द्विषष्टितमः सर्गः ६२
श्रीराम उवाच ।
यदेतद्भवता दृष्टं चिद्व्योमवपुषा तदा ।
तदेकदेशसंस्थेन किमुत भ्रमताम्बरे ॥ १ ॥
देहवज्जगतां वीक्षा वर्ण्यतेऽत्र मुने स्त्रिया ।
सम्भाषाव्योमरूपस्य स्वप्नवद्व्योमरूपया ॥
त्वया तज्जगज्जालं किं परिच्छिन्नभावेन स्थित्वा पक्षिवदम्बरे भ्रमता
दृष्टमुतापरिच्छिन्नचिद्व्योमभावेनेति सन्दिहानो रामः पृच्छति - यदेतदिति
॥ १ ॥
श्रीवसिष्ठ उवाच ।
सम्पन्नोऽहमनन्तात्मा व्यापी व्योम तदा किल ।
स्यातां तस्यामवस्थायां कीदृशौ तौ गमागमौ ॥ २ ॥
तत्र द्वितीयकल्पमालम्ब्य वसिष्ठ उत्तरमाह - सम्पन्न इति ।
तस्यामानन्त्यावस्थायान्न् गमागमौ । क्रियामात्रोपलक्षणमेतत् ॥ २ ॥
नैकस्थानस्थितमयो नाहं गतिमयोऽभवम् ।
तदनेन स्व एवास्मिन्दृष्टमेतन्मयात्मनि ॥ ३ ॥
मयटौ प्राचुर्ये । तत्तस्माद्धेतोः स्वै एवास्मिन्नित्यापरोक्षे आत्मनि एतज्जगन्मया
दृष्टम् ॥ ३ ॥
यथाङ्गानि शरीरत्वे पश्याम्यापादमस्तकम् ।
चिन्नेत्रेणाप्यनेत्रेण तथैतद्वृष्टवानहम् ॥ ४ ॥
एकदेशस्थित्यादिकल्पनां विना स्वात्मतयानात्मदर्शनाप्रसिद्धिं
दृष्टान्तोपन्यासैर्निराचष्टे - यथेत्यादिना । शरीरत्वे देहात्मतादर्शने ।
अङ्गानि हस्तपादादीनि । यथा देहैकदेशस्थितिर्देहान्तरभ्रमणादिकल्पनां विनापि
अनेत्रेण अक्षिगोलकानपेक्षेणापि चिन्नेत्रेण यथा पश्यामि तद्वदित्यर्थः ॥ ४ ॥
अनाकृतेर्निरवयवस्थितेस्तदा तथाऽभवद्विमलचिदम्बरात्मनः ।
जगन्ति तान्यवयवजालकानि मे यथा स्वतो न विगलिता न वस्तुता ॥ ५ ॥
असङ्गोदासीननिरवयवब्रह्मभूतस्य तदा जगदवयवता कथमभूत्तत्राह -
अनाकृतेरिति । तदा तस्यां
समाध्यवस्थायामनाकृतेर्निरवयवस्थितेर्विमलचिदम्बरात्मनोऽपि मे तानि जगन्ति
तथा अवयवजालकान्यभवन् यथा स्वतो वस्तुता न विगलिता नापि वस्तुता अभवत्
मत्सत्तया सत्त्वाद्वस्तुता न विगलितेति मदवयवता स्वतः सत्ताशून्यत्वात्तु न वस्तुता
यथा च वास्तवी सावयवता नाभवदित्यदोष इति भावः ॥ ५ ॥
प्रमाणमत्र ते स्वप्नदृष्टोऽभुवनविभ्रमः ।
स्वप्नेऽनुभूयते दृश्यं न च किञ्चित्खमेव तत् ॥ ६ ॥
उक्तेऽर्थे स्वप्नजगतस्तथाविधतां प्रमाणयति - प्रमाणमिति ॥ ६ ॥
यथा पश्यति वृक्षः स्वं पत्रपुष्पफलादिकम् ।
स्वसंवेदननेत्रेण तथैतद्दृष्टवानहम् ॥ ७ ॥
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिश्रुतिस्तु
निर्विकल्पसमाध्यादावेव जगददर्शनमाह न सविकल्पसमाधावित्याशयेन
