०५९

एकोनषष्टितमः सर्गः ५९

श्रीराम उवाच ।

अनन्तरं नभःकोशकुटीकोटरतो मुने ।
तव ध्यानात्प्रबुद्धस्य वृत्तं वर्षशतेन किम् ॥ १ ॥

समाधिविरमे सूक्ष्मध्वनिश्रवणमीर्यते ।
तन्मूलान्वेषणध्यानेऽनन्तकोटिजगत्प्रथा ॥

एवं सर्गद्वयेन प्रासङ्गिके प्रश्नविषये उपवर्णिते पुनराख्यायिकाशेषं
श्रोतुकामो रामः पृच्छति - अनन्तरमिति । वर्षशतेन ध्यानात्प्रबुद्धस्य तव
प्राग्वर्णितेच्छाङ्गनासहिताहङ्कारपिशाचप्रसरानन्तरं किं वृत्तमिति प्रश्नः
॥ १ ॥

श्रीवसिष्ठ उवाच ।

ततो ध्यानात्प्रबुद्धोऽहं श्रुतवांस्तत्र निःस्वनम् ।
मृदु व्यक्तपदं हृद्यं न च वाच्यनुगो यतः ॥ २ ॥

निःस्वनं शब्दम् । मृदुव्यक्तानि नातिस्पष्टान्यक्षराणि पदानि च यत्र । तत् कुतः ।
यतोऽयं निःस्वनो वाच्यानुगः । पदार्थप्रतिपादनसमर्थो
वाक्यार्थबोधनसमर्थश्च न ॥ २ ॥

स्त्रीस्वभावादिव मृदु मधुरं वा निनादि वा ।
स्वल्पाङ्गत्वादनिर्ह्रादि मया तद्वाक्यमूहितम् ॥ ३ ॥

स्त्रीकण्ठप्रभवप्रयुक्तस्वभावविशेषादिव मृदु मधुरं निनादि
अनुरणनशीलं च । स्वल्पाङ्गत्वादतारत्वादनिर्ह्रादि । अदूरश्रवमिति यावत् ॥ ३ ॥

इन्दिन्दिररुताकारं तन्त्रीरणितरञ्जनम् ।
न रोदनं च पठनं विसकोशसमस्वनम् ॥ ४ ॥

इन्दिन्दिरो भ्रमरस्तदीयं रुतं ध्वनिस्तदाकारम् । तन्त्री वीणा तद्रणितस्य रञ्जनं
रक्तिप्रदम् । न बालरोदनप्रायं नापि प्रौढपठनप्रायम् । बिसकोशे
प्रसिद्धभ्रमरस्वनसमस्वनम् ॥ ४ ॥

तदाकर्ण्याशु तत्रेदमहं चिन्तितवानथ ।
शाब्दिकान्वीक्षणात्पश्यन्दिशो दश सविस्मयः ॥ ५ ॥

शाब्दिकस्य शब्दकर्तुरन्वीक्षणादन्वेषणाद्दश दिशः पश्यन् । शब्ददर्दुरं
करोति इति ठक् ॥ ५ ॥

व्योम्नोऽयं सिद्धसञ्चरमार्गशून्यान्यनन्तरम् ।
भागो योजनलक्षाणि समतिक्रम्य संस्थितः ॥ ६ ॥

कुतः सविस्मयः किं वा चिन्तितवानसि तदाह - व्योम्न इत्याइद्ना । सिद्धानामपि
सञ्चारयोग्यैर्मार्गैः शून्यानि यानि योजनलक्षाणि तानि समतिक्रम्यानन्तरं
तदूर्ध्वमयन्न् व्योम्नो भागः संस्थित इत्यन्वयः ॥ ६ ॥

तदिहेदृग्विधस्य स्यात्कुतः शब्दस्य सम्भवः ।
शाब्दिकं न च पश्यामि यत्नेनापि विलोकयन् ॥ ७ ॥

तत्तादृशे इह एकान्तस्थाने ईदृग्विधस्य स्त्रीवाक्यसदृशस्य । शाब्दिकं
शब्दकर्तारम् ॥ ७ ॥

