षट्पञ्चाशः सर्गः ५६
श्रीवसिष्ठ उवाच ।
सर्वत्र सर्वथा सर्वं सर्वदा व्योम्नि चिन्मये ।
साधु सम्भवति स्वच्छं शून्यत्वं ख इवाखिले ॥ १ ॥
चिदेव सर्वं सर्वत्र सर्वं चिदिति निश्चितेः ।
दृढीकाराय पाषाणाख्यायिकात्रोपवर्ण्यते ॥
चिन्मये व्योम्नि ब्रह्माकाशे तत्सत्तया सर्वत्र सर्वदा साधु असङ्कुचद्वृत्तितया
सम्भवति तच्च सर्वं सर्वदा सर्वत्र स्वच्छमेव स्वमालिन्यलेशेनापि ब्रह्म न
दूषयति । यथा खे शून्यत्वमखिले तस्मिन्नैल्यात्मना भासमानमपि न खं
दूषयतीत्यच्छं तद्वदित्यर्थः ॥ १ ॥
यत्र चित्तत्र सर्गश्रीरव्योम्नि व्योम्नि वास्ति चित् ।
चिन्मयत्वात्पदार्थानां सर्वेषां नास्त्यचित्क्वचित् ॥ २ ॥
उक्तार्थे उपपत्तिमाह - यत्रेति । अव्योम्नि पृथिव्यादौ ॥ २ ॥
पदार्थजातं शैलादि यथा स्वप्ने पुरादि च ।
चिदेवैकं परं व्योम तथा जाग्रत्पदार्थभूः ॥ ३ ॥
सर्वस्य चिन्मात्रता स्वप्ने प्रसिद्धेति तद्दृष्टान्तेन जाग्रत्यपि तां साधयति -
पदार्थजातमिति ॥ ३ ॥
पाषाणाख्यानमत्रेदं शृणु राम रसायनम् ।
पूर्व मयैव यद्दृष्टं चित्र प्रकृतमेव च ॥ ४ ॥
रसानां माधुर्यवैचित्र्याणां शृङ्गारादीनां चायनं स्थानं
भ्रान्तिरोगभेषजं च विविधकथोपजृम्भितत्वाच्चित्रं विस्तरेण वर्णयितुं
प्रकृतं प्रस्तुतं च ॥ ४ ॥
अहं विदितवेद्यत्वात्कदाचित्पूर्णमानसः ।
त्यक्तुमिच्छुरिमं लोकव्यवहारं घनभ्रमम् ॥ ५ ॥
ध्यानैकतानतामेत्य शनैर्विश्रान्तये चिरम् ।
त्यक्ताजवं जवीभाव एकान्तार्थी शमं व्रजन् ॥ ६ ॥
इदं चिन्तितवानस्मि कस्मिंश्चिदमरालये ।
संस्थितो विविधाः पश्यन्भङ्गुरा जागतीर्गतीः ॥ ७ ॥
अमरालये संस्थितोऽहमिदं वक्ष्यमाणं चिन्तितवानस्मि ॥ ७ ॥
विरसा खल्वियं लोकस्थितिरापातसुन्दरी ।
न जातु सुखदा मन्ये कस्यचित्केनचित्क्वचित् ॥ ८ ॥
केनचिदप्युपायेन प्रकारेण च । क्वचिद्देशे काले च ॥ ८ ॥
उद्वेगं जनयत्यन्तस्तीव्रसंवेगखेदतः ।
इमा दृश्यदृशो द्रष्टुरिष्टानिष्टफलप्रदाः ॥ ९ ॥
न सुखदेत्येतावदेव न किन्तु दुरन्तदुःखदापीत्याह - उद्वेगमिति ॥ ९ ॥
किमिदं दृश्यते किं वा प्रेक्षते कोऽहमेव वा ।
सर्व शान्तमजं व्योम चिन्मात्रात्मनि रिङ्गकम् ॥ १० ॥
अल्पं रिङ्गणं रिङ्गकम् विवर्त इत्यर्थः ॥ १० ॥
तस्मात्समस्तसिद्धेन्द्रदेवदैत्यादिदुर्गमम् ।
सुप्रदेशमितो गत्वा सङ्गोप्यात्मानमात्मना ॥ ११ ॥
तस्माद्विक्षेपोद्वेगस्यावश्यहेयत्वात्तद्धानायेत्यर्थः । आत्मानं स्वदेहमात्मना
