्वित्यादिना । स्वप्नवदेवात्मनो
नान्यानि नाप्यात्मवत्सत्यानि स्थिराणि चेत्यनिर्वचनीयान्येवेत्यात्मसत्तयैव स्थितानि
चेत्यर्थः ॥ १० ॥
अनुभूतानि बीजानि बीजराशाविवाम्बरे ।
अन्यान्यन्यानि तान्येव समानि न समानि च ॥ ११ ॥
एवं परस्परं बीजभावाद्विरुद्धभेदाभेदसमासमरूपत्वाच्च
स्वप्नसाम्यमित्याह - अनुभूतानीति ॥ ११ ॥
प्रत्येकमन्तरन्यानि तथैवाभ्युदितानि च ।
परस्परमदृष्टानि बहूनि विविधानि च ॥ १२ ॥
कदलीत्वक्सन्निवेशवत्परस्परमन्तरन्तरानन्त्येनावस्थानानुभवादपि
मिथ्यात्वात्स्वप्नसाम्यमेवेत्याह - प्रत्येकमिति ।
स्वप्नवत्परस्परमदृष्टत्वादपि तथेत्याह - परस्परमिति ॥ १२ ॥
अन्योन्यं तानि सर्वाणि न पश्यन्त्येव किञ्चन ।
जडानीवैकराशीनि बीजानीव गलन्त्यपि ॥ १३ ॥
तदेवोपपादयति - अन्योन्यमिति । कुसूलस्थबीजानीवान्तरेव गलन्त्यपि ॥ १३ ॥
व्योमात्मत्वान्न गगनं न विदन्ति परस्परम् ।
अपि चेतनरूपाणि सुप्तानीव निरन्तरम् ॥ १४ ॥
गलितान्यपि तानि चेतनरूपाण्येवेति न प्रतप्तखर्परनिपतितजलबिन्दुवद्व्योमात्मतां
प्राप्य शून्येव सम्पद्यन्ते नापि अस्मदादिवत्परस्परं विदन्ति पश्यन्ति किन्तु
अज्ञानावृतचेतनरूपत्वान्निरन्तरं सुप्तानीव स्वप्नमेवानुभवन्तीत्यर्थः ॥ १४ ॥
सुप्ताः स्वप्नजगज्जालमहनि व्यवहारिणः ।
असुरा निहता देवैस्ते स्वप्नजगति स्थिताः ॥ १५ ॥
तत्र सुप्ता जीवाः स्वप्नजगज्जालं प्राप्य तत्रैव कल्पिते अहनि सर्वव्यवहारिणो भवन्तीति
प्रतिजानीते - सुप्ता इति । प्रतिज्ञातमर्थमसुरमनुष्यराक्षसादीनां
स्वप्नहतानां गत्यन्तराभावात्परिशेषानुमानेन साधयिष्यन्प्रथममसुरेषु
दर्शयति - असुरा इति सार्धेन ॥ १५ ॥
अज्ञानान्न गता मुक्तिं न जाड्याज्जडतामिताः ।
न देहवन्तः किं सन्तु विना स्वप्नजगत्स्थितेः ॥ १६ ॥
असुरा दैत्याः सौप्तिकेन देवैर्निहताः सन्तः स्वस्वप्नजगत्येव स्थिताः । यतो
ज्ञानाभावान्मुक्तिं न गताः । नापि जडतां पाषाणादिभावमिताः । नापि देहवन्तः
सम्पन्नाः । ईदृशास्ते स्वप्नजगत्स्थितेर्विना किं सन्त्वित्यर्थः ॥ १६ ॥
सुप्ताः स्वप्नजगज्जाले स्वाचारव्यवहारिणः ।
पुरुषा निहताः पुम्भिस्ते तथैव व्यवस्थिताः ॥ १७ ॥
एवं पुरुषा मनुष्या अपि स्वस्वप्नरूपे जगज्जाले वासनाभिर्व्यवहारिणः । ते च
तत्रैवान्यैः पुम्भिर्निहताः सन्तस्तथैव प्रागुक्तासुरजीववत्स्वप्नपरम्परायामेव
व्यवस्थिताः ॥ १७ ॥
निर्मोक्षा निःशरीरास्ते चेतनावासनान्विताः ।
दृष्टं स्वप्नजगज्जालं विना च क्व वसन्तु ते ॥ १८ ॥