अनन्तमिदमाशून्यं पुरो मे निर्मलं नभः ।
इह भूतं प्रयत्नेन प्रेक्ष्यमाणं न दृश्यते ॥ ८ ॥

भूतं प्राणिमात्रम् । प्रयत्नेनापि प्रेक्ष्यमाणमन्विष्यमाणम् ॥ ८ ॥

यदेति चिन्तयित्वाहं भूयोभूयो विलोकयन् ।
शब्देश्वरं न पश्यामि तदा चिन्तितवानिदम् ॥ ९ ॥

शब्देश्वरं शब्दोच्चारणसमर्थं यदा न पश्यामि तदा । इदं वक्ष्यमाणम् ॥ ९

आकाश एव भूत्वाहमाकाशेनैकतां गतः ।
आकाशगुणशब्दार्थान्करोम्याकाशकोशके ॥ १० ॥

अहं प्रथममुपाधित्यागेन चिदाकाश एव भूत्वा
तदध्यस्ताव्याकृताकाशेनैकतां गतः संस्तत्कार्यभूताकाशगुणन्न् शब्दं
तदर्थांश्च तस्मिन्नाकाशकोशके विद्यमानान्साक्षात्करोमि । अनुभविष्यामीति यावत् ॥
१० ॥

देहाकाशमिह स्थाप्य ध्यानेनेह यथास्थितम् ।
चिदाकाशवपुर्व्योम्ना याम्यैक्यं वारिवाम्बुना ॥ ११ ॥

तदेव सोपायमाह - देहाकाशमित्यादिना । व्योम्ना अव्याकृताकाशेन ।
वार्जलबिन्दुरम्बुना जलसामान्येनेव ॥ ११ ॥

चिन्तयित्वेत्यहं त्यक्तुं देहं पद्मासनस्थितः ।
आसं समाधिमाधातुं पुनरामीलितेक्षणः ॥ १२ ॥

त्यक्त्वा बाह्यार्थसंस्पर्शानैन्द्रियानान्तरानपि ।
चित्ताकाशोऽहमभवं संवित्स्पन्दमयात्मकः ॥ १३ ॥

ऐन्द्रियानिन्द्रियसम्बन्धिनो बाह्यार्थसंस्पर्शान्निरोधेन त्यक्त्वा ।
आन्तरानन्तःकरणचतुष्टयविषयान् मन्तव्यादीनपि मननादिनिरोधेन त्यक्त्वा ॥ १३ ॥

क्रमात्तदपि सन्त्यज्य बुद्धितत्त्वपदं गतः ।
सम्पन्नोऽहं चिदाकाशे जगज्जालैकदर्पणः ॥ १४ ॥

बुद्धितत्त्वपदं गतः संस्तदपि सन्त्यज्य चिदाकाशे वास्तवरूपे स्थितः सन्
स्वाध्यस्तजगज्जालप्रतिबिम्बानामेकदर्पणः सम्पन्नः ॥ १४ ॥

ततस्तेन स्वभावेन भूतव्योमैकतामहम् ।
सम्प्रयातोऽम्बुनैवाम्बु सौरभं सौरभेण वा ॥ १५ ॥

अम्बुना जलसामान्येन अम्बु समुद्रादिजलमिव ॥ १५ ॥

सम्पन्नोऽथ महाकाशं व्याप्यानन्तोऽथ सर्वगः ।
अनाकारोऽप्यनाधारः सर्वार्थाधारतां गतः ॥ १६ ॥

तस्मिन्भूताकाशे तत्कार्यसर्वजगदवलोकनाय चिदाकाशाभेदकल्पनमाह -
सम्पन्न इति । तथा चासङ्गाद्वयत्वादनाधारोऽप्यहं
सर्वाधारतायोग्यभूताकाशाभेदात्सर्वार्थाधारतां गतः ॥ १६ ॥

अहं त्रैलोक्यवृन्दानि संसाराणां शतानि च ।
तत्र ब्रह्माण्डलक्षाणि पश्याम्यगणितान्यपि ॥ १७ ॥