नेत्रादिकरणानि विनापि तद्दर्शने दृष्टान्तान्तरमाह - यथेति । वृक्षो
वृक्षदेहात्मभूतो जीवः ॥ ७ ॥
यथाम्बुधिरनन्तात्मा वेत्ति सर्वान् जलेचरान् ।
तरङ्गावर्तफेनांश्च तथैतद्बुद्धवानहम् ॥ ८ ॥
अम्बुधिः समुद्राभिमानी जीवः ॥ ८ ॥
अवयवान्स्वानवयवी यथा वेत्ति निजात्मनि ।
अनन्यानात्मनः सर्गांस्तथैतान्बुद्धवानहम् ॥ ९ ॥
किं बहुना सर्वप्राणिष्वपि स्वावयवानां तथा वेदनं प्रसिद्धमित्याशयेनाह ##-
अद्यापि तानहं देहे व्योम्नि शैले जले स्थले ।
तथैव सर्गान्पश्यामि राम बोधैकतां गतः ॥ १० ॥
तदैव मे स्वात्मनि जगद्धृदयतादर्शनमिति न किन्तु सदैव तत्प्रवणया दृष्ट्या
तद्द्रष्टुं शक्यमित्याह - अद्यापीति । अद्य अपिशब्दाच्छ्वोऽपि ॥ १० ॥
पुरोऽस्माकमिदं विश्वं गृहस्यान्तर्बहिस्तथा ।
पूर्णमेतज्जगद्वृन्दैर्वेद्मि बोधैकतां गतः ॥ ११ ॥
यथाम्भो रसतां वेत्ति शैत्यं वेत्ति यथा हिमम् ।
स्पन्दं वेत्ति यथा वायुस्तथैतद्वेत्ति शुद्धधीः ॥ १२ ॥
अम्भ-आदिपदानि तत्तद्देवतापराणि ॥ १२ ॥
यो यो नाम विवेकात्मा शुद्धबोधैकतां गतः ।
सम एष मयैकात्मा वेद्मि स्वात्मानमीदृशम् ॥ १३ ॥
किं त्वमेक एव वेत्सि नेत्याह - यो य इति । स सर्वोपि मया सह एकात्मा अहं च
स्वात्मानमीदृशं तदात्मभूतं वेद्मीति मत्प्रत्यया एव सर्वविदुषां प्रत्यया इति
न ते पृथगन्वेष्या इत्याशयः ॥ १३ ॥
अस्या दृष्टेः परिणतेर्वेत्तृवेदनवेद्यधीः ।
न काचिदस्त्यभ्युदिता विज्ञानात्मैकता यतः ॥ १४ ॥
परिणतेः परिपाकवशाद्वेदित्रादित्रिपुटीबुद्धिर्न काचित्स्वात्मातिरिक्तास्ति यतो
विज्ञानेनैकात्मतैव तेषामभ्युदितेत्यर्थः ॥ १४ ॥
दिव्या दृगद्रिसंस्थस्य तथा योजनकोटिगान् ।
भावान्वेत्ति बहिश्चान्तरेवं तद्बुद्धवानहम् ॥ १५ ॥
एकेन ज्ञानेन कथं व्यवहितविप्रकृष्टसर्वदर्शनमिति चेत्तद्दृष्टान्तेन
सम्भावयति - दिव्येति । अद्रिसंस्थस्य पर्वतारूढस्य
पुंसस्तिमिररोगाद्यप्रतिहतत्वादौषधादिपरिष्कृतत्वाद्वा
आजानसिद्धत्वाद्योगपरिष्कृतत्वाद्वा दिव्या बहिराधिभौतिकानन्तराध्यात्मिकांश्च
भावान् वेत्ति साक्षात्पश्यति । एवं तद्वदित्यर्थः ॥ १५ ॥
यथा भूमण्डलं भावान्निधिधातुरसादिकान् ।
वेत्त्येवं तन्मया बुद्धमनन्यद्दृश्यमात्मनः ॥ १६ ॥
भूमण्डलपदेन तदभिमानी जीवो गृह्यते ॥ १६ ॥
श्रीराम उवाच ।
ब्रह्मन्ननुभवत्येवं त्वयि तामरसेक्षण ।
