एकषष्टितमः सर्गः ६१
श्रीवसिष्ठ उवाच ।
चिदाकाशाच्चिदाकाशे पयसीव पयोरयाः ।
चित्त्वाज्जीवाः स्फुरन्त्येते एत [यत इति पाठः ।] एव मनांसि नः ॥ १ ॥
अज्ञातब्रह्महृदयं जगन्नाशेऽप्यनश्वरम् ।
ज्ञाते तु ब्रह्मणि जगन्नासीदस्ति भविष्यति ॥
अनाद्यज्ञातं ब्रह्मैव
स्वकूटस्थपूर्णानन्दचित्स्वभावविस्मरणाच्चलनपरिच्छेदादिस्वभावान्तरं
परिकल्प्य मनःप्राणादिक्रमेण भोक्ता जीवो भोग्यं जगच्च भुत्वा सर्वत्र सर्वदा
सर्वरूपेण संसरत्येवेत्यस्य यावदविद्यं संसारः शाश्वतस्वभावः । तदेव
शास्त्राचार्योपदेशाज्ज्ञातं चेत्सर्वदा सर्वतः सर्वात्मना च
पूर्णानन्दचिदेकरसमातं न कदापि क्वापि कश्चिदपि कस्यचिदपि संसारलेशः
सम्भावयितुं शक्य इति नित्यमुक्तस्वभावमेव तदिति व्युत्पादयितुं वसिष्ठो
भूमिकां रचयति - चिदाकाशादिति । चित्त्वादज्ञातचिदेकरसस्वभावात् । जीवाः
प्राणोपाधिपरिच्छिन्नाः स्फुरन्ति अनादितादृशवासनोद्भवाद्भासन्ते । त
एवोत्तरोत्तरं सङ्कल्पविकल्पसहस्रैः संसरणबीजत्वात्स्वात्मनि
करणभावमिवापद्यमानानि मनांसि इत्युच्यन्त इत्यर्थः ॥ १ ॥
विशदाकाशरूपाणि तान्येव च मनांसि नः ।
जगन्ति तान्यनन्तानि सम्पन्नान्यभितः स्वयम् ॥ २ ॥
तान्येव मनांसि स्वान्तर्गतभोग्यजगद्वासनानां जगदाकारेण विकासादनन्तानि
जगन्ति सम्पन्नानीत्याह - जगन्तीति ॥ २ ॥
श्रीराम उवाच ।
सर्वभूतगणे मोक्षं महाकल्पक्षये गते ।
पुनः कस्य कथं सर्गसंवित्तिरुपजायते ॥ ३ ॥
नन्वेवं सति ब्रह्मैव स्वाविद्यया नानाजीवभावैर्नानासंसारात्मना एकमेव
संसरति एकमेव स्वविद्यया सर्वजीवसंसारभावेभ्यो मुच्यत इत्युक्तं स्यात् तथा च
प्राक्तनप्राकृतप्रलयान्ते सर्वजीवसमष्ट्यात्मनो हिरण्यगर्भस्य
तत्त्वज्ञानेनाज्ञाननिवृत्तौ तन्मूलसर्वजीवजगद्भावानां
बाधावर्जनात्सर्वमुक्तिरवश्यवाच्येति मुक्तस्य ब्रह्मणः
पुनरेतज्जगज्जीवपरम्परया संसारो निर्बीजः कथं सम्पन्न इत्याशयेन रामः
शङ्कते - भूयश्चान्ते विश्वमायानिवृत्तिः इति श्रुतेः
सर्वमुक्तेरवश्यवाच्यत्वादिति भावः ॥ ३ ॥
श्रीवसिष्ठ उवाच ।
महाप्रलयपर्यन्ते क्षितिजलपवनहुताशाकाशाशेषविशेषविनाशे
आब्रह्मस्थावरान्तेषु मुक्तौ परिणतेषु भूयो यथेदन्न् जगदनुभूयते तथा
शृणु । अव्यपदेश्यन्न् यत्परमार्थघनन्न् ब्रह्म चिन्मात्रमित्याचक्षते
मुनयः तस्य हृदयमिदं जगत्तस्मादव्यतिरिक्तमेव स एव च
देवस्तदात्मीयं हृदयं स्वभावं जगदित्यवगच्छति च विनोदेनैव न तु