तत्र तदवस्थापन्ने चिदाकाशे ॥ १७ ॥

परस्परमदृष्टानि मिथः खान्यमलानि च ।
नानाचारविचाराणि शून्यान्येव परस्परम् ॥ १८ ॥

मिथः अन्योन्यदृष्ट्या खानि अव्याकृताकाशमात्ररूपाणि । अत एव
परस्परमदृष्टानि ॥ १८ ॥

स्वप्नरूपाणि सुप्तानां तुल्यकालं नृणामिव ।
महारम्भानुमृष्टानि शून्यानि च परस्परम् ॥ १९ ॥

तत्र दृष्टान्तमाह - स्वप्नेति । तुल्यकालं सुप्तानां जनानां स्वप्नरूपाणीव ।
एकदृशा महारम्भाण्यपरदृशा अनुमृष्टानि । अत एव शून्यान्यशून्यानि च ॥
१९ ॥

जायमानानि नश्यन्ति वर्धमानानि भूरिशः ।
वर्तमानान्यतीतानि भविष्यन्ति च सर्वशः ॥ २० ॥

अनेकचित्रजालानि महाभित्तीनि खानि च ।
मनसेवोग्रराज्यानि कृतानि विविधैर्जनैः ॥ २१ ॥

महाभित्तीन्यनेकचित्रजालानि खानि निर्भित्तीनि च ॥ २१ ॥

निरावरणरूपाणि तथैकावरणानि च ।
पञ्चावरणयुक्तानि षडेकावरणानि च ॥ २२ ॥

तत्र स्वप्नवद्दृष्टसृष्टिषु ब्रह्माण्डावरणतत्सङ्ख्यादिनियमोऽपि नास्ति । यस्य
यावद्विषये वासनाविर्भूता तं प्रति तावत्सर्गस्यैव कल्पनादित्याशयेनाह -
निरावरणेत्यादिना । पञ्चीकृतानां पञ्च अपञ्चीकृतानां पञ्चेति
दशावरणचित्राणि । तैः सह [तैः सहेत्याद्यंशो विचारणीयः ।]
तन्मात्राण्यहङ्कारो महत्तत्त्वं प्रकृतिश्चेति साङ्ख्यकल्पनया षोडशावरणानि ।
तेषामेव तत्त्वगणनया चतुर्विंशत्यावृतीनि । शैवकल्पनया
षट्त्रिंशत्तत्त्वलक्षणैः खैराकाशकल्पैरावरणैरावृतानि च ॥ २२ ॥

दशावरणचित्राणि षोडशावरणानि च ।
चतुर्विंशत्यावृतीनि षट्त्रिंशत्खावृतानि च ॥ २३ ॥

शून्यानि भूतपूर्णानि पञ्चभूतमयान्यपि ।
एकपृथ्व्यादिभूतानि चतुःपृथ्व्यादिकानि च ॥ २४ ॥

एकैकानि पृथ्व्यादीन्येव भूतानि येषु ॥ २४ ॥

त्रिःपृथ्व्यादीनि चान्यानि द्विःपृथ्व्यादीन्यथापि च ।
तथा सप्तमहाभूतान्येकजातिमयानि च ॥ २५ ॥

एवं पृथिव्यादिद्वित्रिचतुर्भूतयुक्तानि च । कालदिशोः सावयवत्वेन भूतत्त्वकल्पने
सप्त महाभूतानि ॥ २५ ॥

त्वादृशानुभवाभोगविरुद्धातिदशानि तु ।
तथा नित्यान्धकाराणि सूर्यादिरहितानि च ॥ २६ ॥

सिद्धविद्याधरगन्धर्वयक्षराक्षसादिकल्पनावैचित्र्याणि मनुष्यबुद्ध्या
सम्भावयितुमप्यशक्यानीत्याशयेनाह - त्वादृशेति ।
त्वादृशानामनुभवाभोगे विरुद्धा अत्यन्तमसम्भाव्याः अतिशयितदशा अतिदशा
भूतानां सौक्ष्म्यवैचित्र्यपरिणतिभेदा यासु तानि ॥ २६ ॥