सा किं कृतवती ब्रूहि कान्ताऽर्यापाठपाठिनी ॥ १७ ॥
वसिष्ठ उवाच ।
तामेवार्यां पठन्ती सा तथैवानुनयान्विता ।
मत्समीपे नभोदेहा व्योम्नि देवीव संस्थिता ॥ १८ ॥
अनुनयेन प्रशंसादिप्रीतिजनकव्यापारेणान्विता ॥ १८ ॥
यथाहमाकाशवपुस्तथैवासौ खरूपिणी ।
तेन दृष्टा न सा पूर्वं देहेन ललना मया ॥ १९ ॥
यदि समीपे संस्थिता तर्हि विनैव समाधिं प्रागेव त्वया कुतो न दृष्टा तत्राह -
यथेति ॥ १९ ॥
अहमाकाशमात्रात्मा सा खमात्रशरीरिणी ।
जगज्जालं खमात्रं तदिति तत्र तदा स्थितम् ॥ २० ॥
तत्र तस्मिंश्चिदाकाशे । तदा समाधिकाले ॥ २० ॥
श्रीराम उवाच ।
शरीरस्थानकरणप्रयत्नप्राणसम्भवैः ।
यदुदेति वचो वर्णैस्तत्कुतस्तादृशाकृतेः ॥ २१ ॥
यद्याकाशरूपैव सा तर्हि जिह्वाताल्वोष्ठप्राणवाय्वाद्यभावात्कथमार्यां
पठितवतीति रामः पृच्छति - शरीरेति । तादृशाकृतेराकाशशरीरायाः ॥ २१ ॥
रूपालोकमनस्कारः कुतो नामात्मनामिति ।
ब्रूहि मे भगवंस्तत्त्वं यथावृत्तश्च निश्चयम् ॥ २२ ॥
एवमाकाशमात्रस्य तव तद्रूपदर्शनपर्यालोचनाद्यपि दुर्लभमित्याशयेनाह ##-
स यथावृत्तोऽभूस्तन्निश्चयं च ब्रूहीत्यर्थः ॥ २२ ॥
श्रीवसिष्ठ उवाच ।
रूपालोकमनस्काराः शब्दपाठवचांसि च ।
यथा स्वप्ने नभस्येव सन्ति तत्र तथाम्बरे ॥ २३ ॥
तत्र स्वप्नदृष्टान्तेनैव कल्पनया सर्वमुपपन्नमित्युत्तरमाह - रूपेत्यादिना
॥ २३ ॥
रूपालोकमनस्कारैः स्वप्ने चिन्नभ एव ते ।
यथोदेति तथा तत्र तद्दृश्यन्न् खात्मकं स्थितम् ॥ २४ ॥
न केवलं तु तद्दृश्यं यावत्तु विषयं वयम् ।
जगच्चेदं खमेवाच्छं यथा तन्नस्तथाखिलम् ॥ २५ ॥
अत्यल्पमिदमुच्यते तदा तद्दृश्यं खात्मकमिति । तत्त्वतो विचारे इदानीमिदं जगदपि
खात्मकमेव । अत्रापि शरीरादिभ्रान्त्यैव व्यवहारभ्रमश्चेत्याह - न केवलमिति
। वयमस्माकं विषयं गोचरं च यावत् तत्सर्वं जगच्चेत्यन्वयः ॥ २५ ॥
परमार्थमहाधातुर्वेद्यनिर्मुक्तचिद्वपुः ।
एवं नाम स्वयं भाति स्वभावस्येव निश्चयः ॥ २६ ॥
नामेति श्रुतिविद्वदनुभवादिप्रसिद्धमिदमिति द्योतनाय । स्वभावस्य
जगद्वासनोपहितचित्स्वभावस्य ॥ २६ ॥
शरीरस्थानकरणसत्तायां का तव प्रमा ।
यथैव तेषां देहादि तथास्माकमिदं स्थितम् ॥ २७ ॥
का प्रमा तत्सत्ताबुद्धेः अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्
इत्यादिश्रुतिबाधितत्वादिति भावः ॥ २७ ॥
यथैव तत्तथैवेदं तथैवेदं यथैव तत् ।
असत्सत्तामिव गतं सच्चासदिव च स्थितम् ॥ २८ ॥