वास्तवेन रूपेण जगदिति किञ्चिदुपलभामहे विचारयन्तस्तस्मात्किमिव नश्यते
किमिव जायते यथा परमकारणमविनाशि तथा तद्धृदयमविनाश्यं च ।
महाकल्पादयश्च तदवयवा एव अपरिज्ञानमात्रमत्र केवलं भेदायैव
तदपि प्रेक्ष्यमाणं न लभ्यत एव ॥ ४ ॥
प्रश्नमनूद्य तदुत्तरं गद्यपद्यैर्वक्तुं वसिष्ठः प्रतिजानीते -
महाप्रलयेत्यादि - शृण्वित्यन्तेन । आकाशान्तानामशेषविशेषाणां विनाशे
सति ब्रह्मादिस्थावरान्तेषु जीवजगत्सु मुक्तौ परिणतेषु अव्यपदेश्यं ब्रह्म
चिन्मात्रमवशिष्यत इति यद्यप्याचक्षते तथापि तस्याविशिष्टस्य ब्रह्मचिन्मात्रस्य
हृदयमिदं जगत्तस्माद्ब्रह्मणोऽव्यतिरिक्तमेवेति पूरयित्वा व्याख्येयम् । अयं
भावः - यद्यपि मुक्तदृष्ट्या सर्वजीवन्मुक्तिरेव न कस्यचित्किञ्चित्परिशिष्यते
तथाप्यन्येषां प्रत्येकं तत्त्वज्ञानोदयाभावात्तद्दृशा स्वस्वाविद्या न नष्टैवेति
बन्धानुभव एव । यथा चन्द्रलोकस्थानां साम्प्रतं चन्द्रमण्डलं गतानां च
दृष्ट्या अत्यन्तासदपि चन्द्रप्रादेशिकत्वं भूमिष्ठानां दृशा तथैवास्ते
तद्वदिति । एतदेवाह - स एव देव इत्यादिना । अवगच्छति बद्धदृशा ।
चकारान्नावगच्छति च मुक्तदृशा । यूयं जीवन्मुक्तास्तर्हि कीदृशं
जगदुपलभध्वे तत्राह - विनोदेनैवेति । विनोदेन बाधितानुवृत्तिरूपकौतुकेनैव
दग्धपटवदित्यर्थः । तस्मादेवं दृष्टित्रयेऽप्यव्यतिरिक्तत्वाज्जगत्किमिव नश्यति
किमिव जायते । यद्यविनाश्येव तर्हि कथं महाकल्पावान्तरकल्पादयस्तत्राह -
महाकल्पादय इति । न हि शाश्वतस्य तस्यैकदेशा अशाश्वताः शक्या वक्तुम् । न वा
नष्टाः कल्पभेदाः पुनः पुनरागन्तुं शक्नुवन्ति । अतः सतामेव
कल्पसर्गभेदानां जपमालावयववत्परिवृत्तिरेव पुनः पुनः कालचक्रात्मनेति
भावः । कथं तर्ह्यतीतानागतकल्पादिषु भेदप्रत्ययस्तत्राह -
अपरिज्ञानमात्रमिति ॥ ४ ॥
तस्मान्न कस्यचित्किञ्चित्कदाचिन्नश्यति क्वचित् ।
न चैव जायते ब्रह्म शान्तं दृश्यमजं स्थितम् ॥ ५ ॥
गद्यप्रसाधितमर्थं पद्येनोपसंहरति - तस्मादिति ॥ ५ ॥
आकाशपरमाणुसहस्रांशमात्रेऽपि या शुद्धचिन्मात्रसत्ता विद्यते ॥ ६ ॥
वपुर्जगदिदं तस्या ननु नाम महाचितेः ।
कथं नश्यत्यनष्टायां तस्यां सा च न नश्यति ॥ ७ ॥
जगतोऽविनाशित्वे युक्त्यन्तरमाह - आकाशेति । महत्त्वोत्कर्षावधावाकाशे
अणुत्वोत्कर्षावधौ परमाणुसहस्रांशमात्रे च जगति ब्रह्मचित्सत्तयैव सत्तेति यदा
सिद्धान्तस्तदा तद्विनाभावे कथं विनाशोपपत्तिरिति समुदायार्थः । वपुरित्यादीनि
पद्यानि ॥ ६ ॥ ७ ॥