तथा मीलितसर्गाणि एकनाथावृतानि च ।
विलक्षणप्रजेशांशविचित्रारवन्ति च ॥ २७ ॥

मीलितसर्गाणि प्रलयसुषुप्तिप्रायाणि । सर्गादौ एकेनैव नाथेन हिरण्यगर्भादिना
आवृतान्यधिष्ठितानि । प्रजेशाः प्रजापतयस्तदंशा देवादिगणास्तेषां
विचित्राचारैस्तद्वन्ति ॥ २७ ॥
तथा निर्वेदशास्त्राणि निःशास्त्राणि तथैव च ।
कृमिक्रमसमारम्भदेवादिप्राणिमन्ति च ॥ २८ ॥

तदेव प्रपञ्चयति - तथेत्यादिना ।
उदुम्बरकृमिसदृशसमारम्भैर्देवादिभिः प्राणिमन्ति ॥ २८ ॥

जात्या तु पारम्पर्येण सङ्केताचारवन्ति च ।
तथा नित्यप्रकाशानि ज्वलिताग्निमयानि च ॥ २९ ॥

क्वचित्कलियुगारम्भाद्वेदशास्त्रोच्छेदे ब्राह्मणादिजात्या पारम्पर्यमात्रेण
सङ्केतितभ्राह्मणाद्याचारवन्ति ॥ २९ ॥

तथा जलैकपूर्णानि पवनैकमयानि च ।
स्तब्धानि परमाकाशे वहन्ति च तथानिशम् ॥ ३० ॥

कानिचित्परमाकाशे स्तब्धानि निश्चलानि कानिचिद्वहन्ति चलन्ति च ॥ ३० ॥

जायमानानि पुष्यन्ति परिपुष्टानि चाभितः ।
तिर्यग्गच्छन्ति चान्यानि पूर्णसर्वमयान्यपि ॥ ३१ ॥

पुष्यन्ति वर्धमानानि । पूर्णसर्वभोग्यमयानि ॥ ३१ ॥

देवमात्रैकसर्गाणि नरमात्रमयानि च ।
दैत्यवृन्दमयान्येव कृमिनिर्विवराणि च ॥ ३२ ॥

अन्तरन्तस्तदन्तश्च स्वकोशेऽप्यणुकं प्रति ।
जातानि जायमानानि कदलीदलपीठवत् ॥ ३३ ॥

अणुकं परमाणुमपि प्रति अन्तरन्तस्तदन्तश्च कल्पिते स्वकोशेऽपि जातानीत्याद्यन्वयः ॥
३३ ॥

परस्परमदृष्टानि नानुभूतानि वै मिथः ।
सैनिकस्वप्नजालानि जातानीव महान्त्यपि ॥ ३४ ॥

सैनिकानां स्वप्नजालानीव परस्परमदृष्टानि ॥ ३४ ॥

विविधान्यप्यनन्तानि स्वच्छाकाशात्मकान्यलम् ।
अन्योन्यमन्यवृत्तीनि न मिथोऽन्यस्थितीनि च ॥ ३५ ॥

तथा विविधानीत्यादि योज्यम् । अन्यवृत्तीनि भिन्नार्थक्रियाणि । मिथोऽन्यस्तितीनि न
समस्थितिकानि चेत्यर्थः ॥ ३५ ॥

मिथश्चान्यान्यशास्त्राणि मिथोऽनन्तानि यानि च ।
अन्योन्यसन्निवेशानि मिथोऽन्योन्यानि यानि च ॥ ३६ ॥

यानि मिथः अनन्तानि अपरिच्छेद्यब्रह्मस्वभावानि । धर्मानन्त्याद्वा अनन्तानि ।
भेदेऽप्यन्योन्यस्येव सन्निवेशो येषां तानि । प्रत्यभिज्ञायामन्योन्यात्मकानि च ॥ ३६

अन्योन्यन्न् परलोकानि मिथः सिद्धपुराणि च ।
अन्यादृशमहाभूतान्यन्यादृग्दिग्गिरीणि च ॥ ३७ ॥