सत् निर्विशेषात्मतत्त्वं चावृतत्वादसदिवात्यन्ताप्रसिद्धमिव स्थितम् ।
चकारश्चिदानन्दस्वभावव्यत्यासोऽप्येवमित्यनुक्तसमुच्चयार्थः ॥ २८ ॥
यथा स्वप्ने धराध्वादिपृष्ठव्यवहृतिर्नभः ।
तदा ह्यहं च त्वं सा च तदिदं च तथा नभः ॥ २९ ॥
धरापृष्ठे कृष्यादिव्यवहृतिः अध्वपृष्ठे गमनादिव्यवहृतिः
सौधादिपृष्ठे शयनादिव्यवहृतिश्च नभश्चिदाकाश एव ॥ २९ ॥
यथा स्वप्ने नृभिर्युद्धकोलाहलगमागमाः ।
असन्तोऽप्यनुभूयन्ते संसारनिकरास्तथा ॥ ३० ॥
वक्षि चेत्स्वप्नदृश्यश्रीः कस्मात्तदसमञ्जसम् ।
अवाच्यमेतद्धेतुर्हि नान्योऽस्त्यनुभवस्थितेः ॥ ३१ ॥
स्वप्नवैचित्र्येऽपि हेत्वन्तरसम्भावनायास्तु नावकाशः । अनवस्थादिदोषभयेन तत्र
सर्ववादिनां मूकीभावादविद्योपहितचिदात्मन एव स्वभावोऽयमिति मत्पक्षस्यैव
परिशेषात्सिद्धेरित्याह - वक्षीति । तत्ते वचनमसमञ्जसम् ।
स्वाप्नानुभवस्थितेरन्यो हेतुर्हि यस्मान्नास्ति ॥ ३१ ॥
कथमालक्ष्यते स्वप्न इति प्रष्टुः प्रकथ्यते ।
यथैवं पश्यसीत्येव हेतुरत्रास्ति नेतरः ॥ ३२ ॥
प्रष्टुः सर्वैरेव यथैव पश्यसीति तदनुभव एवोत्तरं प्रकथ्यते नेतरोऽत्र
हेतुस्तत्साधकोऽस्तीत्यर्थः ॥ ३२ ॥
स्वप्नजन्तुरिव व्योम्नि भाति प्रथमसर्गतः ।
प्रभृत्येव विराडात्मा खे खमेव परस्परे ॥ ३३ ॥
तथाहि सुषुप्तिसदृशप्रलयानन्तरं प्रथमसर्गतः प्रभृत्येव स्वप्नजन्तुरिव
कल्पनात्मा विराडात्मा चिदाकाशे चिदाकाशमेव प्रथत इत्याह - स्वप्नेति ।
परस्परे विषयविषयितया अन्योन्यसापेक्षरूपे ॥ ३३ ॥
स्वप्नशब्देन बोधार्थं तव व्यवहराम्यहम् ।
दृश्यन्न् त्विदं न सन्नासन्न स्वप्नो ब्रह्म केवलम् ॥ ३४ ॥
तर्हि किं दृष्टान्तभूतस्वप्नस्वभावमेव जगत् नेत्याह - स्वप्नशब्देनेति ॥ ३४ ॥
अथ राघव सा कान्ता मया कान्तानुषङ्गिणी ।
संविदं तन्मयीं कृत्वा पृष्टेदं दृश्यरूपिणी ॥ ३५ ॥
एवमवान्तरप्रश्नं समाधाय पूर्वपृष्टकथाशेषमाह - अथेत्यादिना ।
कान्ते वक्ष्यमाणे अनुषङ्गिणी अनुरागवती । तन्मयीं तदभिप्रायजिज्ञासाप्रधानां
सङ्कल्पसंविदं कृत्वा ॥ ३५ ॥
व्यवहारो यथोदेति स्वप्ने स्वप्नजनैः सह ।
तथा तदा तया सार्धं व्यवहारो ममोदितः ॥ ३६ ॥
अशरीरस्य ते तया सह कथं प्रश्नादिव्यवहारोऽभूत्तत्राह - व्यवहार इति ॥ ३६ ॥
यथैव स्वप्नसङ्काशो व्यवहारः खमेव सः ।
तथैव त्वमिमं विद्धि मामात्मानं जगच्च खम् ॥ ३७ ॥
त्वया सहेदानीन्तनव्यवहारोऽपि मम तादृश एवेत्याह - यथैवेति ॥ ३७ ॥