संविदो हृदयं स्वप्ने यथा भाति जगत्तया ।
व्योमात्मैव तथैवादिसर्गात्प्रभृति भासते ॥ ८ ॥
संविद्धृदयत्वं च संविन्मात्रसारे स्वप्नेऽपि प्रसिद्धमित्याह - संविद इति ॥ ८
॥
चिद्व्योमावयवः सर्गः सर्गस्यैतादृशाः क्षयाः ।
उदयाश्चेति खं सर्वं किं नाशि किमनाशि च ॥ ९ ॥
एषा हि परमार्थसंविदच्छेद्या अदाह्याऽक्लेद्याऽशोष्यता सा
ह्यतद्विदामदृश्या तस्या यद्धृदयं तत्तदेव भवति यथासौ न नश्यति
तदन्तर्वर्ती जगदाद्यनुभवो न जायते न नश्यत्येवेति केवलं
स्मरणविस्मरणवशेन स्वभावरूपेणानुभवाननुभवौ कल्पयतीव ॥ १० ॥
तर्ह्यस्तु संविदोऽपि नाशस्तत्र गद्येनोत्तरमाह - एषा हीति । यथा असौ संविन्न
नश्यति तथा तदन्तर्वर्ती तद्धृदयभूतो जगतस्तद्धेत्वज्ञानस्य चानुभवः
प्रतिभापि न जायते न नश्यति च । यदि न नश्यत्येव तर्हि कथं सुखदुःखादीनां
कादाचित्कत्वानुभवस्तत्राह - केवलमिति ॥ १० ॥
यद्यद्यदात्मकं तत्त्वं तद्विनाशं विनाऽक्षयि ।
तस्माद्ब्रह्मात्मकं दृश्यं विद्धि ब्रह्मवदक्षयम् ॥ ११ ॥
जगतः शाश्वतेनात्मना सात्मकत्वादपि न नश्वरतेति पद्येनाह - यद्यदिति ।
यद्यदिति दर्शनात्तत्तदित्यध्याहार्यम् । तत्तद्विनाशं विना अक्षयि अविनाशि ॥ ११ ॥
महाप्रलयादयस्तदवयवा एव ॥ १२ ॥
यदि ब्रह्मात्मकं विश्वं तर्हि तन्नानात्वाद्ब्रह्मनानात्वं किं न स्यात्तत्राह -
महाप्रलयादय इति । तस्य महाकालात्मनो ब्रह्मणः अवयवा एव ॥ १२ ॥
चिन्मात्रे परमे व्योम्नि कुत एव भवाभवौ ।
कुतो भावविकारादिः कथं व्योम्नि निराकृते ॥ १३ ॥
नन्वचेतनसर्गप्रलयाद्यनन्तावयवघटितं कथं चिदेकरसं स्यादिति
चेद्गिरिवृक्षनगराद्यनेकप्रतिबिम्बघटितस्फटिकशिलाया
स्वच्छशिलैकरसत्ववदित्याशयेन पद्मेनोत्तरमाह - चिन्मात्रे इत्यादिना ।
निराकृते निराकारे । भावे क्तः बहुव्रीहिः ॥ १३ ॥
महाकल्पादयो भावा नामैतानि जगन्ति च ।
ब्रह्मात्मकतयैवास्मिन्संविद्ब्रह्मणि संस्थितम् ॥ १४ ॥
यथा विचित्रप्रतिबिम्बभेदाः स्फटिकात्मनैव स्थितास्तद्वन्महाकल्पादयो
विचित्रभावाः संविदेकरसे ब्रह्मणि संस्थिता इत्यर्थः ॥ १४ ॥
निराकृत्यच्छचिन्मात्रं दृश्यं सङ्कल्प्य तद्वशम् ।
याति येनैव घटितो यक्षस्तद्धृदये किल ॥ १५ ॥
यथा मनःसङ्कल्पजानां यक्षनगरसेनादीनां मनोमात्रत्वं तथा
चित्सङ्कल्पजस्य जगतोऽपि चिन्मात्रत्वमित्याशयेनाह - निराकृतीति ॥ १५ ॥
यथावयविनो वृक्षस्य शाखाविटपफलपल्लवपुष्पादयोऽवयवास्तथा
परमार्थघनस्याकाशादप्यच्छरूपस्याव्यपदेश्यस्य