एकत्र मृतैरपरत्र गमनादन्योन्यपरलोकानि परस्परं
प्रत्यन्तर्धान्शक्तियोगान्मिथः सिद्धनगरप्रायाणि च ॥ ३७ ॥

त्वादृशानुभवेहानामगम्याभ्यागतानि च ।
असमञ्जसरूपाणि कथ्यमानानि मादृशैः ॥ ३८ ॥

अत एवान्यस्यान्यत्र वर्णने अपरिनिष्ठितमतीनामगम्यत्वादसमञ्जसरूपाणि
भान्तीत्याह - त्वादृशेत् । अनुभवानामीहानां प्रयत्नानां
चागम्यान्यविषयभूतान्यभ्यागतान्यभिमुखमागतानि । सम्निहितान्यपीति यावत् ।
तर्हि तानि त्वादृशां कथनैर्ज्ञास्यन्ते तत्राह - असमञ्जसेति ॥ ३८ ॥

अणुवत्सेष्यमाणानि चिदादित्यांशुमण्डले ।
परमार्थश्रियो व्योम्नि रश्मिजालानि कुण्डले ॥ ३९ ॥

चिदादित्यस्य अंशुमण्डलप्राये सर्वतः प्रसृते चैतन्ये ये अण्वो जलसूर्यमरीचिषु
प्रसिद्धास्तद्वत्सेष्यमाणानि [सेष्वमाणानीति विचारणीयम् ।] प्रसिद्धिभाञ्जि ।
शेष्यमाणानि इति पाठे परिशेषभाञ्जि । तथा परमार्थश्रियो
मोक्षसाम्राज्यलक्ष्म्याः कुण्डले ताटङ्गप्राये व्योम्नि अव्याकृताकाशे भूताकाशे
च विचित्ररत्नरश्मिजालप्रायाणि ॥ ३९ ॥

कानिचित्तानि तान्येव भूत्वा भूत्वा भवत्यलम् ।
कानिचित्तादृशान्येव जातानि वनपर्णवत् ॥ ४० ॥

अन्योन्यत्वाच्च सदृशान्यन्यानि सदृशान्यपि ।
कञ्चित्कालं सुसदृशान्यन्यान्येव च कानिचित् ॥ ४१ ॥

तेषु कानिचिदेकत्रैव चिति
सर्वेषामध्यासादपृथक्सत्त्वेनान्योन्यात्मकत्वात्सदृशान्यन्यादृशान्यपि ।
एवं सदृशान्यपि कञ्चित्कालं सुसदृशानि । कानिचिदन्यान्यत्यन्तविसदृशान्येव
। मायाया अघटितघटनापटीयस्त्वादिति भावः ॥ ४१ ॥

फलानि तान्यनन्तानि परमार्थमहातरोः ।
अनन्यान्येव चान्यानि तन्मयान्येव वै ततः ॥ ४२ ॥

वृक्षफलवद्वा तत्र भेदाभेदकल्पनेत्याह - फलानीति ॥ ४२ ॥

कानिचित्स्वल्पकल्पानि दीर्घकल्पानि कानिचित् ।
अन्यान्यनियतं भूरि नियतं भूरि कानिचित् ॥ ४३ ॥

अनियतं देशकालवस्तुस्वभावनियमरहितमेव भूरि वहूनि । कानिचिन्नियतं
तद्विपरीतमित्यर्थः ॥ ४३ ॥

अन्यान्यज्ञातकालानि यदृच्छावशतः स्वयम् ।
जायमानानि पुष्टानि सुस्थिराणि स्थितानि च ॥ ४४ ॥

सूर्याद्यभावादज्ञतकालानि ॥ ४४ ॥

तानि शून्यत्वजालानि परमाकाशकोशके ।
अपरिज्ञातकालानि रूढान्यज्ञातदोषके ॥ ४५ ॥

तानि किं सत्यानि नेत्याह - तानीति । कदाप्रभृति तर्हि रूढानि तत्राह -
अपरिज्ञातेति । अनादीनीत्यर्थः । अज्ञातमज्ञानं तदेव दोषो यस्मिंस्तथाविधे प्रतीचि
रूढानि ॥ ४५ ॥

