०६०

षष्टितमः सर्गः ६०

श्रीवसिष्ठ उवाच ।

ततोऽहमभितो भ्रान्तस्तादृशं प्रविचारयन् ।
बहुकालमसंरुद्धसंविदाकाशतां गतः ॥ १ ॥

समाधौ शब्दकारिण्याः स्त्रियो दर्शनमीर्यते ।
तामनादृत्य भूयोऽपि विचित्रजगदीक्षणम् ॥

तादृशं प्रागुक्तप्रकारं शब्दकारणं प्रविचारयन्नन्विष्यन् ।
असंरुद्धसंविदाकाशतामपरिच्छिन्नचिदाकाशताम् ॥ १ ॥

शब्दं पश्चात्तमश्रौषमहं वीणास्वनोपमम् ।
क्रमात्स्फुटपदं जातं तत आर्यात्वमागतम् ॥ २ ॥

आर्यात्वं आर्याख्यच्छन्दोलक्षणलक्षितत्वम् । यथाहुः यस्याः प्रथमे पादे
द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्या ॥ इति ॥ २

शब्ददेशपतद्दृष्टिर्दृष्टवान्वनितामहम् ।
पार्श्वे कनकनिष्पन्दप्रभया भासिताम्बराम् ॥ ३ ॥

शब्दस्य प्रभवप्रदेशे पतन्ती दृष्टिर्योगदृष्टिर्यस्य तथाविधः सन् वनितां
स्त्रियम् । पार्श्वे इति पूर्वोत्तरान्वयि ॥ ३ ॥

आलोलमाल्यवसनामलकाकुललोचनाम् ।
लोलद्धम्मिल्लवलनामन्यां श्रियमिवागताम् ॥ ४ ॥

तामेव वर्णयति - आलोलेत्यादिना । लोलत् चञ्चलं धम्मिल्लवलनं केशबन्धनं
यस्याः ॥ ४ ॥

कान्तकाञ्चनगौराङ्गीं मार्गस्थनवयौवनाम् ।
वनदेवीमिवामोदिसर्वावयवसुन्दरीम् ॥ ५ ॥

मर्गस्थमिव गच्छत् नवयौवनं यस्याः ॥ ५ ॥

सा पूर्णचन्द्रवदना पुष्पप्रकारहासिनी ।
यौवनोद्दामवदना पक्ष्मलक्षणशालिनी ॥ ६ ॥

आकाशकोशसदना शशाङ्ककरसुन्दरी ।
मुक्ताकलापरचना कानता मदनुसारिणी ॥ ७ ॥

आकाशकोशः प्राग्वर्णितभूताकाशः सदनं यस्याः । मामनुसरति तच्छीला ॥ ७ ॥

स्वरेण मधुरेणैवमार्यामार्यविलासिनी ।
पपाठाकठिनं वामा मत्पार्श्वे मृदुहासिनी ॥ ८ ॥

सा वामा मत्पार्श्वे अकठिनं मृदु यथा स्यात्तथा मधुरेण स्वरेण एवं
वक्ष्यमाणरूपामार्यां पपाठ ॥ ८ ॥

असदुचितरिक्तचेतनसंसृतिसरिति प्रमुह्यमानानाम् ।
अवलम्बनतटविटपिनमभिमौमि भवन्तमेव मुने ॥ ९ ॥

तामेवार्यामुदाहरति - असदिति । हे मुने अहं असतां खलानामुचितै
रागद्वेषकामलोभमोहादिदोषैः रिक्ता विरहिता चेतना चेतो यस्य तथाविधम् । तथा
संसृतिलक्षणायां सरिति प्रमुह्यमाणानामवलम्बनभूतं तटविटपिनं
तीरवृक्षभूतं भवन्तमेव अभितो नौमि प्रशंसामि नान्यमित्यर्थः ॥ ९ ॥

इत्याकर्ण्याहमालोक्य तां चारुवदनस्वनाम् ।
ललनेयन्न् किमनयेत्यनादृत्यैव तां गतः ॥ १० ॥