स्वेनैवान्तर्धानाद्युपायैः सङ्गोप्य गूहयित्वा संरक्ष्य च ॥ ११ ॥
अदृश्यः सर्वभूतानां निर्विकल्पसमाधिगः ।
समे स्वच्छे पदे शान्ते आसे विगतवेदनम् ॥ १२ ॥
विगतबाह्यार्थवेदनं यथा स्यात्तथा ॥ १२ ॥
तस्मात्को नु प्रदेशः स्यादत्यन्तं शून्यतां गतः ।
यत्रैता नानुभूयन्ते पञ्च बाह्यार्थवेदनाः ॥ १३ ॥
शब्दकाननवार्यब्दभूतौघाभिसमाकुलाः ।
क्षोभयन्त्यथ सङ्क्षुब्धास्तस्मान्मे गिरयोऽरयः ॥ १४ ॥
ननु गिरिशिखरप्रस्थद्रोण्यादयः सागरकुक्षितटादयः पातालकुहरादयश्च बहव
एकान्तदेशाः प्रसिद्धास्ते कुतो नाध्यास्यन्ते समाध्यर्थन्न् तत्राह -
शब्देत्यादिना । विक्षेपहेतुशब्दप्रचुरैः काननैर्वारिभिरब्दैर्मेघैः
सिंहव्याघ्रादिभूतौघैश्चाभितः समाकुला गिरयः स्वयं सङ्क्षुब्धाः
सन्तोऽन्यानपि क्षोभयन्ति तस्मात्ते मे अरय इव प्रतिकूला इत्यर्थः ॥ १४ ॥
नानाविधा नगेन्द्राणामन्तरावलिता जनैः ।
देशा विषमया एव निःशेषा विषयाहिभिः ॥ १५ ॥
अन्तरा द्रोणीप्रदेशाः किरातादिजनैर्वलिता वेष्टिताः विषयाहिभिर्दूषितत्वाद्विषमता एव
॥ १५ ॥
जनैर्जलचरैर्व्याप्ताः सागरा नीरकुक्षयः ।
विविधारम्भसङ्क्षुब्धैर्नगराणीव नागरैः ॥ १६ ॥
विविधारम्भसङ्क्षुब्धैरित्युभयान्वयि ॥ १६ ॥
तटान्यद्र्यम्बुराशीनां लोकपालपुराणि च ।
भूताकुलानि शृङ्गाणि पातालकुहराणि च ॥ १७ ॥
अद्रीणां अम्बुराशीनां च तटानि शृङ्गाणि च ॥ १७ ॥
गायन्त्यनिलभाङ्कारैर्नृत्यन्ति लतिकाः करैः ।
पुष्पैर्हसन्त्यगेन्द्राणां गुहा गहनकोटराः ॥ १८ ॥
गिरिगुहास्तर्हि सेव्यन्तां तत्राह - गायन्तीति । सिंहसर्पादिगर्भत्वाद्गहनकोटराः
॥ १८ ॥
मौनिमीनमुनिस्पर्शकम्पिनालचलाम्बुजाः ।
सरस्यो विरसा एव वार्यावर्तविराविताः ॥ १९ ॥
सन्तु तर्हि महासरांसि दक्षिणापथे सरस्य इति प्रसिद्धाः स्वतीरे समाधिहेतवस्तत्राह
- मौनीति । दर्पभयव्याकुलानान्न् मीनानां स्नानशीलानां मुनीनां च
स्पर्शैः क्रीडास्नानाद्यभिघातैः कम्पनशीलैर्नालैश्चलान्यम्बुजानि यासु
तथाविधाः सरस्यो वार्यावर्तैर्विराविताः सत्यः समाधिमङ्गहेतुत्वान्मम विरसा
एव यतोऽहन्न् तदा मौनान्न तन्निवारणसमर्थः ॥ १९ ॥
पवनस्पर्शसङ्क्षुब्धतृणपांसुपताकिनी ।
रटत्यनिलभाङ्कारैर्निर्झरोर्व्यप्यसंयता ॥ २० ॥
अस्तु तर्हि निर्झरोर्वी ते विश्रान्तिहेतुस्तत्राह - पवनेति । असंयता अनियता ।
अनिवारितविक्षेपेति यावत् ॥ २० ॥
तस्मादाकाशमाशून्यं कस्मिंश्चिद्दूरकोणके ।
अत्र तिष्ठाम्यवष्टभ्य योगयुक्तिमनिन्दिताम् ॥ २१ ॥