यथा स्वप्नजगद्रूपं खमेवैवमिदं जगत् ।
जाग्रदादौ स हि स्वप्नः सर्गादौ जगदुद्भवः ॥ ३८ ॥
कथं तर्हि स्वप्न इति जगदिति च नामभेदस्तत्राह - जाग्रदादाविति ॥ ३८ ॥
स्वप्नोऽयं जगदाभोगो न किञ्चिद्वा खमेव च ।
निर्मलं ज्ञप्तितामात्रमित्थं सन्मात्रसंस्थितम् ॥ ३९ ॥
अयं जगद्वेष आत्मनः स्वप्न एव अथवा न किञ्चित् ॥ ३९ ॥
स्वप्नस्य विद्यते द्रष्टा साकारो युष्मदादिकः ।
द्रष्टा तु सर्गस्वप्नस्य चिद्व्योमैवामलं स्वतः ॥ ४० ॥
अथवा कश्चिद्विशेषोऽपि वक्तुं शक्य इत्याशयेनाह - स्वप्नस्येति ।
युष्मदादिवासनाकारेण साकारः ॥ ४० ॥
यथा द्रष्टामलं व्योम दृश्यं तद्वद्गतं तथा ।
स्वप्नरूपजगत्युच्चैर्जगत्त्वेनामलं नभः ॥ ४१ ॥
गतं द्रष्ट्टदृश्यान्तरालिकं दर्शनमपि तथा व्योमैव ॥ ४१ ॥
चिद्व्योम्नोऽनाकृतेः स्वप्नो हृदि स्फुरति यः स्वतः ।
सर्गस्तस्य कुतस्तेन साकृतित्वं कथं भवेत् ॥ ४२ ॥
यः स्वप्नः स्फुरति तस्य सर्गो जन्म कुतः । तेन च वन्ध्यापुत्रकल्पेन जगता
साकृतित्वं कथं भवेत् ॥ ४२ ॥
साकारस्यैव यत्स्वप्नजगत्तद्व्योम निर्मलम् ।
निराकारस्य चिद्व्योम्नः सर्गः स्वप्नः कथं न खम् ॥ ४३ ॥
यत्र साकारस्य युष्मदादेः प्रसिद्धं स्वप्नजगदसत् तत्र निराकारस्य ब्रह्मणः
स्वप्नभूतः सर्गस्तथेति किं वाच्यमित्यर्थः ॥ ४३ ॥
निरुपादानसम्भारमभित्तावेव चिन्नभः ।
पश्यत्यकृतमेवेमं जगत्स्वप्नं कृतं यथा ॥ ४४ ॥
मृद्व्या चिदाकाशमृदा ब्रह्मणा ब्राह्मणेन खे ।
कृतोऽपि न कृतः सर्गमण्डपोऽक्षगवाक्षकः ॥ ४५ ॥
ब्रह्मणा हिरण्यगर्भाख्येन ब्राह्मणेन अक्षा इन्द्रियच्छिद्राण्येव गवाक्षा
यस्मिंस्तथाविधो देहादिसर्गमण्डपः कृतोऽपि न कृत एव ॥ ४५ ॥
नो कर्तृता न च जगन्ति न भोक्तृतास्ति नास्तीति नास्ति न च किञ्चिदतो बुधः सन् ।
पाषाणमौनमवलम्ब्य यथाप्रवाहमाचारमाचर शरीरमिहास्तु मा वा ॥ ४६
॥
अतः सर्वदृश्यमार्जनात्परिशिष्टो बुधस्तत्साक्ष्येव सन् परमार्थः । अतो हे राम
त्वमन्तः पाषाणमौनमवलम्ब्य बहिर्यथाप्रवाहमाचारमाचर । तत्र ते शरीरं
यावत्प्रारब्धशेषमस्तु तदुत्तरं मास्तु वा न कश्चिद्विशेष इत्यर्थः ॥ ४६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्त०
पाषा० चिदैक्यं नाम द्विषष्टितमः सर्गः ॥ ६२ ॥
इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे चिदैक्यं
नाम द्विषष्टितमः सर्गः ॥ ६२ ॥