तच्छ्रुत्वा त्वं किमकार्षीस्तत्राह - इतीति ॥ १० ॥

ततो जगद्वृन्दमयीं मायां सम्प्रेक्ष्य विस्मितः ।
अनादृत्यैव तां व्योम्नि विहर्तुमहमुद्यतः ॥ ११ ॥

तदुत्तरार्धोक्तं स्फुटयति - तत इति ॥ ११ ॥

ततस्तां तत्कृतां चिन्तामलमुत्सृज्य खे स्थिताम् ।
जगन्मायान्न् कलयितुं व्योमात्माहं प्रवृत्तवान् ॥ १२ ॥

अनादृत्येति पदं विहर्तुमिति पदं च व्याचष्टे - तत । खे शून्यस्वभावे स्थिताम्
। व्योमात्मा चिदाकाशरूपः ॥ १२ ॥

यावत्तानि तथोग्राणि जगन्ति सकलानि खम् ।
शून्यमेव यथा स्वप्ने सङ्कल्पे कथने तथा ॥ १३ ॥

खे स्थितामित्येतदुपपादयति - यावदिति । यस्मादित्यर्थे यावच्छब्दः । सङ्कल्पे
मनोराज्ये । कथने कथार्थप्रकाशने । चार्थे तथाशब्दः ॥ १३ ॥

न पश्यन्ति न शृण्वन्ति कदाचित्कानिचित्क्वचित् ।
तानि कल्पमहाकल्पमहाजन्मैकतान्यथ ॥ १४ ॥

शून्यरूपत्वादेव तानि जगन्ति कानिचित् क्वचिदपि परमार्थतः किञ्चिदपि न पश्यन्ति न
शृण्वन्ति । अत एव कल्पेषु महाकल्पेषु महाजन्मसु सर्गेषु च समता ऐकरूप्यमेव
येषां तानि । बहुव्रीहौ गोस्त्रियोरुपसर्जनस्य इति टापो ह्रस्वे नपुंसकस्य झलचः इति
नुमि पुनर्दीर्घः । परस्परोत्पत्तिसमारम्भानिव परस्परप्रलयसमारम्भानपि तानि
न पश्यन्तीत्येतदपि प्रलयसंरम्भवर्णनपुरःसरं दर्शयितुमारभते -
अथेत्यादिना ॥ १४ ॥

प्रमत्तपुष्करावर्तानुन्मत्तोत्पातमारुतान् ।
स्फुटिताद्रीन्दृढाकारघटितब्रह्ममण्डपान् ॥ १५ ॥

सर्वेषां द्वितीयाबहुवचनान्तानां पञ्चमश्लोकस्थे [पञ्चमेति इतः पञ्चमो
विंशः श्लोको ज्ञेयः ।] कल्पान्तान्नविचेतन्तीत्यत्रान्वयः ॥ १५ ॥

ज्वलत्कल्पाग्निविस्फोटचटदैडविडास्पदान् ।
प्रतपद्द्वादशाकारकन्दुमार्तण्डमण्डलान् ॥ १६ ॥

कल्पाग्निविस्फोटैश्चटन्ति ध्वनन्ति ऐडबिडास्पदानि कुबेरभवनानि येषु । प्रतपन्ति
द्वादशाकारकन्दुकवद्दिवि भ्रमन्ति मार्तण्डमण्डलानि येषु ॥ १६ ॥

लुठत्सुरपुरव्रातवितताक्रन्दघर्घरान् ।
रणसर्वाद्रिकटकश्रेणीनिगिरणोद्भटान् ॥ १७ ॥

रणतां सर्वाद्रिनितम्बश्रेणीनां निगिरणे उद्भटान् ॥ १७ ॥

कल्पाग्निज्वलनोल्लासपठत्पटपटारवान् ।
आत्मभ्रंशबृहत्क्षोभक्षुब्धाम्बरमहार्णवान् ॥ १८ ॥