परिशेषादाकाश एव सर्वविक्षेपहेतुवर्जनाच्छरणमित्याशयेनाह - तस्मादिति ॥
२१ ॥
कस्मिंश्चिदेककोणेऽत्र कृत्वा कल्पनया कुटीम् ।
वज्रोदरदृढं तस्यामन्तस्तिष्ठाम्यवादनम् ॥ २२ ॥
वज्रोदरदृढमिति पूर्वोत्तरोभयक्रियाविशेषणम् ॥ २२ ॥
इति सञ्चिन्त्य यातोऽहमाकाशमसि निर्मलम् ।
यावत्तदपि पश्यामि सकलं विततान्तरम् ॥ २३ ॥
विततान्तरं विक्षेपहेतुसहस्रव्याप्तगर्भम् ॥ २३ ॥
क्वचिद्भ्रमत्सिद्धगणं क्वचिदुद्गर्जदम्बुदम् ।
क्वचिद्विद्याधराधारं यक्षोत्क्षिप्तक्षयं क्वचित् ॥ २४ ॥
विक्षेपहेतुबाहुल्यमेव विशेषणैः सर्वतः प्रपञ्चयति - क्वचिदित्यादिना ॥ २४ ॥
क्वचिद्भ्रमत्पुरवरं प्रारब्धसमरं क्वचित् ।
क्वचिद्द्रवज्जलधरं क्वचिदुद्वृत्तयोगिनि ॥ २५ ॥
उद्वृत्ता उन्मादरौद्रवृत्ता योगिन्यो यत्र ॥ २५ ॥
क्वचिद्दैत्यपुरोड्डीनसगन्धर्वपुरं क्वचित् ।
क्वचिद्भ्रमद्ग्रहगणं तारकाकुलितं क्वचित् ॥ २६ ॥
आसनैर्दैत्यपुरैरुड्डीनानि सगन्धर्वाण्येव देवपुराणि यत्र ॥ २६ ॥
क्वचित्खे खगसङ्घृष्टं क्वचित्क्रुद्धमहानिलम् ।
क्वचिदुत्पातवलितं क्वचिन्मण्डलमण्डितम् ॥ २७ ॥
मण्डलैर्मेघादिचक्रवालैर्मण्डितम् ॥ २७ ॥
क्वचिदपूर्वभूतौघं नागरावलितं क्वचित् ।
क्वचिदर्करथाक्रान्तं क्वचिदन्यरथोद्धुरम् ॥ २८ ॥
अपूर्वाः अपूर्वदृष्टविचित्राकारा भूतौघाः पिशाचसङ्घा यस्मिन् ।
नागरैर्नगरसमूहैरावलितम् । अन्येषां चन्द्रादिग्रहाणां रथैरुद्धुरम् ॥ २८ ॥
क्वचिदादित्यदाहान्तं शशिशैत्यान्वितं क्वचित् ।
क्वचित्क्षुद्रजनासह्यं क्वचिदग्न्यौष्ण्यदुर्गमम् ॥ २९ ॥
आदित्यसन्निधेर्दाहैरन्तो मृत्युः प्राणिनां यत्र । क्षुद्रजनैर्भूतप्रेतादिभिरसह्य
बीभत्सम् ॥ २९ ॥
क्वचिदुत्तालवेतालं गरुडोड्डामरं क्वचित् ।
क्वचित्सप्रलयाम्भोदं क्वचित्सप्रलयानिलम् ॥ ३० ॥
ततो भूतगणांस्त्यक्त्वा दूराद्दूरतरं गतः ।
प्राप्तवानहमेकान्तं शून्यमत्यन्तविस्तृतम् ॥ ३१ ॥
अत्यन्तमन्दपवनं स्वप्नेऽप्यप्राप्यभूतकम् ।
मङ्गलोत्पातरहितमगम्यं विद्धि संसृतेः ॥ ३२ ॥
मङ्गलैः शुभचिह्नैरुत्पातैरशुभचिह्नैश्च रहितम् ॥ ३२ ॥
कल्पिताथ मया तत्र कुटी प्रकटकोटरा ।
नीरन्ध्रकुड्यनिबिडा पद्मकुड्मलसुन्दरी ॥ ३३ ॥
कल्पिता सत्यसङ्कल्पेन निर्मिता ॥ ३३ ॥
घुणक्षुण्णाङ्गपूर्णेन्दुबिम्बोदरमनोहरा ।
कह्लारकुन्दमन्दारपुष्पश्रीकोशशोभिता ॥ ३४ ॥
घुणैः कीटभेदैः क्षुण्णं छिद्रीकृतं पूर्णे दुबिम्बोदरमिव
मनोहरेत्यभूतोपमा ॥ ३४ ॥
