०५८

अष्टपञ्चाशः सर्गः ५८

श्रीराम उवाच ।

अहो नु विततोदारा विमला विपुलाचला ।
भवता भगवन्भूत्यै भूयो दृष्टिरुदाहृता ॥ १ ॥

सर्वत्र सर्वसर्गश्रीः सदैवास्ति न चेति च ।
दृष्टिभेदेन पाषाणाख्यायिकार्थोऽत्र वर्ण्यते ॥

प्रासङ्गिके जीवन्मुक्ताहङ्कारस्याबाधकत्वे समर्थिते प्रक्रान्तस्य सर्वत्र सर्वथा
सर्वमित्याद्यर्थस्य पाषाणाख्यायिकया समर्थनं यत्प्रतिज्ञातं तदेव प्रष्टुं
भूमिकां रचयति - अहो इति ॥ १ ॥

सर्वथा सर्वदा सर्वं सर्वं सर्वत्र सर्वदा ।
सदित्येव स्थितं सत्यं समं समनुभूतितः ॥ २ ॥

सर्वं सर्वत्र सर्वथा सत् सर्वं सर्वत्र सर्वदा च सत् इति यत्प्रस्तुतं तदनुभूतितो
विमृश्यमानं सममविषममेकरसमेव पर्यवस्यति । सर्वधर्मधर्मिणां
देशतः कालतो वस्तुतश्च सर्वभावे व्यावृत्तिव्यावर्तकताद्यसिद्धेरिति भावः ॥ २ ॥

अयमस्ति मम ब्रह्मन्संशयस्तं निवारय ।
किमिदं भगवन्नाम पाषाणाख्यानमुच्यते ॥ ३ ॥

तत्र प्रष्टव्यांशं दर्शयति - अयमिति । इदं पाषाणाख्यानं किं केनांशेन
साम्यमभिप्रेत्योच्यते । व्यावर्तकधर्मवतोरेव साधारणधर्मेण
सादृश्यप्रसिद्धेरिति भावः ॥ ३ ॥

श्रीवसिष्ठ उवाच ।

सर्वत्र सर्वदा सर्वमस्तीति प्रतिपादने ।
पाषाणाख्यानदृष्टान्तो मयायं तव कथ्यते ॥ ४ ॥

अयं वक्ष्यमाणप्रकारः ॥ ४ ॥

नीरन्ध्रैकघनाङ्गस्य पाषाणस्यापि कोटरे ।
सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते ॥ ५ ॥

न पाषाणसाम्यं सर्वधर्मसङ्करं वा वक्तुं पाषाणाख्यायिकारभ्यते किन्तु
पाषाणोदराध्यासाधिष्ठाने ब्रह्मणि असङ्कीर्णतयैव
सर्वजगदध्याससम्भवसम्भावनायेत्याह - नीरन्ध्रेति । कोटरे आन्तरे
चिदाकाशे । कथया प्रस्तुताख्यायिकया । इति अयमर्थः प्रदर्श्यते ॥ ५ ॥

भूताकाशे महत्यस्मिन्खशून्यत्वमनुज्झति ।
सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते ॥ ६ ॥

अथवा भावोदरचितीव शून्यात्मकाकाशरूपाभावाधिष्ठानचित्यप्यसङ्कीर्णतया
सर्वजगदारोपः सम्भवतीत्याशयेनाह - भूताकाशेति ॥ ६ ॥

अन्तर्गुल्माङ्कुरादीनां प्राणिवाय्वम्बुतेजसाम् ।
सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते ॥ ७ ॥

अयं न्यायः सर्वत्र योजनीय इत्याशयेनाह - अन्तरिति ॥ ७ ॥

श्रीराम उवाच ।

कुड्यादौ सन्ति सर्गौघा इति चेत्कथ्यते मुने ।
तत्खे विभान्ति सर्गौघा इति किं न प्रदृश्यते ॥ ८ ॥