कल्पाग्नीनां यानि ज्वलनानि तेषां ये उल्लासास्तैस्तत्प्रयुक्तवंशादिग्रन्थिविस्फोटनैः
पठन्तो व्यक्तमुच्चरन्तः पटपटारवा येषु ।
आत्मस्वभावभ्रंशप्रयुक्तबृहत्क्षोभादिवदेव यादोगणक्षोभैः क्षुब्धाः
अम्बरमहार्णवा येषु ॥ १८ ॥

देवासुरनरागारघर्घराक्रन्दकर्कशान् ।
सप्तार्णवमहापूरपूरितार्केन्दुमण्डलान् ॥ १९ ॥

द्युलोकपर्यन्तं सप्तार्णवाभिवृद्ध्या सप्तार्णवमहापूरैः
पूरितान्यर्केन्दुमण्डलानि येषु ॥ १९ ॥

न विचेतन्ति कल्पान्तान्सर्वाण्येवं परस्परम् ।
एकमन्दिरसंसुप्ताः स्वप्ने रणरयानिव ॥ २० ॥

ईदृशानपि तत्तदन्तःप्रवृत्तान्कल्पान्तान् सर्वाण्येव जगन्ति परस्परं न विचेतन्ति ॥
२० ॥

तत्र रुद्रसहस्राणि ब्रह्मकोटिशतानि च ।
दृष्टानि विष्णुलक्षाणि कल्पवृन्दान्यलं मया ॥ २१ ॥

एवं जगतां प्रासङ्गिकीं परस्परं शून्यरूपतामुपपाद्य प्रस्तुतमेवाह -
तत्रेत्यादिना । तत्र तेषु जगत्सु मया दृष्टानि ॥ २१ ॥

तत्र क्वचिदनादित्ये निरहोरात्रभूतले ।
आकल्पयुगवर्षान्ते जगत्यूहैः क्षयोदयः ॥ २२ ॥

तत्र तस्मिन्वर्णितबहुप्रकारे जगति क्वचिच्चिद्वस्तुनि ऊहैर्वितर्कैरेव क्षय उदयश्च
दृष्ट इत्यनुषज्यते ॥ २२ ॥

चिति सर्वं चितः सर्वं चित्सर्वं सर्वतश्च चित् ।
चित्सत्सर्वात्मिकेत्येतद्दृष्टं तत्र मयाखिलम् ॥ २३ ॥

अस्तु ऊहैरेव क्षयोदयः किं ततस्तत्राह - चितीति । ततः प्रागुक्तं
पाषाणाख्यायिकाहृदयं चिति सर्वमित्यादिरूपं मया अन्वयव्यतिरेकाभ्यान्न्
परीक्ष्य दृष्टमित्यर्थः ॥ २३ ॥

त्वं किञ्चिदिति चेद्वक्षि तत्र किं चिदिवाङ्ग चित् ।
सा हि शून्यतमा व्योम्नो न च नाम न किञ्चन ॥ २४ ॥

कीदृशेन ऊहेन चिति कीदृश उदयः कीदृशो वा क्षयस्तानुदाहरति - त्वमिति । हे
राम त्वं घटः पटः कुड्यमिति वा यदेव किञ्चिदिति रूपं सङ्कल्प्य नाम्ना वक्षि
तत्र तस्यां दशायां चित् त्वद्विवक्षितं तत्तत्किञ्चित्तद्वत् तत्तन्नामरूपात्मनेव
भवति स उदयः । सैव व्योम्नोऽपि शून्यतमाविवक्षिता सती न किञ्चन नाम भवति न
किञ्चन रूपमिति स तत्क्षय इत्यर्थः ॥ २४ ॥

तदाकाशमिदं भाति जगदित्यभिशब्दितम् ।
तेनैव शब्दनभसा सर्वं हि परमं नभः ॥ २५ ॥

किं च जगदिति नामरूपकल्पनया तच्छून्यात्मकमाकाशमेव भाति । आकाशस्यैव
वाय्वादिक्रमेण जगदाकारपरिणामश्रुतेः । तच्चाकाशं
शब्दतन्मात्ररूपत्वात्सर्ववस्तुनो नामसामान्यमपि भवति । तेनैव तत्त्वमसि अहं
ब्रह्मास्मि नेह नानास्ति किञ्चन इत्यादिशब्दात्मना परिणतेन नभसा सर्वं
जगत्परमं चिन्नभ एव भवति । स एवास्यात्यन्तिकः क्षय इत्यर्थः ॥ २५ ॥