यतस्तेऽपि ज्ञानाभावान्निर्मोक्षा निःशरीराश्चेति न जागरक्षमा वासनाभिश्च
व्यवहरणशीलाः । ईदृशास्तु ते स्वप्नजगज्जालं विना क्व वसन्तु । तेषां विना नान्या
गतिरस्तीत्यर्थः ॥ १८ ॥
सुप्ताः स्वप्नजगज्जालव्यवस्थाचारचारिणः ।
ये हता राक्षसा देवैस्ते यथैव व्यवस्थिताः ॥ १९ ॥
अयमसुरेषु मनुष्येषु च दर्शितो न्यायो राक्षसादिष्वपि योज्य इत्याशयेनाह -
सुप्ता इति द्वाभ्याम् ॥ १९ ॥
एवं ये निहता राम किं ते कुर्वन्ति कथ्यताम् ।
अज्ञत्वान्न गता मुक्तिं चेतनान्न दृषत्स्थिताः ॥ २० ॥
साद्र्यब्ध्युर्वीजनं दृश्यमिदं सर्वं यथास्थितम् ।
चिरायानुभवन्त्येते यथेमे वयमादृताः ॥ २१ ॥
तेषां स्वस्वप्नश्चिरानुवृत्त्या अस्मदनुभवसाम्याज्जाग्रदवस्थैव भवतीत्याह ##-
तेषां कल्पजगत्संस्था यथास्माकं तथैव ताः ।
अस्माकं जगतीसंस्था यथा तेषां तथैव च ॥ २२ ॥
एतेषां स्वप्नपुरुषास्त एवेमे वयं स्थिताः ।
ये च ते नाम संसारास्तेभ्य एकमिमं विदुः ॥ २३ ॥
तथा चास्माभिरनुभूयमानं जगत्तदन्तर्गता वयं च यदि तैर्दृष्टास्तर्हि
अस्मज्जाग्रतेषां स्वप्नो वयं च तेषां स्वप्नपुरुषाः सम्पद्यामहे इत्याह -
एतेषामिति ॥ २३ ॥
ते स्वप्नपुरुषास्तेषां सत्या एवानुभूतितः ।
आत्मनोऽपि परस्यापि सर्वगत्वाच्चिदात्मनः ॥ २४ ॥
आत्मनोऽपि परस्य पुरुषान्तरस्याप्यनुभूतितः अनुभवाद्यतस्तुल्या अतः सत्या एव
तत्सत्तानिमित्तस्याधिष्ठानचिदात्मनः सर्वगतत्वेन तुल्यत्वादित्यर्थः ॥ २४ ॥
यथा ते स्वप्नपुरुषाः सत्यमात्मन्यथाऽपरे ।
तथापि स्वप्नपुरुषाः सत्यमेव तथैव ते ॥ २५ ॥
अपिशब्दो भिन्नक्रमः । यथा ते स्वप्नपुरुषाः सत्यास्तथा अपरेऽपि मया
प्रतिस्वप्नमनुभूयमानाः पुरुषाः सत्यमेव तथैव ते त्वयापि स्वप्नपुरुषा
बोध्याः ॥ २५ ॥
स्वस्वप्नपुरपौरा ये त्वया दृष्टास्तथैव ते ।
स्थितास्तत्र तहाद्यापि ब्रह्म सर्वात्मकं यतः ॥ २६ ॥
प्रबोधेऽपि हि भिद्यन्ते स्वप्नभावा यथा स्थिताः ।
तथा स्थित्यानुभूयन्ते परब्रह्मतयाथवा ॥ २७ ॥
यथा ते ते स्वप्नभावाः प्रबोधे जागरणे यथा भिद्यन्ते विशीर्यन्त इत्यनुभूयते
तथा स्वप्नकाले स्थित्या स्थिता इत्येवानुभूयन्ते । तथा च तद्बाध इव
तत्सत्ताप्यनुभवबलं लब्धा नापह्नोतुन्न् शक्येत्यर्थः । अथवा ब्रह्मसत्ताया एव
सर्वसत्तात्मकत्वात्कस्यापि सत्ता कदापि नापह्नोतुं शक्येत्याशयेनाह -
परब्रह्मतयेति ॥ २७ ॥
सर्वं सर्वात्म सर्वत्र सर्वदास्ति तथा परे ।
यथा न किञ्चिन्नाकाशं न क्वचिन्न च हन्यते ॥ २८ ॥