यदि कुड्यादिसर्वभावाभावावच्छिन्नचिति सर्वजगदध्यास आख्यायिकाभिप्रेतस्तर्हि
शुद्धे चिदाकाशे सर्वजगदध्यास इत्येव पक्षः कुतो न परिगृह्यते
येनाध्यस्तजगद्बाधे शुद्धमेव परिशिष्यत इत्यापरमनुकूलं स्यादिति रामः
पृच्छति - कुड्यादाविति । तत् तर्हि खे शुद्धचिदाकाशे ॥ ८ ॥

श्रीवसिष्ठ उवाच ।

एतत्ते वर्णितं राम मुख्यमेव मयाखिलम् ।
योऽयमालक्ष्यते सर्गः स ख एव खमास्थितम् ॥ ९ ॥

सत्यमेष एव पक्षो मुख्यतया मे विवक्षितः । शुद्धचिदाकाशः सहसा न परिचेतुं
शक्य इति तदुपायतया उपहितचित्यपि प्रत्येकं सर्वजगदध्यासो दर्शित
इत्याशयेनोत्तरमाह - एतदिति । संविदाकाशात्मकमेव ॥ ९ ॥

आदावेव हि नोत्पन्नमद्यापि न च विद्यते ।
दृश्यं यच्चावभातीदं तद्ब्रह्म ब्रह्मणि स्थितम् ॥ १० ॥

एवं दृश्यमात्रस्यैव ब्रह्ममात्रत्वे अनुत्पत्तिरेव फलितेत्याह - आदावेवेति ।
परमार्थदृष्टेरित्यर्थः ॥ १० ॥

नास्ति भूरणुमात्रापि सर्गैर्निर्विवरा न या ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव ते ॥ ११ ॥

आरोपदृष्टौ तु प्रतिभूतपरमाणु सर्वमारोप्य द्रष्टुं शक्यम् अपवाददृष्टौ
तु तद्वैपरीत्यमित्याशयेनाह - नास्तीत्यादिना । निर्विवरा गाढभरिता या न
तादृशी अणुमात्रापि भूर्नास्ति । सर्वापि सर्गभरितैवेत्यर्थः । एवमग्रेऽपि योज्यम् ॥ ११

न तेजसोऽणुरप्यस्ति सर्गैर्निर्विवरो न यः ।
न च क्वचन सर्गास्ते [विद्यन्ते सर्गा ब्रह्म इति पाठः ।] सन्ति
ब्रह्मखमेव तत् ॥ १२ ॥

तत् तेजः ॥ १२ ॥

न वायोरणुरप्यस्ति सर्गैर्निर्विवरो न यः ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव तत् ॥ १३ ॥

तत् सः ॥ १३ ॥

खं नाणुमात्रमप्यस्ति सर्गैर्निर्विवरं न यत् ।
न ख क्वचन सर्गास्ते सन्ति ब्रह्मखमेव तत् ॥ १४ ॥

भूतानां प्रक्रमे अपां त्यागायोगाद्भूतेजसोरन्तरालेन
चापामणुरप्यस्तीत्यादिश्लोकोऽप्यूह्यः ॥ १४ ॥

न सा महाभूततास्ति सर्गैर्निर्विवरा न या ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव तत् ॥ १५ ॥

महाभूतेति पञ्चानां समुदितरूपव्यपदेशः ॥ १५ ॥

शैलानां नाणुरप्यस्ति स सर्गैर्यो न निर्घनः ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखमेव तत् ॥ १६ ॥

ब्रह्मणो नाणुरप्यस्ति सर्गैर्निर्विवरो न यः ।
न च क्वचन सर्गास्ते सन्ति ब्रह्मखमेव तत् ॥ १७ ॥

ब्रह्मणो हिरण्यगर्भस्य सूक्ष्मभूतोपधेः ॥ १७ ॥

सर्गेषु नाणुरप्यस्ति न ब्रह्मात्मैव यः सदा ।
ब्रह्मसर्गास्तथेत्येष वाचि भेदो न वस्तुनि ॥ १८ ॥

सर्गेषु तत्कृतेषु भुवनभूतग्रामेषु । तथा सति यत्फलितं तदाह - ब्रह्मेति ॥
१८ ॥

सर्गा एव परम्ब्रह्म परं ब्रह्मैव सर्गता ।
मनागप्यस्ति न द्वैतमत्राग्न्यर्कौष्ण्ययोरिव ॥ १९ ॥