दृश्यदृष्टिरियं भ्रान्तिराकाशतरुमञ्जरी ।
चिद्व्योमाङ्ग कमेवेति तत्राहमनुभूतवान् ॥ २६ ॥

एवं विमर्शे स्वस्य यादृशोऽनुभवोऽभूत्तमाह - दृश्येति । हे अङ्ग
परिशिष्टं यच्चिद्व्योम तत् कं सुखमेव
निरतिशयानन्दैकरसमेवेत्यनुभूतवानित्यर्थः ॥ २६ ॥

बुद्ध्याकाशैकरूपेण व्यापिना बोधरूपिणा ।
तत्रानन्तेन [अत्र अनन्तेन नसङ्कल्पः इति पदविश्लेषष्टीकाकारैः कृतः
स च सुधीभिर्विमर्शनीयः ।] सङ्कल्पमनुभूतमिदं मया ॥ २७ ॥

बुद्धिश्चरमसाक्षात्कारवृत्तिस्तद्रूपो य आकाशस्तत्राविर्भावात्तदेकरूपेण
व्यापिना पूर्णेनाऽनन्तेन त्रिविधपरिच्छेदरहितेन मया तत्र तस्मिन्समाधौ
नसङ्कल्पं [अत्र अनन्तेन नसङ्कल्पः इति पदविश्लेषष्टीकाकारैः कृतः स च
सुधीभिर्विमर्शनीयः ।] निःसङ्कल्पमिदं वक्ष्यमाणमनुभूतम् ॥ २७ ॥

ब्रह्मव्योम जगज्जालं ब्रह्मव्योम दिशो दश ।
ब्रह्मव्योम कलाकालदेशद्रव्यक्रियादिकम् ॥ २८ ॥

जगज्जालं ब्रह्माण्डसमूहास्तदन्तर्गता दशदिशस्तदन्तर्गतं
कलाकालदेशादिकं च सर्वं ब्रह्मव्योमैव तथा स्थितं दृष्टमित्यर्थः ॥ २८ ॥

तत्राहमिव संसारशते भाते मुनीश्वराः ।
दृष्टा वसिष्ठनामानो ब्रह्मपुत्राः सदुत्तमाः ॥ २९ ॥

तत्र वक्ष्यमाणभेदोदयेन भाते संसारशते अहमिव मत्समानरूपा मुनीश्वराः
॥ २९ ॥

ब्रह्मन्द्वासप्ततिस्त्रेताः सर्वा एव सराघवाः ।
तत्र दृष्टं कृतशतं द्वापराणां शतं तथा ॥ ३० ॥

द्वासप्ततिसङ्ख्याकाः सराघवा रामावतारसहितास्त्रेतायुगभेदा दृष्टा
इत्यनुकृष्यते ॥ ३० ॥

भेदोदयेन वै दृष्टास्तास्ताः सर्गदशास्तथा ।
बोधेन चेत्तदत्यच्छमेकं ब्रह्म नभस्ततम् ॥ ३१ ॥

भेदोदयेन भेदवासनोद्बोधेन । बोधेन तत्त्वदृशा तु एतत्सर्वं ब्रह्म नभ एव
दृष्टमित्यर्थः ॥ ३१ ॥

नेदं ब्रह्मणि नामास्ति जगद्ब्रह्मण्यथ त्विदम् ।
ब्रह्मैवाजमनाद्यन्तं तत्सर्वं तत्पदादिकम् ॥ ३२ ॥

तथा च ब्रह्मणः सप्रपञ्चता निष्प्रपञ्चता च दृष्टिभेदेनाविरुद्धेत्याह -
नेदमिति । अथ त्विदमस्तीति शेषः । पद्यते ज्ञानेन प्राप्यत इति पदं तदात्मकम् ॥ ३२ ॥