अब्ध्यर्काकाशमेवादि शतैरावलितान्यलम् ।
चिच्चमत्कारखे स्वप्नजालान्याभान्ति चाविलम् ॥ ४६ ॥

चिच्चमत्काररूपे खे चिदाकाशे । आविलं रजस्तमःकलुषितं यथा स्यात्तथा ॥ ४६ ॥

अनुभूतेर्भ्रमात्मत्वात्कारणानामभावतः ।
पृथ्व्यादीनामहेतूनामत्यन्तं सन्त्यसन्ति च ॥ ४७ ॥

अहेतूनां पृथ्व्यादीनामनुभूतेर्भ्रमात्मत्वात्तानि
जगन्त्यत्यन्तमधिष्ठानात्मना सन्ति स्वरूपेण त्वसन्ति च ॥ ४७ ॥

मृगतृष्णाम्बुभरवद्द्विचन्द्रव्योमवर्णवत् ।
सम्पन्नानि न सत्यानि सत्यान्यप्यनुभूतितः ॥ ४८ ॥

चित्सङ्कल्पनभस्येव भासमानानि भूरिशः ।
वासनावातनुन्नानि विलुठन्त्यात्मचेष्टितैः ॥ ४९ ॥

अतश्च तथेत्याह - चित्सङ्कल्पेति ॥ ४९ ॥

सुरासुरादिमशका बहुशोदुम्बरद्रुमे [बहुशोदुम्बर इत्यार्षः सन्धिः ।
] ।
फलानि रसपूर्णानि घूर्णमानानि मारुतैः ॥ ५० ॥

ब्रह्मोदुम्बरद्रुमे सुरासुरोरगनरादयो मशकाः । ब्रह्माण्डानि तु
भोगवैचित्र्यरसपूर्णानि फलानि ॥ ५० ॥

अभिजातस्वभावस्य सर्गारम्भकरस्य च ।
शुद्धचित्तत्त्वबालस्य सङ्कल्पनगराणि खे ॥ ५१ ॥

अथवा जगन्ति शुद्धस्य केवलस्य चित्तत्त्वलक्षणबालस्य सङ्कल्पनगराणि ॥ ५१ ॥

त्वमहन्न् स इदं चेति धिया बलदृढान्यलम् ।
सम्पन्नान्यर्कदीप्त्येव पङ्कक्रीडनकानि च ॥ ५२ ॥

सङ्कल्पनगरत्वे दार्ढ्ये को हेतुस्तमाह - त्वमिति । अहन्ताद्यभिमानधिया बलेन
अलमत्यन्तं दृढानि सम्पन्नानि । पङ्कमयानि क्रीडनकानीव । चकारो हिमेन
घृतकरकादीनीवेति दृष्टान्तान्तराभ्यूहनार्थः ॥ ५२ ॥

वृत्तानि रसशालिन्या नियत्या नित्यतृप्तया ।
वनान्युग्रफलानीव वसन्तरसलेखया ॥ ५३ ॥

नित्यमभीक्ष्णं तृप्तया तृप्तिमत्या रसो रागो द्रवत्वं च तच्छालिन्या
कर्मफलावश्यम्भावनियत्या वृत्तानि निष्पन्नशाखोपशाखानि ॥ ५३ ॥

महाकर्तॄण्यकर्तॄणि न कृतान्येव खानि वा ।
स्वयन्न् सम्पन्नरूपाणि चिद्व्योम्न्येव कृतानि वा ॥ ५४ ॥

सृष्टिश्रुतिदृशा महद्ब्रह्मैव कर्तृयेषां तानि । अपूर्वमनपरं
इत्यादिश्रुतिदृशा तु अकर्तॄणि अकर्तृकाणि ॥ ५४ ॥

परमार्थमयान्येव तदन्यद्वोदितान्यपि ।
अलब्धान्येव लब्धानि सदाऽसन्त्येव सन्ति च ॥ ५५ ॥