तथा च प्राक् प्रतिज्ञातं फलितमित्याह - सर्वमिति । यथा सर्वं
जगदाकाशकार्यत्वादाकाशमेवेति तद्रूपेण न क्वचित्किञ्चिदपि हन्यते तथा
प्रथमं विनोदये उत्पत्तिशून्ये मध्ये निरन्तरे अग्रे च निरन्ते परमाकाशे ब्रह्मणि
तत्र निरन्ते असङ्ख्ये चित्तसङ्घाते तेषु चासङ्ख्ये जगतां गणे तत्रापि प्रत्याकाशं
तत्रापि प्रतिसंसारमण्डलं तत्रापि प्रतिभूरादिलोकं तत्रापि प्रतिद्वीपं तत्रापि
प्रतिगिरि तत्रापि प्रतिमण्डलविस्तारं तत्रापि प्रतिग्रामं प्रतिपुरं तत्रापि प्रतिगृहं
तत्रापि प्रतिजन्तु प्रतियुगादिकालं च यावन्तो ये जीवा मृता मोक्षविवर्जिताः
स्थितास्तावन्तः संसाराः पृथक्पृथगक्षया एव स्थिता इति पञ्चानामेकान्वयः ॥
२८ ॥
निरन्तरे पराकाशे निरन्ते च विनोदये ।
निरन्ते चित्तसङ्घाते निरन्ते जगतां गणे ॥ २९ ॥
प्रत्याकाशकलाकोशं प्रतिसंसारमण्डलम् ।
प्रतिलोकान्तराकारं प्रतिद्वीपं गिरिं प्रति ॥ ३० ॥
प्रतिमण्डलविस्तारं प्रतिग्रामं पुरं प्रति ।
प्रतिजन्तु प्रतिगृहं प्रतिवर्षं युगं प्रति ॥ ३१ ॥
यावन्तो ये मृताः केचिज्जीवा मोक्षविवर्जिताः ।
स्थितास्ते तत्र तावन्तः संसाराः पृथगक्षयाः ॥ ३२ ॥
तेषामन्तर्जनाः सन्ति जनं प्रति पुनर्मनः ।
पुनर्मनः प्रति जगज्जगत्प्रति पुनर्जनः ॥ ३३ ॥
तावत्सङ्ख्ययापि जगत्सङ्ख्याया न विश्रान्तिरित्यनवस्थैव मायाया
भूषणमित्याशयेनाह - तेषामित्यादिना ॥ ३३ ॥
इत्थमाद्यन्तरहित एष दृश्यमयो भ्रमः ।
ब्रह्मैव ब्रह्मवित्पक्षे नात्रेयत्तास्ति काचन ॥ ३४ ॥
कुड्ये नभस्युपलके सलिले स्थलेऽन्तश्चिन्मात्रमस्ति हि यतस्तदशेषविश्वम् ।
तद्यत्र तत्र जगदस्ति कुतोऽत्र सङ्ख्या तज्ज्ञेषु तत्परमथाज्ञमनःसु
दृश्यम् ॥ ३५ ॥
हे राम कुड्ये नभसि उपले पाषाणे सलिले स्थले चान्तर्हि यतश्चिन्मात्रमस्ति
तदेवाशेषविश्वं न जगन्नाम वस्त्वन्तरम् । तत्तथा सति चितः सर्वगत्वाद्यत्र तत्र
सर्वत्र जगदस्त्येव । अत्र जगति सङ्ख्या कुतः । तच्च विश्वं तज्ज्ञेषु परं निर्विशेषं
निरतिशयानन्दैकरसं ब्रह्मैव । तु शब्दार्थेऽथशब्दः । अज्ञानां मनःसु तदेव
दृश्यप्रपञ्चमेवेत्यनर्थरूपमेवेत्यर्थः । तथा च श्रुतिः तत्त्वेव भयं
विदुषोऽमन्वानस्य इति ॥ ३५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उ० पा०
जगत्तत्त्वैक्यप्रतिपादनं नाम त्रिषष्टितमः सर्गः ॥ ६३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जगत्तत्त्वैक्यप्रतिपादनं नाम त्रिषष्टितमः सर्गः ॥ ६३ ॥