पाषाणमौनप्रतिमं नकिञ्चिदभिशब्दितम् ।
यत्तत्किञ्चिदिति द्योतरूपं ब्रह्म जगत्स्मृतम् ॥ ३३ ॥

न किञ्चिदभिशब्दितं सर्वनामरूपशून्यम् । द्योतरूपं ज्योतीरूपम् । तदेव
जगद्वेषेण स्मृतमित्यर्थः ॥ ३३ ॥

विभात्यचेत्यन्न् चिद्व्योम्नि स्वसत्तैव जगत्तया ।
निराकारे निराकारा स्वप्नानुभवसन्निभा ॥ ३४ ॥

अचेत्यन्न् चेत्यन्न् विनापि चितः स्वसत्तैव चेत्यजगत्तया विभाति ॥ ३४ ॥

अनन्यमात्मनो ब्रह्म सर्वं भामात्ररूपकम् ।
प्रकाशनमिवालोकः करोति न करोति च ॥ ३५ ॥

विभातीत्येतत्प्रत्यगभेदप्रदर्शनेनोपपादयन्स्वयञ्ज्योतिष्ट्वं दर्शयति -
अनन्यमिति । अनन्यं अनन्यत् । अद्डादेशाकरणं छान्दसम् । भामात्ररूपकं ब्रह्म
सर्वं करोति न करोति च । यथा आलोकः प्रकाशनं करोति
स्वातिरिक्तप्रकाशनाप्रसिद्धेर्न करोति च तद्वत् ॥ ३५ ॥

तेषु नामानुभूयन्ते जगल्लक्षेषु तत्र वै ।
उष्णानि चन्द्रबिम्बानि सूर्याः शीतलमूर्तयः ॥ ३६ ॥

ननु यदि चिदेव जगत्तर्हि चन्द्रः शीत एव सूर्य उष्ण एवेति व्यवस्थिता
नियतिर्विपर्यस्येतेति चेदिष्टापत्तिः ब्रह्माण्डभेदे वैपरीत्यस्यापि दर्शनादित्याह -
तेष्वित्यादिना ॥ ३६ ॥

प्रजास्तमसि पश्यन्ति पश्यन्त्येव न तेजसि ।
उलूकस्य समाचारास्तस्यैव सदृशस्वराः ॥ ३७ ॥

उलूकस्य दिवान्धस्य । उलूकेन सम आचारो दर्शनादिव्यवहारो यासाम् ।
समशब्दार्थस्य नित्यं प्रतियोगिसापेक्षत्वेन सामर्थ्याविघातात्समासः । तस्यैव
तेनैव ॥ ३७ ॥

इतः शेभेन नश्यन्ति यान्ति पापैस्तथा दिवम् ।
विषाशनेन जीवन्ति म्रियन्तेऽमृतभोजनैः ॥ ३८ ॥

इत इति । मनःकल्पनाया निरङ्कुशत्वादियमुक्तिर्न तु वस्तुतः ।
वेदाप्रामाण्यापादकत्वादिति बोध्यम् ॥ ३८ ॥

यद्यथा बुध्यते बोधे यथोदेत्यथवा स्वतः ।
तथाशु स्फुटतामेति सद्वासद्वा तदेव तत् ॥ ३९ ॥

तत्कुतस्तत्राह - यदिति । चिराभ्यासदृढीकृते बोधे यद्वस्तु हिताहितसाधनत्वेन
यथा बुध्यते तथैव भोजकादृष्टवशादुदेति । यथोदेति तथैव भोगकालेऽपि
स्फुटतामेति । अन्यत्र सद्वा असद्वास्तु न विशेषः । यतस्तद्ब्रह्मैव
तद्वासनाकर्मानुसारेण विवर्तत इत्यर्थः ॥ ३९ ॥

विटपाकारमूलौघदर्शनाद्वज्रशोभिभिः ।
घूर्णते पत्रपुष्पाभैः पादपैर्व्योम्नि काननम् ॥ ४० ॥