समस्तभूतागम्यत्वं तत्र सङ्कल्प्य चेतसा ।
अगम्ये सर्वभूतानामहमासं तदा ततः ॥ ३५ ॥
तत्र अहं चेतसा समस्तभूतागम्यत्वं सङ्कल्प्य
वक्ष्यमाणलक्षणनिर्विकल्पसमाधिस्थः आसमिति व्यवहितेनान्वयः ॥ ३५ ॥
बद्धपद्मासनः शान्तमनाः परममौनवान् ।
संवत्सरशतान्तेन निर्णीयोत्थानमात्मनः ॥ ३६ ॥
निर्विकल्पसमाधिस्थो निद्रामुद्रामिवागतः ।
समः सौम्यनभःस्वस्थः समुत्कीर्ण इवाम्बरात् ॥ ३७ ॥
चिरं यदनुसन्धत्ते चेतः पश्यति तत्क्षणात् ।
चिरेण चाशापवनव्यक्तिवद्विततं यदा ॥ ३८ ॥
तदा वर्षशतेनात्र बोधबीजं वृतान्तरम् ।
आसीन्मे हृदयक्षेत्रे कालमेकं विकासतः ॥ ३९ ॥
पुनः शतवर्षोत्तरं समाधेर्व्युत्थाने निमित्तमाह - चिरमिति । ततश्चिरेण
वर्षशतान्ते चित्तमाशावत्पवनवच्च यदा विततं तदा बोधबीजं व्युत्थाननिमित्तं
कर्म हृदयक्षेत्रे एकं कालं विकासतो वृतमान्तरं मध्यभागो यस्य
तथाविधमासीदिति परेणान्वयः । नासापवनव्यक्तिवत् इति पाठे
प्राणाभिव्यक्तिवदित्यर्थः ॥ ३८ ॥ ३९ ॥
सम्प्रबुद्धोऽभवन्मेऽथ जीवः सम्बुद्धवेदनः ।
शिशिरक्षीणगात्रस्य मधाविव रसस्तरोः ॥ ४० ॥
मधौ चैत्रमासे ॥ ४० ॥
तच्छतं तत्र वर्षाणां निमेषमिव मे गतम् ।
बह्व्योऽपि कालगतयो भवन्त्येकधियो मनाक् ॥ ४१ ॥
एकधिय एकाग्रचित्तस्य मनाक् अत्यल्पा भवन्ति ॥ ४१ ॥
विकासमागतो बाह्यं गतो बुद्धीन्द्रियक्रमः ।
वासन्तः पुष्परूपेण मदस्येव रसो मम ॥ ४२ ॥
तदनन्तरं ते किमभूत्तत्राह - विकासमिति । वृक्षाणां मदस्य
पल्लवादिपुष्टिहेतोर्हर्षस्य निमित्तभूतोऽन्तर्गतो रसः पुष्परूपेणेव ॥ ४२ ॥
मां प्राणपूरितमुपागतसंविदंशमभ्यागतं त्वहमिति प्रसृतः
पिशाचः ।
इच्छाङ्गनाविवलितोऽथ कुतोऽपि सद्यः प्रोन्नामसन्नमनवायुरिवोग्रवृक्षम् ॥
४३ ॥
ततः किमासीत्तदाह - मामिति । अयं प्राणैः पञ्चवृत्तिवायुभिरिन्द्रियैश्च
पूरितं तद्वशादेव उपागत आविर्भूतो जीवसंविदंशो यस्य तथाविधं देहं
सद्यः अभ्यागतं तु मामभिलक्ष्य इच्छालक्षणया अङ्गनया पिशाच्या विवलितः
परिष्वक्तः अहमिति प्रसिद्धोऽहङ्कारपिशाचः कुतोऽप्यतर्कितात्प्रदेशात्प्रसृतः
प्राप्तः । यथा उग्रं शाल्मल्यादिवृक्षं प्रोन्नामानां तरूणां सन्नमनो
वायुश्चण्डपवनः प्रसरति तद्वदित्यर्थः ॥ ४३ ॥
इत्यार्षे श्रीवा० वाल्मी० दे० मो० निर्वाण० उ० पाषाणो ० आकाशमन्दिरे
वसिष्ठसमाधानवर्णनं नाम षट्पञ्चाशः सर्गः ॥ ५६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
वसिष्ठसमाधानवर्णनं नाम षट्पञ्चाशः सर्गः ॥ ५६ ॥