प्रलयमहाप्रलयनाशोद्भेदभावाभावसुखदुःखजननमरणसाकार##-
त इति ॥ १६ ॥
अस्त्वेवं तथापि कथं जगतामविनाशित्वमिति चेदविनाश्यवयवत्वादेवेत्याशयेन
वृक्षशाखासाम्येन गद्येन वर्णयति - यथेत्यादिना । असौ ब्रह्मरूपोऽवयवी
यथैवाविनाशः अव्यपदेश्यश्च तथैव ते अवयवाः सर्गप्रलयादय इति
एतस्मात्कारणादित्यर्थः ॥ १६ ॥
अवयवावयविनोर्दृश्ययोर्वाप्यदृश्ययोः ।
एकात्मनोरेव सदा भेदोऽस्ति न कदाचन ॥ १७ ॥
तत्कुतस्तत्र पद्येनाह - अवयवावयविनोरिति । ननु दृश्यादृश्ययोः
कथमभेदस्तत्राह - दृश्ययोर्वेति । अभेदेऽपि स एव स्थौल्ये दृश्यो भवति
सौक्ष्म्ये त्वदृश्य इति । न दृश्यत्वादृश्यत्वे भेदनियते इत्याशयः ॥ १७ ॥
यथा तरोः संविन्मूलं तथा परमार्थघनस्य क्वचित्किञ्चित्त्वं
क्वचित्सर्गस्तम्बः क्वचिल्लोकान्तरविटपाः क्वचिद्व्यवस्थाः शाखाः
क्वचित्पदार्थपल्लवाः क्वचित्प्रकाशकुसुमम् क्वचिदन्धकारकार्ष्ण्यं
क्वचिन्नभःकोटरं क्वचित्प्रलयगुल्माः क्वचिन्महाप्रलयगुल्माः
क्वचिद्धरिहरादिगुलुच्छकाः क्वचिज्जाड्यत्वक् एवमनाकारं व्योमरूपमेव
संविदात्मनि ब्रह्मणि ब्रह्मसदृशभावादव्यतिरिक्तमेवैतत्स्थितम् ॥ १८ ॥
तत्रावयवावयविनोरभेदं वृक्षतदवयवसाम्यनिरूपणेनोपपादयति -
यथेत्यादिना । यथा तरुसद्भावे तरुसंविदेव मूलं तथा परमार्थघनस्य
जगतोऽपि सद्भावे संविदेव मूलमिति साम्यं प्रसिद्धम् । एवं संविन्मूलतयैव
क्वचित्प्रदेशे किञ्चिद्वैचित्र्यं तरुवदेव दर्शयति - क्वचिदिति । सर्गलक्षणह् स्तम्बो
मध्यकाष्ठम् । तत्संलग्ना भूरादिलोकान्तरलक्षणा विटपाः स्कन्धाः । तत्रापि
जम्बूद्वीपादिव्यवस्थाः शाखाः । तेषु गिरिनदीजनपदादिपदार्थाः पल्लवाः । तेषु
चन्द्रादित्यादिप्रकाशः कुसुमम् । अन्धकारलक्षणं हरितच्छदकार्ष्ण्यम् ।
प्रलयलक्षणा गुल्मा ग्रन्थिभेदाः । हरिहरादिदेवोत्तमलक्षणा गुलुच्छका गुच्छाः
। सजलमेघजाड्यलक्षणा त्वक् । एवं वर्णितरीत्या अनाकारं
व्योमरूपमेवाकारभेदैः संविदात्मनि ब्रह्मणि
ब्रह्मसदृशस्वच्छभावादेवाव्यतिरिक्तं स्थितमित्यर्थः ॥ १८ ॥
इतो भाव्य इतो भाव इतः सर्ग इतः क्षयः ।
स्वभाव एवानुभव इति ब्रह्माचलं स्थितम् ॥ १९ ॥
उक्तमेवार्थं पद्यैराह - इतर इत्यादिना । भाव्यो भविष्यदर्थः । भवतीति भावो
वर्तमानपदार्थः । अतीतस्याप्युपलक्षणमेतत् । स च
सर्वोऽप्यनुभवाधीनसिद्धिकत्वादनुभव एव । स च स्वो भाव आत्मैवेति
ब्रह्मैवाचलमेकमेवं वैचित्र्यकल्पनया स्थितमित्यर्थः ॥ १९ ॥