एतद्ब्रह्माण्डप्रसिद्धकाननविपरीतपत्रपुष्पसंस्थानार्थक्रियासम्पन्नं
ब्रह्माण्डान्तरे प्रसिद्धमित्याह - विप्तपेति । विटपाः शाखास्तदाकाराणां
मूलौघानां दर्शनाद्वज्रमणिवद्दृढैः शोभावद्भिः पत्रपुष्पैराभान्तीति
पत्रपुष्पाभैः पादपैरुपलक्षितं घूर्णते इत्यर्थः ॥ ४० ॥

सिकताः पीडिताः सत्यः स्रवन्ति स्नेहजं रसम् ।
शिलाफलककेभ्यश्च जायन्ते कमलान्यलम् ॥ ४१ ॥

एवमसम्भावितसहस्रमप्यन्यत्र सम्भावनीय-मित्याह - सिकता इति ।
पीडितास्तिलयन्त्रनिष्पीडिताः । स्नेहजं रसं तैलं स्रवन्ति ॥ ४१ ॥

दारुण्यश्मनि भित्तौ च चञ्चलाः शालभञ्जिकाः ।
देवाङ्गनाभिः सहितं गायन्ति कथयन्ति च ॥ ४२ ॥

मेघान्परिदधत्युच्चैर्भूतान्युच्चैः पटानिव ।
प्रतिवर्षं विजातीयान्युत्पद्यन्ते फलान्यगे ॥ ४३ ॥

भूतानि प्राणिनः पटानिव मेघान्परिदधति परिधानं कुर्वन्ति । अगे वृक्षे ॥ ४३ ॥

सन्निवेशैर्न नियतैरङ्गानां विविधाङ्गकैः ।
शिरोभिः सर्वभूतानि परिक्रामन्ति भूमिगैः ॥ ४४ ॥

शास्त्रवेदविहीनानि निर्धर्माण्येव कानिचित् ।
यत्किञ्चनैककारीणि तिर्यग्वन्ति जगन्त्यधः ॥ ४५ ॥

तिर्यग्वन्तिपश्वादिमात्रपूर्णानि । अधः भूम्याद्यधोलोकेषु ॥ ४५ ॥

कामसंवित्तिहीनानि निःस्त्रीजातानि कानिचित् ।
भूतैः संशुष्कहृदयैर्व्याप्तान्यश्ममयैरिव ॥ ४६ ॥

यतः कामसंवित्त्या हीनान्यत एव निस्त्रीजातानि ॥ ४६ ॥

पवनाशनभूतानि समरत्नाश्मकानि च ।
अजातार्थान्यलुब्धानि निगर्वाणीव कानि च ॥ ४७ ॥

पवनाशनाः सर्वा एव भूतानि प्राणिनो यत्र । समानि रत्नान्यश्मकानि च यत्र ।
अजातार्थान्यसञ्जातधनानि । धनादिव्यवहारशून्यानीति यावत् । अत एवालुब्धानि ।
निगर्वाणि निरहङ्काराणीव । कानि च कानिचित् ॥ ४७ ॥

क्वचित्प्रत्येकमात्मानं पश्यत्याप्नोति नेतरत् ।
बहुभूतकमप्यस्ति जगदित्येकभूतकम् ॥ ४८ ॥

क्वचिद्व्यष्ट्यहम्भावभेदं विना विराडहम्भावेनैकात्म्येनैव
सर्वदेहभेदव्यवहारमाह - क्वचिदिति । इतरदात्मान्तरं नाप्नोति । तत्रापि
चतुर्विधभूतभेदैर्बहुभूतकं स्वेदजाद्येकैकभूतपूर्णं चास्तीत्यर्थः ॥ ४८ ॥

नखकेशादिके यद्वत्तद्वदन्यत्र संस्थितः ।
आत्मवत्सर्वभूतानामेकीभूतात्मभावना ॥ ४९ ॥

तत्र देहभेदेष्वेकीभूतात्मभावना कीदृशी तां दर्शयति - नखेति ।
यद्वन्नखकेशादिके छिद्यमाने जायमाने चात्मनः स्वच्छेदनजन्मादि
पश्यतीत्यन्यत्र संस्थित इव भवति । तत्सौन्दर्यादिसुखभोगे त्वेकीभूतात्मभावना
अस्य दृश्यते तद्वदित्यर्थः । अत एवाह श्रुतिः नह वै देवान्पापं गच्छति
पुण्यमेवानु गच्छति इति ॥ ४९ ॥