तदन्यद्वा तदन्यदिव । मणीवोष्ट्रस्येतिवदिवार्थे वा शब्दः । सदा असन्त्येवेति च्छेदः
॥ ५५ ॥

चतुर्दशदशैकादिविधभूतगणानि च ।
पुनस्तान्येव तान्यन्तरन्यान्यन्यान्यथो बहिः ॥ ५६ ॥

भुवनसङ्ख्यया चतुर्दश देवयोनिमात्रसङ्ख्यया दशविधाः
मनुष्याद्य्कैकजात्या एकविधा आदिपदाद्यथासम्भवं द्व्यादिनियतविधा भूतगणा
येषु ॥ ५६ ॥

नरकस्वर्गपातालबन्धुमित्रमयान्यपि ।
महारम्भमयान्येव शून्यानि परमार्थतः ॥ ५७ ॥

क्षीराम्बुधेर्जलानीव स्नेहसाराणि सर्वतः ।
तरङ्गभङ्गुराण्यन्तर्बहिश्चावृत्तिमन्ति च ॥ ५८ ॥

स्नेहो घृतं प्रीत्यतिशयश्च तत्साराणि आवृत्तिः परिवृत्तिस्तद्वन्ति च ॥ ५८ ॥

आभासमात्ररूपाणि तेजस्यात्मविवस्वतः ।
जातानीव स्वतस्तानि स्पन्दनानि नभस्वतः ॥ ५९ ॥

स्वतो जातानि नभस्वतो वायोः स्पन्दनानीव ॥ ५९ ॥

वृक्षरूपाणि पत्राणां बुद्ध्यहङ्कारचेतसाम् ।
असतामप्यसन्त्येव स्वप्ने न्यस्तनृणामिव ॥ ६० ॥

बुद्ध्यहङ्कारचित्तरूपाणां पत्राणामाश्रयभूतवृक्षरूपाणि । असतां
स्वातिरिक्तद्रष्टॄणामापि साधारणायमानानि असन्त्येव यथा स्वप्ने
नितरामस्तानामसतां स्वातिरिक्तनृणां दृश्यानीत्यर्थः ॥ ६० ॥

पुराणवेदसिद्धान्तकल्पनातल्पपालिषु ।
घनिनिद्राणि सुप्तानि बिभ्रन्ति शवतामिव ॥ ६१ ॥

पुराणादिप्रसिद्धव्रतदानयज्ञादिफलावश्यम्भावकल्पनालक्षणेषु तल्पवृत्तिषु
स्वप्नेषु दृढविश्वासघननिद्राणि आत्मस्वरूपस्यात्यन्तमप्रबोधाच्छवतामिव
बिभ्रन्ति । अभ्यस्ताच्छतुर्नुञ्छान्दसः ॥ ६१ ॥

परमार्थमहारण्ये चिद्गन्धर्वकृतानि वै ।
सूर्यदीपकदीप्तानि गृहाणि गहनात्मनि ॥ ६२ ॥

परमार्थो ब्रह्म तल्लक्षणे महारण्ये मायोपहितचिद्गन्धर्वेण कृतानि
सूर्यलक्षणैर्दीपकैर्दीप्तानि गृहाणीत्युत्प्रेक्षा ॥ ६२ ॥

प्रजायमानानि नभस्यनन्ते विशीर्यमाणानि च निर्निमित्तम् ।
तदा त्वहं वै तिमिराक्षदृष्टकेशोण्ड्रकानीव जगन्त्यपश्यम् ॥ ६३ ॥

हे राम अहं तदा तस्मिन्समाधिकाले अनन्ते चिन्नभसि निर्निमित्तं प्रजायमानानि
निर्निमित्तं च विशीर्यमाणानि तिमिराक्षदृष्टकेशोण्ड्रकानीव भ्रान्तिमात्रसिद्धानि
जगन्ति अपश्यम् दृष्टवानित्यर्थः ॥ ६३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे पा०
जगज्जालवर्णनं नामैकोनषष्टितमः सर्गः ॥ ५९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
जगज्जालवर्णनन्न् नामैकोनषष्टितमः सर्गः ॥ ५९ ॥