अग्न्यर्कयोर्ये औष्ण्ये तयोरिव ॥ १९ ॥

इमे सर्गा इदं ब्रह्म तेऽत्यन्तावाच्यदृष्टयः ।
विदार्यदारुरववद्भान्त्यर्थपरिवर्जिताः ॥ २० ॥

सर्जनात्सर्गो बृंहणाद्ब्रह्मेति सृजिबृंहिक्रिययोः परस्परं
भेदाभावादाधाराधेयभावस्य दुर्वचत्वाच्च न क्रियापि स्वरूपाद्व्यतिरिच्यत इति
सर्गब्रह्मादिशब्दाः प्रवृत्तिनिमित्तधर्मरूपस्वार्थपरिवर्जिताः सन्तः
कुठारादिना विदार्ये काष्ठे ये दारुणो रवाः प्रसिद्धास्तद्वदर्थपरिवर्जिताः सन्तो
लक्षणया अत्यन्तमवाच्ये दृष्टिः प्रतीतिर्येभ्यस्तथाविधा भान्तीत्यर्थः । अथवा
दीर्यत इति दारु तदेव विदार्यमिति पर्यायप्रायौ यौ रवौ शब्दौ
तद्वद्भिन्नार्थपरिवर्जिता भान्तीत्यर्थः ॥ २० ॥

द्वैतमैक्यं च यत्रास्ति न मनागपि तत्र ते ।
सर्गब्रह्मादिशब्दार्थाः कथं कस्येव भान्तु के ॥ २१ ॥

मास्तु परमार्थे तेषामर्थभेदस्तत्र द्वैतैक्ययोरभावात् । व्यवहारे तु ब्रह्मैकं
सर्गा नानेत्यर्थभेदसत्त्वाद्भिन्नार्थाः किं न स्युस्तत्राह - द्वैतमिति । यत्र
व्यवहारे द्वैतमैक्यं चास्ति तत्रापि सर्गब्रह्मादिशब्दार्था मनागपि न भान्ति । ते हि
द्वैतात्मकस्य द्रष्टुर्भायुरद्वैतात्मकस्य वा । आद्येऽज्ञस्य तस्य कथं भान्तु
द्वितीये कस्येव भान्तु के किंस्वभावा भान्तु न ह्यद्वैते भानाद्भास्यवैलक्षण्यन्न्
सुवचमिति भावः । अथवा अत्यन्तावाच्यदृष्टितामेव प्रकटयति - द्वैतमिति । यत्र
वस्तुनि द्वैतमैक्यं च मनागपि नास्ति तत्रेत्यन्वयः ॥ २१ ॥

शान्तमेकमनाद्यन्तमिदमच्छमनामयम् ।
व्यवहारवतोऽप्यङ्ग ज्ञस्य मौनं शिलाघनम् ॥ २२ ॥

अत एव तत्त्वविदो व्यवहारकालेऽपि तत्तथैवास्ते इत्याह - शान्तमिति ॥ २२ ॥

निर्वाणमेवमखिलं नभ एव दृश्यं त्वं चाहमद्रिनिचयाश्च
सुरासुराश्च ।
तादृग्जगत्समवलोकय यादृगङ्गस्वप्नेऽथ जन्तुमनसि व्यवहारजालम् ॥ २३

वर्णितं पाषाणाख्यायिकातात्पर्यमुपसंहरति - निर्वाणमिति । हे अङ्ग राम
त्वं जगत्तादृक्समवलोकय । अथ जागरानन्तरं जन्तुमनसि स्वप्ने दृष्टं
यादृग्व्यवहारजालमीषत्स्मर्यमाणमप्यात्ममात्रशेषमित्यर्थः ॥ २३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो निर्वाणप्रकरणे उ० पाषाण०
सर्गब्रह्मत्वप्रतिपादनं नामाष्टपञ्चाशः सर्गः ॥ ५८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सर्गब्रह्मत्वप्रतिपादनं नामाष्टपञ्चाशः सर्गः ॥ ५८ ॥