अनन्तापारपर्यन्तं शून्यमेव बहु क्वचित् ।
यत्नतः संविदाप्नोति तस्यान्ते न जगत्पुनः ॥ ५० ॥

क्वचित्तु सर्गभेदवासनानुद्भवादव्याकृताकाशमात्रतया विभाव्यत इत्याह -
अनन्तेति । तर्हि कथं सर्वत्र सर्वात्मकं तदित्युक्तं तत्राह - यत्नत इति ।
तिरोभावावस्थादृष्टिं तिरोभाव्यसंस्कारविषयाविर्भावनयत्नतस्तस्य
शून्यस्यान्तेन तिरस्करणेन पुनर्जगदाप्नोति पश्यति ॥ ५० ॥

अत्यन्ताबुद्धबुद्धानि मोक्षशब्दार्थदृष्टिषु ।
दारुयन्त्रमयाशेषभूतौघानीव कानिचित् ॥ ५१ ॥

मोक्षशब्दार्थो निर्विशेषब्रह्मभावस्तद्दृष्टिषु अत्यन्ताबुद्धान्यलीकानि
तद्वद्बुद्धानि । चित्पृथक्कारबुद्धौ तु दारुयन्त्रमयानि
हस्त्यश्वादिरूपाण्यशेषाणि भूतौघानीव चेतनतया दृष्टानि ॥ ५१ ॥

ऋक्षचक्रविहीनानि निष्कालकलनानि च ।
मूकसङ्केतसाराणि भूतजालानि कानिचित् ॥ ५२ ॥

ऋक्षचक्रैर्ज्योतिश्चक्रैर्विहीनान्यत एव निष्कालकलनानि कानिचित् ।
शब्दाभावाच्छ्रोत्राभावाद्वा मूकानां
हस्तपादाद्यभिनयसङ्केतसाध्यव्यवहारत्वात्तत्साराणि कानिचिदिति विभज्यान्वयः ।
एवमग्रेऽपि यथायोगं बोध्यम् ॥ ५२ ॥

कानिचिद्वर्जितान्येव नेत्रशब्दार्थसंविदा ।
व्यर्थदीप्तात्मतेजांसि भूतानीत्येकचिन्तया ॥ ५३ ॥

नेत्रशब्देन तदर्थेन नेत्रेण तज्जन्यसंविदा रूपादिदर्शनेन च वर्जितान्येव । अत एव
व्यर्थदीप्तात्मकानि सूर्यादितजांसि येषु । इति इयं जगत्स्थितिः एकचिन्तया
एकाग्रचित्तयोगिमनःकल्पनया मयोक्तेत्यर्थः ॥ ५३ ॥

प्राणसंविद्विहीनानि व्यर्थामोदानि कानिचित् ।
मूकानि शब्दवैयर्थ्याच्छ्रुतिहीनानि कानिचित् ॥ ५४ ॥

प्राणो घ्राणेन्द्रियं तज्जन्यगन्धं संविच्च ताभ्यां विहीनानीत्यादि पूर्ववत् ॥ ५४ ॥

वाक्यसंविद्विहीनत्वान्मूकान्यन्यानि कानिचित् ।
स्पर्शसंविद्विहीनत्वादश्माङ्गानीव कानिचित् ॥ ५५ ॥

अश्माङ्गानीव त्वगिन्द्रियरहितानि ॥ ५५ ॥

संविन्मात्रमयान्येव दृष्टान्यपि च कानिचित् ।
व्यवहारीण्यप्यग्राह्याण्येव नित्यं पिशाचवत् ॥ ५६ ॥