एवम्मयेऽपि परमे ब्रह्माकाशे न रञ्जनाः ।
काश्चिदेवाङ्ग सन्तीन्दुबिम्बे विमलता यथा ॥ २० ॥
तर्हि ब्रह्मणि सर्गप्रलयादिरञ्जना किं सत्याः नेत्याह - एवमिति । काश्चिदपि न
सन्त्येवेत्यन्वयः । इन्दुबिम्बे विमलता निष्कलङ्कता यथा नास्तीति कथञ्चिदुपमा ।
तथा निर्मले इत्युत्तरान्वयो वा ॥ २० ॥
निर्मले परमाकाशे क्व भावाभावरञ्जनाः ।
क्वादिमध्यान्तकलनाः क्व लोकान्तरविभ्रमाः ॥ २१ ॥
अपरिज्ञानमेवैकं तत्र दोषवदुत्थितम् ।
केवलं तत्परावृत्य प्रेक्षणात्परिशाम्यति ॥ २२ ॥
तर्हि तथा विभ्रमे को हेतुः कुतो वा तच्छान्तिस्तत्राह - अपरिज्ञानमेवेति ।
परावृत्य पराग्दृष्टिमपहाय प्रत्यगात्मप्रवणया धिया प्रेक्षणात् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् इत्यादिश्रुतेरिति
भावः ॥ २२ ॥
अज्ञानं ज्ञप्तिबोधेन परामृष्टं प्रणश्यति ।
येनैवाभ्युदितस्तेन पवनेनेव दीपकः ॥ २३ ॥
अज्ञानसाधकस्यैव चरमसाक्षात्कारवृत्तीद्धस्य तद्बाधकत्वे युक्तिमाह -
अज्ञानमिति ॥ २३ ॥
अज्ञानं सम्परिज्ञातं नासीदेवेति बुध्यते ।
अबन्धमोक्षं ब्रह्मैव सर्वमित्यवगम्यते ॥ २४ ॥
ज्ञानस्याज्ञानतत्कार्यबाधकत्वं प्रसिद्धमेवेत्याह - अज्ञानमिति ।
बाधपरिशिष्टब्रह्मानुभवमभिलप्य दर्शयति - अबन्धमोक्षमिति ॥ २४ ॥
एवं बोधादयो राम मोक्ष उक्ताः स्वसंविदा ।
विचारयत्नो लभते नात्र कश्चन संशयः ॥ २५ ॥
हे राम मया मोक्षे एवं वर्णितरूपा बोधादय उपाया उक्ताः ।
एतांस्तूपायान्निरन्तरं विचारे यत्नो यस्य तथाविधोऽधिकारी लभते ॥ २५ ॥
इदं जगज्जालमनाद्यजातं ब्रह्मार्थमाभातमितीह दृष्ट्वा ।
विचारदृष्ट्याऽष्टगुणेश्वरत्वं पश्यंस्तृणं स्वात्मनि जीव आस्ते ॥ २६ ॥
अनादि इदं जगज्जालं कदाप्यजातं नोत्पन्नमेव किन्तु ब्रह्मैवार्थयते प्रार्थयते
भोगमोक्षावित्यर्थम् । अज्ञातस्वस्वरूपमिति यावत् । इति
वर्णितजगद्धृदयादिरूपेणाभातं वर्तते । जीवः अधिकारी इति विवेकदृष्ट्या इति
विचारदृष्ट्या अणिमाद्यष्टगुणसम्पन्नमीश्वरत्वमपि
मायामात्रत्वादसारमेवेति परवैराग्योत्कर्षेण तृणप्रायन्न् पश्यन्
निरतिशयानन्दं ब्रह्मैवाहमिति निश्चित्य स्वात्मन्येव पूर्णकाम आस्ते इत्यर्थः ॥ २६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० न्निर्वाणप्रकरणे उ० पाषाणो०
जगदाकाशैकबोधो नामैकषष्टितमः सर्गः ॥ ६१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जगदाकाशैकबोधो नामैकषष्टितमः सर्गः ॥ ६१ ॥