संविन्मात्रमयानि । मनोराज्यकल्पानीति यावत् । कानिचित्तु व्यवहारीण्यपि
पिशाचवदनुद्भूतगुणभूतारब्धत्वदिन्द्रियैरग्राह्याण्येव ।
साक्षिमात्रवेद्यानीत्यर्थः ॥ ५६ ॥

भूमयान्येकनिष्ठानि निष्पिण्डान्येन कानिचित् ।
कानिचिद्वारिपूर्णानि वह्निपूर्णानि कानिचित् ॥ ५७ ॥

निष्पिण्डानि घनीभावरहितानि ॥ ५७ ॥

कानिचिद्वातपूर्णानि सर्वाकाराणि कानिचित् ।
जगन्ति व्योमरूपाणि बत तत्र कचन्ति खे ॥ ५८ ॥

सर्वाकाराणि सर्वकार्यक्षमसर्ववस्तुकानि । प्राकम्यसिद्धिशालिमनः
कल्पनयेदमुक्तम् । तत्र खे चिदाकाशे । बतेत्याश्चर्ये ॥ ५८ ॥

धरापीठैकपूर्णेषु तिष्ठन्त्यन्येषु देहिनः ।
भेका इव शिलाकोशे कीटा इव धरोदरे ॥ ५९ ॥

भूमयान्येवेति [अत्र भूमयान्येकेति ५७ तमश्लोकमूलवदपेक्षितम् ।]
यदुक्तं तत्र भूतजीवनानुपपत्तिशङ्कां दृष्टान्तेन परिहरति - धरेति ॥ ५९ ॥

जलैकपरिपूर्णेषु तिष्ठन्त्युर्वीवनाद्रिषु ।
भ्रमन्त्यन्येषु भूतानि नित्यमेवोग्रमीनवत् ॥ ६० ॥

एवं वार्यादिपूर्णेष्वपि जीवनोत्पत्तिर्बोध्येत्याह - जलेति । उग्रमीनो ग्राहस्तद्वत् ॥ ६०

अन्येष्वग्न्येकपूर्णेषु जलादिरहितान्यपि ।
भूतान्यग्निमयान्येव स्फुरन्त्यलमलातवत् ॥ ६१ ॥

अलातवत् भ्रमदुल्मुकवत् स्फुरन्ति सञ्चलन्ति ॥ ६१ ॥

अन्येष्वनिलपूर्णेषु भूतान्यस्तेतराण्यपि ।
वातमात्रमयाङ्गानि स्फुरन्त्यर्जुनवातवत् ॥ ६२ ॥

अर्जुनवातो रोगविशेषः । तद्वन्तो हि जना आकाशे भ्रमन्तीति देशविशेषे प्रसिद्धम् ॥ ६२

अन्येषु व्योममात्रात्मदेहेषु व्योमरूपिणः ।
प्राणिनः सन्ति सर्गेषु दर्शनव्यवहारिणः ॥ ६३ ॥

पातालपातिषु तथाम्बरमुत्पतत्सु तिष्ठत्सु विभ्रमपदेष्वथ दिङ्मुखेषु ।
नानाजगत्सु किमिवास्ति मया न दृष्टं यन्नाम चिज्जलधिचञ्चलबुद्बुदेषु ॥ ६४

तत्र चिदाकाशे अध ऊर्ध्वं परितश्च कल्पिते दिग्विभागे प्लवमानानि सर्वाणि विचित्राणि
जगन्ति तदन्तर्गतवस्तूनि च मया दृष्टानीत्युपसंहरति - पातालेति ।
चिज्जलधेश्चञ्चलबुद्बुदप्रायेषु नानाजगत्सु मया यन्न दृष्टं नाम तत्किमिव ।
न किञ्चिदित्यर्थः । सर्वज्ञसाक्ष्यविषयस्याप्रसिद्धेरिति भावः ॥ ६४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे
पाषा० जगज्जालवर्णनं नाम षष्ठितमः सर्गः ॥ ६० ॥

इति श्रीवासिष्ठमहारामायणतात्प्रयप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जगज्जालवर्णनं नाम षष्टितमः सर्गः ॥ ६० ॥